श्रीगणेशगौर्यादि षोडशमातृकाणां वैदिक पूजन प्रयोगः

श्रीगणेशगौर्यादिषोडशमातृकाणां वैदिकपूजन प्रयोगः

प्रधान कलश स्थापन पूजन एवं पुण्याहवाचन के पश्चात् पूजामंडप के आग्नेयकोण में निर्मित षोडशमातृकापीठ पर श्रीगणेश सहित गौर्यादिषोडशमातृकाओं का आवाहन-पूजन करना चाहिए। ध्यातव्य है कि गौरी-गणेश षोडशमातृकाओं में भी सम्मिलित हैं – पंडित विश्‍वनाथ द्विवेदी “सनातनी ज्योतिर्विद” (हरि हर हरात्मक ज्योतिष)

रक्तवस्त्रास्तृते पीठे गोधूमैर्निर्मितेषु गणेशार्थपुञ्जेन सह गौर्यादि षोडशमातृकाणांपुञ्जेषु वा पीठोपरि मातृकास्थापनं कुर्यात्त। तद्यथा

पञ्चोर्द्धाः पञ्च तिर्यग्वै रेखाः कृत्वा विचक्षणैः॥
वायुचतुष्कमध्यस्थं गणेशं तत्र पूजयेत्॥१॥
मध्यनैर्ऋत्यके कोणे गौरी पद्मा तु पावके॥
शची पश्चिमतो मेधा सावित्री विजया यमे॥२॥
जयोत्तरे देवसेना स्वधा चेशान एव च॥
स्वाहा चैव तथाऽग्नेय्यां मात्रैन्यां लोकमातरः॥३॥
मध्यवायौ धृतिश्चैव नैर्ऋत्ये पुष्टिरेव च॥
तुष्टिश्चैव तु वायव्ये मध्येशे कुलदेवता॥४॥
प्रादक्षिण्य क्रमात्स्थाप्या ईशान्यदिशतोऽथवा॥
वायुचतुष्कमध्ये तु गणेशं तत्र पूजयेत्॥५॥
एवं गौर्यादिमातृणां स्थानं तु समुदीरितम्॥
कर्तव्यं स्थापनं तासां सुधिभिस्तु यथारुचि॥६॥

अधुना वामहस्तेऽक्षतान्गृहीत्वा दक्षिणहस्तेन तत्तत्स्थाने श्री गणेशसहित गौर्यादिषोडशमातृभ्यो नाम अथवा समन्त्रक आवाहनं कुर्यात्। ततो प्रतिष्ठापूर्वकम् षोडशोपचार विधिना सम्पूजयेत् —

ध्यानं – आवाहनम्

ॐ जयति  वरद  मूर्तिर्मङ्गलं  मङ्गलानाम्।
जयति सकलवन्द्या  भारती ब्रह्मस्वरूपा॥
जयति  भुवनमाता  चिन्मयी  मोक्ष  रूपा।
तानुभय   महेशो    वाङ्मय   शब्द   रूपः॥

ॐ गौरीपद्माशचीमेधा, सावित्रीविजयाजया। 
देवसेना स्वधा स्वाहा, मातरो लोकमातरः॥
धृतिः पुष्टिस्तथा तुष्टिः आत्मनः कुलदेवता।
गणेशेनाधिका ह्येता वृद्धौ पूज्यास्तु षोडश॥

हिन्दी – आवाहनम्

गणनाथ के साथ उमा पदमा, शचि मेधा कृपा कर दीजे सहारा।
सावित्री विजयाजया देवसेनास्वधा करुणामयि माता की धारा॥
स्वाहा स्वथा लोकमाता धृति शुचि पुष्टि व तुष्टि हरौ महि भारा।
आत्मनः कुलदेवता है षोडश, पूर्ण करो शुभ काम हमारा॥

ॐ आयुरारोग्यमैश्वर्यं ददध्वं मातरो मम ।
निर्विघ्नं सर्वकार्येषु कुरुध्वं स गणाधिपाः॥

(ॐ भुर्भुवः स्वः भगवतः श्री गणेशसहित गौर्यादिषोडशमातृभ्यो नमः, ध्यायमि आवाह्यामि स्थापयामि। श्री गणेशसहित गौर्यादिषोडशमातरः इहागच्छ इह तिष्ठ,)

अधुना वामहस्ते अक्षतान् गृहीत्वा दक्षिणहस्तेन तत्तत्स्थाने श्री गणेशसहित गौर्यादिषोडशमातृभ्यो “नाम-आवाहनं” अथवा “समन्त्रक-आवाहनम्” कुर्यात्। ततो प्रतिष्ठापूर्वकम् षोडशोपचार विधिना सम्पूजयेत् —

