अथ ब्रह्मादिवास्तुमण्डलदेवता पूजनप्रयोगः
॥ अथ ब्रह्मादिवास्तुमण्डलदेवता पूजनप्रयोगः ॥
अथ वास्तुमण्डलार्थ चतुःषष्टिकोष्टात्मके वास्तुपीठे पश्चिमत प्रागायता दक्षिणत आरभ्य उत्तरायता नव नव रेखाः कृत्वा तत्र समचतुरस्रेऽर्ध सार्थद्विप दादिभिः पदैः पञ्चचत्वारिंशत्पदानि निर्माय मध्यचतुःकोष्टकादारभ्य ब्रह्मादिदेवतानाम् आवाहनं कुर्यात्। तत्रादौ सपत्नीको यजमानो वास्तुपीठस्य समीपे पश्चिमाभिमुख उपविश्य आचम्य प्राणायामं कुर्यात्। ततो हस्ते जलं गृहीत्वा संकल्पं कुर्यात्।
अद्यपूर्वोच्चारित एवं गुण विशेषण विशिष्टायां शुभ पुण्यतिथौ प्रारब्धस्य अमुक कर्मणः साङ्गतासिद्धयर्थम् अस्मिञ्चतुःषष्टिकोष्टात्मके वास्तुपीठे ब्रह्मादिवास्तु मण्डल देवतानाम् आवाहनं पूजनञ्च करिष्ये॥
तत्रादौ वास्तुपीठस्य आग्नेयादिकोणक्रमेण शंकुरोपणम्।
आग्नेय्याम्
ॐ विशन्तु भूतले नागा लोकपालाश्च सर्वतः॥
मण्डलेऽत्रावतिष्ठन्तु ह्यार्युबलकराः सदा॥१॥
ततो नैऋत्याम्
ॐ विशन्तु भूतले नागा लोकपालाश्च सर्वतः॥ मण्डलेऽत्रावतिष्ठन्तु ह्यार्युबलकराः सदा॥२॥
ततो वायव्याम्
ॐ विशन्तु भूतले नागा लोकपालाश्च सर्वतः॥ मण्डलेऽत्रावतिष्ठन्तु ह्यार्युबलकराः सदा॥३॥
तत ऐशान्याम्
ॐ विशन्तु भूतले नागा लोकपालाश्च सर्वतः॥
मण्डलेऽत्रावतिष्ठन्तु ह्यार्युबलकराः सदा॥४॥
एवमाग्नेयादिषु चतुष्कोणेषु शंकुनारोप्याग्नेयादिक्रमेणैव माषभक्तं दध्योदनं वा बलिं दद्यात्।
आग्नेय्यां शंकुसमीपे बलिं निधाय हस्ते जळं गृहीत्वां।
ॐ अग्निभ्योऽप्यथ सर्पेभ्यो ये चान्ये तान्समाश्रिताः॥
बलिं तेभ्यः प्रयच्छामि पुण्यमोदनमुत्तमम्॥१॥ (इति जलमुत्सृजेत्)
एवं नैर्ऋत्यां शंकुसमीपे बलिं निधाय हस्ते जलं गृहीत्वा।
ॐ नैर्ऋत्याधिपतिचैव नैर्ऋत्यां ये च राक्षसाः॥
बलिं तेभ्यः प्रयच्छामि पुण्यमोदनमुत्तमम्॥२॥ (इति जलमुत्सृजेत्)
ततो वायव्यां शंकुसमीपे बलिं निधाय हस्ते जलं गृहीत्वा।
ॐ नमो वै वायुरक्षेभ्यो ये चान्ये तान्समाश्रिताः॥
बलिं तेभ्यः प्रयच्छामि पुण्यमोदनमुत्तमम्॥३॥ (इति जलमुत्सृजेत्)
तत ऐशान्यां शंकुसमीपे बलिं निधाय हस्ते जल जलमादाय।
ॐ रुद्रेभ्यश्चैव सर्पेभ्यो ये चान्ये तान्समाश्रिताः॥
बलिं तेभ्यः प्रयच्छामि पुण्यमोदनमुत्तमम्॥४॥ (इति जलमुत्सृजेत्)
(तत “आग्नेय्यादिक्रमेण शंकुदेवताभ्यो नमः” गन्धं पुष्पं धूपं दीपं नैवेद्यं समर्पयामि। सर्वोपचारार्थे नमस्कारान् समर्पयामि। अनेन शंकुरोपणपूर्वकं बलिदानेन चतस्र आग्नेय्यादिविदिग्देवताः प्रीयन्तां न मम॥)
अथ रेखाकरणं पूजनञ्च
वास्तुपीठे श्वेतं वस्त्रं प्रसार्य तदुपरि सुवर्णशलाकया कुशशलाकया वा पश्चिमत आरभ्य प्रागायता उदक्संस्था दक्षिणत आरभ्य उदगायता प्राक्संस्थाः समचतुरस्रा नव नव रेखा विदध्यात्।
पूर्व पश्चिमत आरभ्य प्रागायता उदक्संस्था नवरेखाः कार्याः॥
ॐ शान्तायै नमः॥१॥
ॐ यशोवत्यै नमः ॥२॥
ॐ कान्तायै नमः॥३॥
ॐ विशालायै नमः॥४॥
ॐ प्राणवाहिन्यै नमः॥५॥
ॐ सत्यै नमः॥६॥
ॐ सुमनायै नमः॥७॥
ॐ नन्दायै नमः॥८॥
ॐ सुभद्रायै नमः॥९॥
ततो दक्षिणत आरभ्य उदगायताः पूर्वदिक्संस्था नव रेखाः कार्याः॥
ॐ हिरण्यायै नमः॥१॥
ॐ सुव्रतायै नमः॥२॥
ॐ लक्ष्म्यै नमः॥३॥
ॐ विभूत्यै नमः॥४॥
ॐ विमलाये नमः॥५॥
ॐ प्रियायै नमः॥६॥
ॐ जयायै नमः॥७॥
ॐ कालायै नमः॥८॥
ॐ विशोकायै नमः॥९॥
त्यों प्रतिष्ठापनम्
हस्तेऽक्षतान्गृहीत्वा प्रतिष्ठापनं कुर्यात्
ॐ मनो॑ जू॒तिर्ज्जु॑षताॖमाज्ज्य॑स्यॖ बृहॖस्प्पति॑र्ॺ्ॺज्ज्ञमिॖमन्त॑नोॖत्त्वरि॑ष्ट्टँ ॺ्ॺॖज्ज्ञᳯ समिॖमन्द॑धातु॒।
व्विश्श्वे॑ देॖवास॑ऽइॖह मा॑दयन्ताॖमो॑३ म्प्रति॑ष्ट्ठ॥ (यजु० २।१३)
(रेखादेवताः सुप्रतिष्ठिता वरदा भवत। ततो “ॐ रेखादेवताभ्यो नमः” गन्धं पुष्पं धूपं दीपं नैवेद्यं समर्पयामि। सर्वोपचारार्थे नमस्कारान् समर्पयामिः। अनेन रेखादेवतानां पञ्चोपचारैः कृतेन पूजनेन रेखादेवताः प्रीयन्तां न मम॥)
अथ वास्तुमण्डलदेवतास्थापनम्
अधुना वामहस्ते अक्षतान् गृहीत्वा दक्षिणहस्तेन तत्तत्स्थाने आवाहनं कुर्यात्।
ब्रह्माणम्
मध्ये चतुःकोष्टके वास्तोर्हृदये
ॐ ब्रह्म॑ जज्ज्ञाॖनम्प्र॑थॖमम्पु॒रस्ताॖद्वि सी॑मॖतः सु॒रुचो॑व्वेॖनऽआ॑वः।
सबु॒द्ध्न्याॖऽउपॖमाऽ अ॑स्य व्विॖष्ट्ठाः सॖतश्चॖ ॺोनिॖमसॖतश्चॖ व्विवः॑॥ (यजु० १३।३)
(ॐ भूर्भुवः स्वः ब्रह्मणे नमः ब्रह्माणम् आ० स्था०॥ भो ब्रह्मन् इहागच्छ इह त्तिष्ठ॥१॥)
अर्यमणम्
ततो मध्यचतुःकोष्टकस्य पूर्वपदद्वये दक्षिणस्तने
ॐ अ॒र्ॺ्ॺॖमणॖम्बृह॒स्प्पतिॖमिन्द्रॖन्दाना॑य चोदय।
व्वाचं॒ व्विष्ण्णुः॒ सर॑स्वतीᳬ सविॖतार॑ञ्च व्वाॖजिनॖᳬ स्वाहा॑॥ (यजु० ९।२७)
(ॐ भूर्भुवः स्वः अर्यम्णे नमः अर्यमणम् आ० स्था०॥ भो अर्यमन् इहागच्छ इह तिष्ठ ॥२॥)
विवस्वनाम्
मध्यचतुःकोष्टकस्य दक्षिणपदद्वये जठरदक्षिणे
ॐ असि॑ ॺॖमोऽअस्या॑दिॖत्त्योऽअ॑र्व्वॖन्नसि॑ त्र्त्रिॖतोगुह्ॺे॑न व्व्रॖतेन॑।
असि॒ सोमे॑न सॖमयाॖ व्विपृ॑क्तऽआहुस्तेॖ त्र्त्रीणि॑ दिॖवि बन्ध॑नानि॥ (यजु० २९।१४)
(ॐ भूर्भुवः स्वः विवस्वते नमः विवस्वनाम् आ० स्था०॥ भो विवस्वन् इहागच्छ इह तिष्ठ॥३॥)
मित्रम्
पश्चिमे पदद्वये जठरवामभागे
ॐ मि॒त्रस्य॑ चर्षणीॖधृतोवो॑ देॖवस्य॑ सानॖसि।
द्यु॒म्म्नञ्चिॖत्रश्र्श्र॑वस्तमम्॥ (यजु० ११।६२)
(ॐ भूर्भुवः स्वः मित्राय नमः मित्रम् आवा० स्था०॥ भो मित्र इहागच्छ इह तिष्ठ॥४॥)
पृथ्वीधरम्
उत्तरे पदद्वये वामस्तने
ॐ ॺद्द्ग्रामेॖ ॺदर॑ण्ण्येॖ ॺत्त्सभायाँ॒ ॺ्ॺदि॑न्द्रिॖये।
ॺदेन॑श्चकृ॒मा व्वॖयमिॖदन्तदव॑यजामहेॖ स्वाहा॑॥ (यजु० ३।४५)
(ॐ भूर्भुवः स्वः पृथ्वीधराय नमः पृथ्वीधरम् आ० स्था०॥ भो पृथ्वीधर इहागच्छ इह तिष्ठ॥५॥)
सावित्रम्
आग्नेय्यां सूत्रेण द्विधाकृते ब्रह्मपदसंलग्ने उत्तरार्द्धे दक्षिणहस्ते
ॐ व्वसोः॑ पॖवित्र्त्र॑मसि शॖतधा॑रँव्वसोः॑ पॖवित्र्त्र॑मसि सॖहस्र॑धारम्।
देॖवस्त्त्वा॑ सविॖता पु॑नातु॒ व्वसोः॑ पॖवित्र्त्रे॑ण शॖतधा॑रेण सु॒प्प्वाॗ काम॑धुक्क्षः॥ (यजु० १।३)
(ॐ भूर्भुवः स्वः सावि॒त्राय नमः सावित्रम् आ० स्था० ॥ भो सावित्र इहागच्छ इह तिष्ठ॥६॥)
सवितारम्
आग्नेय्यां सूत्रेण द्विधाकृते ब्रह्मपदसंलग्ने दक्षिणार्द्धे दक्षिणहस्ते
ॐ उदु॒ त्यञ्जाॖतवे॑दसन्देॖवँ व्व॑हन्ति केतवः॑।
द्दॖशे व्विश्श्वा॑यॖ सूर्ॺ्ॺ॑म्॥ (यजु० ३३।३१)
(ॐ भूर्भुवः स्वः सवित्रे नमः सवितारम् आ० स्था०॥ भो सवितः इहागच्छ इह तिष्ठ॥७॥)
विबुधाधिपम्
नैर्ऋत्यां सूत्रेण द्विधाकृते ब्रह्मपदसंलग्ने दक्षिणार्द्धे वृषणयोः
ॐ स बो॑धि सु॒रिर्म्मॖधवाॖ व्वसु॑पतेॖ व्वसु॑दावन्।
ॺु॒योॖद्ध्यॗस्म्मद्वेषा॑ᳬ सि व्विॖश्श्वक॑र्म्मणेॖ स्वाहा॑॥ (यजु० १२।४३)
(ॐ भूर्भुवः स्वः विबुधाधिपाय नमः विबुधाधिपम् आ० स्था०॥ भो विबुधाधिप इहागच्छ इह तिष्ठ॥८॥)
जयम्
नैर्ऋत्यां सूत्रेण द्विधाकृते ब्रह्मपदसंलग्ने उत्तरार्द्धे मेद्रे
ॐ ॺदक्क्र॑न्दः प्प्रथॖमञ्जाय॑मान ऽउॖद्द्यन्त्स॑मु॒द्रादु॒त वाॖ पुरी॑षात्।
श्येॖनस्य॑ पॖक्क्षा ह॑रिॖणस्य॑ बाॖहूऽ उ॑पॖस्त्तुत्त्यॖम्महि॑ जाॖतन्ते॑ ऽअर्व्वन्॥ (यजु० २९।१२)
(ॐ शुर्भुवः स्वः जयाय नमः जयम् आ० स्था०॥ भो जय इहागच्छ इह तिष्ठ॥९॥)
राजयक्ष्माणम्
वायव्यां सूत्रेण द्विधाकृते ब्रह्मपदसंलग्ने वायव्यपद दक्षिणार्द्धे वामहस्ते
