श्र्यादिसप्तवसोर्द्धारादेवता सप्तघृतमातृकाणां वैदिक पूजन प्रयोगः

अथ् श्र्यादिसप्तवसोर्द्धारादेवता (सप्तघृतमातृकाणां) वैदिक पूजन प्रयोगः

सर्वैगौर्यादिमातृणां श्र्यादिघृतमातृकाणाञ्चावाहनं कृत्वा सौकर्यार्थमेकतंत्रेण पूजनं क्रियते।
परञ्च रुद्रकल्पद्रुम रुद्रयामलोक्त वचनम् तत्पुरतः सन्निधाने वा कुड्ये रेखा घृतेन वै।
धारालिङ्गेन मंत्रेण समरेखाः समालिखेत्॥१॥
एकीकृत्योर्ध्वभागे तु रोचनं कुंकुमादिना।
प्रतिष्ठा भिन्नतः कार्या पूजनं युगपद्भवेत्॥२॥
चन्दनं कुंकुमं प्रोक्तं दूर्वापुष्पे यथेच्छया।
गुडधूपो भवेद्दीपः सर्पिषा परिकीर्तितः॥३॥
नैवेद्य तु भवेद्वाभ्यां भवेदर्घ्यं गथेच्छया।
दशोपचारैः पूर्वोक्तैरर्घदानान्तिकैः प्रिये॥४॥
पूजा गौर्यादिमनुभिर्यथा-शास्त्रविधानतः।
संप्रार्थयेत्ततो देवान्मातृधारागणेश्वरान्॥५॥ इति॥

तथैव स्मृति रत्नावलिदान खण्ड मदनरत्न ढोढुमिश्र प्रयोग रत्न निबन्ध ग्रन्थ काराणामपि मातृपूजां समाप्यैव पञ्च सप्त वा वसोर्धाराः कार्याः इति वचनानि।
अतो मातृपूजां विधायैव घृतमातृकाणामावाहनं दशोपचारैश्च पूजनं कर्तव्यम्॥ तथैवोक्तम्॥
ये तु पूर्व वसोर्धाराः कृत्वा मातृः संस्थाप्य मातृणां वसोर्धाराणाञ्च युगपत्पूजनमाचरन्ति ते उक्त ग्रन्थ विरुद्धाचारकत्वा-दुपेक्ष्या एव॥ अस्माभिस्तु एकतंत्रेण पूजायां सप्तघृतमातृणां दशोपचारा एवं विघ्नीभूता इत्यनुप्रीयते गौर्यादिमातृणां घृतमातृकाणां च पूजायां भिन्नोपचारदर्शनात्॥ अन्यथैकतंत्रेण पूजने न कापि क्षतिः॥ धारालिङ्गको मन्त्रस्तु “ॐ व्वसोः॑ प॒वित्र्त्र॑मसि”ति ज्ञेयः॥

अत्र केचित्परशुरामकारिकायाः “श्रीश्च लक्ष्मीर्धृतिर्मेधा स्वाहा प्रज्ञा सरस्वती” इति वसोर्द्धारादेवता प्रामाण्येन पुष्टिश्रद्धयोः स्थाने स्वाहाप्रज्ञयोरावाहनादिकं कुर्वन्ति तद्यथाचारं कर्तव्यम्॥ केचित्सप्तस्थाने श्रीलक्ष्मीधृतिमेधासरस्वत्य इति पञ्च वसोर्द्धाराः कुर्वन्ति तत्रापि देशाचारतो व्यवस्था ज्ञया॥

आग्नेय्यां भितौ कुङ्कुमादिना बिन्दुकरणेनाऽलङ्करणं कृत्वाऽऽगामिमन्त्रं पठन्, घृतेन सप्तधारा प्रासंस्था उदक्संस्था वा कुर्यात्।

(अग्निकोण में पीढ़े पर कुङ्कुम (रोली) से क्रमशः ऊपर से नीचे तक एक, दो, तीन, चार, पाँच, छह और सात बिन्दुओं को अकित कर अर्थात् ऊपर एक बिन्दु, उसके नीचे दो बिंदु, पुनः उसके नीचे तीन बिन्दु इसी प्रकार क्रमशः सात बिन्दु तक निर्माण कर, उन बिन्दुओं के ऊपर भाग में ‘श्री’ लिखें)

श्र्यादिसप्तवसोर्द्धारादेव्यै (सप्तघृतमातृका)

20260101_012656-300x300 श्र्यादिसप्तवसोर्द्धारादेवता सप्तघृतमातृकाणां वैदिक पूजन प्रयोगः

अथ गौर्यादिमातॄणां समीपे सन्निहितकुड्यलग्ना दक्षिणाद्युत्तरापवर्गाः पश्चिमादिप्रागपवर्गाः नातिनीचा न चोच्छ्रिताः सगुडेन घृतेन घृतधाराकरणम् –

घृतधाराकरणम्

ॐ व्वसोः॑ प॒वित्र्त्र॑मसि श॒तधा॑रं॒ व्वसोः॑ प॒वित्र्त्र॑मसि स॒हस्र॑धारम्।
दे॒वस्त्त्वा॑ सवि॒ता पु॑नातु॒ व्वसोः॑ प॒वित्र्त्रे॑ण श॒तधा॑रिण सु॒प्पवाॗ काम॑धुक्क्षः॥