(१) ॐ गणपतयै नमः गणपतिम् आवा० स्था० पूज०।
(२) ॐ गौर्यै नमः गौरीम् आवा० स्था० पूज०।
(३) ॐ पद्मायै नमः पद्माम् आवा० स्था० पूज०।
(४) ॐ शच्यै नमः शचीम् आवा० स्था० पूज०।
(५) ॐ मेधायै नमः मेधाम् आवा० स्था० पूज०।
(६) ॐ सावित्र्यै नमः सावित्रीम् आवा० स्था० पूज०।
(७) ॐ विजयायै नमः विजयाम् आवा० स्था० पूज०।
(८) ॐ जयायै नमः जयाम् आवा० स्था० पूज०।
(९) ॐ देवसेनायै नमः देवसेनाम् आवा० स्था० पूज०।
(१०) ॐ स्वधायै नमः स्वधाम् आवा० स्था० पूज०।
(११) ॐ स्वाहायै नमः स्वाहाम् आवा० स्था० पूज०।
(१२) ॐ मातृभ्यो नमः मातृमावाम् आवा० स्था० पूज०।
(१३) ॐ लोकमातृभ्यो नमः लोकमातृम् आवा० स्था० पूज०।
(१४) ॐ धृत्यै नमः धृतिम् आवा० स्था० पूज०।
(१५) ॐ पुष्टयै नमः पुष्टिम् आवा० स्था० पूज०।
(१६) ॐ तुष्ट्यै नमः तुष्टिम् आवा० स्था० पूज०।
(१७) ॐ आत्मनः कुल देवतायै नमः आत्मकुल- देवतानाम् आवा० स्था० पूज०।

अथ् समन्त्रक-आवाहनम्

(१) श्रीगणेश गौरी

समीपे मातृवर्गस्य सर्वविघ्नहरं सदा।
त्रैलोक्यवन्दितं देवं गणेशं स्थापयाम्यहम्॥

ॐ गॖणाना॑न्त्वा गॖणप॑ति ᳬ हवामहे प्प्रिॖयाणा॑न्त्वा प्प्रिॖयप॑ति ᳬ हवामहे निधीॖनान्त्वा॑ निधिॖपति॑ ᳬ हवामहे व्वसोमम। आहम॑जानिगर्ब्भॖधमात्त्वम॑जासि गर्ब्भॖधम्॥

ॐ आगच्छ भगवन्देव स्वस्थानात् परमेश्वर।
अहं त्वां पूजयिष्यामि सदा त्वं सम्मुखो भव॥

(ॐ भूर्भुवः स्वः गणपतये नमः गणपतिमावाह्यामि स्थापयामि।)

ॐ आयङ्गौः पृश्न्नि॑रक्रमी॒द स॑दन्नमा॒तरे॑म्पु॒रः। पि॒तरञ्च॑ प्प्र॒यन्त्स्वः॑॥

ॐ हेमाद्रितनयां देवीं वरदां भैरवप्रियाम्।
लम्बोदरस्य जननीं गौरीमावाहयाम्यहम्॥

(ॐ भूर्भुवः स्वः गौर्ये नमः गौरीमावाह्यामि स्थापयामि।)

(२) पद्मा

ॐ हिर॑ण्ण्यरूपा ऽउ॒षसो॑ व्विरो॒क ऽउ॒भावि॑न्द्रा ऽउदि॑थः॒ सूर्ॺ्ॺश्च।
आरो॑हतं व्वरुण मित्र्त्र॒ गर्त्त॒न् तत॑श्श्चक्षाथा॒ मदि॑ति॒न् दिति॑ञ्च मि॒त्र्त्रो॒ऽसि॒ व्वरु॑णोऽसि॥

ॐ आवाहयाम्यहं पद्मां पद्मास्थां पद्ममालिकाम्।
पद्मावासां जगद्वन्द्यां पद्मनाभोरुसंस्थिताम्॥

(ॐ भूर्भुवः स्वः पद्मायै नमः पद्मामावाह्यामि, स्थापयामि।)

(३) शची

ॐ क॒दाच॒न स्त॒रीर॑सि॒नेन्द्र सश्चसिदा॒शुषे॑। उपो॒पेन्नुम॑घव॒न्न्भूय॒ ऽइन्नुते॒ दान॑न्दे॒वस्य॑ पृच्चयतऽ आदि॒त्येब्भ्य॑स्त्वा॥

ॐ नि॒वेश॑नः स॒ङ्गम॑नो॒ व्वसू॑नां॒ व्विश्श्वा॑ रू॒पा भि॑चष्ट्टे शची॑भिः दे॒व ऽइ॑व सवि॒ता स॒त्त्यध॒र्म्मेन्द्रो॒ न त॑स्त्थौ सम॒रे प॑थी॒नाम्॥

ॐ दिव्यरुपां दिव्यवस्त्रां दिव्यालङ्कारसंयुताम्।
शतक्रतो महोरस्स्थां शचीमावाहयाम्यहम्॥

(ॐ भूर्भुवः स्वः शच्यै नमः शचीमावाह्यामि, स्थापयामि।)

(४) मेधा

ॐ मे॒धाम्मे॒ व्वरु॑णो ददातु मे॒धाम॒ग्निः प्प्र॒जाप॑तिः।
मे॒धामिन्द्र॑श्च व्वा॒युश्च॑ मे॒धान्धा॒ता द॑दातु मे॒ स्वाहा॑॥

ॐ आवाहयाम्यहं मेधां मेधाशक्तिप्रवर्धिनीम्।
वरप्रदां सौम्यरुपां जरां निर्जरसेविताम्॥

(ॐ भूर्भुवः स्वः मेधायै नमः मेधामावाह्यामि, स्थापयामि।)

