मंङ्गलाचरणम्, पवित्रीकरणम्, आचमन, संकल्प, स्वस्तिवाचन, दिक् रक्षण, एवम् मानसिक पूजन सहित

पवित्रीकरणम् विनियोग

ॐ अपवित्रःपवित्रोवेत्यस्य वामदेवऋषिः विष्णुर्देवता गायत्री छन्दः हृदि पवित्रकरणे विनियोगः॥

पवित्रीकरणम्

ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा।
यः स्मरेत्पुंडरीकाक्षं स बाह्याभ्यंतरः शुचिः॥
ॐ पुण्डरीकाक्षः पुनातु, ॐ पुण्डरीकाक्षः पुनातु, ॐ पुण्डरीकाक्षः पुनातुः।


त्रिराचम्य

ॐ केशवाय नमः।
ॐ नारायणाय नमः।
ॐ माधवाय नमः।
हस्तौप्रक्षालनः
ॐ हृषीकेशाय नमः, ॐ गोविन्दाय नमः।

आसन शुद्धि विनियोग

ॐ पृथ्वीति मन्त्रस्य मेरुपृष्ठ ऋषिः सुतलं छन्दः कूर्मो देवता आसने विनियोगः॥

आसन शुद्धि

ॐ पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता।
त्वं च धारय मां देवि पवित्रम् कुरु चासनम्॥

कुश पवित्रीधारणम्

ॐ पवित्रेस्थो वैष्णव्यौ सवितुर्व्वः प्रसवऽउत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः।
तस्य ते पवित्रपते पवित्रपूतस्य यत्कामः पुनेतच्छकेयम्।

पुनः दायें हाथ को पृथ्वी पर उलटा रखकर
ॐ पृथिव्यै नमः इससे भूमि की पञ्चोपचार पूजा का आसन शुद्धि करें।।

(इसके पश्चात यजमान के शरीर पर जल के छींटे डालते हुए यजमान को पवित्र करें तथा पूजन सामग्री इत्यादि को भी जल के छींटे डालते हुए पवित्र करें)

सुखासन, सिद्धासन, पद्मासन, या वज्रासन में बैठें। शुभारंभ और अन्त सदैव बाँये नथुने से ही करना है, नाक का दाँया नथुना बंद करें व बाँये से लंबी साँस लें, फिर बाँये को बंद करके, दाँये वाले से लंबी साँस छोडे़ं…अब दाँये से लंबी साँस लें और बाँयें वाले से छोडे़ं.. अर्थात् यह दाँया-दाँया बाँया-बाँया यह क्रम रखना, यह प्रक्रिया १०-१५ मिनट तक दुहराएं। साँस लेते समय अपना ध्यान दोंनों आँखों के बीच में स्थित आज्ञा चक्र पर केन्द्रित करना चाहिए। और मन ही मन में साँस लेते समय ॐ-ॐ का जाप करते रहना चाहिए। हमारे शरीर की ७२,७२,१०,२१० सुक्ष्मादी सूक्ष्म नाड़ी शुद्ध हो जाती हैं। बाँयी नाड़ी को चन्द्र (इडा, गन्गा) नाडी, और दायीं नाडी को सूर्य (पीन्गला, यमुना) नाड़ी कहते हैं। चन्द्र नाडी से ठण्डी हवा अन्दर जाती है और सूर्य नाड़ी से गरम हवा अन्दर जाती है। ठण्डी और गरम हवा के उपयोग से हमारे शरीर का तापमान संतुलित रहता है। इससे हमारी रोग-प्रतिरोधक शक्ति बढ़ जाती है।

प्राणायाम

ॐ भूः ॐ भुवः ॐ स्वः ॐ महः ॐ जनः ॐ तपः ॐ सत्यम्। ॐ तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि। धियो यो नः प्रचोदयात्। ॐ आपो ज्योति रसोऽमृतं ब्रह्म भूर्भुवः स्वरोम्॥