ॐ नाॖशॖयिॖत्र्त्री बॖलासॖस्यार्श॑ सऽउपॖचिता॑मसि।
अथो॑ शॖतस्यॖ ॺक्ष्मा॑णाम्पाकाॖरोर॑सिॖ नाश॑नी॥ (यजु० १२।९७)
(ॐ भूर्भुवः स्वः राजयक्ष्मणे नमः राजयक्ष्माणम् आ० स्था०॥ भो राजयक्ष्मन् इहागच्छ इह तिष्ठ ॥१०॥)
रुद्रम्
वायव्यां सूत्रेण द्विधाकृते ब्रह्मपदसंलग्ने वायव्यपदोत्तरार्द्धे वामहस्ते
ॐ ॺा ते॑ रुद्द्र शिॖवा तॖनूरघोॖरापा॑पकाशिनी।
तया॑ नस्तॖन्न्वाॗ शन्त॑मयाॖ गिरि॑शन्ताॖभिचा॑कशीहि॥ (यजु० १६।२)
(ॐ भूर्भुवः स्वः रुद्राय नमः रुद्रम् आ० स्था०॥ भो रुद्र इहागच्छ इह तिष्ठ॥११॥)
अपः
ईशान्यां सूत्रेण द्विधाकृते ब्रह्मपदसंलग्ने ईशानपदोत्तरार्द्धे उरसि॥
ॐ आपोॖ हि ष्ट्ठा म॑योॖभुवॖस्ता न॑ऽऊॖर्ज्जे द॑धातन।
मॖहे रणा॑यॖ चक्क्ष॑से॥ (यजु० ११।५०)
(ॐ भूर्भुवः स्वः अद्भ्यो नमः अपः आ० स्था०॥ भो आप इहागच्छत इह तिष्ठत॥१२॥)
आपवत्सम्
ईशान्यां सूत्रेण द्विधाकृते ब्रह्मपदसंलग्ने ईशानपददक्षिणार्द्धे मुखे
ॐ इॖमम्मे॑ व्वरुण श्र्श्रु॒धी हव॑मॖद्द्या च॑ मृडय।
त्वाम॑वॖस्युराच॑के॥ (यजु० २१।१)
(ॐ भूर्भुवः स्वः आपवत्साय नमः आपवत्सम् आ० स्था०॥ भो आपवत्स इहागच्छ इह तिष्ठ॥१३॥)
शिखिनम्
वास्तुमंडल स्थान्त्यपंक्तिगतेशान्याम् ईशानपददक्षिणार्द्धे शिरसि
ॐ तमीशा॑नॖञ्जग॑तस्तॖस्त्थुष॒स्प्पति॑न् धियञ्जिॖन्न्वमव॑से हूमहे व्वॖयम्।
पू॒षा नोॖ ॺथाॖ व्वेद॑साॖमस॑द्द्व्वृधे र॑क्क्षिॖता पाॖयुरद॑ब्धः स्वॖस्तये॑॥ (यजु० २५।१८)
(ॐ भूर्भुवः स्वः शिखिने नमः शिखिनम् आ० स्था०॥ भो शिखिन् इहागच्छ इह तिष्ठ॥१४॥)
पर्जन्यम्
तद्दक्षिणे सार्धपदे दक्षिणनेत्रे
ॐ मॖहा२ँ॥ऽइन्द्रोॖ ॺऽओज॑सा पॖर्ज्जन्यो॑ व्वृष्ट्टिॖमा२ँ॥इव॑।
स्तोमै॑र्व्वॖत्त्सस्य॑ व्वावृधे।
उॖपॖयाॖमगृ॑हीतोसि महेॖन्द्राय॑ त्त्वैॖष तेॖ ॺोनि॑र्म्महेॖन्द्राय॑ त्त्वा॥ (यजु० ७।४०)
(ॐ भूर्भुवः स्वः पर्जन्याय नमः पर्जन्यम् आ० स्था०॥ भो पर्जन्य इहागच्छ इह तिष्ठ॥१५॥)
जयन्तम्
तद्दक्षिणे पदद्वये दक्षिणश्रोत्रे
ॐ उदु॒ त्त्यञ्जाॖतवे॑दसन्दे॒वँव्व॑हन्ति केॖतवः॑।
द्दॖशे व्विश्श्वा॑यॖ सूर्ॺ्ॺ॑म्॥ (यजु० ३३।३१)
(ॐ भूर्भुवः स्वः जयन्ताय नमः जयन्तम् आ० स्था०॥ भो जयन्त इहागच्छ इह तिष्ठ॥१६॥)
कुलिशायुधम्
तद्दक्षिणपदद्वये दक्षिणांसे
ॐ इन्द्र॑ऽआसान्नेॖता बृह॒स्प्पतिॖर्द्दक्क्षि॑णा ॺॖज्ञः पु॒रऽए॑तु॒ सोमः॑।
देॖवॖसेॖनाना॑मभिभञ्जतीॖनाञ्जय॑न्तीनाम्मॖरुतो॑ ॺॖन्त्वग्ग्र॑म्॥ (यजु० १७।४०)
(ॐ भूर्भुवः स्वः कुलिशायुधाय नमः कुलिशायुधम् आ० स्था०॥ भो कुलिशायुध इहागच्छ इह तिष्ठ॥१७॥)
सूर्यम्
तद्दक्षिणपदद्वये दक्षिणबाहौ
ॐ सूर्ॺ्ॺ॑रश्म्मिॖर्हरि॑केशः पु॒रस्त्ता॑त्त्सविॖता ज्ज्योतिॖरुद॑याॖ२ँ॥ऽ अज॑स्त्रम्।
तस्य॑ पू॒षा प्प्र॑सॖवे ॺा॑ति व्विॖद्वान्त्सॖम्पश्श्यॖन्न्विश्श्वाॖ भुव॑नानि गोॖपाः॥ (यजु० १७।५८)
(ॐ भूर्भुवः स्वः सूर्याय नमः सूर्यम् आवा० स्था०॥ भो सूर्य इहागच्छ इह तिष्ठ ॥१८॥)
सत्यम्
तद्दक्षिणपदद्वये दक्षिणबाहौ
ॐ व्व्रॖतेन॑ दीॖक्क्षामा॑प्प्नोति दीॖक्क्षया॑प्प्नोतिॖ दक्क्षि॑णाम्।
दक्क्षि॑णा श्र्श्रॖद्धामा॑प्प्नोति श्र्श्रॖद्धया॑ सॖत्त्यमा॑प्प्यते॥ (यजु० १९।३०)
(ॐ भूर्भुवः स्वः सत्याय नमः सत्यम् आ० स्था०॥ भो सत्य इहागच्छ इह तिष्ठ॥१९॥)
भृशम्
तद्दक्षिणे सार्द्धपदे दक्षिणकूर्परे
ॐ भायै॑ दार्व्वाहाॖरम्प्रॖभाया॑ऽ अग्ग्न्येॖधम्ब्रॖद्ध्नस्य॑ व्विॖष्ट्टपा॑याभिषेॖक्क्तारँ॒ व्वर्षि॑ष्ट्ठायॖ नाका॑य परिवेॖष्ट्टार॑न्देवलोॖकाय॑ पेशिॖतार॑म्मनुष्ष्यलोॖकाय॑ प्प्रकरिॖतारॖᳯ सर्व्वे॑ब्भ्यो लोॖकेब्भ्य॑ऽ उपसेॖक्क्तारॖमव॑ऽऋत्यै व्वॖधायो॑पमन्थिॖतारॖम्मेधा॑य व्वासः पल्प्पू॒लीम्प्र॑काॖमाय॑ रजयिॖत्र्त्रीम्॥ (यजु० ३०।१२)
(ॐ भूर्भुवः स्वः भृशाय नमः भृशम् आ० स्था०॥ भो भृश इहागच्छ इह तिष्ठ॥२०॥)
आकाशम्
तद्दक्षिणाग्नेयपदोत्तरार्द्धे दक्षिणप्रबाहौ
ॐ हॖ ᳬ॒ सः शु॑चिॖषद्वसु॑रन्तरिक्क्षॖस॒सद्धोता॑ व्वेदिॖषदति॑थिर्द्दुरोणॖसत्।
नृ॒षद्व॑रॖसदृतॖसद्व्यो॑ मॖसदॖब्ब्जा गोॖजाऽऋ॑तॖजाऽ अ॑द्द्रि॒जाऽऋॖतम्बृ॒हत्॥ (यजु० १०।२४)
(ॐ भूर्भुवः स्वः आकाशाय नमः आकाशम् आ० स्था०॥ भो आकाश इहागच्छ इह तिष्ठ॥२१॥)
वायुम्
तदाग्नेयपददक्षिणार्द्धे दक्षिणप्रबाहौ
ॐ अ॒प्प्स्वॖग्ग्नेॖ सधिॖष्ट्टवॖ सौष॑धीॖरनु॑रुद्ध्यसे।
गर्ब्भेॖ सञ्जा॑यसेॖ पुनः॑॥ (यजु० १२।३६)
(ॐ भूर्भुवः स्वः वायवे नमः वायुम् आ० स्था०॥ भो वायो इहागच्छ इह तिष्ठ॥२२॥)
पूषणम्
तत्पश्चिमे सार्धपदे दक्षिणमणिबन्धे
ॐ पू॒षा पञ्चा॑क्क्षरेणॖ पञ्चॖ दिशॖऽउद॑जयॖत्ताऽउज्जे॑षᳯ सविॖता षड॑क्क्षरेणॖ षडृ॒तूनुद॑जयॖत्तानुज्जे॑षम्मॖरुतः॑ सॖप्प्ताक्क्ष॑रेण सॖप्प्त ग्ग्राम्म्यान्न्पॖशूनुद॑जयँ॒स्तानुज्जे॑षॖम्बृहॖस्प्पति॑रॖष्ट्टाक्क्ष॑रेण गायॖत्रीमुद॑जयॖत्तामुज्जे॑षम्॥ (यजु० ९।३२)
(ॐ भूर्भुवः स्वः पूष्णे नमः पूषणम् आ० स्था०॥ भो पूषन् इहागच्छ इह तिष्ठ॥२३॥)
वितथम्
तत्पश्चिमपदद्वये दक्षिणपार्श्वे
ॐ सॖविॖता प्प्र॑थॖमेह॑न्नॖग्ग्निर्द्विॖतीये॑ व्वाॖयुस्तृ॒तीय॑ऽआदिॖत्त्यश्च॑तु॒र्त्थे चॖन्द्रमाः॑ पञ्चॖमऽऋॖतुः षॖष्ट्ठे मॖरुतः॑ सप्प्तॖमे बृहॖस्प्पति॑रष्ट्टॖमे।
मिॖत्र्त्रो न॑वॖमे व्वरु॑णो दशॖमऽइन्द्र॑ऽएकादॖशे व्विश्श्वे॑ देॖवा द्वा॑दॖशे॥ (यजु० ३९।६)
(ॐ भूर्भुवः स्वः वितथाय नमः वितथम् आ० स्था०॥ भो वितथ इहागच्छ इह तिष्ठ॥२४॥)
गृहक्षतम्
तत्पश्चिमपदद्वये दक्षिणपार्श्वे
ॐ गृहाॖ मा बि॑भीतॖ मा वे॑पद्ध्वॖमूर्ज्जॖम्बिब्भ्र॑तॖऽएम॑सि।
ऊर्ज्जॖम्बिब्भ्र॑द्दवः सु॒मनाः॑ सुमेॖधा गृ॒हानैमिॖ मन॑साॖ मोद॑मानः॥ (यजु० ३।४१)
(ॐ भूर्भुवः स्वः गृहक्षताय नमः गृहक्षतम् आ० स्था०॥ भो गृहक्षत इहागच्छ इह तिष्ठ॥२५॥)
यमम्
तत्पश्चिमपदद्वये दक्षिणोरुभागे
ॐ असि॑ ॺॖमोऽअस्या॑दिॖत्त्योऽअ॑र्व्वॖन्नसि॑ त्र्त्रिॖतो गुह्ॺे॑न व्व्रॖतेन॑।
असिॖ सोमे॑न सॖमयाॖ व्विपृ॑क्क्तऽ आॖहुस्तेॖ त्र्त्रीणि॑ दिॖवि बन्ध॑नानि॥ (यजु० २९।१४)
(ॐ भूर्भुवः स्वः यमाय नमः यमम् आवा० स्था०॥ भो यम इहागच्छ इह तिष्ठ॥२६॥)
गन्धर्वम्
तत्पश्चिमपदद्वये दक्षिणजानौ
ॐ गॖन्धॖर्व्वस्त्त्वा॑ व्विॖश्श्वाव॑सुः॒ परि॑दधातु॒ व्विश्श्वॖस्यारि॑ष्ट्टयैॖ ॺज॑मानस्य परिॖधिर॑स्यॖग्ग्निरिॖडऽई॑डिॖतः।
इन्द्र॑स्य बाॖहुर॑सिॖ दक्क्षि॑णोॖ व्विश्श्वॖस्यारि॑ष्ट्टयैॖ ॺज॑मानस्य परिॖधिर॑स्य॒ग्ग्निरिॖडऽई॑डिॖतः।
मिॖत्रावरु॑णौ त्त्वोत्तरॖतः परि॑धत्तान्ध्रु॒वेणॖ धर्म्म॑णाॖ व्विश्श्वॖस्यारि॑ष्ट्टयैॖ ॺज॑मानस्य परिॖधिर॑स्यॖग्ग्निरिॖडऽई॑डिॖतः॥ (यजु० २।३)
(ॐ भूर्भुवः स्वः गन्धर्वाय नमः गन्धर्वम् आ० स्था०॥ भो गन्धर्व इहागच्छ इह तिष्ठ॥२७॥)
भृङ्गराजम्
तत्पश्चिमे सार्धपदे दक्षिणजङ्घायाम्
ॐ कस्त्त्वा॑ ॺुनक्क्तिॖ स त्त्वा॑ ॺुनक्क्तिॖ कस्म्मै॑ त्त्वा ॺुनक्क्तिॖ तस्म्मै॑ त्त्वा ॺुनक्क्तिॖ।
कर्म्म॑णे वाँ॒ व्वेषा॑य वाम्॥ (यजु० १।६)
(ॐ भूर्भुवः स्वः भृङ्गराजाय नमः भृङ्गराजम् आ० स्था०॥ भो भृङ्गराज इहागच्छ इह तिष्ठ॥२८॥)
मृगम्
तत्पश्चिमे नैर्ऋत्यदक्षिणपदार्द्धे दक्षिणस्फिचि
ॐ चॖन्द्रमाॖमन॑सोजाॖतश्श्चक्षोॖः सूर्ॺ्ॺो॑ऽअजायत।
श्रोत्रा॑द्वायुश्श्च॑प्राॖणश्श्चॖमुखा॑दॖग्निर॑जायत॥ (यजु० ३१।१२)
(ॐ भूर्भुवः स्वः मृगाय नमः मृगम् आ० स्था०॥ भो मृग इहागच्छ इह तिष्ठ॥२९॥)
