श्र्यादिसप्तवसोर्द्धारादेवता सप्तघृतमातृकाणां वैदिक पूजन प्रयोगः
अथ् श्र्यादिसप्तवसोर्द्धारादेवता (सप्तघृतमातृकाणां) वैदिक पूजन प्रयोगः
सर्वैगौर्यादिमातृणां श्र्यादिघृतमातृकाणाञ्चावाहनं कृत्वा सौकर्यार्थमेकतंत्रेण पूजनं क्रियते।
परञ्च रुद्रकल्पद्रुम रुद्रयामलोक्त वचनम् तत्पुरतः सन्निधाने वा कुड्ये रेखा घृतेन वै।
धारालिङ्गेन मंत्रेण समरेखाः समालिखेत्॥१॥
एकीकृत्योर्ध्वभागे तु रोचनं कुंकुमादिना।
प्रतिष्ठा भिन्नतः कार्या पूजनं युगपद्भवेत्॥२॥
चन्दनं कुंकुमं प्रोक्तं दूर्वापुष्पे यथेच्छया।
गुडधूपो भवेद्दीपः सर्पिषा परिकीर्तितः॥३॥
नैवेद्य तु भवेद्वाभ्यां भवेदर्घ्यं गथेच्छया।
दशोपचारैः पूर्वोक्तैरर्घदानान्तिकैः प्रिये॥४॥
पूजा गौर्यादिमनुभिर्यथा-शास्त्रविधानतः।
संप्रार्थयेत्ततो देवान्मातृधारागणेश्वरान्॥५॥ इति॥
तथैव स्मृति रत्नावलिदान खण्ड मदनरत्न ढोढुमिश्र प्रयोग रत्न निबन्ध ग्रन्थ काराणामपि मातृपूजां समाप्यैव पञ्च सप्त वा वसोर्धाराः कार्याः इति वचनानि।
अतो मातृपूजां विधायैव घृतमातृकाणामावाहनं दशोपचारैश्च पूजनं कर्तव्यम्॥ तथैवोक्तम्॥
ये तु पूर्व वसोर्धाराः कृत्वा मातृः संस्थाप्य मातृणां वसोर्धाराणाञ्च युगपत्पूजनमाचरन्ति ते उक्त ग्रन्थ विरुद्धाचारकत्वा-दुपेक्ष्या एव॥ अस्माभिस्तु एकतंत्रेण पूजायां सप्तघृतमातृणां दशोपचारा एवं विघ्नीभूता इत्यनुप्रीयते गौर्यादिमातृणां घृतमातृकाणां च पूजायां भिन्नोपचारदर्शनात्॥ अन्यथैकतंत्रेण पूजने न कापि क्षतिः॥ धारालिङ्गको मन्त्रस्तु “ॐ व्वसोः॑ प॒वित्र्त्र॑मसि”ति ज्ञेयः॥
अत्र केचित्परशुरामकारिकायाः “श्रीश्च लक्ष्मीर्धृतिर्मेधा स्वाहा प्रज्ञा सरस्वती” इति वसोर्द्धारादेवता प्रामाण्येन पुष्टिश्रद्धयोः स्थाने स्वाहाप्रज्ञयोरावाहनादिकं कुर्वन्ति तद्यथाचारं कर्तव्यम्॥ केचित्सप्तस्थाने श्रीलक्ष्मीधृतिमेधासरस्वत्य इति पञ्च वसोर्द्धाराः कुर्वन्ति तत्रापि देशाचारतो व्यवस्था ज्ञया॥
आग्नेय्यां भितौ कुङ्कुमादिना बिन्दुकरणेनाऽलङ्करणं कृत्वाऽऽगामिमन्त्रं पठन्, घृतेन सप्तधारा प्रासंस्था उदक्संस्था वा कुर्यात्।
(अग्निकोण में पीढ़े पर कुङ्कुम (रोली) से क्रमशः ऊपर से नीचे तक एक, दो, तीन, चार, पाँच, छह और सात बिन्दुओं को अकित कर अर्थात् ऊपर एक बिन्दु, उसके नीचे दो बिंदु, पुनः उसके नीचे तीन बिन्दु इसी प्रकार क्रमशः सात बिन्दु तक निर्माण कर, उन बिन्दुओं के ऊपर भाग में ‘श्री’ लिखें)
श्र्यादिसप्तवसोर्द्धारादेव्यै (सप्तघृतमातृका)

अथ गौर्यादिमातॄणां समीपे सन्निहितकुड्यलग्ना दक्षिणाद्युत्तरापवर्गाः पश्चिमादिप्रागपवर्गाः नातिनीचा न चोच्छ्रिताः सगुडेन घृतेन घृतधाराकरणम् –
घृतधाराकरणम्
ॐ व्वसोः॑ पॖवित्र्त्र॑मसि शॖतधा॑रॖँ व्वसोः॑ पॖवित्र्त्र॑मसि सॖहस्त्र॑धारम्।
देॖवस्त्त्वा॑ सविॖता पु॑नातु॒ व्वसोः॑ पॖवित्र्त्रे॑ण शॖतधा॑रेण सु॒प्पवाॗ काम॑धुक्क्षः॥ (यजु० १।३)
(इति मन्त्रेण सप्तवसोर्धाराः कर्तव्याः कार्याः। ततः ‘काम॑धुक्क्षः’ इत्येतावता मन्त्रेण पठित्वोदूर्ध्वभागे (धारामर्घभागेन) गुडेनैकीकरणम् तासामेकीकरणम्॥ ततः प्रतिधारामेकैक देवतामावाह्येत्॥)