(५) सावित्री

ॐ उ॒प॒या॒म गृ॑हीतो सिसा वि॒त्रो॒ सिचनो॒ धाश्च॑नी॒धाऽ  अ॑सि॒चनो॒ मर्यिधेहि।
जिन्न्व॑ॺ॒ज्ज्ञञ्जिन्न्व॑ ॺ॒ज्ज्ञप॑ति॒म्भगा॑य दे॒वाय॑त्त्वा सवि॒त्र्त्रे॥

ॐ स॒वि॒ता त्त्वा॑ स॒वाना॑ ᳬ सु॒वताम॒ग्निर्ग्गृ॒ह प॑तीना॒ ᳬ सोमो॒ व्वन॒स्प्पती॑नाम्।
बृह॒स्प्पति॑र्व्वा॒च ऽइन्द्रो॒ ज्ज्यैष्ठठ्या॑य रु॒द्रः प॒शुब्भ्यो॑ मि॒त्र्त्रः स॒त्त्यो व्वरु॑णो॒ धर्म्म॑पतीनाम्॥

ॐ आवाहयाम्यहं जगत्सृष्टिकरीं धात्रीं देवीं प्रणवमातृकाम्।
वेदगर्भां यज्ञमयीं सावित्रीं लोकमातरम्॥

(ॐ भूर्भुवः स्वः सावित्रयै नमः सावित्रीमावाह्यामि, स्थापयामि।)

(६) विजया

ॐ व्विज्ज्य॒न्धनुः कप॒र्द्दिनो॒ व्विश॑ल्यो॒ बाण॑वाँ२ उ॒त।
अने॑शन्नस्य॒ ॺा ऽइष॑व ऽआ॒भुर॑स्य निषड्ग॒धिः॥

ॐ आवाहयाम्यहं देवीं विजयां सर्वदेवस्तुताम्।
सर्वास्त्रधारिणीं वन्द्यां सर्वाभरणभूषिताम्॥

(ॐ भूर्भुवः स्वः विजयायै नमः विजयामावाह्यामि, स्थापयामि।)

(७) जया

ॐ ॺा ते॑ रुद्र शि॒वा त॒नूरघो॒राऽ पा॑पकाशिनी।
तया न॒स्त॒न्न्वाॗ शन्त॑मया॒ गिरि॑शन्ता॒भिचा॑कशीहि॥

ॐ ब॒ह्वी॒नां पि॒ता ब॒हुर॑स्य पु॒त्र्त्रश्श्चि॒श्श्चा कृ॑णोति॒ सम॑नाव॒गत्ये॑।
इ॒षु॑धिः॒ सङ्काः॒  पृत॑नाश्श्च॒ सर्व्वाः॑ पृ॒ष्ठ्ठे निन॑द्धो जयति॒ प्प्रसू॑तः॥

ॐ आवाहयाम्यहं देवीं जयां त्रैलोक्यपूजिताम्।
सुरारिमथिनीं वन्द्यां देवानामभयं प्रदाम्॥

(ॐ भूर्भुवः स्वः जयायै नमः जयामावाह्यामि, स्थापयामि।)

(८) देवसेना

ॐ दे॒वाना॑म्भ॒द्रा सु॑म॒तिर्ऋ॑जूय॒तान् देवाना॑ ᳬ रा॒तिर॒भि नो॒ निव॑र्त्तताम्। दे॒वाना॑ ᳬ स॒क्ख्यमुप॑सेदिमा व्व॒यन्दे॒वा न॒ ऽआयुः॒ प्प्रति॑रन्तु जी॒वसे॑॥

ॐ इन्द्र॑ ऽआसान्ने॒ता बृह॒स्पति॒र्द्दक्षि॑णा ॺ॒ज्ञः पु॒रऽए॑तु॒ सोम॑÷।
दे॒व॒से॒नाना॑म॒भिभञ्जती॒ नाञ्जय॑न्तीना॑म्म॒रुतो॑ ॺ॒न्त्वग्ग्र॑म्॥

ॐ आवाहयाम्यहं देवीं देवसेनां महाबलाम्। तारकासुरसंहारकारिणीं बर्हिवाहनाम्॥

(ॐ भूर्भुवः स्वः देवसेनायै नमः देवसेनामावाह्यामि, स्थापयामि।)

(९) स्वधा

ॐ पि॒तृब्भ्यः॑ स्वधा॒यिब्भ्यः॑ स्व॒धा नमः॑ पिताम॒हेब्भ्यः॑ स्वधा॒यिब्भ्यः॑ स्व॒धा नमः॒ प्प्रपि॑ता महेब्भ्यः स्वधा॒यिब्भ्यः॑ स्व॒धा नमः॑।
अक्ष॑न्न्पि॒तरो ऽमी॑मदन्त पि॒तरोऽती॑तृपन्त पि॒त॑र॒:पित॑र॒: शुन्ध॑द्धवम्॥

ॐ आवाहयाम्यहं देवीं पितृणां तोषदायिनीम्।
स्वधां देवाग्रजां देवैः कव्यार्थं या प्रतिष्ठिता॥

(ॐ भूर्भुवः स्वः स्वधायै नमः स्वधामावाह्यामि, स्थापयामि।)