पितॄन्
तदुत्तरे नैर्ऋत्य-पदोत्तरार्द्धपदे पादयोः
ॐ पिॖतृब्भ्यः॑ स्वधाॖयिब्भ्यः॑ स्वॖधा नमः॑ पितामॖहेब्भ्यः॑ स्वधाॖयिब्भ्यः॑ स्वॖधा नमः॑ प्प्रपि॑तामहेब्भ्यः॑ स्वधाॖयिब्भ्यः॑ स्वॖधा नमः॑।
अक्क्ष॑न्न्पिॖतरोमी॑मदन्त पिॖतरोती॑तृपन्त पिॖतरः॒ पिॖतरः॑ शुन्ध॑द्ध्वम्॥ (यजु० १९।३६)
(ॐ भूर्भुवः स्वः पितृभ्यो नमः पितॄन् आ० स्था०॥ भो पितरः इहागच्छत इह तिष्ठत॥३०॥)
दौवारिकम्
नैर्ऋत्यपदोत्तरे सार्द्धपदे वामस्फिचि
ॐ आ ब्ब्रह्म॑न्न्ब्राह्मॖणो ब्ब्र॑ह्मवर्च्च्चॖसीजा॑यताॖमा राॖष्ट्रे रा॑जॖन्न्यः॒ शूर॑ऽइषॖव्व्योॖतिव्व्याॖधी म॑हारॖथो जा॑यताॖन्दोग्ग्ध्री॑ धेॖनुर्व्वोढा॑नॖड्वानाॖशुः सप्प्तिः॒ पुर॑न्धिॖर्ॺ्ॺोषा॑ जिॖष्ण्णूर॑थेॖष्ट्ठाः सॖभेयोॖ ॺुवा॑स्यॖ ॺज॑मानस्य व्वी॒रो जा॑यतान्निकाॖमेनि॑कामे नः पॖर्ञ्जन्न्यो॑ व्वर्षतु॒ फल॑वत्त्यो नॖऽओष॑धयः पच्च्यन्ताँॺ्ॺोगक्क्षेॖमो नः॑ कल्प्पताम्॥ (यजु० २२।२२)
(ॐ भूर्भुवः स्वः दौवारिकाय नमः दौवारिकम् आ० स्था०॥ भो दौवारिक इहागच्छ इह तिष्ठ॥३१॥)
सुग्रीवम्
तदुत्तरे पदद्वये वामजङ्घायाम्
ॐ सुस॑मिद्धाय शोॖचिषे॑ घृ॒तन्तीॖव्व्रञ्जु॑होतन।
अ॒ग्ग्नये॑ जाॖतवे॑दसे॥ (यजु० ३।२)
(ॐ भूर्भुवः स्वः सुग्रीवाय नमः सुग्रीवम् आ० स्था०॥ भो सुग्रीव इहागच्छ इह तिष्ठ॥३२॥)
पुष्पदन्तम्
तदुत्तरे पदद्वये वामजानौ
ॐ नक्क्षे॑त्रेब्भ्यः॒ स्वाहा॑ नक्क्षॖत्रिये॑ब्भ्यः॒ स्वाहा॑होराॖत्र्त्रेब्भ्यः॒ स्वाहा॑र्द्धमासेब्भ्यः॒ स्वाहाॖमासे॑सेब्भ्यः॒ स्वाह॑ऽऋॖतुब्भ्यः॒ स्वाहा॑र्त्तॖवेब्भ्यः॒ स्वाहा॑ सँव्वत्त्सॖरायॖ स्वाहाॖ द्यावा॑पृथिॖवीब्भ्याॖᳬ॒ स्वाहा॑ चॖन्द्रायॖ स्वाहाॖ सूर्ॺ्ॺा॑यॖ स्वाहा॑ रॖश्म्मिब्भ्यः॒ स्वाहाॖ व्वसु॑ब्भ्यः॒ स्वाहा॑ रुॖद्रेब्भ्यः॒ स्वाहा॑दिॖत्त्येब्भ्यः॒ स्वाहा॑ मॖरुद्भयः॒ स्वाहाॖ व्विश्श्वे॑ब्भ्यो देॖवेब्भ्यः॒ स्वाहाॖ मूले॑ब्भ्यः॒ स्वाहाॖ शाखा॑ब्भ्यः॒ स्वाहाॖ व्वनॖस्प्पति॑ब्भ्यः॒ स्वाहाॖ पुष्प्पे॑ब्भ्यः॒ स्वाहाॖ फले॑ब्भ्यः॒ स्वाहौष॑धीब्भ्यः॒ स्वाहा॑॥ (यजु० २२।२८)
(ॐ भूर्भुवः स्वः पुष्पदन्ताय नमः पुष्पदन्तम् आ० स्था०॥ भो पुष्पदन्त इहागच्छ इह तिष्ठ॥३३॥)
वरुणम्
तदुत्तरे पदद्वये वामोरौ
ॐ व्वरु॑णस्योॖत्तम्भ॑नमसिॖ व्वरु॑णस्य स्क्कम्भॖसर्ज्ज॑नी स्त्थोॖ व्वरु॑णस्यऽऋतॖसद॑न्न्यसिॖ व्वरु॑णस्यऽऋतॖसद॑नमसिॖ व्वरु॑णस्यऽऋतॖसद॑नॖमासी॑द॥ (यजु० ४।३६)
(ॐ भूर्भुवः स्वः वरुणाय नमः वरुणम् आ० स्था०॥ भो वरुण इहागच्छ इह तिष्ठ॥३४॥)
असुरम्
तदुत्तरे पदद्वये वामपार्श्वे
ॐ ॺे रूॖपाणि॑ प्प्रतिमु॒ञ्चमा॑नाॖऽअसु॑राः॒ सन्तः॑ स्वॖधयाॖ चर॑न्ति।
पॖराॖपुरो॑ निॖपुरोॖ ॺे भर॑न्त्यॖग्ग्निष्ट्टाँ ल्लोॖकात्त्प्रणु॑ दात्त्यॖस्म्मात्॥ (यजु० २।३०)
(ॐ भूर्भुवः स्वः असुराय नमः असुरम् आ० स्था०॥ भो असुर इहागच्छ इह तिष्ठ॥३५॥)
शोषम्
तदुत्तरे सार्द्धपदे वामपार्श्वे
ॐ अस॑वेॖ स्वाहाॖ व्वस॑वेॖ स्वाहा॑ व्विॖभुवेॖ स्वाहाॖ व्विव॑स्वतेॖ स्वाहा॑ गणॖश्श्रियेॖ स्वाहा॑ गॖणप॑तयेॖ स्वाहा॑भिॖभुवेॖ स्वाहाधि॑पतयेॖ स्वाहा॑ शू॒षायॖ स्वाहा॑ सᳬसॖर्प्पायॖ स्वाहा॑ चॖन्द्रायॖ स्वाहाॖ ज्ज्योति॑षेॖ स्वाहा॑ मलिम्म्लु॒चायॖ स्वाहाॖ दिवा॑ पॖतय॑तेॖ स्वाहा॑॥ (यजु० २२।३०)
(ॐ भूर्भुवः स्वः शोषाय नमः शोषम् आ० स्था०॥ भो शोष इहागच्छ इह तिष्ठ॥३६॥)
पापम्
तदुत्तरे वायव्यपददक्षिणार्द्धे वाममणिबन्धे
ॐ अग्ग्ने॑ ॺु॒क्क्ष्वा हि ॺे तवाश्श्वा॑सो देव साॖधवः॑।
अरँ॒व्वह॑न्ति मॖन्न्यवे॑॥ (यजु० १३।३६)
(ॐ भूर्भुवः स्वः पापाय नमः पापम् आ० स्था०॥ भो पाप इहागच्छ इह तिष्ठ॥३७॥)
रोगम्
तदुत्तरे वायव्यां वायव्यपदोत्तरार्द्धे वामबाहौ
ॐ शिरो॑ मेॖ श्श्रीर्ॺ्ॺशोॖ मुखॖन्त्विषिः॒ केशा॑श्चॖ शम्मश्श्रू॑णि।
राजा॑ मे प्प्राॖणोऽअ॒मृतᳬ सॖम्म्राट्ट चक्क्षु॑र्व्विॖराट्टश्रोत्र्त्र॑म्॥ (यजु० २०।५)
(ॐ भूर्भुवः स्वः रोगाय नमः रोगम् आ० स्था०॥ भो रोग इहागच्छ इह तिष्ठ॥३८॥)
अहिम्
वायव्यपदोत्तरार्द्धस्य प्राक्सार्धपदे वामकूर्परे
ॐ नमो॑स्तु सॖर्प्पेब्भ्योॖ ॺे के च॑ पृथिॖवीमनु॑।
ॺेऽअ॒न्तरि॑क्षे॒ ॺे दिॖवि तेब्भ्यः॑ सॖर्प्पेब्भ्योॖ नमः॑॥ (यजु० १३।६)
(ॐ भूर्भुवः स्वः अहये नमः अहिम् आ० स्था०॥ भो अहे इहागच्छ इह तिष्ठ॥३९॥)
मुख्यम्
तत्प्राक्पदद्वये वामकूर्परे
ॐ इ॒षे त्त्वोॖर्ज्जे त्त्वा॑ व्वाॖयव॑ स्त्थ देॖवो वः॑ सविॖता प्प्रार्प्प॑यतु॒ श्श्रेष्ठ॑तमायॖ कर्म्म॑णॖऽआप्प्यायद्ध्वमग्घ्न्याॖ ऽइन्द्रा॑य भाॖगम्प्रॖजाव॑तीरनमीॖवाऽ अ॑यॖक्ष्मा मा व॑ स्तेॖनऽई॑शतॖ माघश॑ᳬ सोद्ध्रुवाऽअ॒स्म्मिन्न्गोप॑तौ स्यात बॖह्वीर्ॺ्ॺज॑मानस्य पॖशुन्न्पा॑हि॥ (यजु० १।१)
(ॐ भूर्भुवः स्वः मुख्याय नमः मुख्यम् आ० स्था०॥ भो मुख्य इहागच्छ इह तिष्ठ॥४०॥)
भल्लाटम्
तत्प्राक्पदद्वये वामबाहौ
ॐ घृ॒ताच्च्य॑सि जु॒हूर्न्नाम्म्नाॖ सेदम्प्रिॖयेणॖ धाम्म्न्ना॑ प्प्रिॖयᳬ सदॖऽआसी॑द घृ॒ताच्चय॑स्युपॖभृन्नाम्म्नाॖ सेदम्प्रिॖयेणॖ धाम्म्ना॑ प्प्रिॖयᳬ सदॖऽआसी॑द घृ॒ताच्च्य॑सि द्ध्रु॒वा नाम्म्नाॖ सेदम्प्रिॖयेणॖ धाम्म्न्ना॑ प्प्रिॖयᳬ सदॖऽआसी॑द प्प्रिॖयेणॖ धाम्म्न्ना॑ प्प्रिॖयᳬ सदॖऽआसी॑द।
ध्रु॒वाऽअ॑सदन्नृ॒तस्य॒ ॺोनौॖ ता व्वि॑ष्ण्णो पाहि पाॖहि ॺॖज्ज्ञम्पाॖहि ॺॖज्ज्ञप॑तिम्पाॖहि माँॺ्ॺ॑ज्ज्ञॖन्न्यॖम्॥ (यजु० २।६)
(ॐ भूर्भुवः स्वः भल्लाटाय नमः भल्लाटम् आ० स्था०॥ भो भल्लाट इहागच्छ इह तिष्ठ॥४१॥)
सोमम्
तत्प्राक्पदद्वये वामबाहौ
ॐ व्वॖयᳬ सो॑म व्व्रॖते तवॖ मन॑स्तॖनूषु॒ बिब्भ्र॑तः।
प्रॖजाव॑न्तः सचेमहि॥ (यजु० ३।५६)
(ॐ भूर्भुवः स्वः सोमाय नमः सोमम् आ० स्था०॥ भो सोम इहागच्छ इह तिष्ठ॥४२॥)
सर्पम्
तत्प्राक्पदद्वये वामासि
व्विष्ण्णोॖर्न्नुकँ॑ व्वीॖर्ॺ्ॺाॖणिॖ प्प्रवो॑चँ॒ॺ्ॺः पार्त्थि॑वानि व्विमॖमे रजा॑ᳬसि।
ॺोऽअस्क्क॑भायॖदुत्त॑रᳬ सॖधस्त्थँ॑ व्विचक्क्र माॖणस्रेॖधोरु॑गाॖयो व्विष्ण्ण॑वे त्त्वा॥ (यजु० ५।१८)
(ॐ भूर्भुवः स्वः सर्पाय नमः सर्पम् आ० स्था० ॥ भो सर्प इहागच्छ इह तिष्ठ॥४३॥)
अदितिम्
तत्प्राक्सार्धपदे वामश्रोत्रे
ॐ अदि॑तिॖर्द्यौरदि॑तिरॖन्तरि॑क्क्षॖमदि॑तिर्म्माॖता स पिॖता स पु॒त्र्त्रः।
व्विश्श्वे॑ देॖवाऽअदि॑तिः॒ पञ्चॖ जनाॖऽ अदि॑तिर्ज्जाॖतमदि॑तिॖर्ज्जनि॑त्त्वम्॥ (यजु० २५।२३)
(ॐ भूर्भुवः स्वः अदितये नमः अदितिम् आ० स्था०॥ भो अदिते इहागच्छ इह तिष्ठ॥४४॥)
दितिम्
तत्प्रागर्धपदे वामनेत्रे
ॐ ॺे देॖवा देॖवेष्ष्वधि॑ देवॖत्त्वमायॖन्न्ये ब्ब्रह्म॑णः पुरऽएॖ तारो॑ऽअ॒स्य।
ॺेब्भ्योॖ नऽऋॖते पव॑तेॖ धामॖ किञ्चॖन न ते दिॖवो न पृ॑थि॒व्व्याऽअधिॖ स्न्नुषु॑॥ (यजु० १७।१४)
(ॐ भूर्भुवः स्वः दित्यै नमः दितिम् आ० स्था०॥ भो दिते इहागच्छ इह तिष्ठ॥४५॥)
चरकीम्
मंडलाद्वहिः ईशानकोणे
इन्धा॑नास्त्त्वा शॖतᳮ हिमा॑ द्यु॒मन्तॖᳮ समि॑धीमहि।
व्वय॑स्वन्तो व्वयॖस्कृतॖᳮ सह॑स्वन्तः सहॖस्कृत॑म्॥ (यजु० ३।१८)
(ॐ भूर्भुवः स्वः चरक्यै समः चरकीम् आ० स्था०॥ भो चरकि इहागच्छ इह तिष्ठ॥४६॥)
विदारीम्
मण्डलाद्वहिः आग्नेयकोणे
ॐ असु॑न्न्वन्तॖमय॑जमानमिच्छ स्त्तेॖनस्येॖत्त्यामन्न्वि॑हिॖ तस्क्क॑रस्य।
अ॒न्न्यमॖ स्म्मदि॑च्छॖ सा त॑ऽइॖत्त्या नमो॑ देवि निर्ऋतेॖ तुब्भ्य॑मस्तु॥ (यजु० १२।६२)