गुडैनैकीकरणम् (तासामेकीकरणम्)
श्री पूर्व सप्त मातृश्च घृत मातृस्तथैव च।
गुडेन मेलयिष्यामि ताः सर्वार्थ प्रसाधिकाः॥
निर्मितासु सप्तधारासु दक्षिणत आरभ्योदक् संस्थं श्र्यादिसप्तवसोर्धाराणाम् आवाहनं कार्यम्–
श्र्यादिसप्तवसोर्द्धारादेवता ध्यान आवाहनम्
या रक्ताम्बुज वासिनी विलासिनी,
चण्डांशु तेजस्विनी।
या रक्ता रुधिराम्बरा हरिसखी,
या श्री मनोल्हादिनी॥
या रत्नाकर मन्थनात्प्रगटिता,
विष्णो स्वया गेहिनी।
सा मां पातु मनोरमा भगवती,
लक्ष्मीश्च पद्मावती॥
ध्यायेत्लक्ष्मीं प्रहसित मुखीं,
कोटिबालार्क भासाम्।
विद्युत् वर्णाम्बर वरधरां,
भूषणाढ्यां सु शोभाम्॥
बीजा पूरं सरसिज युगं,
बिभ्रतीम् स्वर्ण पात्रम्।
भर्त्रा युक्तां मुहुर भयदां,
मह्य मप्यच्युत श्रीः॥
श्र्यादिसप्तवसोर्द्धारादेवता हिन्दी आवाहनम्
सातहुं विन्दु पे सातहुं माता
श्री लक्ष्मी धृति मेधा जी भी आओ।
पुष्टि श्रद्धाम् सरस्वती मातु
हमें भव सिंधु से पार लगाओ॥
हे वसुधारा सदा वसुधा
तल पे करुणामयि धार बहाओ।
पूजा में आय सनाथ करो माँ
भक्त के माथे हाथ लगाओ॥
राजत सीस मुकुट मणिके
छवि सुन्दरता की अनूपम माला।
कानन कुण्डल की झलकार
सुशोभित अंगन में छवि भाला॥
क्षीरधि-पुत्रि, दयामयि मातु
सदैव करो हम पे प्रतिपाळा।
दास पुकारत ‘श्री’ पद को,
हर लीजै विपत्ति सकल विकराळा॥
श्रीः लक्ष्मी, धृति, मेधा, पुष्टि, श्रद्धा, सरस्वती।
मांगल्येषु प्रपूज्यन्ते सप्तैता घृतमातरः॥
(ॐ भुर्भुवः स्वः भगवत्यै श्र्यादिसप्तवसोर्धारादेव्यै नमः, ध्यायमि आवाह्यामि। भो श्र्यादिसप्तवसोर्धारा देवीम् इहागच्छ इह तिष्ठ,न॥)
अधुना वामहस्ते अक्षतान् गृहीत्वा, दक्षिणहस्तेन तत्तत्स्थाने श्र्यादिसप्तवसोर्धारादेव्यै नाममन्त्रेण-आवाहनं अथवा समन्त्रक-आवाहनम् कुर्यात्। ततो प्रतिष्ठापूर्वकम् षोडशोपचार विधिना सम्पूजयेत्….।
नाममन्त्रेण-आवाहनम्
(१) ॐ श्रियै नमः श्रियम् आवा० स्था० पूज०।
(२) ॐ लक्ष्मै नमः लक्ष्मीम् आवा० स्था० पूज०।
(३) ॐ धृत्यै नमः धृतिम् आवा० स्था० पूज०।
(४) ॐ मेधायै नमः मेधाम् आवा० स्था० पूज०।
(५) ॐ पुष्ट्यै नमः पुष्टिम् आवा० स्था० पूज०।
(६) ॐ श्रद्धायै नमः श्रद्धाम् आवा० स्था० पूज०।
(७) ॐ सरस्वत्यै नमः सरस्वतीम् आवा० स्था० पूज०।
समन्त्रक-आवाहनम्
(१) श्रीः
ॐ मन॑सॖः कामॖमाकु॑तिँव्वाॖचः सॖत्त्यम॑शीय।
पॖशू॒नाᳬ॑रूॖपमन्न॑स्यॖ रसोॖ ॺशॖः श्रीः श्र॑यताॖम्मयिॖ स्वाहा॑॥ (यजु० ३९।४)
(ॐ भूर्भुवः स्वः श्रियै नमः श्रियमावाह्यामि स्थापयामि।)
(२) लक्ष्मीम्
ॐ श्रीश्च्च॑ ते लॖक्ष्मीश्च्चॖ पत्न्क्या॑वहोराॖत्र्त्रे पाॖर्श्श्वे नक्क्ष॑त्राणि रूॖपमॖश्श्विनौॖ व्व्यात्त॑म्।
इॖष्ण्णन्नि॑षाणाॖमुम्म॑ऽइषाण सर्व्वलोॖकम्म॑ऽइषाण॥ (यजु० ३१।२२)
(ॐ भूर्भुवः स्वः लक्ष्म्यै नमः लक्ष्मीमावाह्यामि स्थापयामि।)
(३) धृतिम्
ॐ इॖह रति॑रिॖह र॑मद्ध्वमिॖह धृति॑रिॖह स्वधृ॑तिॖः स्वाहा॑।
उॖपॖसृ॒जन्धॖरुण॑म्माॖत्र्त्रे धॖरुणो॑ माॖतरॖन्धय॑न्।
राॖयस्प्पॊष॑मॖस्म्मासु॑ दीधरॖत्त्स्वाहा॑॥ (यजु० ८।५१)