स्वस्ति तिलक

ॐ आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः।
तिलकन्ते प्रयच्छन्तु धर्मकामार्थसिद्धये॥
ऊर्ध्वपुण्ड्रं मृदा कुर्याद् भस्मना तु त्रिपुण्ड्रकम् । 
उभयं चन्दनेनैव अभ्यङ्गोत्सवरात्रिषु॥
ललाटे तिलकं कृत्वा संध्याकर्म समाचरेत् ।
अकृत्वा भालतिलकं तस्य कर्म निरर्थकम्॥
चन्दनस्य महत्पुण्यम् पवित्रं पापनाशनम्।
आपदां हरते नित्यम् लक्ष्मी तिष्ठतु सर्वदा॥


यजमान पत्नी

ॐ तं पत्नीभिरनु गच्छेम देवाः पुत्रैब्भ्रातृ भिरुतवा हिरण्यैः।
नाकं गृब्भ्णानां सुकृतस्य लोके तृतीये पृष्ठेऽधिरोचने दिवः॥


शिखा बन्धनम्

ॐ मानस्तोके तनये मानऽआयुषि मानो गोषु मानोऽअश्वेषुरीरिषः।
मानोव्वीरान् रुद्रभामिनो व्वधीर्हविष्मन्तः सदमित्त्वा हवामहे।


ॐ चिद्रूपिणि महामाये दिव्यतेजः समन्विते।
तिष्ठ देवि शिखाबद्धे तेजोवृद्धिं कुरुष्व मे॥


ग्रन्थिबन्धनम्

ॐ यदाबध्नन्दाक्षायणा हिरण्य ಆ शतानीकाय सुमनस्य मानाः।
तन्नऽआबध्नामि शत शारदाया युष्मान् जर दष्टिर्यथा सम्॥


हस्ते गन्धाक्षतपुष्पाणि गृहीत्वा स्वस्तिवाचनमन्त्रान् पठेत् (पठेयुः)…

अथ् स्वस्त्ययन

हरिः ॐ आनो भद्राः क्रतवो यन्तु विश्वतोऽदब्धासो अपरीतास उद्भिदः। देवा नो यथा सदमिद् वृधे असन्नप्रायुवो रक्षितारो दिवे दिवे॥ देवानां भद्रा सुमतिर्ऋजूयतां देवाना ಆ रातिरभि नो निवर्तताम्। देवाना ಆ सख्यमुपसेदिमा वयं देवा न आयुः प्रतिरन्तु जीवसे॥ तान्पूर्वया निविदा हूमहे वयं भगं मित्रमदितिं दक्षमस्रिधम्। अर्यमणं वरुण ಆ सोममश्विना सरस्वती नः सुभगा मयस्करत् तन्नो वातो मयोभु वातु भेषजं तन्माता पृथिवी तत्पिता द्यौः। तद् ग्रावाणः सोमसुतो मयोभुवस्तदश्विना श्रृणुतं धिष्ण्या युवम्॥ तमीशानं जगतस्तस्थुषस्पतिं धियञ्जिन्वमवसे हूमहे वयम्। पूषा नो यथा वेदसामसद् वृधे रक्षिता पायुरदब्धः स्वस्तये॥ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः। स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु॥ पृषदश्वा मरुतः पृश्निमातरः शुभं यावानो विदथेषु जग्मयः। अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवा अवसागमन्निह॥ भद्रं कर्णेभिः श्रृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः। स्थिरैरङ्गैस्तुष्टुवा ಆ सस्तनूभिर्व्यशेमहि देवहितं यदायुः॥ शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम्। पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः॥ अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता म पिता स पुत्रः। विश्वे देवा अदितिः पञ्चजना अदितिर्जातमदितिर्जनित्वम्॥
द्यौः शान्तिरन्तरिक्ष ಆ शान्तिः पृथिवी शान्तिरापः शान्तिरोषधयः शान्तिः। वनस्पतयः शान्तिर्विश्वे देवाः शान्तिर्ब्रह्म शान्तिः सर्व ಆ शान्तिः शान्तिरेव शान्तिः सा मा शान्तिरेधि॥
यतो यतः समीहसे ततो नो अभयं कुरु। शन्नः कुरु प्रजाभ्योऽभयं नः पशुभ्यः॥ सुशान्तिर्भवतु॥
ॐ विश्वानि देव सवितर्दुरितानि परा सुव यद भद्रं तन्न आ सुव॥


