अथ् साङ्कल्पिक विधिना नान्दीश्राद्ध प्रयोगः

“अथ् साङ्कल्पिक विधिना नान्दीश्राद्ध प्रयोगः”

अथ नान्दीश्राद्धकर्ता यजमानः प्राङ्‌मुखः प्रागग्रेषु दर्भेषु प्रागुपक्रमान्पश्चिमापवर्गान् उद‌ङ्‌मुखान् विश्वेदेवास्थाने द्वौ सपत्नीक पित्रादि स्थाने द्वौ सपत्नीक मातामहादि स्थाने द्वौ एवं षट् कुशबटून्दूर्वाकाण्डानि वा संस्थाप्य यज्ञोपवीती पातितद‌क्षिणजानुः यवान् गृहीत्वा क्षणदानं कुर्यात्॥ 

यथा हस्ते यवान् गृहीत्वा (विश्वेदेवस्थानीयौ द्वौ कुशवटू संस्पृश्य) –  ॐ नान्दीमुखाः सत्यवसुसंज्ञका विश्वेदेवा अद्य …अमुक… कर्माङ्गतया क्रियमाणे साङ्कल्पिकनान्दीश्राद्धे भवद्भ्यां क्षणः क्रियताम्॥ तथा प्राप्नुता भवन्तौ॥ प्राप्नवाव॥

पुनर्यवान् गृहीत्वा (पित्रादि-स्थानीयौ द्वौ कुशबटू संस्पृश्य) – गोत्रा नान्दीमुखाः पितृ पितामह प्रपितामहाः सपत्नीकाः अद्य …अमुक… कर्माङ्गतया क्रियमाणे नान्दीश्राद्धे भवद्भ्यां क्षणः क्रियताम्॥ तथा प्राप्नुता भवन्तौ॥ प्राप्नवाव॥

पुनर्यवान्गृहीत्वा (पूर्ववन्मातामहादि स्थानीयौ द्वौ कुशबटू संस्पृश्य) – द्वितीयगोत्रा नान्दीमुखा मातामह प्रमातामह वृद्धममातामहाः सपत्नीकाः अद्य …अमुक… कर्माङ्गतया क्रियमाणे नान्दीश्राद्धे भवद्भ्यां क्षणः क्रियताम्॥ तथा प्राप्नुता भवन्तौ॥ प्राप्नवाव॥

संकल्प

ॐ विष्णुर्विष्णुर्विष्णुः श्रीमद्भगवतो महापुरुषस्य विष्णोराज्ञया प्रवर्तमानस्य अद्य श्रीब्रह्मणो द्वितीये परार्धे श्रीश्वेतवाराहकल्पे सप्तमे वैवस्वतमन्वन्तरे अष्टाविशतितमे युगे कलियुगे कलिप्रथमचणे भूर्लोके भारतवर्षे जम्बूद्विपे भरतखण्डे आर्यावर्तान्तर्गतब्रह्मावर्तस्य मध्यदेशे पुण्यप्रदेशे गंगायमुनयोः पश्चिमदिग्भागे क्षिप्रायाः दक्षिण तटे नर्मदाया उत्तरेतीरे मालवक्षेत्रे ओंकारमहाकालयोः मध्ये इन्दौर महानगरे ….…. क्षेत्रे देवद्विजगवां चरण सन्निधावास्मिन् श्रीमन्नृपतिवीरविक्रमादित्य समयतो ….…. संख्या परिमिते प्रवर्त्तमानसंवत्सरे प्रभवादिषष्ठि -संवत्सराणां मध्ये ….…. नामसंवत्सरे, श्री सूर्य ….…. यायने, ….…. ऋतौ, महामांङ्गल्यप्रदे मासानाम् उत्तमे ….…. मासे, ….…. पक्षे, ….…. तिथौ, ….…. वासरे, ….…. नक्षत्रे, ….…. योगे, ….…. करणे, ….…. राशिस्थिते चन्द्रे, ….…. राशिस्थितेश्रीसूर्ये, ….…. राशिस्थिते देवगुरौ शेषेशु ग्रहेषु यथायथा राशिस्थानस्थितेषु सत्सु एवं ग्रहगुणविशेषणविशिष्टायां शुभपुण्यतिथौ ….…. प्रातःकाले ….…. गोत्रोत्पन्नस्य ….…. शर्मणः (वर्मणः, गुप्तस्य वा) अहं करिष्यमाण …अमुक… कर्माङ्गतया  सत्यवसुसंज्ञक विश्वेदेव पूर्वकं साङ्कल्पिकेन विधिना नान्दीश्राद्धं करिष्ये ॥

पाद्यम् (पाद प्रक्षालनम्)