(ॐ भूर्भुवः स्वः धृत्यै नमः धृतिमावाह्यामि स्थापयामि।)
(४) मेधाम्
ॐ मेॖधाम्मेॖ व्वरु॑णो ददातु मेॖधामॖग्ग्निः प्प्रॖजाप॑तिः।
मेॖधामिन्द्र॑श्च्च व्वाॖयुश्च्च॑ मेॖधान्धाॖता द॑दातु मेॖ स्वाहा॑॥ (यजु० ३२।१५)
(ॐ भूर्भुवः स्वः मेधायै नमः मेधामावाह्यामि स्थापयामि।)
(५) पुष्टिम्
ॐ देॖवी जोष्ट्री सर॑स्वत्त्यॖश्श्विनेन्द्र॑मवर्द्धयन्।
श्रोत्र्त्रॖन्न कर्ण्ण॑योॖर्ॺ्ॺशोॖ जोष्ट्री॑ब्भ्यान्दधुरिन्द्रिॖयँ व्व॑सु॒वनॆ॑ व्वसु॒धेय॑स्य व्यन्तु॒ ॺज॑॥ (यजु० २१।५१)
(ॐ भूर्भुवः स्वः पुष्ट्यै नमः पुष्टिमावाह्यामि स्थापयामि।)
(६) श्रद्धाम्
ॐ व्व्रॖतेन॑ दीॖक्क्षामा॑प्प्नोतिॖ दीॖक्क्षया॑प्प्नोतिॖ दक्क्षि॑णाम्।
दक्क्षि॑णा श्र्श्रॖद्धामा॑प्प्नोतिॖ श्र्श्रॖद्धया॑ सॖत्त्यमा॑प्प्यते॥ (यजु० १९।३०)
(ॐ भूर्भुवः स्वः श्रद्धायै नमः श्रद्धामावाह्यामि स्थापयामि।)
(७) सरस्वतीम्
ॐ देॖवीस्त्तिॖस्त्रस्त्तिॖस्त्रो देॖवीः पतिॖमिन्द्र॑मवर्द्धयन्।
अस्पृ॑क्क्षॖद्भार॑तीॖ दिव॑ᳯ रुॖद्रैर्ॺ्ॺॖज्ज्ञᳯ सर॑स्वॖतीडाॖ व्वसु॑मती गृ॒हान्न्व॑सु॒वने॑ व्वसु॒धेय॑स्य व्व्यन्तु॒ ॺज॑॥ (यजु० २८।१८)
ॐ पाॖवॖका नॖः सर॑स्वतीॖ व्वाजे॑भिर्व्वाॖजिनी॑वती।
ॺॖज्ज्ञँ व्व॑ष्ट्टु धिॖयाव॑सुः॥ (यजु० २०।८४)
(ॐ भूर्भुवः स्वः सरस्वत्यै नमः सरस्वतीमावाह्यामि स्थापयामि।)
प्रतिष्ठापनम्
ॐ मनो॑ जू॒तिर्ज्जु॑षताॖमाज्ज्य॑स्यॖ बृहॖस्प्पति॑र्ॺ्ॺज्ज्ञमिॖमन्त॑नोॖत्त्वरि॑ष्ट्टँ ॺ्ॺॖज्ज्ञᳯ समिॖमन्द॑धातु॒।
व्विश्श्वे॑ देॖवास॑ऽइॖह मा॑दयन्ताॖमो॑३ म्प्रति॑ष्ट्ठ॥ (यजु० २।१३)
ॐ अस्यै प्राणाः प्रतिष्ठन्तु अस्यै प्राणाः क्षरन्तु च।
अस्यै देवत्वमर्चायै मामहेति च कश्चन॥
(ॐ भूर्भुवः स्वः श्र्यादिसप्तवसोर्धारादेव्यै नमः सुप्रतिष्ठिता वरदाः भवन्तु।)
आसनम्
ॐ वर्ष्मोऽस्मि समानानामुद्यतामिव सूर्ॺः।
इमन्तमभितिष्ठामि ॺो मा कश्चाभिदासति॥
ॐ तां म आवह जातवेदो लक्ष्मीमनपगामिनीम्।
यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम्॥
ॐ पुरु॑षऽ एॖवेद ᳯ सर्व्वँ॒ॺ्ॺद्भू॒तँॺ्ॺच्च॑ भाॖव्व्यॖम्।
उॖतामृ॑तॖत्त्वस्येशा॑नोॖ ॺदन्ने॑नातिॖरोह॑ति॥ (यजु० ३१।२)
ॐ रम्यं सुशोभनं दिव्यं सर्वसौख्यकरं शुभम्।
आसनं च मया दत्तं गृहाण परमेश्वरी॥
(ॐ भूर्भुवः स्वः श्र्यादिसप्तवसोर्धारादेव्यै नमः आसनार्थे पुष्पं समर्पयामि।)
ततो श्री श्र्यादिसप्तवसोर्धारादेव्यै नमः एतानि पाद्यार्घ्याचमनीय स्नानीय पुनराचमनीयानि जलं समर्पयामि ततो पञ्चामृतस्नानम्॥
पञ्चामृतस्नानम्
ॐ पञ्च॑ नॖद्यः॒ सर॑स्वतीॖमपि॑यन्तिॖ सस्त्रो॑तसः॑।
सर॑स्वतीॖ तु प॑ञ्चॖधा सो देॖशेऽभ॑वत्त्सॖरित्॥ (यजु० ३४।११)
ॐ पञ्चामृतं मयाऽऽनीतं पयो दधि घृतं मधु।
शर्करा च समायुक्तं स्नानार्थं प्रतिगृह्यताम॥
(ॐ भूर्भुवः स्वः श्र्यादिसप्तवसोर्धारादेव्यै नमः पञ्चामृतस्नानं समर्पयामि।)
शुद्धोदकस्नानम्
ॐ शु॒द्धवा॑लः सॖर्व्वशु॑द्धवालो मणिॖवालॖस्तऽआ॑श्श्विॖनाः श्येतः॑ श्येताॖक्क्षोॖरुॖणस्ते रुॖद्राय॑ पशु॒पत॑ये कॖर्ण्णा ॺाॖमाऽअ॑वलिॖप्पता रौॖद्रा नभो॑रूपाः पार्ज्जॖन्न्याः॥ (यजु० २४।३)