(ॐ भूर्भुवः स्वः विदार्येै नमः विदारीम् आ० स्था० ॥ भो विदारि इहागच्छ इइ तिष्ठ॥४७॥)
पूतनाम्
वास्तुमण्डलाद्बहिर्नैर्ऋत्यकोणे
ॐ कया॑ नश्च्चि॒त्र ऽआभु॑वदू॒ती सॖदा वृ॑धः॒ सखा॑।
कयाॖ शचि॑ष्ट्ठया व्वृ॒ता॥ (यजु० २७।३९)
(ॐ भूर्भुवः स्वः पूतनायै नमः पूतनाम् आ० स्था०॥ भो पूतने इहागच्छ इह तिष्ठ॥४८॥)
पापराक्षसीम्
वास्तुमण्डलाद्वहिः वायव्यकोणे
ॐ इन्द्र॑ऽआसान्नेॖता बृहॖस्प्पतिॖर्द्दक्क्षि॑णा ॺॖज्ज्ञः पु॒रऽए॑तु॒ सोमः॑।
देॖवॖसेॖनाना॑मभि भञ्जतीॖनाञ्जय॑न्तीनाम्मॖरुतो॑ ॺॖन्त्वग्ग्र॑म्॥ (यजु० १७।४०)
(ॐ भूर्भुवः स्वः पापराक्षस्यै नमः पापराक्षसीम् आ० स्था०॥ भो पापराक्षसि इहागच्छ इह तिष्ठ॥४९॥)
स्कन्दम्
पुनर्वास्तुमंडलाद्वहिः पूर्वस्याम्
ॐ त्वन्नो॑ऽअग्ग्नेॖ व्वरु॑णस्य व्विॖद्वान्देॖवस्यॖ हेडोॖऽअव॑यासिसीष्ट्ठाः।
ॺजि॑ष्ट्ठो॒ व्वह्नि॑तमः॒ शोशु॑चानोॖ व्विश्श्वाॖ द्वेषा॑ᳬसिॖ प्प्रमु॑मुग्ग्ध्यॖस्म्मत्॥ (यजु० २१।३)
(ॐ भूर्भुवः स्वः स्कन्दाय नमः स्कन्दम् आ० स्था०॥ भो स्कन्द इहागच्छ इह तिष्ठ॥५०॥)
अर्यमणम्
मण्डलाद्वहिर्दक्षिणस्याम्
ॐ ॺदॖद्य सूरॖऽउदिॖतेना॑गा मिॖत्र्त्रोऽअ॑र्ॺ्ॺॖमा।
सु॒वाति॑ सविॖता भगः॑॥ (यजु० ३३।२०)
(ॐ भूर्भुवः स्वः अर्यम्णे नमः अर्यमणम् आ० स्था०॥ भो अर्यमन् इहागच्छ इह तिष्ठ॥५१॥)
जृम्भकम्
मंडलाद्वहिः पश्चिमस्याम्
ॐ सरो॑ब्भ्यो धैवॖरमु॑पॖस्त्थाव॑राब्भ्योॖ दाशँ॑व्वैशॖन्ताब्भ्यो॑ बैॖन्दन्न॑ड्ड्वॖलाब्भ्यः॒ शौष्क्क॑लम्पाॖराय॑ मार्ग्गाॖरम॑वाॖराय॑ कैॖवर्त्त॑न्तीॖर्त्थेब्भ्य॑ऽ आ॒न्दँव्विष॑मेब्भ्यो मैनाॖलᳬ स्वने॑ब्भ्यः॒ पर्ण्ण॑कॖङ्गुहाब्भ्यः॒ किरा॑तॖᳬ॒ सानु॑ब्भ्योॖ जम्भ॑कॖम्पर्व्व॑तेब्भ्यः किम्पूरुॖषम्॥ (यजु० ३०।१६)
(ॐ भूर्भुवः स्वः जृम्भकाय नमः जृम्भकम् आ० स्था०॥ भो जृम्भक इहागच्छ इह तिष्ठ॥५२॥)
पिलिपिच्छम्
मण्डलाद्वहिः उत्तरस्याम्
ॐ रॖक्क्षोॖहणँ॑ व्वलगॖहनँ॑ व्वैष्ण्णॖवी मिॖदमॖहन्तँ व्व॑लॖगमुत्त्कि॑रामिॖ ॺम्मेॖ निष्ट्योॖ ॺमॖमात्त्यो॑ निचॖखानेॖदमॖहन्तँ व्व॑लॖगमुत्त्कि॑रामिॖ ॺम्मेॖ समाॖनो ॺमस॑मानो निचॖखानेॖदमॖहन्तँ व्व॑लॖगमुत्त्कि॑रामिॖ ॺम्मेॖ सब॑न्धु॒र्ॺ्ॺमस॑बन्धुर्न्निचॖखानेॖदमॖहन्तँ व्व॑लॖगमुत्त्कि॑रामिॖ ॺम्मेॖ सजाॖतो ॺमस॑जातो निचॖखानोत्त्कृ॒त्त्याङ्किरामि॥ (यजु० ५।२३)
(ॐ भूर्भुवः स्वः पिलिपिच्छाय नमः पिलिपिच्छम् आ० स्था०॥ भो पिलिपिच्छ इहागच्छ इह तिष्ठ॥५३॥)
इन्द्रम्
वास्तुमंडलाद्वहिः पूर्वस्याम्
ॐ त्राॖतारॖमिन्द्र॑ मविॖतारॖमिन्द्रॖᳬ॒ हवे॑हवे सु॒हवॖᳬ॒ शूरॖमिन्द्र॑म्।
ह्वया॑मि शॖक्रम्पु॑रुहू॒तमिन्द्र॑ᳬ स्वॖस्ति नो॑ मॖधवा॑ धाॖत्त्विन्द्रः॑॥ (यजु० २०।५०)
(ॐ भूर्भुवः स्वः इन्द्राय नमः इन्द्रम् आ० स्था०॥ भो इन्द्र इहागच्छ इह तिष्ठ॥५४॥)
अग्निम्
मण्डलाद्वहिः आग्नेय्याम्
ॐ त्वन्नो॑ऽ अग्ग्नेॖ तव॑ देव पाॖयुभि॑र्म्मॖघोनो॑ रक्क्ष तॖन्न्वॖश्च व्वन्द्य।
त्राॖता तोॖकस्यॖ तन॑येॖ गवा॑मॖस्यर्निमेषः॒ᳬ रक्क्ष॑माणॖस्त्तव॑ व्व्रॖते॥ (यजु० ३४।१३)
(ॐ भूर्भुवः स्वः अग्नये नमः अग्निम् आ० स्था०॥ भो अग्ने इहागच्छ इह तिष्ठ॥५५॥)
यमम्
मण्डलाद्वहिः दक्षिणस्याम्
ॐ ॺॖमायॖ त्त्वाङ्गि॑रस्वते पितृ॒मतेॖ स्वाहा॑।
स्वाहा॑ धॖर्म्मायॖ स्वाहा॑ धॖर्म्मः पिॖत्र्त्रे॥ (यजु० ३८।९)
(ॐ भूर्भुवः स्वः यमाय नमः यमम् आ० स्था०॥ भो यम इहागच्छ इह तिष्ठ॥५६॥)
निर्ऋतिम्
मण्डलाद्वहिः नैर्ऋत्याम्
ॐ असु॑न्न्वन्तॖमय॑जमानमिच्छ स्त्तेॖनस्येॖत्त्यामन्न्वि॑हिॖ तस्क्क॑रस्य।
अ॒न्न्यमॖ स्म्मदि॑च्छॖ सा त॑ऽइॖत्त्या नमो॑ देवि निर्ऋतेॖ तुब्भ्य॑मस्तु॥ (यजु० १२।६२)
(ॐ भूर्भुवः स्वः निर्ऋतये नमः निर्ऋतिम् आ० स्था०॥ भो निर्ऋते इहागच्छ इह तिष्ठ॥५७॥)
वरुणम्
मण्डलाद्वहिऽ पश्चिमस्याम्
ॐ तत्त्वा॑ ॺामिॖ ब्ब्रह्म॑णाॖ व्वन्द॑मानॖस्त्तदाशा॑स्तेॖ ॺज॑मानो हॖविर्ब्भिः॑।
अहे॑डमानो व्वरुणेॖह बोॖद्ध्युरु॑शᳬ सॖ मा नॖऽ आयुᳬ प्प्रमो॑षीः॥ (यजु० २१।२)
(ॐ भूर्भुवः स्वः वरुणाय नमः वरुणम् आ० स्था०॥ भो वरुण इहागच्छ इह तिष्ठ॥५८॥)
वायुम्
मण्डलाद्वहिः वायव्याम्
ॐ आ नो॑ निॖयुद्भिः शॖतिनी॑भिरध्द्व॒रᳬ स॑हॖस्रिणी॑ भिॖरुप॑याहि ॺॖज्ज्ञम्।
व्वायो॑ ऽअ॒स्म्मिन्त्सव॑ने मादयस्व ॺू॒यम्पा॑त स्वॖस्तिभिः॒ सदा॑ नः॥ (यजु० २७।२८)
(ॐ भूर्भुवः स्वः वायवे नमः वायुम् आ० स्था०॥ भो वायो इहागच्छ इह तिष्ठ॥५९॥)
सोमम्
मण्डलाद्वहिः उत्तरस्याम्
ॐ व्वॖयᳬ सो॑म व्व्रॖते तवॖ मन॑स्त्तॖनूषु॒ बिब्भ्र॑तः।
प्रॖजाव॑न्तः सचेमहि॥ (यजु० ३।५६)
(ॐ भूर्भुवः स्वः सोमाय नमः सोमम् आ० स्था०॥ भो सोम इहागच्छ इह तिष्ठ॥६०॥)
ईशानम्
मण्डलाद्वहिः ईशान्याम्
ॐ तमीशा॑नॖञ्जग॑ तस्त्तॖस्त्थुषॖस्प्पति॑न् धियाञ्जिॖन्न् वमव॑से हूमहे व्वॖयम्।
पू॒षा नोॖ ॺथाॖ व्वेद॑साॖ मस॑द्द्व्वृधे र॑क्क्षिॖता पाॖयुरद॑ब्धः स्वॖस्तये॑॥ (यजु० २५।१८)
(ॐ भूर्भुवः स्वः ईशानाय नमः ईशानम् आ० स्था०॥ भो ईशान इहागच्छ इह तिष्ठ॥६१॥)
ब्रह्माणम्
मण्डलाद्वहिः ईशानपूर्वयोर्मध्ये
ॐ अ॒स्म्मे रुॖद्रा मेॖहनाॖ पर्व्व॑तासो व्वृत्रॖहत्त्येॖ भर॑हूतौ सॖजोषाः॑।
ॺः शᳬस॑ते स्त्तुवॖते धायि॑ पॖज्ज्रऽइन्द्र॑ज्ज्येष्ट्ठाऽ अ॒स्म्मा२ँ॥ऽअ॑वन्तु देॖवाः॥ (यजु० ३३।५०)
(ॐ भूर्भुवः स्वः ब्रह्मणे नमः ब्रह्माणम् आ० स्था० ॥ भो ब्रह्मन् इहागच्छ इह तिष्ठ॥६२॥)
अनन्तम्
मंडलाद्वहिः निर्ऋतिवरुणयोर्मध्ये
ॐ स्योॖना पृ॑थिवि नो भवानृक्क्षॖरा निॖवेश॑नी।
ॺच्छा॑ नः॒ शर्म्म॑ सॖप्प्रथाः॑॥ (यजु० ३६।१३)
(ॐ भूर्भुवः स्वः अनन्ताय नमः अनन्तम् आ० स्था०॥ भो अनन्त इहागच्छ इह तिष्ठ॥६३॥)
प्रतिष्ठापनम्
ॐ मनो॑ जू॒तिर्ज्जु॑षताॖमाज्ज्य॑स्यॖ बृहॖस्प्पति॑र्ॺ्ॺॖज्ज्ञमिॖमन्त॑नोॖत्त्वरि॑ष्ट्टँ ॺ्ॺॖज्ज्ञᳯ समिॖमन्द॑धातु॒।
व्विश्श्वे॑ देॖवास॑ऽइ॒ह मा॑दयन्ताॖमो३ म्प्रति॑ष्ट्ठ॥ (यजु० २।१३)
(ॐ भूर्भुवः स्वः ब्रह्मादिवास्तुमंडलदेवताः सुप्रतिष्ठिता वरदा भवत॥)
हस्ते गन्धाक्षतपुष्पाण्यादाय ॐ भूर्भुवः स्वः ब्रह्मादि वास्तुमण्डल देवताभ्यो नमः सर्वोपचारार्थे गन्धाक्षतपुष्पाणि समर्पयामि॥
अग्न्युत्तारण विधि
तदुपरि ताम्रादिपूर्णपात्रसहितं कलशं संस्थाप्य स्वस्य समीपे वास्त्वादि मूर्तीनाम अग्न्युत्तारणादिकं कुर्यात्। हस्ते जलं गृहीत्वा।
अद्य पूर्वोच्चरित० एवं गुणविशेषणविशिष्टायां शुभपुण्यतिथौ आसां सुवर्णनिर्मितानां वास्तु योगिनी क्षेत्रपाल सूर्य अमुकादि सर्वासां मूर्तीनां निर्माणविधौ अग्निप्रतपनताडनावघातादि दोषपरिहारार्थम् अग्न्युत्तारणपूर्वकं तत्तद्देवतानां सान्निद्धयार्थं तत्तद्देवतानां प्राणप्रतिष्ठां करिष्ये॥
पात्रे मूर्तीः निधाय ता घृतेनाभ्यज्य तदुपरि जलधारां कुर्यात्। तत्र मन्त्राः।
सॖमु॒द्रस्यॖ त्त्वाव॑कॖयाग्ग्नेॖ परि॑व्व्ययामसि।
पाॖवॖकोऽअ॒स्म्मब्भ्य॑ᳯ शिॖवो भ॑व॥ (यजु० १७।४)
हिॖमस्य॑ त्त्वा जॖरायु॒णाग्ग्नेॖ परि॑व्व्ययामसि।
पाॖवॖकोऽअ॒स्म्मब्भ्य॑ᳯ शिॖवो भ॑व॥ (यजु० १७।५)
उपॖ ज्ज्मन्नुप॑ वेतॖसेव॑तर नॖदीष्ष्वा।
अग्ग्ने॑ पिॖत्तमॖपाम॑सिॖ मण्डू॑किॖ ताभिॖराग॑हिॖ सेमन्नो॑ ॺॖज्ज्ञम्पा॑वॖकव॑र्ण्णᳯ शिॖवङ्क॑धि॥ (यजु० १७।६)
अ॒पामिॖदन्न्यय॑नᳯ समु॒द्रस्य॑ निॖवेश॑नम्।
अ॒न्न्याँस्ते॑ऽअ॒स्म्मत्त॑पन्तु हेॖतयः॑ पाॖवॖकोऽअ॒स्म्मब्भ्य॑ᳯ शिॖवो भ॑व॥ (यजु० १७।७)