ॐ नान्दीमुखाः सत्यवसुसंज्ञकाः विश्वेदेवाः इदं वः पाद्यं पादावनेजनं पाद प्रक्षालनम् वृद्धिः॥
ॐ गोत्रा नान्दीमुखाः पितृ-पितामह-प्रपितामहाः सपत्नीकाः इदं वः पाद्यं पादावनेजनं पाद प्रक्षालनम् वृद्धिः॥
ॐ द्वितीयगोत्रा नान्दीमुखाः मातामह-प्रमातामह-वृद्धप्रमातामहाः सपत्नीकाः इदं वः पाद्यं पादावनेजनं पाद प्रक्षालनम् वृद्धिः॥

आसनदानम् 

ॐ नान्दीमुखाः सत्यवसुसंज्ञकाः विश्वेदेवाः इदं वः आसनम्। सुखासनम्॥
ॐ गोत्रा नान्दीमुखाः पितृ-पितामह-प्रपितामहाः सपत्नीकाः इदं वः आसनम्। सुखासनम्॥
ॐ द्वितीयगोत्रा नान्दीमुखाः मातामह-प्रमातामह-वृद्धप्रमातामहाः सपत्नीकाः इदं वः आसनम्। सुखासनम्॥

गन्धादिदानम्

ॐ नान्दीमुखाः सत्यवसुसंज्ञकाः विश्वेदेवाः इदं वो यथादत्तं गन्धाद्यर्चनं स्वाहा संपद्यतां वृद्धिः॥
ॐ गोत्रा नान्दीमुखाः पितृ-पितामह-प्रपितामहाः सपत्नीकाः इदं वो यथादत्तं गन्धाद्यर्चनं स्वाहा संपद्यतां वृद्धिः॥
ॐ द्वितीयगोत्रा नान्दीमुखाः मातामह-प्रमातामह-वृद्धप्रमातामहाः सपत्नीकाः इदं वो यथादत्तं गन्धाद्यर्चनं स्वाहा संपद्यतां वृद्धिः॥

भोजन निष्क्रयद्रव्य दानम्

ॐ नान्दीमुखाः सत्यवसुसंज्ञकाः विश्वेदेवाः युग्म ब्राह्मण भोजन पर्याप्तं अन्नं वा तन्निष्क्रयीभूतं किञ्चिद्धिरण्यम् अमृतरूपेण वः स्वाहा संपद्यतां वृद्धिः॥
ॐ गोत्रा नान्दीमुखाः पितृ-पितामह-प्रपितामहाः सपत्नीकाः युग्म ब्राह्मण भोजन पर्याप्तं अन्नं वा तन्निष्क्रयीभूतं किञ्चिद्धिरण्यम् अमृतरूपेण वः स्वाहा संपद्यतां वृद्धिः॥
ॐ द्वितीयगोत्रा नान्दीमुखाः मातामह-प्रमातामह-वृद्धप्रमातामहाः सपत्नीकाः युग्म ब्राह्मण भोजन पर्याप्तं अन्नं वा तन्निष्क्रयीभूतं किञ्चिद्धिरण्यम् अमृतरूपेण वः स्वाहा संपद्यतां वृद्धिः॥

सक्षीरयवमुदकदानम्

ॐ नान्दीमुखाः सत्यवसुसंज्ञकाः विश्वेदेवाः प्रीयन्ताम्॥
ॐ गोत्रा नान्दीमुखाः पितृ-पितामह-प्रपितामहाः सपत्नीकाः प्रीयन्ताम्॥
ॐ द्वितीयगोत्रा नान्दीमुखाः मातामह-प्रमातामह-वृद्धप्रमातामहाः सपत्नीकाः प्रीयन्ताम्॥

जलाऽक्षतपुष्पप्रदानम्

चतुर्थस्थानेषु 
ॐ शिवा आपः सन्तु इति जलम्।
सौमनस्यमस्तु इति पुष्पम्। अक्षतं चाऽरिष्टं चास्तु इत्यक्षतान्।

जलधारादानम् 

(पितरों के लिए अंगूठे की ओर से पूर्वाग्र जलधारा अर्पण करें)

अघोराः पितरः सन्तु। सन्त्वघोरा पितरः। इति पूर्वाग्रां जलधारां दद्यात्।

आशिषां ग्रहणम्

ततो यजमानः कृताञ्जलि प्रार्थयेत्

ॐ गोत्रं नोऽभिवर्द्धताम्। अभिवर्द्धतां वो गोत्रम्॥
दातारो नोऽभिवर्द्धन्ताम। अभिवर्द्धन्तां वो दातारः॥
वेदाश्च नोऽभिवर्द्धन्ताम। अभिवर्द्धन्तां वो वेदाः॥
सन्ततिर्नोऽभिवर्द्धताम्। अभिवर्द्धन्तां वः सन्ततिः॥
श्रद्धा च नो मा व्यगमत्। मा व्यगमद् वः श्रद्धा॥
अन्न च नो बहु भवेत्। भवतु वो बह्वन्नम्॥
बहुदेयं च नोऽस्तु। अस्तु वो बहुदेयम्॥
अतिथींश्च लभेमहि। लभन्तां वोऽतिथयः॥
याचितारश्च नः सन्तु। सन्तु वो याचितारः॥
एता आशिषः सत्याः सन्तु। सन्त्वेता आशिषः सत्याः इति॥