(इति मन्त्रेण सप्तवसोर्धाराः कर्तव्याः कार्याः। ततः ‘काम॑धुक्क्षः’ इत्येतावता मन्त्रेण पठित्वोदूर्ध्वभागे (धारामर्घभागेन) गुडेनैकीकरणम् तासामेकीकरणम्॥ ततः प्रतिधारामेकैक देवतामावाह्येत्॥)

गुडैनैकीकरणम् (तासामेकीकरणम्)

श्री पूर्व सप्त मातृश्च घृत मातृस्तथैव च।
गुडेन मेलयिष्यामि ताः सर्वार्थ प्रसाधिकाः॥

निर्मितासु सप्तधारासु दक्षिणत आरभ्योदक् संस्थं श्र्यादिसप्तवसोर्धाराणाम् आवाहनं कार्यम्–

श्र्यादिसप्तवसोर्द्धारादेवता ध्यान आवाहनम्

या रक्ताम्बुज वासिनी विलासिनी,
चण्डांशु तेजस्विनी।
या रक्ता रुधिराम्बरा हरिसखी,
या श्री मनोल्हादिनी॥
या रत्नाकर मन्थनात्प्रगटिता,
विष्णो स्वया गेहिनी।
सा मां पातु मनोरमा भगवती,
लक्ष्मीश्च पद्मावती॥

श्र्यादिसप्तवसोर्द्धारादेवता हिन्दी आवाहनम्

सातहुं विन्दु पे सातहुं माता
श्री लक्ष्मी धृति मेधा जी भी आओ।
पुष्टि श्रद्धाम् सरस्वती मातु
हमें भव सिंधु से पार लगाओ॥
हे वसुधारा सदा वसुधा
तल पे करुणामयि धार बहाओ।
पूजा में आय सनाथ करो माँ
भक्त के माथे हाथ लगाओ॥

श्रीः लक्ष्मी, धृति, मेधा, पुष्टि, श्रद्धा, सरस्वती।
मांगल्येषु प्रपूज्यन्ते सप्तैता घृतमातरः॥

(ॐ भुर्भुवः स्वः भगवत्यै श्र्यादिसप्तवसोर्धारादेव्यै नमः, ध्यायमि आवाह्यामि। भो श्र्यादिसप्तवसोर्धारा देवीम् इहागच्छ इह तिष्ठ,न॥)

अधुना वामहस्ते अक्षतान् गृहीत्वा, दक्षिणहस्तेन तत्तत्स्थाने श्र्यादिसप्तवसोर्धारादेव्यै नाममन्त्रेण-आवाहनं अथवा समन्त्रक-आवाहनम् कुर्यात्। ततो प्रतिष्ठापूर्वकम् षोडशोपचार विधिना सम्पूजयेत्….।

नाममन्त्रेण-आवाहनम्

(१) ॐ श्रियै नमः श्रियम् आवा० स्था० पूज०।
(२) ॐ लक्ष्मै नमः लक्ष्मीम् आवा० स्था० पूज०।
(३) ॐ धृत्यै नमः धृतिम् आवा० स्था० पूज०।
(४) ॐ मेधायै नमः मेधाम् आवा० स्था० पूज०।
(५) ॐ पुष्ट्यै नमः पुष्टिम् आवा० स्था० पूज०।
(६) ॐ श्रद्धायै नमः श्रद्धाम् आवा० स्था० पूज०।
(७) ॐ सरस्वत्यै नमः सरस्वतीम् आवा० स्था० पूज०।

समन्त्रक-आवाहनम्

(१) श्रीः

ॐ मन॑सः॒ काम॒माकु॑तिं व्वा॒चः स॒त्त्यम॑शीय।
प॒शू॒नाᳬरू॒पमन्न॑स्य॒ रसो॒ ॺशः॒ श्रीः श्र॑यताम्मयि॒ स्वाहा॑॥

(ॐ भूर्भुवः स्वः श्रियै नमः श्रियमावाह्यामि स्थापयामि।)

(२) लक्ष्मीम्

ॐ श्रीश्च॑ ते ल॒क्ष्मीश्च॒ पत्न्क्या॑वहोरा॒त्र्त्रे पा॒र्श्वे नक्ष॑त्राणि रू॒पम॒श्विनौ॒ व्व्यात्त॑म्।
इ॒ष्ष्णन्नि॑षाणा॒मुम्म॑ ऽइषाण सर्व्वलो॒कम्म॑ ऽषाण॥

(ॐ भूर्भुवः स्वः लक्ष्म्यै नमः लक्ष्मीमावाह्यामि स्थापयामि।)

(३) धृतिम् 

ॐ इ॒हरति॑रि॒हर॑मध्द्वमि॒ह धृति॑रि॒हस्वधृ॑तिः॒ स्वाहा॑।
उ॒प॒सृ॒जन्ध॒रुण॑म्मात्र्त्रे ध॒रुणो॑मा॒तर॒न्धय॑न्।
रा॒यस्प्पॊष॑म॒स्म्मासु॑ दीधर॒त्स्वाहा॑॥