अग्ग्ने॑ पावक रोॖचिषा॑ मॖन्द्रया॑ देव जिॖह्वया॑।
आ देॖवान्न्व॑क्क्षिॖ ॺक्क्षि॑ च॥ (यजु० १७।८)
स नः॑ पावक दीदिॖवोग्ग्ने॑ देॖवा२ँ॥ऽइ॒हाव॑ह।
उप॑ यॖज्ज्ञᳯ हॖविश्च॑ नः॥ (यजु० १७।९)
पाॖवॖकयाॖ ॺश्चिॖतय॑न्त्या कृ॒पा क्क्षाम॑न्नु॒रुॖचऽउॖषसोॖ न भाॖनुना॑।
तूर्व्वॖन्न यामॖन्नेत॑शस्यॖ नू रणॖऽआ यो घृ॒णे न त॑तृषाॖणोऽअ॒जरः॑॥ (यजु० १७।१०)
नम॑स्तेॖ हर॑से शोॖचिषेॖ नम॑स्तेऽअस्त्वॖर्च्चिषे॑।
अ॒न्न्याँस्ते॑ ऽअ॒स्म्मत्त॑पन्तु हेतयः॑ पाॖवॖकोऽअ॒स्म्मब्भ्य॑ᳯ शिॖवो भ॑व॥ (यजु० १७।११)
नृ॒षदेॖ व्वेड॑प्प्सु॒षदेॖ व्वेड्ड॑ बर्हिॖषदेॖ व्वेड्ड॑ वनॖसदेॖ व्वेट्ट स्वॖर्व्वि॑देॖ व्वेट्ट॥ (यजु० १७।१२)
ॺे देॖवा देॖवानाँ॑ ॺ्ॺॖज्ज्ञिया॑ ॺॖज्ज्ञिया॑नाᳬ सँव्वत्त्सॖरीणॖमुप॑ भाॖगमास॑ते।
अ॒हु॒तादो॑ हॖविषो॑ ॺॖज्ज्ञेऽअ॒स्म्मिन्त्स्वॖयम्पि॑बन्तु॒ मधु॑नो घृ॒तस्य॑॥ (यजु० १७।१३)
ॺे देॖवा देॖवेष्ष्वधि॑ देवॖत्त्वमायॖन्न्ये ब्ब्रह्म॑णः पुरऽए॒तारो॑ऽअ॒स्य।
ॺेब्भ्योॖ नऽऋॖते पव॑तेॖ धामॖ किञ्चॖन न ते दिॖवो न पृ॑थिॖव्व्याऽअधिॖ स्न्नुषु॑॥ (यजु० १७।१४)
प्राॖणॖदाऽअ॑पानॖदा व्वया॑नॖदा व्व॑र्च्चोॖदा व्व॑रिवोॖदाः।
अ॒न्न्याँस्ते॑ ऽअ॒स्म्मत्त॑पन्तु हेतयः॑ पाॖवॖकोऽअ॒स्म्मब्भ्य॑ᳯ शिॖवो भ॑व॥ (यजु० १७।१५)
एवं जलधारां कृत्वा प्राणप्रतिष्ठापनं कुर्यात्। हस्ते जलं गृहीत्वा।
प्राणप्रतिष्ठापने विनियोगः
ॐ अस्य श्रीप्राणप्रतिष्ठामन्त्रस्य ब्रह्मविष्णुरुद्रा ऋषयः। ऋग्यजुः सामानि छन्दांसि। पराशक्तिर्देवता। आं बीजम्। ह्रीं शक्तिः। क्रों कीलकम्। आसु वास्त्वादिसर्वासु मूर्तिषु प्राणप्रतिष्ठापने विनियोगः॥
ॐ अं ह्रीं क्रों यं रं लं वं शं षं सं हों ॐ क्षं सं हं सः ह्रीं ॐ आं ह्रीं क्रों आसां मूर्तीनां प्राणा इह प्राणाः॥
ॐ आं ह्रीं क्रों यं रं लं वं शं षं सं हों ॐ क्षं सं हं सः ह्रीं ॐ आं ह्रीं क्रों आसां मूर्तीनां जीव इह स्थितः॥
ॐ आं ह्रीं क्रों यं रं लं वं शं षं सं हों ॐ क्षं सं हं सः ह्रीं ॐ ह्रीं क्रों आसां मूर्तीनां सर्वेन्द्रियाणि वाङ्ग मनस् त्वक् चक्षुः श्रोत्र जिह्वा घ्राणपाणि पादपायूपस्थानि इहैवागत्य सुखं चिरं तिष्ठन्तु स्वाहा॥
गर्भाधानादि पञ्चदशसंस्कारार्थे पञ्चदश प्रणवावृत्तिं कुर्यात्। अनया आसां मूर्तीनां पञ्चदश संस्काराः संपद्यन्ताम्। हस्तेऽक्षतान्गृहीत्वा।
प्रतिष्ठापनम्
ॐ मनो॑ जू॒तिर्ज्जु॑षताॖमाज्ज्य॑स्यॖ बृहॖस्प्पति॑र्ॺ्ॺॖज्ज्ञमिॖमन्त॑नोॖत्त्वरि॑ष्ट्टँ ॺ्ॺॖज्ज्ञᳯ समिॖमन्द॑धातु॒।
व्विश्श्वे॑ देॖवास॑ऽइ॒ह मा॑दयन्ताॖमो३ म्प्रति॑ष्ट्ठ॥ (यजु० २।१३)
ॐ एष वैॖ प्रतिष्ठानामॺॖज्ञोॺत्रैतेॖन ॺॖज्ञेन ॺजन्ते सॖर्व्वमेव प्रॖतिष्ठितम्भवति॥
(वास्तोष्पतिप्रभृतयः सर्वे देवाः सुप्रतिष्ठिता वरदा भवत॥ मम कृतां पूजां गृह्णीतं मम सकुटुम्बस्य सपरिजनस्य च सर्वात्मना कल्याणं च कुरुतम्)
ततो वास्तुमूर्तिम् एकस्मिन्पात्रे स्थापयित्वा हस्तेऽक्षतान् गृहीत्वा ध्यानं कुर्यात्।
अथ् पूजनञ्चप्रकरणम्
श्रीवास्तुपुरुष ध्यानं
ॐ वास्तोष्पते प्रतिजानीह्यस्मान्स्वावेशोऽअनमीवो भवानः।
यत्त्वे महे प्रतितन्नो जुषस्व शन्नो भव द्विपदे शं चतुष्पदे॥
वन्दे देववरञ्च वास्तु पुरुषं,
वन्दे च सिद्धिप्रदं
वन्दे सर्वसुराधिवास वपुषं
वन्दे च विश्वम्भरम्।
वन्दे शक्रवरप्रदश्च सततं
वन्दे धराधारिणं
वन्दे भक्तदयादलं सुखकरं
वास्तोष्पतिं दुःखहम्॥
(अथवा)
नौमीड्यतेभ्र वपुषे तडि दम्बराय
गुञ्जा वतंस परि पीक्षल सन्मुखाय।
वन्नस्रजे कवलवे त्रविषाण वेषुः
लक्ष्मश्रिये मृदुपते पशुपाङ्गजाय॥
(अथवा)
आगच्छ भगवन् वास्तु सर्व देवैर् अधिष्ठितः।
भगवन् कुरु कल्याणम् यज्ञेस्मिन् सन्निधौ भवः॥
एह्येहि भगवन्वास्तो सर्वदेवैर-धिष्ठितः।
भगवन्कुरु कल्याणं यज्ञेऽस्मिन्सर्वसिद्धये॥
जानुनी कूर्परीकृत्य दिशि वातहुताशयोः।
आगच्छ भगवन्वास्तो सर्वदेवैरधिष्ठितः॥
भगवन्कुरु कल्याणं यज्ञेऽस्मिन्सन्निधो भव॥
ग्रह नाथ करो वसुधा अब कृपा
सब दानव देवन्ह के रखवारे।
यज्ञ स्वरूप विचित्र है आपके
पाप का नाम मिटावन हारे॥
शान्ति समृद्धि बढे दिन रैन
मिले सुख चैन सुकीर्ति संवारे।
पूजा में आय के वास्तु प्रभो
अब पूर्ण करो सवकार्य हमारे॥
गृह के कण-कण में बसे,
शुभ वास्तु सदा सुख-शांति करें।
दुख-दारिद और कलेश मिटा,
सब विघ्न-विनाशन काज करें।
ऋद्धि-सिद्धि के साथ रहें गणपति,
नित आनंद की बरसात करें।
हम वंदत हैं कर जोड़ तुम्हें,
यह वास्तु सदा ही प्रासाद करें।
भूपर शयन करत प्रभु नित्य
सदा सुख शांति हमारे बसाओ।
वास्तु के दोष हरौ सबही
रिद्धि-सिद्धि की वृष्टि सदा बरसाओ॥
व्याधिन नाशन क्षेम सुपोषण
कीजै कृपा मम गेह सजाओ।
‘वास्तु-पुरुष’ दया करि आप
सुखी परिवार सदैव बनाओ॥
सुख-शान्ति सदा गृह माहि रहै,
सब ओर सु-आनँद की सरसी।
गृह-वास्तु के दोष कटैं सब ही
प्रभु की नित कृपा सु-दृगैं बरसी॥
कर जोड़ि करौं प्रभु वन्दन मैं
नित पूजहिं वेद-रिचा सुर सी।
शुभता भरि के घर आँगन में
सुख-संपति देहिं सदा हरसी॥
(ॐ भुर्भुवः स्वः भगवते श्री ब्रह्मादि वास्तुमण्डल देवता सहिताय वास्तुपुरुषाय नमः, ध्यायमि आवाह्यामि स्थापयामि। ततो प्रतिष्ठापूर्वकम् षोडशोपचार विधिना सम्पूजयेत्॥)
आसनम्
ॐ पुरु॑षऽ एॖवेद ᳯ सर्व्वँ॒ॺ्ॺद्भू॒तँॺ्ॺच्च॑ भाॖव्व्यॖम्।
उॖतामृ॑तॖत्त्वस्येशा॑नोॖ ॺदन्ने॑नातिॖरोह॑ति॥ (यजु० ३१।२)
(ॐ भूर्भुवः स्वः ब्रह्मादिवास्तुमण्डलदेवतासहिताय वास्तुपुरुषाय नमः आसनार्थे अक्षतान् समर्पयामि॥)
पाद्यम्
ॐ एॖतावा॑नस्य महिॖमातोॖ ज्ज्यायाँ॑श्च्वॖ पूरु॑षः।
पादो॑ऽस्यॖ व्विश्श्वा॑ भू॒तानि॑ त्र्त्रिॖपाद॑स्याॖमृत॑न्दिॖवि॥ (यजु० ३१।३)
(ॐ भूर्भुवः स्वः ब्रह्मादिवास्तुमण्डलदेवतासहिताय वास्तुपुरुषाय नमः पादयोः पाद्यं समर्पयामि॥)
अर्घ्यम्
ॐ त्र्त्रिॖपादू॒र्ध्वऽउदैॖत्त्पूरु॑षॖः पादो॑ऽस्येॖहाभ॑वॖत्त्पुनः॑।
ततॊॖ व्विष्ष्वॖङ्ङ्व्यॖक्क्रामत्त्सा शनानशॖनेऽॶभि॥ (यजु० ३१।४)
(ॐ भूर्भुवः स्वः ब्रह्मादिवास्तुमण्डलदेवतासहिताय वास्तुपुरुषाय नमः हस्तयोर्घ्यम् समर्पयामि॥)
आचमनम्
ॐ ततॊ॑ व्विॖराड॑जायत व्विॖराजोॖऽअधिॖ पूरु॑षः।
स जाॖतोऽअत्त्य॑रिच्च्यत पॖश्च्चाद्भूमिॖमथो॑ पु॒रः॥ (यजु० ३१।५)
(ॐ भूर्भुवः स्वः ब्रह्मादिवास्तुमण्डलदेवतासहिताय वास्तुपुरुषाय नमः आचमनीयं समर्पयामि॥)
स्न्नानम्
ॐ तस्म्मा॑द्यॖज्ज्ञात्त्स॑र्व्वॖहुतॖः सम्भृ॑तम्पृषदाॖज्ज्यम्।
पॖशूँस्ताँश्च॑क्क्रे व्वायॖव्व्याॖनारॖण्ण्या ग्ग्राॖम्म्याश्च्च ॺॆ॥ (यजु० ३१।६)
(ॐ भूर्भुवः स्वः ब्रह्मादिवास्तुमण्डलदेवतासहिताय वास्तुपुरुषाय नमः स्नानं समर्पयामि॥)
पञ्चामृतस्न्नानम्
ॐ पञ्च॑ नॖद्यः॒ सर॑स्वतीॖमपि॑यन्तिॖ सस्त्रो॑तसः॑।
सर॑स्वतीॖ तु प॑ञ्चॖधा सो देॖशेऽभ॑वत्त्सॖरित्॥ (यजु० ३४।११)
(ॐ भूर्भुवः स्वः बह्मादिवास्तुमण्डलदेवतासहिताय वास्तुपुरुषाय नमः मिलितपञ्चामृतस्नानं समर्पयामि॥)
शुद्धोदकस्नानम्
ॐ शु॒द्धवा॑लः सॖर्व्वशु॑द्धवालो मणिॖवालॖस्तऽआ॑श्श्विॖनाः श्येतः॑ श्येताॖक्क्षोॖरुॖणस्ते रुॖद्राय॑ पशु॒पत॑ये कॖर्ण्णा ॺाॖमाऽअ॑वलिॖप्पता रौॖद्रा नभो॑रूपाः पार्ज्जॖन्न्याः॥ (यजु० २४।३)
(ॐ भूर्भुवः स्वः ब्रह्मादिवास्तुमण्डलदेवतासहिताय वास्तुपुरुषाय नमः शुद्धोदकस्नानं समर्पयामि॥ शुद्धोदकस्नानान्ते आचमनीयं जलं समर्पयामि॥)