(१०) स्वाहा

ॐ स्वाहा॑ ॺ॒ज्ञ्ज्ञम्मन॑सः॒ स्वाहो॒रो र॒न्तरि॑क्क्षा॒ स्स्वाहा॒द् द्यावा॑पृथि॒वीब्भ्या॒ ᳬ स्वाहा॒ व्वातादार॑भे॒ स्वाहा॑॥

ॐ स्वाहा॑ प्प्रा॒णेब्भ्यः॒ साधि॑पतिकेब्भ्यः।
पृथि॒व्व्यै स्वाहा॒ग्नये॒ स्वाहा॒न्न्तरि॑क्षाय॒ स्वाहा॑ व्वा॒यवे॒ स्वाहा॑। दि॒वे स्वाहा॒॑ सू॒र्ॺ्ॺा॑य॒ स्वाहा॑॥

ॐ आवाहयाम्यहं स्वाहां वरदां दिव्यरुपिणीम्।
हविर्गृहीत्वा सततं देवेभ्यो या प्रयच्छति॥

(ॐ भूर्भुवः स्वः स्वाहायै नमः स्वाहामावाह्यामि, स्थापयामि।)

(११) मातृः

ॐ आपो॑ ऽअ॒स्म्मान्न्मा॒तरः॑ शुन्धयन्तु॒ घृ॒तेन॑ नो घृत॒प्प्वः॒ पुनन्तु।
व्विश्श्व॒ᳮ॒ हि रि॒प्प्रं प्र॒वह॑न्ति दे॒वी रु॒दिदा॑ब्भ्यः॒ शुचि॒रा पू॒तऽऐ॑मि।
दी॒क्षा॒त॒पसो॑स्त॒नू र॑सि॒ तां त्वा॑ शि॒वाᳬ श॒ग्ग्मां परि॑दधे भ॒द्रं व्वर्णं॒ पुष्ष्य॑न्॥

ॐ आवाहयाम्यहं मातृः पूजिता या सुरासुरैः।
सर्वकल्याणरुपिण्यः सर्वाभरणभूषिताः॥

(ॐ भूर्भुवः स्वः मातृभ्यो नमः मातृमावामावाह्यामि, स्थापयामि।)

(१२) लोकमातृः

ॐ र॒यिश्श्च॑ मे॒ राय॑श्श्च॒ मे पुष्टृञ्च॑ मे॒ पुष्टि॑श्श्च॒ मे व्वि॒भु च॑ मे प्प्र॒भु च॑ मे पू॒र्ण्णञ्च॑ मे पूर्ण्णत॑रञ्च् मे॒ कुय॑वञ्च॒ मेऽक्षि॑तञ्च॒ मेऽन्न॑ञ्च॒ मेऽक्षु॑च्च मे ॺ॒ज्ञेन॑ कल्प्पन्न्ताम्॥

ॐ सर्वाभीष्टप्रदाः वन्द्याः सर्वलोकहितावहाः।
जयन्तीप्रमुखाः लोकमातृरावाहयाम्यम्॥

(ॐ भूर्भुवः स्वः लोकमातृभ्यो नमः लोकमातृमावामावाह्यामि, स्थापयामि।)

(१३) धृति

ॐ धृष्ट्टि॑र॒स्य पा॑ग्ग्नेऽ अ॒ग्ग्निमा॒ माद॑ञ्जहि॒ निष्क्र॒व्व्याद॑ ᳬ से॒ धादे॑व॒यजे॑व्वह।
ध्रु॒वम॑सि पृथि॒वीन्दृ॑ ᳬ हब्ब्रह्म॒ वनि॑त्त्वा क्षत्र॒वनि॑ सजात॒ वन्न्युप॑दधा मि॒ब्भ्रातृ॑ व्व्यस्य व्व॒धाय॑॥

ॐ ॺत्प्रॖज्ञान॑मु॒त चेतोॖ धृति॑श्श्च॒ ॺज्ज्योति॑ र॒न्तर॒मृत॑म्प्प्र॒जासु॑ ।
य॒स्माॖन्न ऽॠॖते किञ्चॖन कर्म्म॑ क्रि॒यते॒ तन्न्मे॒ मनः॑ शि॒वस॑ङ्क॑ल्प्पमस्तु॥

ॐ आवाहयाम्यहं देवीं धृतिं भक्ताऽनामभयप्रदाम्।
हर्षोत्फुल्लास्यकमलां सर्वसन्तोषदायिनीम्॥

(ॐ भूर्भुवः स्वः धृत्यै नमः धृतिमावाह्यामि, स्थापयामि।)

(१४) पुष्टिं

ॐ त्वष्ट्टा॑ तु॒रीपो॒ऽ अ‌द्भु॑त ऽइन्द्रा॒ग्नी पु॑ष्ट्टि॒वर्द्ध॑ना।
द्विप॑दा॒च्छन्द॑ऽ इन्द्रि॒यमु॒क्षा गौर्न्नव्वयो॑ दधुः॑॥ 

ॐ अङ्गा॑त्र्या॒त्क्मत्र्भि॒षजा॒ तद॒श्श्विनात्क्मानमङ्गैः सम॑धा॒त्सर॑स्वती।
इन्द्र॑स्य रू॒पः श॒तमा॑न॒मायु॑श्श्च॒न्द्रेण॒ ज्ज्योति॑र॒मृत॒न्दधा॑नाः॥