ॐ गङ्गे च यमुने चैव गोदावरि सरस्वती।
नर्मदे सिन्धुकावेरी स्नानार्थं प्रतिगृह्यताम्॥
(ॐ भूर्भुवः स्वः श्र्यादिसप्तवसोर्धारादेव्यै नमः शुद्धोकस्नानं समर्पयामि। शुद्धोकदकस्नानान्ते आचमनीयं जलं समर्पयामि।)
वस्त्रम्
ॐ सुजा॑तोॖ ज्ज्योति॑षा सॖह शर्म्मॖ व्वरू॑थॖमा स॑दॖत्त्स्वः॒।
व्वासो॑ऽ अग्ग्ने व्विॖश्श्वरूपॖ ᳯ॒ सँव्व्य॑यस्व व्विभावसो॥ (यजु० ११।४०)
ॐ सर्वभूषाधिके सौम्ये लोक लज्जानिवारिणे।
मयोप पादिते तुभ्यं वाससी प्रतिगृह्यताम॥
(ॐ भूर्भुवः स्वः श्र्यादिसप्तवसोर्धारादेव्यै नमः वस्त्रं समर्पयामि। वस्त्रान्ते आचमनीयं जलं समर्पयामि।)
उपवस्त्रम्
ॐ युवा सुवासाः परिवीत आगात् स उ श्रेयान् भवति जायमानः।
तं धीरासः कवय उन्नयन्ति स्वाध्यो३ मनसा देवयन्तः॥ (ऋग्० ३।८।४)
ॐ यस्याभावेन शास्त्रोक्तं कर्म किञ्चिन्न सिध्यति।
उपवस्त्रं प्रयच्छामि सर्वकर्मोपकारकम्॥
(ॐ भूर्भुवः स्वः श्र्यादिसप्तवसोर्धारादेव्यै नमः उपवस्त्रं (उपवस्त्राभावे रक्तसूत्रं) समर्पयामि। उपवस्त्रान्ते आचमनीयं जलं समर्पयामि।)
गन्धम् (कुंकुमं)
ॐ त्वाङ्ग॑न्धॖर्व्वाऽ अ॑खनँ॒स्त्वामिन्द्रॖस्त्त्वाम्बृहॖस्प्पतिः॑।
त्वामो॑षधेॖ सोमोॖ राजा॑ व्विॖद्वान्न्यक्ष्मा॑दमुच्च्यत॥ (यजु० १२।९८)
ॐ गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीं।
ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम्॥
(ॐ भूर्भुवः स्वः श्र्यादिसप्तवसोर्धारादेव्यै नमः चन्दनार्थे कुंकुमं समर्पयामि।)
अक्षतान्
ॐ अक्क्षॖन्नमी॑मदन्तॖ ह्यव॑ प्प्रिॖयाऽअ॑धूषत।
अस्तो॑षतॖ स्वभा॑नवोॖ व्विप्प्राॖ नवि॑ष्ट्ठया मॖती ॺोजाॖ न्न्विॖन्द्र तेॖ हरी॑॥ (यजु० ३।५१)
ॐ अक्षताश्च सुरश्रेष्ठ कुङ्कुमाक्ताः सुशोभिताः।
मया निवेदिता भक्त्या गृहाण परमेश्वरी॥
(ॐ भूर्भुवः स्वः श्र्यादिसप्तवसोर्धारादेव्यै नमः अक्षतान् समर्पयामि।)
पुष्पाणि
ॐ ओष॑धीः॒ प्प्रति॑मोदद्ध्वॖम्पुष्प्प॑वतीः प्प्रॖसूव॑रीः।
अश्श्वा॑ऽइव सॖज्जित्त्व॑रीर्व्वीॖरुधः॑ पारयिॖष्ण्ण्वः॒॥ (यजु० १२।७७)
ॐ माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो।
मयाहृतानि (मयाऽऽनीतानि) पुष्पाणि पूजार्थं प्रतिगृह्यताम्॥
(ॐ भूर्भुवः स्वः श्र्यादिसप्तवसोर्धारादेव्यै नमः रक्तपुष्पाणि समर्पयामि।)
पुष्पमालाम्
द्याम्मा ले॑खीरॖन्तरि॑क्क्षम्मा हि॑ᳯसीः पृथिॖव्व्या सम्भ॑व।
अ॒यᳯ हि त्त्वाॖ स्वधि॑तिॖस्तेति॑जानः प्प्रणिॖनाय॑ महॖते सौभ॑गाय।
अतॖस्त्त्वन्दॆ॑व व्वनस्प्पते शॖतव॑ल्शोॖ व्विरो॑ह सॖहस्र॑वल्शा व्वि वॖयᳯ रुहेम॥ (यजु० ५।४३)
(ॐ भूर्भुवः स्वः श्र्यादिसप्तवसोर्धारादेव्यै नमः पुष्पमालाम् समर्पयामि।)
दूर्वाङ्कुराः
ॐ काण्डा॑त्त्काण्डात्त्प्रॖरोह॑न्तीॖ परु॑षः परुषॖस्प्परि॑।
एॖवा नो॑ दूर्व्वेॖ प्प्रत॑नु सॖहस्त्रे॑ण शॖतेन॑ च॥ (यजु० १३।२०)
ॐ दूर्वाङ्कुरान् सुहरितानमृतान् मङ्गलप्रदान्।
आनीतांस्तव पूजार्थं गृहाण गणनायक॥
(ॐ भूर्भुवः स्वः श्र्यादिसप्तवसोर्धारादेव्यै नमः दूर्वाङ्कुरान् समर्पयामि।)
सिन्दूरम्
ॐ सिन्धो॑रिव प्प्राद्ध्वॖने शू॑घॖनासोॖ व्वात॑प्प्रमियः पतयन्न्ति ॺॖह्वाः।