(ॐ भूर्भुवः स्वः धृत्यै नमः धृतिमावाह्यामि स्थापयामि।)

(४) मेधाम्

ॐ मे॒धाम्मे॒ व्वरु॑णो ददातु मे॒धाम॒ग्निः प्प्र॒जाप॑तिः। मे॒धामि॒न्द्र॑श्श्च॑ व्वा॒युश्च॑ मे॒धान्धा॒ता द॑दातु मे॒ स्वाहा॑॥

(ॐ भूर्भुवः स्वः मेधायै नमः मेधामावाह्यामि स्थापयामि।)

(५) पुष्टिम्

ॐ दे॒वी जोष्ट्री॒ सर॑स्वत्त्य॒श्श्विनेन्द्र॑मवर्द्धयन्।
श्रोत्र्त्र॒न्नकर्ण्ण॑ यो॒र्ॺ्ॺशो॒ जोष्ट्री॑ब्भ्यान्दधुरिन्द्रि॒यं व्व॑सु॒वनॆ॑ व्वसु॒धेय॑स्य व्यन्तु॒ॺज॑॥

(ॐ भूर्भुवः स्वः पुष्ट्यै नमः पुष्टिमावाह्यामि स्थापयामि।)

(६) श्रद्धाम्

ॐ व्व्र॒तेन॑ दी॒क्क्षामा॑प्प्नोति॒‌ दी॒क्क्षया॑प्प्नोति॒‌ दक्क्षि॑णाम्।
दक्क्षि॑णाश्श्र॒द्धामा॑प्प्नोति॒‌ श्र॒द्धया॑स॒त्त्यमा॑प्प्यते॥

(ॐ भूर्भुवः स्वः श्रद्धायै नमः श्रद्धामावाह्यामि स्थापयामि।)

(७) सरस्वतीम्

ॐ दे॒वीस्ति॒स्त्रस्ति॒स्रोदे॒वीः पति॒मिन्द्र॑मवर्द्धयन्।
अस्पृ॑क्ष॒द्भार॑ती॒दिवः॑ रु॒द्रैर्ॺ्ॺ॒ज्ज्ञᳮ सर॑स्व॒तीडा॒ व्वसु॑मती गृहान्न् व॑सु॒वने॑ व्वसु॒धेय॑स्य व्व्यन्तु॒ॺज॑॥

ॐ पाव॒का नः॒ सर॑स्वती॒ व्वार्जेभिर्व्वाजिनीं वति।
य॒ज्ञं व्व॑ष्टु धि॒याव॑सुः॥

(ॐ भूर्भुवः स्वः सरस्वत्यै नमः सरस्वतीमावाह्यामि स्थापयामि।)

प्रतिष्ठापनम्

ॐ मनो॑ जू॒तिर्ज्जु॑षता॒माज्ज्य॑स्य॒ बृह॒स्प्पति॑र्ॺ॒ज्ञमि॒मन्त॑नो॒त्वरि॑ष्ट्टँ ॺ्ॺ॒ज्ञᳬ समि॒मन्द॑धातु॒।
व्विश्श्वे॑दे॒वास॑ ऽइ॒हमा॑दयन्ता॒मो॑३ प्रति॑ष्ट्ठ॥

ॐ अस्यै प्राणाः प्रतिष्ठन्तु अस्यै प्राणाः क्षरन्तु च।
अस्यै देवत्वमर्चायै मामहेति च कश्चन॥

(ॐ भूर्भुवः स्वः श्र्यादिसप्तवसोर्धारादेव्यै नमः सुप्रतिष्ठिता वरदाः भवन्तु।)

आसनम्

ॐ वर्ष्मो ऽस्मिसमानानामुद्यतामिव सूर्ॺः।
इमन्तमभितिष्ठामि ॺो मा कश्चाभिदासति॥

ॐ तां म आवह जातवेदो लक्ष्मीमनपगामिनीम्।
यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम्॥

ॐ पुरु॑षऽए॒वेद ᳯ सर्व्वं॒ॺ्ॺद्भू॒तंॺ्ॺच्च॑भाॖव्व्य॒म्।
उॖतामृ॑तॖत्त्वस्येशा॑नोॖॺदन्ने॑नातिॖरोह॑ति॥

ॐ रम्यं सुशोभनं दिव्यं सर्वसौख्यकरं शुभम्। 
आसनं च मया दत्तं गृहाण परमेश्वरी॥

(ॐ भूर्भुवः स्वः श्र्यादिसप्तवसोर्धारादेव्यै नमः आसनार्थे पुष्पं समर्पयामि।)

ततो श्री श्र्यादिसप्तवसोर्धारादेव्यै  नमः एतानि पाद्यार्घ्याचमनीय स्नानीय पुनराचमनीयानि जलं समर्पयामि ततो पञ्चामृतस्नानम्॥

पञ्चामृतस्नानम्

ॐ पञ्च॑ न॒द्यः सर॑स्वती॒मपि यन्ति॒ सस्त्रोतसः॑।
सर॑स्वती॒तु प॑ञ्च॒धा सो दे॒शेऽभ॑वत्स॒रित्॥