ॐ आवाहयाम्यहं पुष्टिं पोषयन्तीं जगत्त्रयम्।
स्वदेहजैः फलैः शाकैः जलैः रत्नैर्मनोरमैः॥

(ॐ भूर्भुवः स्वः पुष्ट्यै नमः पुष्टिमावाह्यामि, स्थापयामि।)

(१५) तुष्टिं

ॐ बृह॑स्प्पते॒ऽ अति॒यद॒र्ॺ्ॺो॑ऽ अर्हा॑द्-द्यु॒मद्दू॒भाति॒ क्क्रतु॑ म॒ज्जने॑षु।
ॺद्दी॒दय॒च्छव॑सऽ ऋतप्प्रजात॒ तद॒स्म्मासु॒ द्रवि॑णन्धेहिचि॒त्रम्॥

ॐ जा॒तवे॑दसे सुनवाम॒सोम॑मरातीय॒तो निद॑हाति॒वेदः॑
सनः॑ पर्ष॒दति दु॒र्गाणि॒ विश्श्वा॑ ना॒वेवसिन्धुं॑ दुरि॒तात्य॒ग्निः॥

ॐ आवाहयाम्यहं तुष्टिं वन्दितामसुरारिभिः।
सदा सन्तोषदां शान्तां प्रसन्नास्यां महाबलाम्॥

(ॐ भूर्भुवः स्वः तुष्ट्यै नमः तुष्टिमावाह्यामि, स्थापयामि।)

(१६) आत्मकुलदेवताः

ॐ अम्बे॒ऽअम्बि॒केम्बा॑ळिके॒ नमा॑नयति॒ कश्च॒न।
सस॑स्त्यश्श्व॒कः सुभ॑द्रिका काम्पीळवा॒सिनी॑म्॥

ॐ प्रा॒णाय॒ स्वाहा॑ऽपा॒नाय॒ स्वाहा॑ व्व्या॒नाय॒ स्वाहा॑।
चक्षु॑षे स्वाहा॒ श्रोत्र्त्रा॑य॒ स्वाहा॑ व्वा॒चे स्वाहा॒ मन॑से॒ स्वाहा॑॥

ॐ देशे ग्रामे गृहे बाह्ये विपिने पर्वते रणे।
आवाहयामि तां दुर्गां या पाति यातनार्णवात्॥

(ॐ भूर्भुवः स्वः आत्मकुलदेवतायै नमः आत्मकुलदेवतानामावाह्यामि, स्थापयामि।)

प्रतिष्ठापनम्

ॐ मनो॑ जू॒तिर्ज्जु॑षता॒माज्ज्य॑स्य॒ बृह॒स्प्पति॑र्ॺ॒ज्ञमि॒मन्त॑नो॒त्वरि॑ष्ट्टँ ॺ्ॺ॒ज्ञᳬ समि॒मन्द॑धातु॒।
व्विश्श्वे॑दे॒वास॑ ऽइ॒हमा॑दयन्ता॒मो॑३ प्रति॑ष्ट्ठ॥

ॐ अस्यै प्राणाः प्रतिष्ठन्तु अस्यै प्राणाः क्षरन्तु च।
अस्यै देवत्वमर्चायै मामहेति च कश्चन॥

(ॐ भूर्भुवः स्वः श्रीगौर्यादिषोडशमातरः गणपतिसहिताः सुप्रतिष्ठिता वरदाः भवन्तु।)

आसनम्

ॐ वर्ष्मो ऽस्मिसमानानामुद्यतामिव सूर्ॺः।
इमन्तमभितिष्ठामि ॺो मा कश्चाभिदासति॥

ॐ तां म आवह जातवेदो लक्ष्मीमनपगामिनीम्।
यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम्॥

ॐ पुरु॑षऽए॒वेद ᳯ सर्व्वं॒ॺ्ॺद्भू॒तंॺ्ॺच्च॑भाॖव्व्य॒म्।
उॖतामृ॑तॖत्त्वस्येशा॑नोॖॺदन्ने॑नातिॖरोह॑ति॥

ॐ रम्यं सुशोभनं दिव्यं सर्वसौख्यकरं शुभम्। 
आसनं च मया दत्तं गृहाण परमेश्वरी॥

ॐ सगणेशगौर्यादिषोडशमातृभ्यो नमः एतानि पाद्यार्घ्याचमनीय स्नानीय पुनराचमनीयानि जलं समर्पयामि॥ ततो पञ्चामृतस्नानम्–

पञ्चामृतस्नानम्

ॐ पञ्च॑ न॒द्यः सर॑स्वती॒मपि यन्ति॒ सस्त्रोतसः॑।
सर॑स्वती॒तु प॑ञ्च॒धा सो दे॒शेऽभ॑वत्स॒रित्॥

ॐ पञ्चामृतं मयाऽऽनीतं पयो दधि घृतं मधु।
शर्करा च समायुक्तं स्नानार्थं प्रतिगृह्यताम॥

(ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः पञ्चामृतस्नानं समर्पयामि। ततो शुद्धोदकस्नानम्)