दक्षिणादानसंकल्पः

ॐ नान्दीमुखेभ्यः सत्यवसुसंज्ञकेभ्यो विश्वेभ्यो देवेभ्यः कृतस्य नान्दीश्राद्धस्य फलप्रतिष्ठा सिद्ध्यर्थं इमां द्राक्षामलकयवमूल निष्क्रयीभूतां दक्षिणां दातुमहमुत्सृजे॥
ॐ गोत्रेभ्यो नान्दीमुखेभ्यः पितृ-पितामह-प्रपितामहेभ्यः सपत्नीकेभ्यः कृतस्य नान्दीश्राद्धस्य फलप्रतिष्ठा सिद्ध्यर्थं इमां द्राक्षामलकयवमूल निष्क्रयीभूतां दक्षिणां दातुमहमुत्सृजे॥
ॐ द्वितीयगोत्रेभ्यो नान्दीमुखेभ्यो मातामह-प्रमातामह-वृद्धप्रमातामहेभ्यः सपत्नीकेभ्यः कृतस्य नान्दीश्राद्धस्य फलप्रतिष्ठा सिद्ध्यर्थं इमां द्राक्षामलकयवमूल निष्क्रयीभूतां दक्षिणां दातुमहमुत्सृजे॥

करसंपुटौ कृत्वा नान्दीश्राद्धं संपन्नम् इति ब्राह्मणान्प्रार्थयेत्सुसंपन्नम्इति ब्राह्मणाः प्रतिवदेयुः॥

विसर्जनम्

ॐ व्वाजे॑ वाजेवत व्वाजिनो नोॖ धने॑षु व्विप्राऽअमृताऽऋतज्ज्ञाः।
ॶस्य मद्ध्वः॑ पिबत माॖदय॑द्ध्वन्तृ॒प्प्ता ॺा॑त पॖथिभि॑र्द्देवॖयानैः॑॥ (यजु० ९।१८)

ॐ आ माॖ व्वाज॑स्य प्प्रसॖवो जग॑म्म्याॖदेमे द्यावा॑पृथिॖवी व्विॖश्श्व॑रूपे।
आ मा॑ गन्ताम्पिॖतरा॑ माॖतराॖ चा माॖ सोमो॑ऽअमृतॖत्त्वेन॑ गम्म्यात्॥
व्वाजि॑नो व्वाजजितोॖ व्वाज॑ᳯ ससृ॒वाᳬ॑सोॖ बृहॖस्प्पते॑र्ब्भाॖगमव॑जिग्घ्र निमृजाॖनाः॥ (यजु० ९।१९)
इति मन्त्रेण विसृज्य॥

समर्पणम्

हस्ते जलं गृहीत्वा – मया कृतेऽस्मिन् साङ्कल्पिक विधिना नान्दीश्राद्धे न्यूनातिरिक्तो यो विधिः स उपविष्टब्राह्मणानां वचनात् श्रीनान्दीमुख प्रसादाच्च सर्वः परिपूर्णोऽस्तु॥ अस्तु परिपूर्णः॥

पुनर्जलं गृहीत्वा अनेन साङ्कल्पिकेन विधिना नान्दीश्राद्धकर्मणा कृतेन नान्दीमुखाः पितरः प्रीयन्ताम्।

॥ इति साङ्कल्पिकविधिनानान्दीश्राद्धप्रकरणम् ॥

अथ आचार्याद्यृत्विग्वरणप्रयोगः

॥ श्रीरस्तु ॥
༺❀༻

श्री हरि हरात्मक देवें सदा, मुद मंगलमय हर्ष।
सुखी रहे परिवार संग, अपना भारतवर्ष॥
༺༻❀༺༻

संकलनकर्ता
श्रद्धेय पंडित विश्‍वनाथ द्विवेदी
‘सनातनी ज्योतिर्विद’
संस्थापक, अध्यक्ष एवं प्रबंध निदेशक
(‘हरि हर हरात्मक’ ज्योतिष)
संपर्क सूत्र – 07089434899
༺༻❀꧁○꧂❀༺༻

Copyright © 2025 Hari Har Haratmak. All rights reserved.

"enter" 2026 | Powered By SpiceThemes

error: Content is protected !!