ॐ श्रीमन्महागणधिपतये नमः। ॐ लक्ष्मीनारायणाभ्याम् नमः। ॐ उमामहेश्वराभ्याम् नमः। ॐ वाणीहिरण्यगर्भाभ्याम् नमः। ॐ शाचीपुरंदराभ्याम् नमः। ॐ मातृ-पितृचरणकमलेभ्यो नमः। ॐ श्री मद्गुरुचरणकमलेभ्यो नमः। ॐ इष्टदेवताभ्यो नमः। ॐ कुलदेवताभ्यो नमः। ॐ ग्रामदेवता भयो नमः। ॐ वास्तुदेवताभ्यो नमः। ॐ स्थानदेवताभ्यो नमः। ॐ सर्वेभ्यो देवेभ्यो नमः। ॐ सर्वेभ्यो ब्रह्मणेभ्यो नमः। ॐ सिद्धी बुद्धि सहिताय श्री मन्महागणधिपतये नमः।

एतद् कर्म प्रधानायै सांगायै सपरिवारायै सायुधाय सशक्तिकाय सवाहनाय (अमुक … देवी अमुक … देवता) नमस्करोमि पुण्यं पुण्याहं दीर्घमायुरस्तु इति भवन्तो ब्रवन्तु अस्तु दीर्घमायुः निर्विघ्नमस्तु।

सुमुखश्चैकदंतश्च कपिलो गजकर्णकः।
लम्बोदरश्च विकटो विघ्ननाशो गणाधिपः॥

धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः।
द्वादशैतानि नामानि यः पठेच्छृणुयादपि॥

विद्यारंभे विवाहे च प्रवेशे निर्गमे तथा।
संग्रामे संकटे चैव विघ्नस्तस्य न जायते॥

शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥

अभिप्सितार्थसिध्यर्थं पूजितो यः सुरासुरैः।
सर्व विघ्नहरस्तस्मै गणाधिपतये नमः॥

सर्वमंङ्गलमांङ्गल्ये! शिवे! सर्वार्थसाधिके।
शरण्ये त्रयम्बके गौरि नारायणि नमोऽस्तु ते॥
सर्वदा सर्वकार्येषु नास्ति तेषाममंङ्गलम्।
येषां हृदिस्थो भगवान् मंङ्गलायतनम् हरिः॥
तदेवलग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव।
विद्याबलं देवबलं तदेव, लक्ष्मीपते तेंऽङ्घ्रियुगं स्मरामि्॥
लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः।
येषामिन्दीवरश्यामो हृदयस्थो जनार्दनः॥
यत्र योगेश्वरःकृष्णो यत्र पार्थो धनुर्धरः।
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम॥
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्॥
स्मृतेः सकलकल्याणं भाजनं यत्र जायते।
पुरुषं तमजं नित्यं व्रजामि शरणं हरिम्॥
सर्वेष्वारम्भकार्येषु त्रयस्त्रिभुवनेश्वराः।
देवा दिशन्तु नः सिद्धिं ब्रह्मेशानजनार्दनाः॥

विश्वेशं माधवं ढुण्डिं दण्डपाणिं च भैरवम्।
वन्दे काशीं गुहां गगां भवानीं मणिकर्णिकाम्॥
वक्रतुण्ड महाकाय कोटिसूर्यसमप्रभ।
निर्विघ्नं कुरु में देव सर्वकार्येषु सर्वदा॥
तीक्ष्ण दंष्ट्र महाकाय कल्पान्तदहनोपम।
भैरवाय नमस्तुभ्यमनुज्ञा दातु मर्हसि॥


हस्ते जलं गन्धाक्षतपुष्पाणि पुंगीफलं द्रव्यं चादाय संकल्पं कुर्यात…..