ॐ पञ्चामृतं मयाऽऽनीतं पयो दधि घृतं मधु।
शर्करा च समायुक्तं स्नानार्थं प्रतिगृह्यताम॥

(ॐ भूर्भुवः स्वः श्र्यादिसप्तवसोर्धारादेव्यै नमः पञ्चामृतस्नानं समर्पयामि।)

शुद्धोदकस्नानम्

ॐ शुॖद्धवा॑लः स॒र्व्वशु॑द्धवालो मणि॒वाल॒स्त ऽआ॑श्श्विनाः श्येतः॑ श्येता॒क्षो॒ऽरु॒णस्ते रु॒द्राय॑ पशुॖपत॑ये क॒र्ण्णा ॺा॒मा ऽअव॑लि॒प्पता रौ॒द्रा नभो॑रूपाः प्रार्ज्ज॒न्न्याः॥

ॐ गङ्गे च यमुने चैव गोदावरि सरस्वती।
नर्मदे सिन्धुकावेरी स्नानार्थं प्रतिगृह्यताम्॥

(ॐ भूर्भुवः स्वः श्र्यादिसप्तवसोर्धारादेव्यै नमः शुद्धोकस्नानं समर्पयामि। शुद्धोकदकस्नानान्ते आचमनीयं जलं समर्पयामि।)

वस्त्रम्

ॐ युवा सुवासाः परिवीत आगात् स उ श्रेयान् भवति जायमानः।
तं धीरासः कवय उन्नयन्ति स्वाध्यो३ मनसा देवयन्तः॥

ॐ सर्वभूषाधिके सौम्ये लोक लज्जानिवारिणे।
मयोप पादिते तुभ्यं वाससी प्रतिगृह्यताम॥

(ॐ भूर्भुवः स्वः श्र्यादिसप्तवसोर्धारादेव्यै नमः वस्त्रं समर्पयामि। वस्त्रान्ते आचमनीयं जलं समर्पयामि।)

उपवस्त्रम्

ॐ सुजा॑तो॒ ज्ज्योति॑षा स॒हशर्म्म॒ व्वरू॑थ॒मा स॑द॒त्त्स्वः॒।
व्वासो॑ऽ अग्ने व्वि॒श्श्वरूप॒ᳮ संव्व्य॑यस्व-व्विभावसो॥

ॐ यस्याभावेन शास्त्रोक्तं कर्म किञ्चिन्न सिध्यति।
उपवस्त्रं प्रयच्छामि सर्वकर्मोपकारकम्॥

(ॐ भूर्भुवः स्वः श्र्यादिसप्तवसोर्धारादेव्यै नमः उपवस्त्रं (उपवस्त्राभावे रक्तसूत्रं) समर्पयामि। उपवस्त्रान्ते आचमनीयं जलं समर्पयामि।)

गन्धम् (कुंकुमं)

ॐ त्वाङ्ग॑न्ध॒र्व्वा ऽअ॑खनँ॒स्त्वा मिन्द्र॒स्त्वाम्बृह॒स्प्पतिः॑।
त्वामो॑षधे॒ सोमो॒राजा॑व्विद्वान्न् यक्ष्मा॑दमुच्यत॥

ॐ गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीं।
ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम्॥

(ॐ भूर्भुवः स्वः श्र्यादिसप्तवसोर्धारादेव्यै नमः चन्दनार्थे कुंकुमं समर्पयामि।)

अक्षताः

ॐ अक्ष॒न्नमी॑मदन्त॒ह्यव॑प्प्रि॒याऽ-अ॑धूषत।
अस्तो॑षत॒ स्वभा॑नवो व्विप्प्रा॒नवि॑ष्ट्ठया म॒ती ॺोजान्न्विन्द्रतेहरी॑॥

ॐ अक्षताश्च सुरश्रेष्ठ कुङ्कुमाक्ताः सुशोभिताः।
मया निवेदिता भक्त्या गृहाण परमेश्वरी॥

(ॐ भूर्भुवः स्वः श्र्यादिसप्तवसोर्धारादेव्यै नमः अक्षतान् समर्पयामि।)

पुष्पाणि

ॐ ओष॑धीः॒ प्प्रति॑मोदद्ध्व॒म्पुष्प्प॑वतीः प्प्र॒सूव॑रीः।
अश्श्वा॑ऽइव स॒ज्जित्त्व॑रीर्व्वी॒रुधः॑ पारयि॒ष्ण्ण्वः॒॥

ॐ माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो।
मयाहृतानि (मयाऽऽनीतानि) पुष्पाणि पूजार्थं प्रतिगृह्यताम्॥

(ॐ भूर्भुवः स्वः श्र्यादिसप्तवसोर्धारादेव्यै नमः रक्तपुष्पाणि समर्पयामि।)

दूर्वाङ्कुराः

ॐ काण्डा॑त्त्काण्डात्त्प्र॒रोह॑न्ती॒ परु॑षः परुष॒स्प्परि॑।
ए॒वानो॑ दूर्व्वे॒ प्प्रत॑नु स॒हस्त्रे॑ण श॒तेन॑ च॥

