अथ् श्री पुरुष सूक्तम्
अथ् श्री पुरुष सूक्तम्
हरि÷ ॐ सॖहस्त्र॑शीर्षाॖपुरु॑षः सहस्राॖक्षः सॖहस्त्र॑पात् ॥
सभूमि॑ ᳯ सॖर्व्वत॑स्पृ॒त्त्वात्त्य॑तिष्ठ्ठद्दशाङ्गुलम् ॥१॥
पुरु॑षऽए॒वेद ᳯ सर्व्वं॒ॺ्ॺद्भू॒तंॺ्ॺच्च॑भाॖव्व्य॒म् ॥
उॖतामृ॑तॖत्त्वस्येशा॑नोॖॺदन्ने॑नातिॖरोह॑ति ॥२॥
ए॒तावा॑नस्यमहिॖमातोॖज्ज्यायाँ॑श्च्चॖपूरु॑षः ॥
पा॑दोऽस्यॖव्विश्श्वा॑भू॒तानि॑त्र्त्रि॒॑पाद॑स्याॖमृत॑न्दिॖवि ॥३॥
त्र्त्रिॖपादू॒र्ध्वऽउदैॖत्पुरु॑षॖः पादो॑ऽस्येॖहाभ॑वॖत्पुनः॑ ॥
ततॊॖव्विष्ष्वङ्व्य॒क्रामत्साशनानशॖनेऽॶभि ॥४॥
ततॊ॑व्विॖराड॑जायतव्विॖराजोॖऽअधिॖपूरु॑षः ॥
सजाॖतोऽअत्य॑रिच्च्यतपॖश्च्चाद्भूमिॖमथो॑पु॒रः ॥५॥
तस्मा॑द्यॖज्ञात्स॑र्व्वॖहुतॖःसम्भृ॑तम्पृषदाॖज्ज्यम् ॥
पॖशूँस्ताँश्च॑क्क्रेव्वायॖव्व्याॖनारॖण्ण्याग्ग्राम्म्याश्च्चॺॆ ॥६॥
तस्मा॑द्यॖज्ञात्स॑र्व्वॖहुतॖऽऋचॖः सामा॑निजज्ञिरे ॥
छन्दा॑ᳪसिजज्ञिरेॖतस्म्माॖद्यजु॒स्तस्म्मा॑दजायत ॥७॥
तस्म्मादश्श्वा॑ऽ अजायन्तॖॺेकेचो॑भॖयाद॑तः ॥
गावो॑हजज्ञिरेॖतस्म्माॖत्तस्म्मा॑ज्जाॖताऽअ॑जाॖवयः॑ ॥८॥
तंॺ्ॺॖज्ञम्बॖर्हिषिॖप्प्रौक्षॖन्न्पुरु॑षञ्जातम॑ग्ग्रॖतः ॥
तेन॑देॖवाऽअ॑यजन्तसाॖद्ध्याऽऋष॑यश्च्चॖॺे ॥९॥
ॺत्पुरु॑षॖंव्व्यद॑धुः कतिॖधाव्व्य॑कल्प्पयन् ॥
मुखॖङ्किम॑स्यासीॖत्किम्बाॖहूकिमू॒रूपादा॑ऽउच्च्येते ॥१०॥
ब्ब्राॖह्मॖणो॒ऽस्यॖमुख॑मासीद्बाॖहूरा॑जॖन्न्यः॒ कृॖतः ॥
ऊरूतद॑स्य॒ॺद्द्वैश्य॑÷ पॖद्भ्याᳪशू॒द्द्रोऽअ॑जायत ॥११॥
चॖन्द्रमाॖमन॑सोजाॖतश्श्चक्षोॖः सूर्ॺ्ॺो॑ऽअजायत ॥
श्रोत्रा॑द्वायुश्श्च॑प्राॖणश्श्चॖमुखा॑दॖग्निर॑जायत ॥१२॥
नाब्भ्या॑ऽआसीदॖन्तरि॑क्षᳯशीॖर्ष्ष्णोद्यौः सम॑वर्त्तत ॥
पॖद्भ्याम्भूमिॖर्द्दिशॖः श्रोत्र्त्रात्तथा॑लोॖकाँ२॥ ऽअ॑कल्प्पयन् ॥१३॥
ॺत्पुरु॑षेणहॖविषा॑देॖवाॺॖज्ञमत॑न्न्वत ॥
व्वॖसॖन्तो॒ऽस्यासीॖदाज्ज्य॑ङ्ग्रीॖष्म ऽइ॒ध्मः शरद्धविः ॥१४॥
सॖप्प्तास्या॑सन्न्यरिॖधयॖस्त्र्त्रिॖः सॖप्प्तसॖमिध॑÷ कृॖताः॥
देॖवाॺद्यॖज्ञन्त॑न्न्वाॖनाऽअब॑ध्नॖन्न्पुरु॑षम्पॖशुम् ॥१५॥
ॺॖज्ञेन॑ॺॖज्ञम॑यजन्तदेॖवास्तानिॖधर्म्मा॑णिप्प्रथॖमान्न्या॑सन् ॥
तेहॖनाक॑म्महिॖमान॑÷ सचन्तॖॺत्र्त्रॖपूर्व्वे॑साॖद्ध्याः सन्ति॑देॖवाः ॥१६॥
Share this content:
Post Comment