ॐ तिथिर्विष्णुस्तथा वारो नक्षत्रं विष्णुरेव च ।
योगश्च करणश्चैव सर्वं विष्णुमयं जगत् ॥
संकल्पेन विना विप्र यत्किञ्चित् कुरुते नरः।
फलं चाप्यल्पकं तस्य धर्मस्यार्द्धं क्षयो भवेत्॥
मासपक्षतिथीनां च निमित्तानां प्रपूर्वकः।
उल्लेखनमकुर्वाणो न तस्य फलभाग्भवेत्॥

अथ् संकल्पः

ॐ विष्णुर्विष्णुर्विष्णुः। ॐ स्वस्ति श्रीमन्मुकन्द सच्चिदानन्दस्याज्ञया प्रवर्तमानस्य अद्य श्री ब्रह्मणो द्वितीये परार्धे एकपञ्चाशत्तमे वर्षे प्रथममासे प्रथमपक्षे प्रथमदिवसे द्वात्रिंशत्कल्पानां मध्ये अष्टमे श्रीश्वेतबाराहकल्पे स्वायम्भुवादिमन्वतराणां मध्ये सप्तमे वैवस्वतमन्वन्तरे कृत त्रेता-द्वापर- कलिसंज्ञानां चतुर्युगानां मध्ये वर्तमाने अष्टाविंशतितमे कलियुगे तत्प्रथमचरणे तथा पञ्चाशत्कोटियोजनविस्तीर्ण-भूमण्डलान्तर्गत सप्तद्वीपमध्यवर्तिनि जम्बूद्वीपे तत्रापि श्रीगङ्गादिसरिद्भिः पाविते परम-पवित्रे भारतवर्षे आर्यावर्तान्तर्गतकाशी-कुरुक्षेत्र-पुष्कर-प्रयागादि-नाना-तीर्थयुक्त कर्मभूमौ  मध्यरेखाया मध्ये अमुक दिग्भागे अमुकक्षेत्रे ब्रह्मावर्तादमुकदिग्भागावस्थिते अमुकजनपदे तज्जनपदान्तर्गते अमुकग्रामे श्रीगङ्गायमुनयोरमुकदिग्भागे श्रीनर्मदाया अमुकप्रदेशे देवब्राह्माणानां सन्निधौ श्रीमन्नृपतिवीरविक्रमादित्य-समयतो अमुकसंख्यापरिमिते प्रवर्तमानवत्सरे प्रभवादि षष्ठि सम्वत्सराणां मध्ये अमुकनाम सम्वत्सरे, अमुकायने, अमुकगोले, अमुकऋतौ, अमुकमासे अमुकपक्षे, अमुकतिथौ, अमुकवासरे, यथांशक लग्न मुहूर्त नक्षत्र योग करणान्वित अमुकराशिस्थिते श्रीसूर्ये, अमुकराशिस्थिते श्री चन्द्रे, अमुकराशिस्थिते देवगुरौ, शेषेषु ग्रहेषु यथायथाराशिस्थानस्थितेषु, सत्सु एवं ग्रहगुणविशिष्टेऽस्मिन्शुभक्षणे अमुकगोत्रोऽमुकशर्म्मा वर्मा-गुप्त-दास सपत्नीकोऽहं सपरिवारस्य ममात्मनः सकलशास्त्र श्रुतिस्मृतिपुराणोक्त्पुण्यफलावाप्त्यर्थं ममऐश्वर्याभिवृद्धयर्थम अप्राप्तलक्ष्मीप्राप्त्यर्थं प्राप्त लक्ष्म्याश्चिरकाल संरक्षणार्थं सकलमन- इप्सितकामनासंसिद्धयर्थं लोके व सभायां राजद्वारे वा सर्वत्र यशोविजयलाभादि प्राप्त्यर्थं इह जन्मनि जन्मान्तरे वा सकल दुरितोपशमनार्थं मम साभार्यास्य सपुत्रस्य सबान्धवस्य सपशोः समस्त भयव्याधिजरा पीड़ा मृत्यु परिहार द्वारा आयुरारोग्यैश्वर्याद्यभिवृद्धर्थं तथा च मम जन्मराशेरखिल कुटुम्बस्य वा जन्मराशेः सकाशाद्ये केचिद्विरुद्धचतुर्थाष्टमद्वादशस्थानस्थिताः क्रूरग्रहास्तैः सूचितं सूचयिष्यमाणञ्च यत्सर्वारिष्टं तद्विनाशद्वारा सर्वदा तृतीयैकादश स्थानस्थित वच्छुभ फलप्राप्त्यर्थं पुत्रपौत्रदि सन्ततेरविच्छिन्न वृद्धयर्थम् आदित्यादिन्नवग्रहानूकूलता सिद्धर्थम इन्द्रादि दशदिक्पालप्रसन्नतासिद्धर्थम्। आधिदैविक आधिभौतिक आध्यात्मिक त्रिविध तापो पशमनार्थं धर्मार्थ काम मोक्ष फल वाप्त्यर्थं यथा-ज्ञानं यथा -मिलितोपचारद्रव्यैः श्रीअमुकदेवताप्रीत्यर्थम् अमुककामनया ब्राह्मणद्वारा कृतस्यामुकमन्त्रपुरश्चरणस्य सङ्गतासिद्धयर्थम अमुकसंख्यया परिमितजपदशांश-होम-तद्दशांशतर्पण-तद्दशांश-ब्राह्मण-भोजन रूपं कर्म करिष्ये।