ॐ दूर्वाङ्कुरान् सुहरितानमृतान् मङ्गलप्रदान्।
आनीतांस्तव पूजार्थं गृहाण गणनायक॥

(ॐ भूर्भुवः स्वः श्र्यादिसप्तवसोर्धारादेव्यै नमः दूर्वाङ्कुरान् समर्पयामि।)

सिन्दूरम्

ॐ सिन्धो॑रिव प्प्राद्ध्व॒ने शू॑घ॒नासो॒ व्वात॑ प्प्रमियः पतयन्न्ति ॺह्वाः।
घृ॒तस्य॒ धारा॑ ऽअरु॒षो न व्वा॒जी काष्ठ्ठा॑ भि॒न्दन्नू॒र्म्मिभिः॒ पिन्न्व॑मानः॥

ॐ सिन्दूरं शोभनं रक्तं सौभाग्यं सुखवर्धनम्।
शुभदं कामदं चैव सिन्दूरं प्रतिगृह्यताम॥

(ॐ भूर्भुवः स्वः श्र्यादिसप्तवसोर्धारादेव्यै नमः सिन्दूरं समर्पयामि।)

नानापरिमल-सौभाग्यद्रव्याणि

ॐ अहि॑रिव भो॒गैः पर्ॺ्ॺेति बा॒हुञ्ज्याया॑ हे॒तिम्प॑रि बाध॑मानः।
ह॒स्त॒ग्घ्नो व्विश्श्ववा॑ व्व॒युना॑नि व्वि॒द्धान्पुमा॒न्न पुमा॑ᳬ स॒म्परि॑ पातु व्वि॒श्वतः॑॥

ॐ अबीरं च गुलालञ्च चोवा चन्दनमेव च।
अबीरेणार्चितो देव ! अतः शान्ति प्रयच्छ मे॥

(ॐ भूर्भुवः स्वः श्र्यादिसप्तवसोर्धारादेव्यै नमः नानापरिमलद्रव्याणि समर्पयामि।)

सुगन्धि-द्रव्यम्

ॐ त्र्य॑म्बकँ ॺ्ॺजामहे सुग॒न्धिम्पु॑ष्ट्टि॒वर्द्ध॑नम्।
उ॒र्व्वा॒रु॒कमि॑व॒बन्ध॑नान्मृ॒त्त्योर्मु॑क्षीय॒ मामृता॑त्॥

ॐ चम्पकाशोकवकुल्मालतीमोगरादिभिः। 
वासितं स्निग्धाहेतु तैलं चारु प्रतिगृह्यताम्॥

दिव्यगन्धसमायुक्तं महापरिमलाद्भुतम्।
गन्धद्रव्यमिदं भक्त्या दत्तं वै प्रतिगृह्यताम्॥

(ॐ भूर्भुवः स्वः श्र्यादिसप्तवसोर्धारादेव्यै नमः सुगन्धिद्रव्यं समर्पयामि।)

आभूषणम्

ॐ स्व॒र्ण्ण घ॒र्म्मः स्वाहा॒ स्वॗर्णार्कः स्वाहा स्वॗर्ण्ण शु॒क्क्रः स्वाहा॒ स्वॗर्ण्ण ज्ज्योतिः॒ स्वाहा॒ स्वॗर्ण्ण सूर्ॺ्ॺः स्वाहा॑॥

मातस्तवेमं मुकुटं हरिन्मणि प्रवाल मुक्ता मणिभिर्विराजितम्।
गारूत्मतैश्चाऽपि मनोहरं कृतं गृहाण मातः शिरसो विभूषणम्॥

अलङ्कारान् महादिव्यान् नानारत्न-विनिर्मितान्।
गृहाण देवदेवेशि ! प्रसीद परमेश्वरि ॥

(ॐ भूर्भुवः स्वः श्र्यादिसप्तवसोर्धारादेव्यै नमः आभूषणम् समर्पयामि।)

धूपम्

ॐ धूर॑सि॒ धूर्व्व॒ धूर्व्वन्तं धूर्व्व तँ ॺ्ॺो॒ ऽस्म्मामान् धूर्व्वति॒ तन्धू॑र्व्व॒यं व्वंयं धूर्व्वा॑मः।
दे॒वाना॑मसि॒ व्वह्नि॑तम॒ ᳬ सस्न्नि॑तमम् पप्प्रि॑तमम् जुष्ट्ट॑तमम् देव॒हू‌त॑मम्॥

वनस्पतिरसोद्भूतो गन्धाढ्यो गन्ध उत्तमः।
आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम्॥

(ॐ भूर्भुवः स्वः श्र्यादिसप्तवसोर्धारादेव्यै नमः गुडधूपमाघ्रापयामि।)

दीपम्

चॖन्द्रमाॖमन॑सोजाॖतश्श्चक्षोॖः सूर्ॺ्ॺो॑ऽअजायत।
श्रोत्रा॑द्वायुश्श्च॑प्राॖणश्श्चॖमुखा॑दॖग्निर॑जायत॥

साज्यं च वर्तिसंयुक्तं वह्निना योजितं मया।
दीपं गृहाण देवेशि त्रैलौक्यतिमिरापहम्॥

भक्त्या दीपं प्रयच्छामि देवाय परमात्मने।
त्राहि मां निरयाद् घोराद् दीपज्योतिर्नमोऽस्तु ते॥