घृ॒तस्यॖ धारा॑ऽअरुॖषो न व्वाॖजी काष्ठ्ठा॑ भिॖन्दन्नू॒र्म्मिभिः॒ पिन्न्व॑मानः॥ (यजु० १७।९५)
ॐ सिन्दूरं शोभनं रक्तं सौभाग्यं सुखवर्धनम्।
शुभदं कामदं चैव सिन्दूरं प्रतिगृह्यताम॥
(ॐ भूर्भुवः स्वः श्र्यादिसप्तवसोर्धारादेव्यै नमः सिन्दूरं समर्पयामि।)
सौभाग्यद्रव्याणि
ॐ अहि॑रिव भोॖगैः पर्ॺ्ॺे॑ति बाॖहुञ्ज्याया॑ हेॖतिम्प॑रिॖबाध॑मानः।
हॖस्तॖग्घ्नो व्विश्श्ववा॑ व्वॖयुना॑नि व्विॖद्वान्न्पुमाॖन्न्पुमा॑ᳬ सॖम्परि॑पातु व्विॖश्वतः॑॥ (यजु० २९।५१)
ॐ अबीरं च गुलालञ्च चोवा चन्दनमेव च।
अबीरेणार्चितो देव ! अतः शान्ति प्रयच्छ मे॥
(ॐ भूर्भुवः स्वः श्र्यादिसप्तवसोर्धारादेव्यै नमः नानापरिमलद्रव्याणि समर्पयामि।)
सुगन्धिद्रव्यम्
ॐ त्र्य॑म्बकँॺ्ॺजामहे सुगॖन्धिम्पु॑ष्ट्टिॖवर्द्ध॑नम्।
उॖर्व्वाॖरुॖकमि॑वॖ बन्ध॑नान्न्मृ॒त्त्योर्म्मु॑क्क्षीयॖ मामृता॑त्॥ (यजु० ३।६०)
ॐ चम्पकाशोकवकुल्मालतीमोगरादिभिः।
वासितं स्निग्धाहेतु तैलं चारु प्रतिगृह्यताम्॥
दिव्यगन्धसमायुक्तं महापरिमलाद्भुतम्।
गन्धद्रव्यमिदं भक्त्या दत्तं वै प्रतिगृह्यताम्॥
(ॐ भूर्भुवः स्वः श्र्यादिसप्तवसोर्धारादेव्यै नमः सुगन्धिद्रव्यं समर्पयामि।)
आभूषणम्
ॐ हिर॑ण्ण्यरूपाऽउॖषसो॑ व्विरोॖकऽउॖभावि॑न्द्राॖ उदि॑थः॒ सूर्ॺ्ॺ॑श्च।
आरो॑हतँव्वरूण मित्र्त्रॖ गर्त्तॖन्तत॑श्चक्क्षाथाॖमदि॑तिॖन्दिति॑ञ्च मिॖत्र्त्रोॖसिॖ व्वरु॑णोसि॥ (यजु० १०।१६)
ॐ स्वॖर्ण्ण घॖर्म्मः स्वाहाॖ स्वॗर्ण्णार्क्कः स्वाहाॖ स्वॗर्ण्ण शु॒क्क्रः स्वाहाॖ स्वॗर्ण्ण ज्ज्योतिः॒ स्वाहाॖ स्वॗर्ण्ण सूर्ॺ्ॺः स्वाहा॑॥ (यजु० १८।५०)
मातस्तवेमं मुकुटं हरिन्मणि प्रवाल मुक्ता मणिभिर्विराजितम्।
गारूत्मतैश्चाऽपि मनोहरं कृतं गृहाण मातः शिरसो विभूषणम्॥
अलङ्कारान् महादिव्यान् नानारत्न-विनिर्मितान्।
गृहाण देवदेवेशि ! प्रसीद परमेश्वरि ॥
(ॐ भूर्भुवः स्वः श्र्यादिसप्तवसोर्धारादेव्यै नमः आभूषणम् समर्पयामि।)
धूपम्
ॐ धूर॑सिॖ धूर्व्वॖ धूर्व्व॑न्तॖन्धूर्व्वॖ तँॺ्ॺोॖऽस्म्मामान्धूर्व्व॑तिॖ तन्धू॑र्व्वॖ ॺँव्वॖयन्धूर्व्वा॑मः।
देॖवाना॑मसिॖ व्वह्नि॑तमॖᳯ॒ सस्न्नि॑तमम् पप्प्रि॑तमॖञ्जुष्ट्ट॑तमन् देवॖहूत॑मम्॥ (यजु० १।८)
ॐ अश्श्व॑स्य त्त्वाॖ व्वृष्णः॑ शॖक्क्ना धू॑पयामि देवॖयज॑ने पृथिॖव्व्याः। मॖखाय॑ त्त्वा मॖखस्य॑ त्त्वा शीॖर्ष्ण्णे॥ (यजु० ३७।९)
वनस्पतिरसोद्भूतो गन्धाढ्यो गन्ध उत्तमः।
आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम्॥
(ॐ भूर्भुवः स्वः श्र्यादिसप्तवसोर्धारादेव्यै नमः गुडधूपमाघ्रापयामि।)
दीपम्
ॐ अ॒ग्ग्निर्ज्ज्योतिॖर्ज्ज्योति॑रॖग्ग्निः स्वाहाॖ सूर्ॺ्ॺोॖ ज्ज्योतिॖर्ज्ज्योतिः॒ सूर्ॺ्ॺः॒ स्वाहा॑।
अ॒ग्ग्निर्व्वर्च्चोॖ ज्ज्योतिॖर्व्वर्च्चः॒ स्वाहाॖ सूर्ॺ्ॺो व्वर्च्चोॖ ज्ज्योतिॖर्व्वर्च्चः॒ स्वाहा॑। ज्योतिः॒ सूर्ॺ्ॺः॒ सूर्ॺ्ॺो ज्योतिः॒ स्वाहा॑॥ (यजु० ३।९)
ॐ चॖन्द्रमाॖमन॑सोजाॖतश्श्चक्षोॖः सूर्ॺ्ॺो॑ऽअजायत।
श्रोत्रा॑द्वायुश्श्च॑प्राॖणश्श्चॖमुखा॑दॖग्निर॑जायत॥ (यजु० ३१।१२)
साज्यं च वर्तिसंयुक्तं वह्निना योजितं मया।