पुनः जल आदि लेकर

तदङ्गत्वेन निर्विध्नतासिद्धर्थं श्रीगणपत्यादिपूजनम् आचार्यादिवरणञ्च करिष्ये। तत्रादौ दीपशंखघण्टाद्यर्चनं च करिष्ये।

इसके बाद कर्मपात्र में थोड़ा गंगाजल छोड़कर गन्धाक्षत पुष्प से पूजा कर प्रार्थना करें।

ॐ गङ्गे च यमुने चैव गोदावरि सरस्वति।
नमर्दे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु॥
अस्मिन् कलशे सर्वाणि तीर्थान्यावाहयामि नमस्करोमि।


कर्मपात्र का पूजन करके उसके जल से सभी पूजा वस्तुओं को सिंचित करें।

कलशार्चनम्

(स्ववामभागे अक्षतपुञ्जोपरि जलपूरित कलशं संस्थाप्य तत्र वरुणावाहनम्)

श्री वरुण आवाहनम्

ॐ तत्त्वा यामि ब्रह्मणा वन्दमानस्तदा शास्ते यजमानो हविर्भिः।
अहेडमानो वरुणेह बोध्युरुश ಆ स मा न आयुः प्र मोषीः॥
अस्मिन् कलशे वरुणं साङ्गः सपरिवारं सायुधं सशक्तिकमावाहयामि।

ॐ भूर्भुवः स्वः भो वरुण।
इहागच्छ, इह तिष्ठ, स्थापयामि, पूजयामि, मम पूजां गृहाण।
‘ॐ अपां पतये वरुणाय नमः’
(कहकर अक्षत-पुष्प कलश पर छोड़ दे)
ॐ पुनन्तु मा देवजनाः पुनन्तु मनसा धियः।
पुनन्तु विश्वा भूतानि जातवेदः पुनीहि मा॥


घृतदीप-(ज्योति) पूजनम्

“वद्दिदैवत्याय दीपपात्रय नमः” से पात्र की पूजा कर ईशान दिशा में घी का दीपक प्रज्वलित कर अक्षत के ऊपर रखें।
ॐ अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहा सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहा।
अग्निर्वर्चो ज्योतिर्वर्चः स्वाहा सूर्यो वर्चो ज्योतिर्वर्च स्वाहा॥
ज्योतिः सूर्यः सूर्यो ज्योतिः स्वाहा॥


भो दीप देवरूपस्त्वं कर्मसाक्षी ह्यविघ्नकृत्।
यावत्पूजासमाप्तिः स्यात्तावदत्रा स्थिरो भव॥