(ॐ भूर्भुवः स्वः श्र्यादिसप्तवसोर्धारादेव्यै नमः घृतदीपं दर्शयामि।)

(‘ॐ हृषीकेशाय नमः’ ‘ॐ गोविन्दाय नमः’ इति मन्त्रेण हस्तौप्रक्षालनः)

नैवेद्यम्

ॐ अन्न॑प॒तेन्न॑स्यनोदेह्ॺनमी॒वस्य॑ शुष्म्मिणः॑।
प्रप्प॑दातार॑न्तारिष॒ऽ ऊर्ज्ज॑न्नोधेहि द्वि॒पदे॒चतु॑ष्पदे॥

शर्कराखण्डखाद्यानि  दधिक्षीरघृतानि  च।
आहारं भक्ष्यभोज्यं च नैवेद्यं प्रतिगृह्यताम्॥

नैवेद्यं जलेन संप्रोक्ष्य धेन्वाऽमृतीकृत्य वामहस्तं पद्माकारं कृत्वा दक्षिणहस्तेन पञ्चप्राणाहुतीर्दद्यात् ग्रासमुद्राः मदर्शयेत्॥

ॐ प्राणाय स्वाहा॥ ॐ अपानाय स्वाहा॥ ॐ व्यानाय स्वाहा॥ ॐ उदानाय स्वाहा॥ ॐ समानाय स्वाहा॥ नैवेद्यान्ते आचमनीयं सम०॥ पूर्वापोशानं सम०॥ मध्ये पानीयं सम०॥ उत्तरापोशानं सम०॥ हस्तप्रक्षालनं सम०॥ मुखप्रक्षालनं सम०॥ आचमनीयं सम०॥

(ॐ भूर्भुवः स्वः श्र्यादिसप्तवसोर्धारादेव्यै नमः गुडसर्पिभ्यां नैवेद्यं निवेदयामि।)

करोद्वर्तनम्

ॐ अ॒ ᳬ शुना॑ ते अ॒ ᳬ शुः पृ॑च्च्यतां॒ परु॑षाः॒ परुः।
ग॒न्न्धस्ते॒ सोम॑मवतु॒ मदा॑य॒ रसो ऽअच्यु॑तः॥

चन्दनं मलयोद्भुतं कस्तूर्यादिसमन्वितम्।
करोद्वर्तनकं देवी गृहाण परमेश्वरी॥

(ॐ भूर्भुवः स्वः श्र्यादिसप्तवसोर्धारादेव्यै नमः करोद्वर्तनकं चन्दनं समर्पयामि।)

ऋतुफलानि-अखण्ड ऋतुफलम्

ॐ ॺाः फ॒लिनी॒र्ॺ्ॺाऽ अ॑फ॒लाऽ अ॑पु॒ष्पा ॺाश्च॑ पु॒ष्प्पिणीः॑।
बृह॒स्प्प्रति॑ प्प्रसूता॒स्तानो॑ मुञ्च॒न्त्वᳬ ह॑सः॥

इदं फलं मया देवी स्थापितं पुरतस्तव।
तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि॥

”गृहे वृद्धिशतानि भवन्तु“ उत्तरे कर्मण्यनिर्विविघ्नमस्तु।

(ॐ भूर्भुवः स्वः श्र्यादिसप्तवसोर्धारादेव्यै नमः ऋतुफलानि अखण्ड ऋतुफलानि समर्पयामि।)

श्रीफलान्ते आचमनीयं जलं समर्पयामि।

ताम्बूलम्

ॐ ॺत्पुरु॑षेणहॖविषा॑देॖवाॺॖज्ञमत॑न्न्वत।
व्वॖसॖन्तो॒ऽस्यासीॖदाज्ज्य॑ङ्ग्रीॖष्म ऽइ॒ध्मः शरद्धविः॥

पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम्।
एलादिचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम्॥

(ॐ भूर्भुवः स्वः श्र्यादिसप्तवसोर्धारादेव्यै नमः मुखवासार्थम् एलालवंगपूगीफलसहितं ताम्बूलं समर्पयामि।)

दक्षिणाम्

ॐ हि॒र॒ण्ण्य॒ग॒र्ब्भः सम॑वर्त्त॒ताग्ग्ग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ऽआसीत्।
स दा॑धार पृथि॒वीन्द्या मु॒ते माङ्कस्म्मै॑ दे॒वाय॑ ह॒विषा॑ व्विधेम॥

हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः।
अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे॥

(ॐ भूर्भुवः स्वः श्र्यादिसप्तवसोर्धारादेव्यै नमः कृतायाः पूजायाः सा द्गुण्यार्थे द्रव्यदक्षिणां समर्पयामि।)

नीराजनम्-कर्पूरारार्तिक्यम्

ॐ इद ᳬ ह॒विः प्प्र॒जन॑न॑ मे ऽअस्तु॒ दश॑वीर॒ ᳬ सर्व्वगण ᳬ स्व॒स्तये॑ ।
आ॒त्म॒सनि॑ प्प्रजा॒सनि॑ पशु॒सनि॑ लोक॒सन्न्य॑भय॒सनि॑ ।
अ॒ग्निः प्प्र॒जां बहुलां में करोत्वन्नं पयो रेतो॑ ऽअ॒स्म्मासु॑ धत्त॥