शुद्धोदकस्नानम्

ॐ शुॖद्धवा॑लः स॒र्व्वशु॑द्धवालो मणि॒वाल॒स्त ऽआ॑श्श्विनाः श्येतः॑ श्येता॒क्षो॒ऽरु॒णस्ते रु॒द्राय॑ पशुॖपत॑ये क॒र्ण्णा ॺा॒मा ऽअव॑लि॒प्पता रौ॒द्रा नभो॑रूपाः प्रार्ज्ज॒न्न्याः॥

ॐ गङ्गे च यमुने चैव गोदावरि सरस्वती।
नर्मदे सिन्धुकावेरी स्नानार्थं प्रतिगृह्यताम्॥

(ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः शुद्धोकस्नानं समर्पयामि। शुद्धोकदकस्नानान्ते आचमनीयं जलं समर्पयामि।)

वस्त्रम्

ॐ युवा सुवासाः परिवीत आगात् स उ श्रेयान् भवति जायमानः।
तं धीरासः कवय उन्नयन्ति स्वाध्यो मनसा देवयन्तः॥

ॐ सर्वभूषाधिके सौम्ये लोक लज्जानिवारिणे।
मयोप पादिते तुभ्यं वाससी प्रतिगृह्यताम॥

(ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः वस्त्रं समर्पयामि। वस्त्रान्ते आचमनीयं जलं समर्पयामि।)

उपवस्त्रम्

ॐ सुजा॑तो॒ ज्ज्योति॑षा स॒हशर्म्म॒ व्वरू॑थ॒मा स॑द॒त्त्स्वः॒।
व्वासो॑ऽ अग्ने व्वि॒श्श्वरूप॒ᳮ संव्व्य॑यस्व-व्विभावसो॥

ॐ यस्याभावेन शास्त्रोक्तं कर्म किञ्चिन्न सिध्यति ।
उपवस्त्रं प्रयच्छामि सर्वकर्मोपकारकम् ॥

(ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः उपवस्त्रं (उपवस्त्राभावे रक्तसूत्रं) समर्पयामि। उपवस्त्रान्ते आचमनीयं जलं समर्पयामि।)

गन्धम् (चन्दनम्)

ॐ त्वाङ्ग॑न्ध॒र्व्वा ऽअ॑खनँ॒स्त्वा मिन्द्र॒स्त्वाम्बृह॒स्प्पतिः॑।
त्वामो॑षधे॒ सोमो॒राजा॑व्विद्वान्न् यक्ष्मा॑दमुच्यत ॥

ॐ गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीं।
ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम्॥

(ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः चन्दनानुलेपनं समर्पयामि।)

अक्षताः

ॐ अक्ष॒न्नमी॑मदन्त॒ह्यव॑प्प्रि॒याऽ-अ॑धूषत।
अस्तो॑षत॒ स्वभा॑नवो व्विप्प्रा॒नवि॑ष्ट्ठया म॒ती ॺोजान्न्विन्द्रतेहरी॑॥

ॐ अक्षताश्च सुरश्रेष्ठ कुङ्कुमाक्ताः सुशोभिताः।
मया निवेदिता भक्त्या गृहाण परमेश्वरी॥

(ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः अक्षतान् समर्पयामि।)

पुष्पाणि

ॐ ओष॑धीः॒ प्प्रति॑मोदद्ध्व॒म्पुष्प्प॑वतीः प्प्र॒सूव॑रीः।
अश्श्वा॑ऽइव स॒ज्जित्त्व॑रीर्व्वी॒रुधः॑ पारयि॒ष्ण्ण्वः॒॥

ॐ माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो।
मयाहृतानि (मयाऽऽनीतानि) पुष्पाणि पूजार्थं प्रतिगृह्यताम्॥

(ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः पुष्पं समर्पयामि।)

दूर्वाङ्कुराः

ॐ काण्डा॑त्त्काण्डात्त्प्र॒रोह॑न्ती॒ परु॑षः परुष॒स्प्परि॑।
ए॒वानो॑ दूर्व्वे॒ प्प्रत॑नु स॒हस्त्रे॑ण श॒तेन॑ च॥

ॐ दूर्वाङ्कुरान् सुहरितानमृतान् मङ्गलप्रदान्।
आनीतांस्तव पूजार्थं गृहाण गणनायक॥

(ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः दूर्वाङ्कुरान् समर्पयामि।)

सिन्दूरम्

ॐ सिन्धो॑रिव प्प्राद्ध्व॒ने शू॑घ॒नासो॒ व्वात॑ प्प्रमियः पतयन्न्ति ॺह्वाः।
घृ॒तस्य॒ धारा॑ ऽअरु॒षो न व्वा॒जी काष्ठ्ठा॑ भि॒न्दन्नू॒र्म्मिभिः॒ पिन्न्व॑मानः॥

ॐ सिन्दूरं शोभनं रक्तं सौभाग्यं सुखवर्धनम्।
शुभदं कामदं चैव सिन्दूरं प्रतिगृह्यताम॥

(ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः सिन्दूरं समर्पयामि।)

नानापरिमल-सौभाग्यद्रव्याणि

ॐ अहि॑रिव भो॒गैः पर्ॺ्ॺेति बा॒हुञ्ज्याया॑ हे॒तिम्प॑रि बाध॑मानः।
ह॒स्त॒ग्घ्नो व्विश्श्ववा॑ व्व॒युना॑नि व्वि॒द्धान्पुमा॒न्न पुमा॑ᳬ स॒म्परि॑ पातु व्वि॒श्वतः॑॥