दीपं गृहाण देवेशि त्रैलौक्यतिमिरापहम्॥
भक्त्या दीपं प्रयच्छामि देवाय परमात्मने।
त्राहि मां निरयाद् घोराद् दीपज्योतिर्नमोऽस्तु ते॥
(ॐ भूर्भुवः स्वः श्र्यादिसप्तवसोर्धारादेव्यै नमः घृतदीपं दर्शयामि।)
(‘ॐ हृषीकेशाय नमः’ ‘ॐ गोविन्दाय नमः’ इति मन्त्रेण हस्तौप्रक्षालनः)
नैवेद्यम्
ॐ अन्न॑पॖतेन्न॑स्य नो देह्ॺनमीॖवस्य॑ शु॒ष्म्मिणः॑।
प्रप्प्र॑ दाॖतार॑न्तारिषॖऽ ऊर्ज्ज॑न्नो धेहि द्विॖपदेॖ चतु॑ष्पदे॥ (यजु० ११।८३)
शर्कराखण्डखाद्यानि दधिक्षीरघृतानि च।
आहारं भक्ष्यभोज्यं च नैवेद्यं प्रतिगृह्यताम्॥
नैवेद्यं जलेन संप्रोक्ष्य धेन्वाऽमृतीकृत्य वामहस्तं पद्माकारं कृत्वा दक्षिणहस्तेन पञ्चप्राणाहुतीर्दद्यात् ग्रासमुद्राः मदर्शयेत्॥
ॐ प्राणाय स्वाहा॥ ॐ अपानाय स्वाहा॥ ॐ व्यानाय स्वाहा॥ ॐ उदानाय स्वाहा॥ ॐ समानाय स्वाहा॥ नैवेद्यान्ते आचमनीयं सम०॥ पूर्वापोशानं सम०॥ मध्ये पानीयं सम०॥ उत्तरापोशानं सम०॥ हस्तप्रक्षालनं सम०॥ मुखप्रक्षालनं सम०॥ आचमनीयं सम०॥
(ॐ भूर्भुवः स्वः श्र्यादिसप्तवसोर्धारादेव्यै नमः गुडसर्पिभ्यां नैवेद्यं निवेदयामि।)
करोद्वर्तनम्
ॐ ॶᳯ॒शुना॑ तेऽॶᳯ॒शुः पृ॑च्च्यताॖम्परु॑षाॖ परुः॑।
गॖन्न्धस्तेॖ सोम॑मवतु॒ मदा॑यॖ रसोॖऽअच्च्यु॑तः॥ (यजु० २०।२७)
ॐ सिॖञ्चतिॖ परि॑षिञ्चॖन्त्युत्त्सि॑ञ्चन्ति पुनन्ति॑ च।
सुरा॑यै बॖब्भ्व्रै मदे॑ किॖन्त्वो व्व॑दति किॖन्त्वः॥ (यजु० २०।२८)
चन्दनं मलयोद्भुतं कस्तूर्यादिसमन्वितम्।
करोद्वर्तनकं देवी गृहाण परमेश्वरी॥
(ॐ भूर्भुवः स्वः श्र्यादिसप्तवसोर्धारादेव्यै नमः करोद्वर्तनकं चन्दनं समर्पयामि।)
ऋतुफलानि-अखण्ड ऋतुफलम्
ॐ ॺाः फॖलिनीॖर्ॺ्ॺाऽ अ॑फॖलाऽ अ॑पु॒ष्प्पा ॺाश्च॑ पु॒ष्प्पिणीः॑।
बृहॖस्प्पति॑प्प्रसूताॖस्ता नो॑ मुञ्चॖन्त्वᳯ ह॑सः॥ (यजु० १२।८९)
इदं फलं मया देवी स्थापितं पुरतस्तव।
तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि॥
”गृहे वृद्धिशतानि भवन्तु“ उत्तरे कर्मण्यनिर्विविघ्नमस्तु।
(ॐ भूर्भुवः स्वः श्र्यादिसप्तवसोर्धारादेव्यै नमः ऋतुफलानि अखण्ड ऋतुफलानि समर्पयामि।)
श्रीफलान्ते आचमनीयं जलं समर्पयामि।
ताम्बूलम्
उॖत स्म्मा॑स्यॖ द्रव॑तस्त्तुरण्ण्यॖतः पॖर्ण्णन्न वेरनु॑वाति प्प्रगॖर्द्धिनः॑।
श्येॖनस्ये॑वॖ द्ध्रज॑तोऽअङ्कॖसम्परि॑ दधिॖक्क्राव्ण्णः॑ सॖहोर्ज्जा तरि॑त्र्त्रतः॒ स्वाहा॑॥ (यजु० ९।१५)
ॐ ॺत्त्पुरु॑षेण हॖविषा॑ देॖवा ॺॖज्ज्ञमत॑न्न्वत।
व्वॖसॖन्तो॒ऽस्यासीॖदाज्ज्य॑ङ्ग्रीॖष्म्म ऽइॖद्ध्मः शॖरद्धॖविः॥ (यजु० ३१।१४)
पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम्।
एलादिचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम्॥
(ॐ भूर्भुवः स्वः श्र्यादिसप्तवसोर्धारादेव्यै नमः मुखवासार्थम् एलालवंगपूगीफलसहितं ताम्बूलं समर्पयामि।)
दक्षिणाम्
ॐ हिॖरॖण्ण्यॖगॖर्ब्भः सम॑वर्त्तॖताग्ग्ग्रे॑ भू॒तस्य॑ जाॖतः पतिॖरेक॑ऽआसीत्।
स दा॑धार पृथिॖवीन्द्या मु॒ते माङ्कस्म्मै॑ देॖवाय॑ हॖविषा॑ व्विधेम॥ (यजु० १३।४)
ॐ ॺद्दॖत्तँ ॺ्ॺत्त्प॑राॖदानँ॒ ॺ्ॺत्त्पू॒र्त्तँ ॺ्ॺाश्चॖ दक्क्षि॑णाः।