हरि॑÷ ॐ आ रा॑त्र्त्रि॒ पार्त्थि॑व॒ ᳬ रजः॑ पि॒तुर॑प्प्रायि॒ धाम॑भिः।
दि॒वः सदा॑ ᳬ ऽसि बृह॒ती व्विति॑ष्ठस॒ ऽआ त्त्वे॒षं व्व॑र्त्त॑ते तमः॑॥

कदलीगर्भसम्भूतं कर्पूरं तु प्रदीपितम्।
आरार्तिकमहं कुर्वे पश्य मे वरदो भव॥

(ॐ भूर्भुवः स्वः श्र्यादिसप्तवसोर्धारादेव्यै नमः अरार्तिक्यं समर्पयामि। पुष्पैर्देववन्दनम्। हस्तेन आत्मवन्दनम्। हस्तप्रक्षाल्यः। ततोपुष्पांञ्जलिम्)

पुष्पाञ्जलिम्

ॐ ॺॖज्ञेन॑ ॺॖज्ञम॑यजन्त देॖवास्तानिॖ धर्म्मा॑णि प्प्रथॖमान्न्या॑सन् ॥
तेहॖनाक॑म्महिॖमान॑÷ सचन्तॖॺत्र्त्रॖपूर्व्वे॑ साॖद्ध्याः सन्ति॑देॖवाः॥

ॐ सम॑क्ख्ये दे॒व्व्या धि॒या सन्दक्क्षि॑णयो॒ रुच॑क्क्षसा।
माम॒ऽ आयुः॒ प्रमो॑षी॒र्म्मो॑ऽ अ॒हन्तव॑ व्वीरंव्विदेय॒ तव॑देविस॒न्दृशि॑॥

नानासुगन्धिपुष्पाणि यथाकालोद्भवानि च।
पुष्पाञ्जलिर्मया दत्तो गृहाण परमेश्वरी॥

(ॐ भूर्भुवः स्वः श्र्यादिसप्तवसोर्धारादेव्यै नमः पुष्पाञ्जलिं समर्पयामि।)

प्रदक्षिणाम्

ॐ ॺे तीॖर्त्थानि॑ प्प्रॖचर॑न्ति सृ॒काह॑स्तानिषॖङ्गिणैः॑।
तेषा॑ ᳬ सहस्त्रयोजॖनेऽ वॖ धन्न्वा॑नि तन्न्मसि॥

यानि कानि च पापानि जन्मान्तरकृतानि च।
तानि सर्वाणि  नश्यन्तु  प्रदक्षिणपदे  पदे॥

(ॐ भूर्भुवः स्वः श्र्यादिसप्तवसोर्धारादेव्यै नमः प्रदक्षिणां समर्पयामि।)

विशेषार्घ्यम्

अर्घ्यपात्रे सजलगन्धाक्षतपुष्पाणि प्रक्षिप्य तदुपरि सहिरण्यं नालिकेरादिकं निधाय अर्घ्यं दद्यात्

प्रसन्ना मातरः सर्वाः पूजां गृह्णन्तु मामकीम्।
अनेन सफलार्घ्येण वरदाः सन्तु सर्वदा॥

(ॐ भूर्भुवः स्वः गणेशसहित श्र्यादिसप्तवसोर्धारादेव्यै नमः विशेषार्ध्यं समर्पयामि।)

पूजनोपरांत प्रार्थना

या श्री: स्वयं सुकृतिनां भवनेष्वलक्ष्मी:
पापात्मनां कृतधियां हृदयेषु बुद्धि:।
श्रद्धा सतां कुलजनप्रभवस्य लज्जा
तां त्वां नता: स्म परिपालय देवि विश्वम्॥

भवानि त्वं महालक्ष्मीः सर्वकामप्रदायिनि।
सुपूजिता प्रसन्नस्यान्महालक्ष्मि! नमोऽस्तु ते॥

या सा पद्मासनस्था विपुल कटि तटी
पद्म पत्रा यताक्षी,
गम्भीरावर्तनाभिः स्तन भर नमिता
शुभ्र वस्त्रोत्त रीया।
या लक्ष्मीर्दिव्य रूपैर्मणि गण खचितैः,
स्नापिता हेमकुम्भैः
सा नित्यं पद्महस्ता मम वसतु गृहे,
सर्वमांङ्गल्ययुक्ता ॥

यदङ्गत्वेन भो देव्यः पूजिता विधिमार्गतः।
कुर्वन्तु कार्यमखिलं निर्विघ्नेन क्रतूद्भवम्॥

(ॐ भुर्भुवः स्वः श्र्यादिसप्तवसोर्धारादेव्यै नमः प्रार्थनापूर्वकं नमस्कारान् समर्पयामि।)