ततो वास्तु मूर्तिं वास्तुमण्डलस्य मध्ये स्थापिते कलशे ताम्रादिपूर्णपात्रे निधाय
अथ वस्त्रम्
ॐ सुजा॑तोॖ ज्ज्योति॑षा सॖह शर्म्मॖ व्वरू॑थॖमा स॑दॖत्त्स्वः॒।
व्वासो॑ऽ अग्ग्ने व्विॖश्श्वरूपॖ ᳯ॒ सँव्व्य॑यस्व व्विभावसो॥ (यजु० ११।४०)
(ॐ भूर्भुवः स्वः ब्रह्मादिवास्तुमण्डलदेवतासहिताय वास्तुपुरुषाय नमः वस्त्रोपवस्त्रं समर्पयामि॥ वस्त्रान्ते आचमनीयं जलं समर्पयामि॥)
यज्ञोपवीतम् (उपवीतम्)
ॺॖज्ज्ञो देॖवानाॖम्प्रत्त्ये॑ति सु॒म्म्नमादि॑त्त्यासोॖ भव॑ता मृडॖयन्तः॑।
आ वोॖर्व्वाची॑ सुमॖतिर्व्व॑वृत्त्यादॖᳯ॒होश्र्श्र्विॖद्या व्व॑रिवोॖवित्तॖरास॑दादिॖत्त्येब्भ्य॑स्त्त्वा॥ (यजु० ८।४)
ॐ ब्रह्म॑ जज्ज्ञाॖनम्प्र॑थॖमम्पु॒रस्त्ताॖद्वि सी॑मॖतः सु॒रुचो॑ व्वेॖनऽआ॑वः।
स बु॒द्ध्न्याॖऽउपॖमाऽअ॑स्य व्विॖष्ट्ठाः सॖतश्चॖ ॺोनिॖमस॑तश्चॖ व्विवः॑॥ (यजु० १३।३)
(ॐ भूर्भुवः स्वः ब्रह्मादिवास्तुमण्डलदेवतासहिताय वास्तुपुरुषाय नमः यज्ञोपवीतं समर्पयामि॥ यज्ञोपवीतान्ते आचमनीयं जलं समर्पयामि॥)
गन्धम्
ॐ त्वाङ्ग॑न्धॖर्व्वाऽ अ॑खनँ॒स्त्वामिन्द्रॖस्त्त्वाम्बृहॖस्प्पतिः॑।
त्वामो॑षधेॖ सोमोॖ राजा॑ व्विॖद्वान्न्यक्ष्मा॑दमुच्च्यत॥ (यजु० १२।९८)
(ॐ भूर्भुवः स्वः ब्रह्मादिवास्तुमण्डलदेवतासहिताय वास्तुपुरुषाय नमः गन्धं समर्पयामि॥)
अक्षतान्
ॐ अक्क्षॖन्नमी॑मदन्तॖ ह्यव॑ प्प्रिॖयाऽअ॑धूषत।
अस्तो॑षतॖ स्वभा॑नवोॖ व्विप्प्राॖ नवि॑ष्ट्ठया मॖती ॺोजाॖ न्न्विॖन्द्र तेॖ हरी॑॥ (यजु० ३।५१)
(ॐ भूर्भुवः स्वः ब्रह्मादिवास्तुमण्डलदेवतासहिताय वास्तुपुरुषाय नमः अक्षतान्समर्पयामि॥)
पुष्पाणि
ॐ ओष॑धीः॒ प्प्रति॑मोदद्ध्वॖम्पुष्प्प॑वतीः प्प्रॖसूव॑रीः।
अश्श्वा॑ऽइव सॖज्जित्त्व॑रीर्व्वीॖरुधः॑ पारयिॖष्ण्ण्वः॒॥ (यजु० १२।७७)
(ॐ भूर्भुवः स्वः ब्रह्मादिवास्तुमण्डलदेवतासहिताय वास्तुपुरुषाय नमः ऋतुकालोद्भवानि पुष्पाणि समर्पयामि॥)
पुष्पमालाम्
द्याम्मा ले॑खीरॖन्तरि॑क्क्षम्मा हि॑ᳯसीः पृथिॖव्व्या सम्भ॑व।
अ॒यᳯ हि त्त्वाॖ स्वधि॑तिॖस्तेति॑जानः प्प्रणिॖनाय॑ महॖते सौभ॑गाय।
अतॖस्त्त्वन्दॆ॑व व्वनस्प्पते शॖतव॑ल्शोॖ व्विरो॑ह सॖहस्र॑वल्शा व्वि वॖयᳯ रुहेम॥ (यजु० ५।४३)
(ॐ भूर्भुवः स्वः ब्रह्मादिवास्तुमण्डलदेवतासहिताय वास्तुपुरुषाय नमः पुष्पमाळां समर्पयामि॥)
सौभाग्यद्रव्याणि
ॐ अहि॑रिव भोॖगैः पर्ॺ्ॺे॑ति बाॖहुञ्ज्याया॑ हेॖतिम्प॑रिॖबाध॑मानः।
हॖस्तॖग्घ्नो व्विश्श्ववा॑ व्वॖयुना॑नि व्विॖद्वान्न्पुमाॖन्न्पुमा॑ᳬ सॖम्परि॑पातु व्विॖश्वतः॑॥ (यजु० २९।५१)
(ॐ भूर्भुवः स्वः ब्रह्मादिवास्तुमण्डलदेवतासहिताय वास्तुपुरुषाय नमः सौभाग्यपरिमलद्रव्याणि समर्पयामि॥)
सुगन्धिद्रव्यम्
ॐ त्र्य॑म्बकँॺ्ॺजामहे सुगॖन्धिम्पु॑ष्ट्टिॖवर्द्ध॑नम्।
उॖर्व्वाॖरुॖकमि॑वॖ बन्ध॑नान्न्मृ॒त्त्योर्म्मु॑क्क्षीयॖ मामृता॑त्॥ (यजु० ३।६०)
(ॐ भूर्भुवः स्वः ब्रह्मादिवास्तुमण्डलदेवतासहिताय वास्तुपुरुषाय नमः सुगन्धिद्रव्यम् समर्पयामि॥)
धूपम्
ॐ धूर॑सिॖ धूर्व्वॖ धूर्व्व॑न्तॖन्धूर्व्वॖ तँॺ्ॺोॖऽस्म्मामान्धूर्व्व॑तिॖ तन्धू॑र्व्वॖ ॺँव्वॖयन्धूर्व्वा॑मः।
देॖवाना॑मसिॖ व्वह्नि॑तमॖᳯ॒ सस्न्नि॑तमम् पप्प्रि॑तमॖञ्जुष्ट्ट॑तमन् देवॖहूत॑मम्॥ (यजु० १।८)
ॐ अश्श्व॑स्य त्त्वाॖ व्वृष्णः॑ शॖक्क्ना धू॑पयामि देवॖयज॑ने पृथिॖव्व्याः। मॖखाय॑ त्त्वा मॖखस्य॑ त्त्वा शीॖर्ष्ण्णे॥ (यजु० ३७।९)
(ॐ भूर्भुवः स्वः ब्रह्मादिवास्तुमण्डलदेवतासहिताय वास्तुपुरुषाय नमः धूपमाघ्रापयामि॥)
दीपम्
ॐ ॶग्ग्निर्ज्ज्योतिॖर्ज्ज्योति॑रॖग्ग्निः स्वाहाॖ सूर्ॺ्ॺोॖ ज्ज्योतिॖर्ज्ज्योतिः॒ सूर्ॺ्ॺः॒ स्वाहा॑।
ॶग्ग्निर्व्वर्च्चोॖ ज्ज्योतिॖर्व्वर्च्चः॒ स्वाहाॖ सूर्ॺ्ॺो व्वर्च्चोॖ ज्ज्योतिॖर्व्वर्च्चः॒ स्वाहा॑। ज्योतिः॒ सूर्ॺ्ॺः॒ सूर्ॺ्ॺो ज्योतिः॒ स्वाहा॑॥ (यजु० ३।९)
ॐ ॶग्ग्निर्ज्ज्योति॑षाॖ ज्ज्योति॑ष्म्मान्न्नु॒क्क्मो व्वर्च्च॑साॖ व्वर्च्च॑स्वान्।
सॖहॖस्त्रॖदाऽअ॑सि सॖहस्त्रा॑य त्त्वा॥ (यजु० १३।४०)
ॐ चॖन्द्रमाॖमन॑सोजाॖतश्श्चक्षोॖः सूर्ॺ्ॺो॑ऽअजायत।
श्रोत्रा॑द्वायुश्श्च॑प्राॖणश्श्चॖमुखा॑दॖग्निर॑जायत॥ (यजु० ३१।१२)
(ॐ भूर्भुवः स्वः ब्रह्मादिवास्तुमण्डलदेवतासहिताय वास्तुपुरुषाय नमः दीपं दर्शयामि॥ हस्तौप्रक्षाल्य॥)
नैवेद्यम्
ॐ अन्न॑पॖतेन्न॑स्य नो देह्ॺनमीॖवस्य॑ शु॒ष्म्मिणः॑।
प्रप्प्र॑ दाॖतार॑न्तारिषॖऽ ऊर्ज्ज॑न्नो धेहि द्विॖपदेॖ चतु॑ष्पदे॥ (यजु० ११।८३)
(ॐ भूर्भुवः स्वः ब्रह्मादिवास्तुमण्डलदेवतासहिताय वास्तुपुरुषाय नमः नैवेद्यं निवेद्यामि॥ देवतासमीपे नैवेद्यं निधाय गायत्रीमन्त्रेण संप्रोक्ष्य धेनुमुद्रयाऽमृतीकृत्य ग्रासमुद्रया पञ्च प्राणाहुतीर्दद्यात्। ॐ प्राणाय स्वाहा। ॐ अपानाय स्वाहा। ॐ व्यानाय स्वाहा। ॐ उदानाय स्वाहा। ॐ समानाय स्वाहा। मध्ये पानीयं समर्पयामि। उत्तरापोशनं समर्पयामि। हस्तप्रक्षालनं समर्पयामि। मुखप्रक्षालनं समर्पयामि।)
करोद्वर्तनम्
ॐ ॶᳯ॒शुना॑ तेऽॶᳯ॒शुः पृ॑च्च्यताॖम्परु॑षाॖ परुः॑।
गॖन्न्धस्तेॖ सोम॑मवतु॒ मदा॑यॖ रसोॖऽअच्च्यु॑तः॥ (यजु० २०।२७)
ॐ सिॖञ्चतिॖ परि॑षिञ्चॖन्त्युत्त्सि॑ञ्चन्ति पुनन्ति॑ च।
सुरा॑यै बॖब्भ्व्रै मदे॑ किॖन्त्वो व्व॑दति किॖन्त्वः॥ (यजु० २०।२८)
(ॐ भूर्भुवः स्वः ब्रह्मादिवास्तुपण्डलदेवतासहिताय वास्तुपुरुषाय नमः करोद्वर्तनार्थे गन्धं समर्पयामि॥)
ऋतुफलानि – अखण्ड ऋतुफलम्
ॐ ॺाः फॖलिनीॖर्ॺ्ॺाऽ अ॑फॖलाऽ अ॑पु॒ष्प्पा ॺाश्च॑ पु॒ष्प्पिणीः॑।
बृहॖस्प्पति॑प्प्रसूताॖस्ता नो॑ मुञ्चॖन्त्वᳯ ह॑सः॥ (यजु० १२।८९)
(ॐ भूर्भुवः स्वः ब्रह्मादिवास्तुपण्डलदेवतासहिताय वास्तुपुरुषाय नमः मुखवासार्थे पूगीफलं समर्पयामि॥)
ताम्बूलम्
उॖत स्म्मा॑स्यॖ द्रव॑तस्त्तुरण्ण्यॖतः पॖर्ण्णन्न वेरनु॑वाति प्प्रगॖर्द्धिनः॑।
श्येॖनस्ये॑वॖ द्ध्रज॑तोऽअङ्कॖसम्परि॑ दधिॖक्क्राव्ण्णः॑ सॖहोर्ज्जा तरि॑त्र्त्रतः॒ स्वाहा॑॥ (यजु० ९।१५)
(ॐ भूर्भुवः स्वः ब्रह्मादिवास्तुमण्डलदेवतासहिताय वास्तुपुरुषाय नमः ताम्बूलं समर्पयामि॥)
दक्षिणाम्
ॐ हिॖरॖण्ण्यॖगॖर्ब्भः सम॑वर्त्तॖताग्ग्ग्रे॑ भू॒तस्य॑ जाॖतः पतिॖरेक॑ऽआसीत्।
स दा॑धार पृथिॖवीन्द्या मु॒ते माङ्कस्म्मै॑ देॖवाय॑ हॖविषा॑ व्विधेम॥ (यजु० १३।४)
ॐ ॺद्दॖत्तँ ॺ्ॺत्त्प॑राॖदानँ॒ ॺ्ॺत्त्पू॒र्त्तँ ॺ्ॺाश्चॖ दक्क्षि॑णाः।
तदॖग्न्निर्व्वै॑श्श्वकर्म्मॖणः स्व॑र्द्देॖवेषु॑ नो दधत्॥ (यजु० १८।६४)
(ॐ भूर्भुवः स्वः ब्रह्मादिवास्तुमण्डलदेवतासहिताय वास्तुपुरुषाय नमः यथाशक्ति हिरण्यगर्भदक्षिणां समर्पयामि॥)
नीराजनम् (कर्पूरारार्तिक्यम्)
एकस्मिन्पात्रे कर्पूरं प्रज्वाल्य गन्धपुष्पैरभ्यर्च्य देवं नीराजयेत्।
ॐ इॖदᳯ हॖविः प्प्रॖजन॑नम्मे ऽअस्तु॒ दश॑वीरॖ ᳯ॒ सर्व्व॑गणᳬ स्वॖस्त्तये॑।
आ॒त्क्मॖसनि॑ प्प्रजाॖसनि॑ पशु॒सनि॑ लोकॖसन्न्य॑भयॖसनि॑।
अ॒ग्ग्निः प्प्रॖजाम्ब॑हु॒लाम्मे॑ करोॖत्त्वन्नॖम्पयोॖ रेतो॑ऽअ॒स्म्मासु॑ धत्त॥ (यजु० १९।४८)
ॐ ॺे दे॑वासो दिॖव्व्येका॑दशॖ स्त्थ पृ॑थिॖव्व्यामद्ध्येका॑दशॖ स्त्थ।
अ॒प्प्सु॒क्क्षितो॑ महिॖनैका॑दशॖ स्त्थ ते दे॑वासो ॺॖज्ज्ञमिॖमञ्जु॑षद्ध्वम्॥ (यजु० ७।१९)
(ॐ भूर्भुवः स्वः ब्रह्मादिवास्तुमण्डलदेवतासहिताय वास्तुपुरुषाय नमः नीराजनं समर्पयामि॥)