तदॖग्न्निर्व्वै॑श्श्वकर्म्मॖणः स्व॑र्द्देॖवेषु॑ नो दधत्॥ (यजु० १८।६४)
हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः।
अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे॥
(ॐ भूर्भुवः स्वः श्र्यादिसप्तवसोर्धारादेव्यै नमः कृतायाः पूजायाः सा द्गुण्यार्थे द्रव्यदक्षिणां समर्पयामि।)
नीराजनम्-कर्पूरारार्तिक्यम्
ॐ इॖदᳯ हॖविः प्प्रॖजन॑नम्मे ऽअस्तु॒ दश॑वीरॖ ᳯ॒ सर्व्व॑गणᳬ स्वॖस्त्तये॑।
आ॒त्क्मॖसनि॑ प्प्रजाॖसनि॑ पशु॒सनि॑ लोकॖसन्न्य॑भयॖसनि॑।
अ॒ग्ग्निः प्प्रॖजाम्ब॑हु॒लाम्मे॑ करोॖत्त्वन्नॖम्पयोॖ रेतो॑ऽअ॒स्म्मासु॑ धत्त॥ (यजु० १९।४८)
ॐ ॺे दे॑वासो दिॖव्व्येका॑दशॖ स्त्थ पृ॑थिॖव्व्यामद्ध्येका॑दशॖ स्त्थ।
अ॒प्प्सु॒क्क्षितो॑ महिॖनैका॑दशॖ स्त्थ ते दे॑वासो ॺॖज्ज्ञमिॖमञ्जु॑षद्ध्वम्॥ (यजु० ७।१९)
ॐ आ रा॑त्र्त्रिॖ पार्त्थि॑वॖ ᳯ॒ रजः॑ पिॖतुर॑प्प्रायिॖ धाम॑भिः।
दिॖवः सदा॑ᳬसि बृहॖती व्विति॑ष्ठसॖऽआ त्त्वेॖषँव्व॑र्त्त॑तेॖ तमः॑॥ (यजु० ३४।३२)
ॐ ॶग्ग्निर्द्देॖवताॖ व्वातो॑ देॖवताॖ सूर्ॺ्ॺो॑ देॖवता॑ चॖन्द्रमा॑ देॖवताॖ व्वस॑वो देॖवता॑ रुॖद्द्रा देॖवता॑ऽऽदिॖत्त्या देॖवता॑ मॖरुतो॑ देॖवताॖ विश्श्वे॑देॖवा देॖवताॖ बृहॖस्प्पति॑र्द्देॖवतेन्द्रो॑ देॖवताॖ व्वरु॑णो देॖवता॑॥ (यजु० १४।२०)
ॐ आ रा॑त्र्त्रि॒ पार्त्थि॑व॒ ᳬ रजः॑ पि॒तुर॑प्प्रायि॒ धाम॑भिः।
दि॒वः सदा॑ ᳬ ऽसि बृह॒ती व्विति॑ष्ठस॒ ऽआ त्त्वे॒षं व्व॑र्त्त॑ते तमः॑॥
कदलीगर्भसम्भूतं कर्पूरं तु प्रदीपितम्।
आरार्तिकमहं कुर्वे पश्य मे वरदो भव॥
(ॐ भूर्भुवः स्वः श्र्यादिसप्तवसोर्धारादेव्यै नमः अरार्तिक्यं समर्पयामि। पुष्पैर्देववन्दनम्। हस्तेन आत्मवन्दनम्। हस्तप्रक्षाल्यः। ततोपुष्पांञ्जलिम्)
मन्त्रपुष्पाञ्जलिम्
ॐ ॺॖज्ज्ञेन॑ ॺॖज्ज्ञम॑यजन्त देॖवास्त्तानिॖ धर्म्मा॑॑णि प्प्रथॖमान्न्या॑सन्।
ते हॖ नाक॑म्महिॖमानः॑ सचन्तॖ ॺत्र्त्रॖ पूर्व्वे॑ साॖद्ध्याः सन्ति॑ देॖवाः॥ (यजु० ३१।१६)
ॐ सम॑क्ख्ये देॖव्व्या धिॖया सन्दक्क्षि॑णयोॖरुच॑क्क्षसा।
मा मॖऽआयुः॒ प्प्रमो॑षीॖर्म्मो॑ऽॶहन्तव॑ व्वीॖरँव्वि॑देयॖ तव॑ देवि सॖन्दृशि॑॥ (यजु० ४।२३)
नानासुगन्धिपुष्पाणि यथाकालोद्भवानि च।
पुष्पाञ्जलिर्मया दत्तो गृहाण परमेश्वरी॥
(ॐ भूर्भुवः स्वः श्र्यादिसप्तवसोर्धारादेव्यै नमः पुष्पाञ्जलिं समर्पयामि।)
प्रदक्षिणाम्
ॐ ॺे तीॖर्त्थानि॑ प्प्रॖचर॑न्ति सृ॒काह॑स्ता निषॖङ्गिणैः॑।
तेषा॑ᳬ सहस्त्रयोजॖनेवॖ धन्न्वा॑नि तन्न्मसि॥ (यजु० १६।६१)
यानि कानि च पापानि जन्मान्तरकृतानि च।
तानि सर्वाणि नश्यन्तु प्रदक्षिणपदे पदे॥
(ॐ भूर्भुवः स्वः श्र्यादिसप्तवसोर्धारादेव्यै नमः प्रदक्षिणां समर्पयामि।)
विशेषार्घ्यम्
अर्घ्यपात्रे सजलगन्धाक्षतपुष्पाणि प्रक्षिप्य तदुपरि सहिरण्यं नालिकेरादिकं निधाय अर्घ्यं दद्यात्
प्रसन्ना मातरः सर्वाः पूजां गृह्णन्तु मामकीम्।
अनेन सफलार्घ्येण वरदाः सन्तु सर्वदा॥
(ॐ भूर्भुवः स्वः गणेशसहित श्र्यादिसप्तवसोर्धारादेव्यै नमः विशेषार्ध्यं समर्पयामि।)
ततः प्रार्थयेत्
वन्दे लक्ष्मीं पर शिवमयीं
शुद्ध जाम्बूनदाभां।
तेजो रूपां कनक वसनां