समर्पणम्

अनया पूजया श्र्यादिसप्तवसोर्धारादेव्यै प्रीयन्ताम् न मम।

आयुष्यमन्त्र

ॐ आ॒यु॒ष्ष्यं॒ व्वर्च्च॒स्य॒ ᳬ रा॒यस्प्पोष॒ मौद्भि॑दम्।
इ॒द ᳬ हिर॑ण्यं॒ व्वर्च्च॑स्व॒ ज्जैत्र्त्रा॒या वि॑शता दु॒माम्॥
ॐ न तद्रक्षा॑ ᳬ सि॒ न पि॑शा॒चास्त॑रन्न्ति दे॒वाना॒ मो॑जः प्प्र॒थम॒ज ᳬ ह्ये॒तत्।
ॺो बि॒भर्त्ति॑ दाक्षाय॒ण ᳬ हिर॑ण्ण्य॒ ᳬ॒ स दे॒वेषु॑ कृणुते दी॒र्ग्घमायुः॒ स म॑नु॒ष्ष्ये॒षु कृणुते दी॒र्ग्घमायुः॒॥
ॐ ॺदाब॑ध्नन् दाक्षाय॒णा हिर॒ण्ण्य ᳬ श॒तानी॑ काय सुमन॒स्य मा॑नाः तन्न्म॒ ऽआब॑ध्नामि श॒त शा॑रदा॒या ॺु॑ष्मान् ज॒रद॑ष्ट्टिर्ॺ्ॺथा सम्॥

यदायुष्यं चिरं देवाः सप्त कल्पान्त जीविषु।
ददुस्तेनायुषा युक्ता जीवेम शरदः शतम्॥
दीर्घा नागा नगा नद्योऽन्ताः सप्तार्णवा दिशः।
अनन्तेनायुषा तेन जीवेम शरदः शतम्॥
सत्यानि पञ्च भूतानि विनाशरहितानि च।
अविनाश्यायुषा तद्वज्जीवेम शरदः शतम्॥
ॐ आयुष्यम् आयुष्यम् आयुष्यम्॥

(आयुष्यमन्त्र श्रवणान्ते ॐ भूर्भुवः स्वः श्र्यादिसप्तवसोर्धारादेव्यै नमः पुष्पार्पणं समर्पयामि।)

दक्षिणा संकल्प

ॐ विष्णुर्विष्णुर्विष्णुः श्रीमद्भगवतो महापुरुषस्य विष्णोराज्ञया प्रवर्तमानस्य अद्य श्रीब्रह्मणो द्वितीये परार्धे श्रीश्वेतवाराहकल्पे सप्तमे वैवस्वतमन्वन्तरे अष्टाविशतितमे युगे कलियुगे कलिप्रथमचणे भूर्लोके भारतवर्षे जम्बूद्विपे भरतखण्डे आर्यावर्तान्तर्गतब्रह्मावर्तस्य मध्यदेशे पुण्यप्रदेशे गंगायमुनयोः पश्चिमदिग्भागे क्षिप्रायाः दक्षिण ते नर्मदाया उत्तरेतीरे मालवक्षेत्रे ओंकारमहाकालयोः मध्ये इन्दौर महानगरे ….…. क्षेत्रे देवद्विजगवां चरण सन्निधावास्मिन् श्रीमन्नृपतिवीरविक्रमादित्य समयतो ….…. संख्या परिमिते प्रवर्त्तमानसंवत्सरे प्रभवादिषष्ठि संवत्सराणां मध्ये ….…. नाम संवत्सरे, श्री सूर्य ….…. यायने, ….…. ऋतौ, महामांङ्गल्यप्रदे मासानाम् उत्तमे ….…. मासे, ….…. पक्षे, ….…. तिथौ, ….…. वासरे, ….…. नक्षत्रे, ….…. योगे, ….…. करणे, ….…. राशिस्थिते चन्द्रे, ….…. राशिस्थितेश्रीसूर्ये, ….…. राशिस्थिते देवगुरौ शेषेशु ग्रहेषु यथायथा राशिस्थानस्थितेषु सत्सु एवं ग्रहगुणविशेषणविशिष्टायां शुभपुण्यतिथौ ….…. गोत्रोत्पन्नस्य ….…. शर्मणः (वर्मणः, गुप्तस्य वा) अहं कृतैतदायुष्यवाचनकर्मणः साङ्गतासिद्ध्यर्थं तत्सम्पूर्णफलप्राप्त्यर्थं च आयुष्यवाचकेभ्यो ब्राह्मणेभ्यो यथाशक्ति मनसोद्दिष्टां दक्षिणां विभज्य दातुमहमुत्सृजे।

॥ इति श्र्यादिसप्तवसोर्धारादेव्यै पूजनप्रकरणम् ॥

(ततो नान्दीश्राद्धम् कृत्वा)

॥ श्रीरस्तु ॥
༺❀༻

श्री हरि हरात्मक देवें सदा, मुद मंगलमय हर्ष।
सुखी रहे परिवार संग, अपना भारतवर्ष॥
༺༻❀༺༻

संकलनकर्ता
श्रद्धेय पंडित विश्‍वनाथ द्विवेदी
‘सनातनी ज्योतिर्विद’
संस्थापक, अध्यक्ष एवं प्रबंध निदेशक
(‘हरि हर हरात्मक’ ज्योतिष)
संपर्क सूत्र – 07089434899
༺༻❀꧁○꧂❀༺༻

Copyright © 2025 Hari Har Haratmak. All rights reserved.

"enter" 2026 | Powered By SpiceThemes