जलेन प्रदक्षिणां कृत्वा पुष्पैर्देववन्दनं हस्तेनात्मवन्दनम्। हस्तं प्रक्षाल्य। ततो मन्त्रपुष्पाञ्जलिं कुर्यात्। हस्ते गन्धाक्षतपुष्पाणि गृहीत्वा॥
मन्त्रपुष्पाञ्जलिम्
ॐ ॺॖज्ज्ञेन॑ ॺॖज्ज्ञम॑यजन्त देॖवास्त्तानिॖ धर्म्मा॑॑णि प्प्रथॖमान्न्या॑सन्।
ते हॖ नाक॑म्महिॖमानः॑ सचन्तॖ ॺत्र्त्रॖ पूर्व्वे॑ साॖद्ध्याः सन्ति॑ देॖवाः॥ (यजु० ३१।१६)
ॐ वास्तोष्पते प्रतिजानिह्यस्मान्त्स्वावेशोऽ अनमीवो भवा नः।
ॺत्त्वेमहे प्रतितन्नो जुषस्व शन्नो भव द्विपदे शं चतुष्पदे॥
(ॐ भूर्भुवः स्वः ब्रह्मादिवास्तुमण्डलदेवतासहिताय वास्तुपुरुषाय नमः मन्त्रपुष्पाञ्जलिं समर्पयामि॥)
प्रदक्षिणाम्
ॐ ॺे तीॖर्त्थानि॑ प्प्रॖचर॑न्ति सृ॒काह॑स्ता निषॖङ्गिणैः॑।
तेषा॑ᳬ सहस्त्रयोजॖनेवॖ धन्न्वा॑नि तन्न्मसि॥ (यजु० १६।६१)
ॐ सॖप्प्तास्या॑सन्न्परिॖधयॖस्त्र्त्रिॖः सॖप्प्त सॖमिधः॑ कृ॒ताः।
देॖवा ॺद्यॖज्ज्ञन्त॑न्न्वाॖनाऽअब॑द्ध्नॖन्न्पुरु॑षम्पॖशुम्॥ (यजु० ३१।१५)
(ॐ भूर्भुवः स्वः ब्रह्मादिवास्तुमण्डलदेवतासहिताय वास्तुपुरुषाय नमः प्रदक्षिणां समर्पयामि॥)
विशेषार्घ्यम्
एकस्मिन् ताम्रादिपात्रे गन्धाक्षतफलपुष्पसहितं जलं गृहीत्वा तत्र यथाशक्ति हिरण्यञ्च प्रक्षिप्य तदर्घपात्रं स्वाञ्जलौ आदाय अर्घं दद्यात्।
वास्तुदेव नमस्तेऽस्तु भूशय्यानिरत प्रभो।
मद्गृहे धनधान्यादिसमृद्धिं कुरु सर्वदा॥
रूपं देहि जयं देहे भाग्यं भगवन्देहि मे।
पुत्रान्देहि धनं देहि सर्वान्कामाँश्च देहि मे॥
यथा मेरु-गिरेः शृङ्गे देवानामालयं सदा।
तथा ब्रह्मादिदेवानां मम यज्ञे सदा भवेत्॥
वरद त्वं वरं देहि वाञ्छितं वाञ्छितार्थद।
अनेन सफलार्घेण फलदोऽस्तु सदा मम॥
(ॐ भूर्भुवः स्वः ब्रह्मादिवास्तुमण्डलदेवतासहिताय वास्तुपुरुषाय नमः विशेषार्घं समर्पयामि॥)
ततः प्रार्थयेत्
स्वर्णों पवीतेन सुशोभमानं
सर्वार्थ सिद्धस्तु निनादमेकम्।
त्रिलोक संचिन्तित पादपद्ममं
तं वास्तु राजं सततं नमामि॥
(अथवा)
शशधर समवर्ण रत्नहार ज्वलाङ्गम्।
कनक मुकुट चूड़ं स्वर्ण यज्ञोपवीतम्॥
अभय वरद हस्तं सर्व लोकैकनाथम्।
तमिह भुवन रूपं वास्तुराजं नमामि॥
(अथवा)
जानामिनोऽर्चन विधि परमं क्षमध्वं।
लोकार्ति पुष्ज मतुलं क्षपयन्तु नित्यम्॥
शिख्यादिकाः सुविमलाः सुखमाकिरन्तु।
कुर्वन्तु दूरमनिशं दुरितान् समन्तात्॥
(अथवा)
ॐ नमो भगवते वास्तुपुरुषाय महाबलपराक्रमाय सर्वदेवाधिवासाश्रित्त शरीराय ब्रह्मपुत्राय सकल ब्रह्माण्डधारिणे भूभारार्पितमस्तकाय पुरपत्तन प्रासाद-गृहवापीसरः कूपादि सन्निवेश सान्निध्यकराय सर्वसिद्धिप्रदाय प्रसन्नवदनाय विश्वम्भराय परमपुरुषाय शक्रवरदाय वास्तोष्पते नमस्ते नमस्ते॥
ॐ देवेश वास्तुपुरुष सर्वविघ्नविदारण।
शान्ति कुरु सुखं देहि येज्ञेऽस्मिन्मम सर्वदा॥
(ॐ भूर्भुवः स्वः ब्रह्मादिवास्तुमण्डलदेवतासहिताय वास्तुपुरुषाय नमः पार्थनापूर्वकं नमस्कारान्समर्पयामि॥)
पूजानिवेदनम् (समर्पणम्)
हस्ते जलं गृहीत्वा। – अनेन यथाशक्ति ध्यानावाहनादि षोडशोपचारैरन्योपचारैश्च कृतेनानेन पूजनेन ॐ भूर्भुवः स्वः ब्रह्मादिवास्तुमण्डलदेवतासहितो वास्तुपुरुषः प्रीयतां न मम॥
ततो वास्तुमण्डलसमीपे एकस्मिन्पत्रावल्यां वास्तुमण्डलं निर्माय स्थापितक्रमेण ब्रह्मादिवास्तुमण्डलदेवताभ्यः पायसेन तदभावे दध्यक्षतैः कुश-पुष्पघृताक्षतैः दुग्धमिश्रिततण्डुलैर्वा मध्यचतुःकोष्टकादारभ्य बलिदानं दद्यात्॥
अथ स्थापनक्रमेण ब्रह्मादीनां पायसबलिदानम्
१) ॐ ब्रह्मणे नमः पायसबलिं समर्पयामि॥
२) ॐ अर्यम्णे नमः पायसबलिं समर्पयामि॥
३) ॐ विवस्वते नमः पायसबलिं समर्पयामि॥
४) ॐ मित्राय नमः पायसबलिं समर्पयामि॥
५) ॐ पृथ्वीधराय नमः पायसबलिं समर्पयामि॥
६) ॐ सावित्राय नमः पायसबलि समर्पयामि॥
७) ॐ सवित्रे नमः पायसबलिं समर्पयामि॥
८) ॐ विबुधाधिपाय नमः पायसबलिं समर्पयामि॥
९) ॐ जयाय नमः पायसबलिं समर्पयामि॥
१०) ॐ राजयक्ष्मणे नमः पायसबलिं समर्पयामि॥
११) ॐ रुद्राय नमः पायसबलिं समर्पयामि॥
१२) ॐ अद्भ्यो नमः पायसबलिं समर्पयामि॥
१३) ॐ आपवत्साय नमः पायसबलिं समर्पयामि॥
१४) ॐ शिखिने नमः पायसबलिं समर्पयामि॥
१५) ॐ पर्जन्याय नमः पायसबलिं समर्पयामि॥
१६) ॐ जयन्ताय नमः पायसबलिं समर्पयामि॥
१७) ॐ कुलिशाय नमः पायसबलि समर्पयामि॥
१८) ॐ सूर्याय नमः पायसबलिं समर्पयामि॥
१९) ॐ सत्याय नमः पायसबलिं समर्पयामि॥
२०) ॐ भृशाय नमः पायसबलिं समर्पयामि॥
२१) ॐ आकाशाय नमः पायसबलिं समर्पयामि॥
२२) ॐ वायवे नमः पायसबलिं समर्पयामि॥
२३) ॐ पूष्णे नमः पायसबलिं समर्पयामि॥
२४) ॐ वितथाय नमः पायसबलिं समर्पयामि॥
२५) ॐ गृहक्षताय नमः पायसबलिं समर्पयामि॥
२६) ॐ यमाय नमः पायसबलिं समर्पयामि॥
२७) ॐ गन्धर्वाय नमः पायसबलिं समर्पयामि॥
२८) ॐ भृङ्गराजाय नमः पायसबलिं समर्पयामि॥
२९) ॐ मृगाय नमः पायसबलिं समर्पयामि॥
३०) ॐ पितृभ्यो नमः पायसबलिं समर्पयामि॥
३१) ॐ दौवारिकाय नमः पायसबलिं समर्पयामि॥
३२) ॐ सुग्रीवाय नमः पायसबलिं समर्पयामि॥
३३) ॐ पुष्पदन्ताय नमः पायसबलिं समर्पयामि॥
३४) ॐ वरुणाय नमः पायसबलिं समर्पयामि॥
३५) ॐ असुराय नमः पायलबलिं समर्पयामि॥
३६) ॐ शोषाय नमः पायसबलिं समर्पयामि॥
३७) ॐ पापाय नमः पायसबलिं समर्पयामि॥
३८) ॐ रोगाय नमः पायसबलिं समर्पयामि॥
३९) ॐ अहये नमः पायसबलिं समर्पयामि॥
४०) ॐ मुख्याय नमः पायसबलिं समर्पयामि॥
४१) ॐ भल्लाटाय नमः पायसबलिं समर्पयामि॥
४२) ॐ सोमाय नमः पायसबलिं समर्पयामि॥
४३) ॐ सर्पाय नमः पायसबलिं समर्पयामि॥
४४) ॐ अदित्यै नमः पायसबलिं समर्पयामि॥
४५) ॐ दित्यै नमः पायसबलि समर्पयामि॥
४६) ॐ चरक्यै नमः पायसबलिं समर्पयामि॥
४७) ॐ विदार्यै नमः पायसबलिं समर्पयामि॥
४८) ॐ पूतनायै नमः पायसबलिं समर्पयामि॥
४९) ॐ पापराक्षस्यै नमः पायसबलिं समर्पयामि॥
५०) ॐ स्कन्दाय नमः पायसबलिं समर्पयामि॥
५१) ॐ अर्यम्णे नमः पायसबलिं समर्पयामि॥
५२) ॐ जृम्भकाय नमः पायसबलिं समर्पयामि॥
५३) ॐ पिलिपिच्छाय नमः पायसबलिं समर्पयामि॥
५४) ॐ इन्द्राय नमः पायसबलिं समर्पयामि॥
५५) ॐ अग्नये नमः पायसबलिं समर्पयामि॥
५६) ॐ यमाय नमः पायसबलिं समर्पयामि॥
५७) ॐ निर्ऋतये नमः पायसबलिं समर्पयामि॥
५८) ॐ वरुणाय नमः पायसबलिं समर्पयामि॥
५९) ॐ वायवे नमः पायसबलिं समर्पयामि॥
६०) ॐ कुबेराय नमः पायसबलिं समर्पयामि॥
६१) ॐ ईश्वराय नमः पायसबलिं समर्पयामि॥
६२) ॐ ब्रह्मणे नमः पायसबलिं समर्पयामि॥
६३) ॐ अनन्ताय नमः पायसबलिं समर्पयामि॥
हस्ते जलं गृहीत्वा अनेन बलिदानेन ब्रह्मादि वास्तुमण्डल देवता सहितः श्रीवास्तुपुरुषः प्रीयतां न मम॥
॥ इति ब्रह्मादिवास्तुमण्डलदेवता पूजनप्रयोगः॥
॥ शिख्यादिवास्तुमण्डलदेवतापूजनप्रयोगः॥
शिख्यादिक्रमेणा वाहनादिचिकीर्षुभिर्निम्न कोष्टककस्थ देवताक्रमेण आवाहनादि प्रकारो ज्ञेयः॥ आचम्य प्राणानायम्य देशकालौ संकीर्त्य शिख्यादि वास्तुमण्डल देवतानामावाहनं पूजनं व करिष्ये इति संकल्प्य॥
शंकुरोपणं बलिदानं च तथा रेखादेवतानाम आवाहनं पूजनं च विधाय॥ तत्रादौ वास्तुपीठस्यआग्नेयादिकोणक्रमेण शंकुरोपणम्।
आग्नेय्याम्
ॐ विशन्तु भूतले नागा लोकपालाश्च सर्वतः॥
मण्डलेऽत्रावतिष्ठन्तु ह्यार्युबलकराः सदा॥१॥
ततो नैऋत्याम्