ॐ अबीरं च गुलालञ्च चोवा चन्दनमेव च।
अबीरेणार्चितो देव ! अतः शान्ति प्रयच्छ मे॥

(ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः नानापरिमलद्रव्याणि समर्पयामि।)

सुगन्धि-द्रव्यम्

ॐ त्र्य॑म्बकँ ॺ्ॺजामहे सुग॒न्धिम्पु॑ष्ट्टि॒वर्द्ध॑नम्।
उ॒र्व्वा॒रु॒कमि॑व॒बन्ध॑नान्मृ॒त्त्योर्मु॑क्षीय॒ मामृता॑त्॥

ॐ चम्पकाशोकवकुल्मालतीमोगरादिभिः। 
वासितं स्निग्धाहेतु तैलं चारु प्रतिगृह्यताम्॥

ॐ दिव्यगन्धसमायुक्तं महापरिमलाद्भुतम्।
गन्धद्रव्यमिदं भक्त्या दत्तं वै प्रतिगृह्यताम्॥

(ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः सुगन्धिद्रव्यं समर्पयामि।)

आभूषणम्

ॐ स्व॒र्ण्ण घ॒र्म्मः स्वाहा॒ स्वॗर्णार्कः स्वाहा स्वॗर्ण्ण शु॒क्क्रः स्वाहा॒ स्वॗर्ण्ण ज्ज्योतिः॒ स्वाहा॒ स्वॗर्ण्ण सूर्ॺ्ॺः स्वाहा॑॥

ॐ अलङ्कारान् महादिव्यान् नानारत्न-विनिर्मितान् ।
गृहाण देवदेवेशि ! प्रसीद परमेश्वरि ॥

(ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः आभूषणम् समर्पयामि।)

धूपम्

ॐ धूर॑सि॒ धूर्व्व॒ धूर्व्वन्तं धूर्व्व तँ ॺ्ॺो॒ ऽस्म्मामान् धूर्व्वति॒ तन्धू॑र्व्व॒यं व्वंयं धूर्व्वा॑मः।
दे॒वाना॑मसि॒ व्वह्नि॑तम॒ ᳬ सस्न्नि॑तमम् पप्प्रि॑तमम् जुष्ट्ट॑तमम् देव॒हू‌त॑मम्॥

ॐ वनस्पतिरसोद्भूतो गन्धाढ्यो गन्ध उत्तमः।
आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम्॥

(ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः धूपमाघ्रापयामि।)

दीपम्

ॐ चॖन्द्रमाॖमन॑सोजाॖतश्श्चक्षोॖः सूर्ॺ्ॺो॑ऽअजायत।
श्रोत्रा॑द्वायुश्श्च॑प्राॖणश्श्चॖमुखा॑दॖग्निर॑जायत॥

ॐ साज्यं च वर्तिसंयुक्तं वह्निना योजितं मया।
दीपं गृहाण देवेशि त्रैलौक्यतिमिरापहम्॥

ॐ भक्त्या दीपं प्रयच्छामि देवाय परमात्मने।
त्राहि मां निरयाद् घोराद् दीपज्योतिर्नमोऽस्तु ते॥

(ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः दीपं दर्शयामि।)

(‘ॐ हृषीकेशाय नमः’ ‘ॐ गोविन्दाय नमः’ इति मन्त्रेण हस्तौप्रक्षालनः)

नैवेद्यम्

ॐ अन्न॑प॒तेन्न॑स्यनोदेह्ॺनमी॒वस्य॑ शुष्म्मिणः॑।
प्रप्प॑दातार॑न्तारिष॒ऽ ऊर्ज्ज॑न्नोधेहि द्वि॒पदे॒चतु॑ष्पदे॥

ॐ शर्कराखण्डखाद्यानि  दधिक्षीरघृतानि  च।
आहारं भक्ष्यभोज्यं च नैवेद्यं प्रतिगृह्यताम्॥

नैवेद्यं जलेन संप्रोक्ष्य धेन्वाऽमृतीकृत्य वामहस्ते पद्माकारं कृत्वा दक्षिणहस्तेन ग्रासमुद्राः मदर्शयेत्॥

ॐ प्राणाय स्वाहा॥ ॐ अपानाय स्वाहा॥ ॐ व्यानाय स्वाहा॥ ॐ उदानाय स्वाहा॥ ॐ समानाय स्वाहा॥ नैवेद्यान्ते आचमनीयं सम०॥ पूर्वापोशानं सम०॥ मध्ये पानीयं सम०॥ उत्तरापोशानं सम०॥ हस्तप्रक्षालनं सम०॥ मुखप्रक्षालनं सम०॥ आचमनीयं सम०॥

(ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः नैवेद्यं निवेदयामि।)

करोद्वर्तनम्

ॐ अ॒ ᳬ शुना॑ ते अ॒ ᳬ शुः पृ॑च्च्यतां॒ परु॑षाः॒ परुः।
ग॒न्न्धस्ते॒ सोम॑मवतु॒ मदा॑य॒ रसो ऽअच्यु॑तः॥

ॐ चन्दनं मलयोद्भुतं कस्तूर्यादिसमन्वितम्।
करोद्वर्तनकं देवी गृहाण परमेश्वरी॥

(ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः करोद्वर्तनकं चन्दनं समर्पयामि।)