सर्व भूषोज्ज्वलाङ्गीम्॥
बीजापूरं कनककलशं
हेमपद्यं दधानाम्।
आद्यां शक्तिं सकल जननीं
विष्णु वामाङ्क संस्थाम्॥
या श्री: स्वयं सुकृतिनां भवनेष्वलक्ष्मी:
पापात्मनां कृतधियां हृदयेषु बुद्धि:।
श्रद्धा सतां कुलजनप्रभवस्य लज्जा
तां त्वां नता: स्म परिपालय देवि विश्वम्॥
भवानि त्वं महालक्ष्मीः सर्वकामप्रदायिनि।
सुपूजिता प्रसन्नस्यान्महालक्ष्मि! नमोऽस्तु ते॥
या सा पद्मासनस्था विपुल कटि तटी
पद्म पत्रा यताक्षी,
गम्भीरावर्तनाभिः स्तन भर नमिता
शुभ्र वस्त्रोत्त रीया।
या लक्ष्मीर्दिव्य रूपैर्मणि गण खचितैः,
स्नापिता हेमकुम्भैः
सा नित्यं पद्महस्ता मम वसतु गृहे,
सर्वमांङ्गल्ययुक्ता ॥
यदङ्गत्वेन भो देव्यः पूजिता विधिमार्गतः।
कुर्वन्तु कार्यमखिलं निर्विघ्नेन क्रतूद्भवम्॥
(ॐ भुर्भुवः स्वः श्र्यादिसप्तवसोर्धारादेव्यै नमः प्रार्थनापूर्वकं नमस्कारान् समर्पयामि।)
पूजानिवेदनम् (समर्पणम्)
अनया पूजया श्र्यादिसप्तवसोर्धारादेव्यै प्रीयन्ताम् न मम।
अथाचारद् वैश्वदेव संकल्प
अथ वैश्वदेवसंङ्कल्पं कुर्यात्। हस्ते जलं गृहीत्वा वैश्वदेवहवनीय घृततण्डुलसहितं सदक्षिणं पात्रमादाय अस्मिन् अमुक कर्मणि वैश्वदेवाकरणजनित प्रत्यवायपरिहारार्थं वैश्वदेवकरणजनित फलनिष्पत्त्यर्थम् इदं वैश्वदेवहवनीयद्रव्यम् अमुकगोत्राया अमुकनाम्ने.. ब्राह्मणाय तुभ्यमहं संप्रददे॥ तेन “वैश्वदेवकरणजनित फलनिष्पत्तिरस्तु” इति सजलं, वैश्वदेवहवनीयद्रव्यपात्रं ब्राह्मणाय दद्यात्॥
अथ आयुष्यमन्त्रजपं
ॐ आॖयु॒ष्ष्यॖँ व्वर्च्चॖस्यॖᳯ राॖयस्प्पोषॖमौद्भि॑दम्।
इॖदᳯ हिर॑ण्यॖँ व्वर्च्च॑स्वॖ ज्जैत्र्त्राॖया वि॑शतादु॒ माम्॥ (यजु० ३४।५०)
ॐ न तद्रक्क्षा॑ᳬ॑सिॖ न पि॑शाॖचास्त्त॑रन्ति देॖवानाॖ मो॑जः प्प्रॖथमॖजᳬ॑ ह्येॖतत्।
ॺो बिॖभर्त्ति॑ दाक्क्षायॖणᳯ हिर॑ण्ण्यॖᳯ॒ स देॖवेषु॑ कृणुते दीॖर्ग्घमायुः॒ स म॑नु॒ष्ष्येॖषु कृणुते दीॖर्ग्घमायुः॑॥ (यजु० ३४।५१)
ॐ ॺदाब॑द्ध्न्न्दाक्क्षायॖणा हिरॖण्ण्यᳯ शॖतानी॑काय सुमनॖस्यमा॑नाः।
तन्न्मॖऽआब॑द्ध्नामि शॖत शा॑रदाॖयायु॑ष्म्माञ्जॖर द॑ष्ट्टिॖर्ॺ्ॺथासम्॥ (यजु० ३४।५२)
यदायुष्यं चिरं देवाः सप्त कल्पान्त जीविषु।
ददुस्तेनायुषा युक्ता जीवेम शरदः शतम्॥
दीर्घा नागा नगा नद्योऽन्ताः सप्तार्णवा दिशः।
अनन्तेनायुषा तेन जीवेम शरदः शतम्॥
सत्यानि पञ्च भूतानि विनाशरहितानि च।
अविनाश्यायुषा तद्वज्जीवेम शरदः शतम्॥
ॐ आयुष्यम् आयुष्यम् आयुष्यम्॥ आयुष्याभिवृद्धिरस्तु॥ इति आयुष्यमंत्रजपः॥
(आयुष्यमन्त्र श्रवणान्ते ॐ भूर्भुवः स्वः श्र्यादिसप्तवसोर्धारादेव्यै नमः पुष्पार्पणं समर्पयामि।)
॥ इति श्र्यादिसप्तवसोर्धारादेव्यै पूजनप्रकरणम् ॥
(ततो नान्दीश्राद्धम् कृत्वा)
अथ् साङ्कल्पिक विधिना नान्दीश्राद्ध प्रयोगः
॥ श्रीरस्तु ॥
༺❀༻
श्री हरि हरात्मक देवें सदा, मुद मंगलमय हर्ष।
सुखी रहे परिवार संग, अपना भारतवर्ष॥
༺༻❀༺༻
┉ संकलनकर्ता ┉
श्रद्धेय पंडित विश्वनाथ द्विवेदी
‘सनातनी ज्योतिर्विद’
संस्थापक, अध्यक्ष एवं प्रबंध निदेशक
(‘हरि हर हरात्मक’ ज्योतिष)
संपर्क सूत्र – 07089434899
༺༻❀꧁○꧂❀༺༻