ॐ भूर्भुवः स्वः दीपस्थदेवतायै नमः आवाहयामि सर्वोपचारार्थे गन्धाक्षतपुष्पाणि समर्पयामि नमस्करोमि।

शंखपूजनम्

(शंख को चन्दन से लेपकर देवता के बायीं ओर पुष्प पर रखकर)

ॐ शंखं चन्द्रार्कदैवत्यं वरुणं चाधिदैवतम्।
पृष्ठे प्रजापतिं विद्यादग्रे गङ्गासरस्वती॥
त्रौलोक्ये यानि तीर्थानि वासुदेवस्य चाज्ञया।
शंखे तिष्ठन्ति वै नित्यं तस्मात् शंङ्खं प्रपूजयेत्॥
त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे।
नमितः सर्वदेवैश्च पाञ्जन्य! नमोऽस्तुते॥


ॐ पाञ्चजन्याय विद्महे पावमानाय धीमहि। तन्नः शंखः प्रचोदयात्।

ॐ भूर्भवः स्वः शंखस्थदेवतायै नमः शंखस्थदेवताम् आवाहयामि, सर्वोपचारार्थे, गन्धाक्षतपुष्पाणि समर्पयामि नमस्करोमि। शंख मुद्रा करें।

ॐ त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे।
निर्मितः सर्वदेवैश्च पाञ्चजन्य नमोऽस्तु ते॥


घण्टार्चनम्

ॐ सर्ववाद्यमयीघण्टायै नमः
आगमार्थन्तु देवानां गमनार्थन्तु रक्षसाम्।
कुरु घण्टे वरं नादं देवतास्थानसन्निधौ॥
घण्टानादं प्रकुर्वीत पश्चाद् घण्टां प्रपूजयेत्॥


ॐ भूर्भुवः स्वः घण्टास्थाय गरुडाय नमः गरुडमावाहयामि सर्वोपचारार्थे, गन्धाक्षतपुष्पाणि समर्पयामि।

(गरुडमुद्रा दिखाकर घण्टा बजाऐं। दीपक के दाहिनी ओर स्थापित कर दें।)

धूप पात्र पूजन

ॐ गन्धर्वदैवत्याय धूपपात्राय नमः

(इस प्रकार धूपपात्र की पूजा कर स्थापना कर दें।)

सूर्यार्घ्यदानम्

(ताम्रपात्रे गन्धोदक गृहीत्वा… ताम्रपात्र में लाल चन्दन, अक्षत, फूल डालकर हृदय के पास लाकर सूर्य भगवान को अर्घ्य दें।)

ॐ आकृष्णेनरजसाव्वर्त्तमानो निवेशयनन्नमृतम्मर्त्यश्च।
हिरण्ययेन सविता रथेनादेवो याति भुवनानि पश्यन्न॥

ॐ एहि सूर्य सहस्त्रांशो तेजो राशे जगत्पते।
अनुकम्प्यं मां भक्त्या गृहाणार्घ्य दिवाकर॥

ॐ आदित्यस्य नमस्कारान्, ये कुर्वन्ति दिने दिने।
आयुः प्रज्ञा बलंवीर्यम् तेजस तेषाम च जायते॥


दिग्रक्षणम्

(जल लेकर विनियोग करें)

दिग्-रक्षा भूतोत्सादन विनियोग

अपसर्पन्त्विति मन्त्रस्य वामदेव ऋषिः शिवो देवता, अनुष्टुप छन्दः, भूतादिविघ्नोत्सादने विनियोगः॥

(अक्षत व पीला सरसो एवं मौली को एक दोने में रखकर, बायें हाथ में लेकर दाहिने हाथ से ढक कर दिग् रक्षा व भूतोत्सादन मन्त्र बोलें।)