ॐ विशन्तु भूतले नागा लोकपालाश्च सर्वतः॥ मण्डलेऽत्रावतिष्ठन्तु ह्यार्युबलकराः सदा॥२॥
ततो वायव्याम्
ॐ विशन्तु भूतले नागा लोकपालाश्च सर्वतः॥ मण्डलेऽत्रावतिष्ठन्तु ह्यार्युबलकराः सदा॥३॥
तत ऐशान्याम्
ॐ विशन्तु भूतले नागा लोकपालाश्च सर्वतः॥
मण्डलेऽत्रावतिष्ठन्तु ह्यार्युबलकराः सदा॥४॥
एवमाग्नेयादिषु चतुष्कोणेषु शंकुनारोप्याग्नेयादिक्रमेणैव माषभक्तं दध्योदनं वा बलिं दद्यात्।
आग्नेय्यां शंकुसमीपे बलिं निधाय हस्ते जळं गृहीत्वां।
ॐ अग्निभ्योऽप्यथ सर्पेभ्यो ये चान्ये तान्समाश्रिताः॥
बलिं तेभ्यः प्रयच्छामि पुण्यमोदनमुत्तमम्॥१॥ (इति जलमुत्सृजेत्)
एवं नैर्ऋत्यां शंकुसमीपे बलिं निधाय हस्ते जलं गृहीत्वा।
ॐ नैर्ऋत्याधिपतिचैव नैर्ऋत्यां ये च राक्षसाः॥
बलिं तेभ्यः प्रयच्छामि पुण्यमोदनमुत्तमम्॥२॥ (इति जलमुत्सृजेत्)
ततो वायव्यां शंकुसमीपे बलिं निधाय हस्ते जलं गृहीत्वा।
ॐ नमो वै वायुरक्षेभ्यो ये चान्ये तान्समाश्रिताः॥
बलिं तेभ्यः प्रयच्छामि पुण्यमोदनमुत्तमम्॥३॥ (इति जलमुत्सृजेत्)
तत ऐशान्यां शंकुसमीपे बलिं निधाय हस्ते जल जलमादाय।
ॐ रुद्रेभ्यश्चैव सर्पेभ्यो ये चान्ये तान्समाश्रिताः॥
बलिं तेभ्यः प्रयच्छामि पुण्यमोदनमुत्तमम्॥४॥ (इति जलमुत्सृजेत्)
(तत “आग्नेय्यादिक्रमेण शंकुदेवताभ्यो नमः” गन्धं पुष्पं धूपं दीपं नैवेद्यं समर्पयामि। सर्वोपचारार्थे नमस्कारान् समर्पयामि। अनेन शंकुरोपणपूर्वकं बलिदानेन चतस्र आग्नेय्यादिविदिग्देवताः प्रीयन्तां न मम॥)
अथ रेखाकरणं पूजनञ्च
वास्तुपीठे श्वेतं वस्त्रं प्रसार्य तदुपरि सुवर्णशलाकया कुशशलाकया वा पश्चिमत आरभ्य प्रागायता उदक्संस्था दक्षिणत आरभ्य उदगायता प्राक्संस्थाः समचतुरस्रा नव नव रेखा विदध्यात्। पूर्व पश्चिमत आरभ्य प्रागायता उदक्संस्था नवरेखाः कार्याः॥
ॐ शान्तायै नमः॥१॥
ॐ यशोवत्यै नमः ॥२॥
ॐ कान्तायै नमः॥३॥
ॐ विशालायै नमः॥४॥
ॐ प्राणवाहिन्यै नमः॥५॥
ॐ सत्यै नमः॥६॥
ॐ सुमनायै नमः॥७॥
ॐ नन्दायै नमः॥८॥
ॐ सुभद्रायै नमः॥९॥
ततो दक्षिणत आरभ्य उदगायताः पूर्वदिक्संस्था नव रेखाः कार्याः॥
ॐ हिरण्यायै नमः॥१॥
ॐ सुव्रतायै नमः॥२॥
ॐ लक्ष्म्यै नमः॥३॥
ॐ विभूत्यै नमः॥४॥
ॐ विमलाये नमः॥५॥
ॐ प्रियायै नमः॥६॥
ॐ जयायै नमः॥७॥
ॐ कालायै नमः॥८॥
ॐ विशोकायै नमः॥९॥
ततो प्रतिष्ठापनम्
हस्तेऽक्षतान्गृहीत्वा प्रतिष्ठापनं कुर्यात्
ॐ मनो॑ जू॒तिर्ज्जु॑षताॖमाज्ज्य॑स्यॖ बृहॖस्प्पति॑र्ॺ्ॺॖज्ज्ञमिॖमन्त॑नोॖत्त्वरि॑ष्ट्टँ ॺ्ॺॖज्ज्ञᳯ समिॖमन्द॑धातु॒।
व्विश्श्वे॑ देॖवास॑ऽइ॒ह मा॑दयन्ताॖमो३ म्प्रति॑ष्ट्ठ॥ (यजु० २।१३)
(रेखादेवताः सुप्रतिष्ठिता वरदा भवत। ॐ रेखादेवताभ्यो नमः गन्धं पुष्पं धूपं दीपं नैवेद्यं समर्पयामि। सर्वोपचारार्थे नमस्कारान् समर्पयामिः। अनेन रेखादेवतानां पञ्चोपचारैः कृतेन पूजनेन रेखादेवताः प्रीयन्तां न मम॥)
ततो निम्नक्रमेण शिख्यादिवास्तुमण्डलदेवतानां स्थापनं कुर्यात्॥
ॐ शिखिने नमः शिखिनम् आ० स्था०॥१॥
ॐ पर्जन्याय नमः पर्जन्यम् आ० स्था०॥२॥
ॐ जयन्ताय नमः जयन्तम् आ० स्था०॥३॥
ॐ कुलिशायुधाय नमः कुलिशायुधम् आ० स्था०॥४॥
ॐ सूर्याय नमः सूर्यम् आ० स्था०॥५॥
ॐ सत्याय नमः सत्यम् आ० स्था०॥६॥
ॐ भृशाय नमः भृशम् आ० स्था०॥७॥
ॐ आकाशाय नमः आकाशम् आ० स्था०॥८॥
ॐ वायवे नमः वायुम् आ० स्था०॥९॥
ॐ पूष्णे नमः पूषणम् आ० स्था०॥१०॥
ॐ वितथाय नमः वितथम् आ० स्था०॥११॥
ॐ गृहक्षताय नमः गृहक्षतम् आ० स्था०॥१२॥
ॐ यमाय नमः यमम् आवा० स्था०॥१३॥
ॐ गन्धर्वाय नमः गन्धर्वम् आ० स्था०॥१४॥
ॐ भृङ्गराजाय नमः भृङ्गराजम् आ० स्था०॥१५॥
ॐ मृगाय नमः मृगम् आ० स्था०॥१६॥
ॐ पितृभ्यो नमः पितॄन् आ० स्था०॥१७॥
ॐ दौवारिकाय नमः दौवारिकम् आ० स्था०॥१८॥
ॐ सुग्रीवाय नमः सुग्रीवम् आ० स्था०॥१९॥
ॐ पुष्पदन्ताय नमः पुष्पदन्तम् आ० स्था०॥२०॥
ॐ वरुणाय नमः वरुणम् आ० स्था०॥२१॥
ॐ असुराय नमः असुरम् आ० स्था०॥२२॥
ॐ शोषाय नमः शोषम् आ० स्था०॥२३॥
ॐ पापाय नमः पापम् आ० स्था०॥२४॥
ॐ रोगाय नमः रोगम् भा० स्था०॥२५॥
ॐ अहये नमः अहिम् आ० स्था०॥२६॥
ॐ मुख्याय नमः मुख्यम् आ० स्था०॥२७॥
ॐ भल्लाटाय नमः भल्लाटम् भा० स्था०॥२८॥
ॐ सोमाय नमः सोमम् आ० स्था०॥२९॥
ॐ सर्पाय नमः सर्पम् आ० स्था०॥३०॥
ॐ अदितये ममः अदितिम् आ० स्था०॥३१॥
ॐ दित्यै नमः दितिम् आ० स्था०॥३२॥
ॐ अद्भ्यो नमः अपः आ० स्था०॥३३॥
ॐ सावित्राय नमः सावित्रम् आ० स्था०॥३४॥
ॐ जयाय नमः जयम् आ० स्था०॥३५॥
ॐ रुद्राय नमः रुद्रम् आ० स्था०॥३६॥
ॐ अर्यम्णे नमः अर्यमणम् आ० स्था०॥३७॥
ॐ सवित्रे नमः सवितारम् आ० स्था०॥३८॥
ॐ विवस्वते नमः विवस्वन्तम् आ० स्था०॥३९॥
ॐ विबुधाधिपाय नमः विबुधाधिपम् भ० स्था०॥४०॥
ॐ मित्राय नमः बित्रम् आवा० स्था०॥४१॥
ॐ राजयक्ष्मणे नमः राजयक्ष्माणम् आ० स्था०॥४२॥
ॐ पृथ्वीधराय नमः पृथ्वीधरम् आ० स्था०॥४३॥
ॐ आपवत्साय नमः आपवत्सम् आ० स्था०॥४४॥
ॐ ब्रह्मणे नमः ब्रह्माणम् आ० स्था०॥४५॥
ॐ चरक्यै नमः चरकीम् आ० स्था०॥४६॥
ॐ विदार्यै नयः विदारीम् आ० स्था०॥४७॥
ॐ पूतनायै नमः पूतनाम् आ० स्था०॥४८॥
ॐ पापराक्षस्यै नमः पापराक्षसीम् आ० स्था०॥४९॥
ॐ स्कन्दाय नमः स्कन्दम् आ० स्था०॥५०॥
ॐ अर्यम्णे नमः अर्यमणम् आ० स्था०॥५१॥
ॐ जृम्भकाय नमः जृम्भकम् आ० स्था०॥५२॥
ॐ पिलिपिच्छाय नमः पिलिपिच्छम् आ० स्था०॥५३॥
ॐ इन्द्राय नमः इन्द्रम् आ० स्था०॥५४॥
ॐ अग्नये नमः अग्निम् आ० स्था०॥५५॥
ॐ यमाय नमः यमम् आ० स्था०॥५६॥
ॐ निर्ऋतये नमः निर्ऋतिम् आ० स्था०॥५७॥
ॐ वरुणाय नमः वरुणम् आ० स्था०॥५८॥
ॐ वायवे नमः वायुम् आ० स्था०॥५९॥
ॐ सोमाय नमः सोमम् आ० स्था०॥६०॥
ॐ ईशानाय नमः ईशानम् आ० स्था०॥६१॥
ॐ ब्रह्मणे ममः ब्रह्माणम् आ० स्था०॥६२॥
ॐ अनन्ताय नमः अनन्तम् आ० स्था०॥६३॥
शिख्यादिवास्तुमण्डलदेवता ध्यानम्
शिख्यादि कामे खलुवास्तु देवा
गृहूणन्तु पुष्पांजलि मन्त्रशीघ्रम्।
पीडाहरा भव्यकरा विशाला
भवन्तु भूपालन तत् पराश्व॥
ततो प्रतिष्ठापनम्
ॐ मनो॑ जू॒तिर्ज्जु॑षताॖमाज्ज्य॑स्यॖ बृहॖस्प्पति॑र्ॺ्ॺॖज्ज्ञमिॖमन्त॑नोॖत्त्वरि॑ष्ट्टँ ॺ्ॺॖज्ज्ञᳯ समिॖमन्द॑धातु॒।
व्विश्श्वे॑ देॖवास॑ऽइ॒ह मा॑दयन्ताॖमो३ म्प्रति॑ष्ट्ठ॥ॐ ॺे तीॖर्त्थानि॑ प्प्रॖचर॑न्ति सृ॒काह॑स्ता निषॖङ्गिणैः॑।
तेषा॑ᳬ सहस्त्रयोजॖनेवॖ धन्न्वा॑नि तन्न्मसि॥ (यजु० २।१३)
प्रतिष्ठाप्य तदनन्तरं “शिख्यादिवास्तुमण्डलदेवताभ्यो नमः” इति पंचोपचारैः संपूज्य वास्त्वादिमूर्तीनां पृष्ठस्थरीत्या प्राणप्रतिष्ठां कृत्वा प्रतिष्ठापनं च विधाय संप्रार्थ्य उपरोक्त पृष्ठक्रमेण “शिख्यादि वास्तुमण्डल देवतासहिताय वास्तुपुरुषाय नमः” इति समन्त्रं नाममन्त्रेण वा पूजनं विधाय संकल्प्य नामक्रमेणैव “शिखिने नमः पायसबलिं समर्पयामि” इति बंलि दत्वा।
अनेन बलिदानेन शिख्यादि वास्तुमण्डलदेवता सहितः बास्तुपुरुषः प्रीयतां नमम्॥ इति संकल्पयेत्॥
॥ इति शिख्यादिवास्तुमण्डलदेवतापूजनप्रयोगः ॥
॥ श्रीरस्तु ॥
༺❀༻
श्री हरि हरात्मक देवें सदा, मुद मंगलमय हर्ष।
सुखी रहे परिवार संग, अपना भारतवर्ष॥
༺༻❀༺༻
┉ संकलनकर्ता ┉
श्रद्धेय पंडित विश्वनाथ द्विवेदी
‘सनातनी ज्योतिर्विद’
संस्थापक, अध्यक्ष एवं प्रबंध निदेशक
(‘हरि हर हरात्मक’ ज्योतिष)
संपर्क सूत्र – 07089434899
༺༻❀꧁○꧂❀༺༻