दिग्-रक्षा भूतोत्सादन मन्त्र

ॐ गणाधिपं नमस्कृत्य नमस्कृत्य पितामहम्।
विष्णुं रुद्रं श्रियं देवीं वन्दे भक्त्या सरस्वतीम्॥
स्थानाधिपं नमस्कृत्य ग्रहनाथं निशाकरम्।
धरणीगर्भसम्भूतं शशिपुत्रं बृहस्पतिम्॥
दैत्याचार्यं नमस्कृत्य सूर्यपुत्रं महाबलम्।
राहुं केतुं नमस्कृत्य यज्ञारम्भे विशेषतः॥
शक्राद्या देवताः सर्वाः मुनींश्चैव तपोधनान्।
गर्गंमुनिं नमस्कृत्य नारदं मुनिसत्तमम्॥
वशिष्ठं मुनिशार्दूलं विश्वामित्रं च गोभिलम्।
व्यासं मुनिं नमस्कृत्य सर्वशास्त्रविशारदम्॥
विद्याधिका ये मुनयः आचार्याश्च तपोधनाः।
तान् सर्वान् प्रणमाम्येवं यक्षरक्षाकरान् सदा॥


अब, इस अभिमन्त्रित अक्षत/सरसों को थोड़ा-थोड़ा ले-लेकर ब्राह्मण/आचार्य के निर्देशानुसार विभिन्न दसों दिशाओं में छींटें

पूर्वे रक्षतु वाराहः आग्नेयां गरुड़ध्वजः।
दक्षिणे पद्मनाभस्तु नैर्ऋत्यां मधुसूदनः॥
पश्चिमे पातु गोविन्दो वायव्यां तु जनार्दनः।
उत्तरेश्रीपतिःरक्षेत् ईशान्यां तु महेश्वरः॥
ऊर्ध्वं गोवर्धनो रक्षेद् ह्यधोऽनन्तस्तथैव च।
एवं दश दिशो रक्षेद् वासुदेवो जनार्दनः॥
रक्षाहीनं तु यत्स्थानं रक्षत्वीशो महाद्रिधृक्।
यदत्र संस्थितं भूतं स्थान माश्रित्य सर्वदा।
स्थानं त्यक्त्वातु तत्सर्वं यत्रस्थं तत्र गच्छतु।
अपक्रामन्तु ते भूता ये भूता भूमिसंस्थिताः॥
ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया।
अपक्रामन्तु भूतानि पिशाचाः सर्वतो दिशः॥
सर्वेषामविरोधेन पूजाकर्म समारभे॥


(शेष बचे अक्षत/सरसों और मौली को श्रीगणपति जी के सम्मुख रखकर, तीन बार जोर से ताली बजावे अथवा ‘ॐ हुं फट्’ यह मंत्र तीन बार करके उस सूत्र को गणपति एवं अन्य आवाहित देवी-देवताओं के चरणों में निवेदित करे।)
(तत्पश्चात निम्नलिखित श्लोक पढ़कर बायें हाथ, पाँव को तीन बार भूमि पर पटकें)

भूतोत्सारण मन्त्र

ॐ अपसर्पन्तु ते भूता ये भूृता भूमि संस्थिताः।
ये भूता विध्नकर्तारस्ते नश्यन्तु शिवाज्ञया॥
अपक्रामन्तु भूतानि पिशाचाः सर्वतो दिशम्।
सर्वेषामविरोधेन शान्तिकर्म समारभेत्॥


(तत्पश्चात रक्षासूत्र श्री गणपति के अनुग्रह से प्राप्त हुआ, ऐसा समझते हुए उसे उठाकर आचार्य सहित अन्य विप्रों के दाहिने हाथ में निम्न मंत्र से बांधे)

यजमान द्वारा रक्षाबंधन

ॐ व्रतेन दीक्षामाप्नोति दीक्षयाऽऽप्नोति दक्षिणाम्।
दक्षिणा श्रद्धामाप्नोति, श्रद्धया सत्यमाप्यते॥


यजमान द्वारा ब्राह्मण को तिलक

ॐ नमो ब्रह्मण्य देवाय गोब्राह्मणहिताय च।
जगद्धिताय कृष्णाय गोविन्दाय नमो नमः॥


आचार्य द्वारा यजमान को रक्षाबंधन

ॐ यदाबध्नन दाक्षायणा हिरण्य ಆ शतानीकाय सुमनस्यमानाः।
तन्म आ बध्नामि शत शारदायायुष्माञ्जरदष्टियर्थासम्‌॥


येन बद्धो बलि राजा, दानवेन्द्रो महाबलः।
तेन त्वाम् प्रतिबद्धनामि रक्षे माचल माचल।


आचार्य द्वारा यजमानपत्नयाः वामहस्ते कङ्कणबन्धनम्

ॐ तं पत्नीभिरनु गच्छेम देवाः पुत्रैब्भ्रातृ भिरुतवा हिरण्यैः।
नाकं गृब्भ्णानां सुकृतस्य लोके तृतीये पृष्ठेऽधिरोचने दिवः॥


गृहयज्ञ फलावाप्त्यै कङ्कण सूत्रनिर्मितम्।
हस्ते बध्नामि सुभगे त्वं जीव शरदां शतम्॥


आचार्य द्वारा यजमान को तिलक

स्वस्ति न इन्द्रो वृद्धश्रवाःस्वस्ति नः पूषा विश्ववेदाः।
स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो वृहस्पतिरधातु॥

केशवानन्न्त गोविन्द बाराह पुरुषोत्तम।
पुण्यं यशस्यमायुष्यं तिलकं मे प्रसीदतु॥
कान्ति लक्ष्मीं धृतिं सौख्यं सौभाग्यमतुलं बलम्।
ददातु चन्दनं नित्यं सततं धारयाम्यहम्॥


पञ्चगव्यकरण्म्

ॐ यत्वगस्थिगतं पापं देहे तिष्ठति मामके।
प्राशनात् पंञ्चगव्यस्य दहत्यग्निरिवेन्धनम्॥


भूमि पूजनम्

ॐ स्योना पृथिवि नो भवानृक्षरा निवेशिनी। यच्छानःशर्म सप्रथाः॥

ॐ भूर्भुवः स्वः पृथिव्यै नमः सर्वोपचारार्थे, गन्धाक्षतपुष्पाणि समर्पयामि, नमस्करोमि।

ॐ पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता।
त्वं च धारय मां देवि पवित्रां कुरु चासनम्॥


मानसिक पूजा

१- ॐ लं पृथिव्यात्मकं गन्धं परिकल्पयामि।
( प्रभो ! मैं पृथ्वीरूप गन्ध (चन्दन) आपको अर्पित करता हूँ )
२- ॐ हं आकाशात्मकं पुष्पं परिकल्पयामि।
(प्रभो ! मैं आकाशरूप पुष्प आपको अर्पित करता हूँ )
३- ॐ यं वाय्वात्मकं धूपं परिकल्पयामि।
( प्रभो ! मैं वायुदेव के रूप में धुप आपको प्रदान करता हूँ )
४- ॐ रं वह्न्यात्मकं दीपं दर्शयामि।
( प्रभो ! मैं  अग्निदेव के रूप में दीपक आपको प्रदान करता हूँ )
५- ॐ वं अमृतात्मकं नैवेद्यं निवेदयामि।
(प्रभो ! मैं अमृत के समान नैवेद्य आपको निवेदन करता हूँ  )
६- ॐ सौं सर्वात्मकं सर्वोपचारं समर्पयामि।
( प्रभो ! मैं सर्वात्माके रूप में संसार के सभी उपचारों को आपके चरणों में समर्पित करता हूँ )

संकलनकर्ता – पंडित विश्वनाथ द्विवेदी ‘वाणी रत्न’
संस्थापक, अध्यक्ष एवं प्रबंध निदेशक – “हरि हर हरात्मक” ज्योतिष संस्थान
संपर्क सूत्र – ०७०८९४३४८९९ , ०६२६०५१६२१६

“श्री हरिहरात्मकम् देवें सदा मुद मंगलमय हर्ष। सुखी रहे परिवार संग अपना भारतवर्ष॥”



Copyright © 2025 Hari Har Haratmak. All rights reserved.

"enter" 2026 | Powered By SpiceThemes

error: Content is protected !!