ऋतुफलानि-अखण्ड ऋतुफलम्

ॐ ॺाः फ॒लिनी॒र्ॺ्ॺाऽ अ॑फ॒लाऽ अ॑पु॒ष्पा ॺाश्च॑ पु॒ष्प्पिणीः॑।
बृह॒स्प्प्रति॑ प्प्रसूता॒स्तानो॑ मुञ्च॒न्त्वᳬ ह॑सः॥

ॐ इदं फलं मया देवी स्थापितं पुरतस्तव।
तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि॥

ॐ आयुरारोग्यमैश्वर्यं ददध्वं मातरो मम।
निर्विध्नं सर्वकार्येषु कुरुध्वं सगणाधिपाः॥

”गृहे वृद्धिशतानि भवन्तु“ उत्तरे कर्मण्यनिर्विविघ्नमस्तु।

(ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः ऋतुफलानि अखण्ड ऋतुफलानि समर्पयामि। श्रीफलान्ते आचमनीयं जलं समर्पयामि।)

ताम्बूलम्

ॐ ॺत्पुरु॑षेणहॖविषा॑देॖवाॺॖज्ञमत॑न्न्वत।
व्वॖसॖन्तो॒ऽस्यासीॖदाज्ज्य॑ङ्ग्रीॖष्म ऽइ॒ध्मः शरद्धविः॥

ॐ पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम्।
एलादिचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम्॥

(ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः मुखवासार्थम् एलालवंगपूगीफलसहितं ताम्बूलं समर्पयामि।)

दक्षिणाम्

ॐ हि॒र॒ण्ण्य॒ग॒र्ब्भः सम॑वर्त्त॒ताग्ग्ग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ऽआसीत्।
स दा॑धार पृथि॒वीन्द्या मु॒ते माङ्कस्म्मै॑ दे॒वाय॑ ह॒विषा॑ व्विधेम॥

ॐ हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः।
अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे॥

(ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः कृतायाः पूजायाः सा द्गुण्यार्थे द्रव्यदक्षिणां समर्पयामि।)

नीराजनम्-कर्पूरारार्तिक्यम्

ॐ इद ᳬ ह॒विः प्प्र॒जन॑न॑ मे ऽअस्तु॒ दश॑वीर॒ ᳬ सर्व्वगण ᳬ स्व॒स्तये॑।
आ॒त्म॒सनि॑ प्प्रजा॒सनि॑ पशु॒सनि॑ लोक॒सन्न्य॑भय॒सनि॑।
अ॒ग्निः प्प्र॒जां बहुलां में करोत्वन्नं पयो रेतो॑ ऽअ॒स्म्मासु॑ धत्त॥

ॐ आ रा॑त्र्त्रि॒ पार्त्थि॑व॒ ᳬ रजः॑ पि॒तुर॑प्प्रायि॒ धाम॑भिः।
दि॒वः सदा॑ ᳬ ऽसि बृह॒ती व्विति॑ष्ठस॒ ऽआ त्त्वे॒षं व्व॑र्त्त॑ते तमः॑॥

कदलीगर्भसम्भूतं कर्पूरं तु प्रदीपितम्।
आरार्तिकमहं कुर्वे पश्य मे वरदो भव॥

(ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः अरार्तिकं समर्पयामि। पुष्पैर्देववन्दनम्। हस्तेन आत्मवन्दनम्। हस्तप्रक्षाल्यः।)

पुष्पाञ्जलिम्

ॐ ॺॖज्ञेन॑ ॺॖज्ञम॑यजन्त देॖवास्तानिॖ धर्म्मा॑णि प्प्रथॖमान्न्या॑सन्।
तेहॖनाक॑म्महिॖमान॑÷ सचन्तॖॺत्र्त्रॖपूर्व्वे॑ साॖद्ध्याः सन्ति॑देॖवाः॥

ॐ सम॑क्ख्ये दे॒व्व्या धि॒या सन्दक्क्षि॑णयो॒ रुच॑क्क्षसा।
माम॒ऽ आयुः॒ प्रमो॑षी॒र्म्मो॑ऽ अ॒हन्तव॑ व्वीरंव्विदेय॒ तव॑देविस॒न्दृशि॑॥

ॐ नानासुगन्धिपुष्पाणि यथाकालोद्भवानि च।
पुष्पाञ्जलिर्मया दत्तो गृहाण परमेश्वरी॥

(ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः पुष्पाञ्जलिं समर्पयामि।)

प्रदक्षिणाम्

ॐ ॺे तीॖर्त्थानि॑ प्प्रॖचर॑न्ति सृ॒काह॑स्तानिषॖङ्गिणैः॑।
तेषा॑ ᳬ सहस्त्रयोजॖनेऽ वॖ धन्न्वा॑नि तन्न्मसि॥

ॐ यानि कानि च पापानि जन्मान्तरकृतानि च।
तानि सर्वाणि  नश्यन्तु  प्रदक्षिणपदे  पदे॥

(ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः प्रदक्षिणां समर्पयामि।)

विशेषार्घ्यम्

अर्घ्यपात्रे गन्धाक्षतपुष्पसहितं जलं सहिरण्यं नालिकेरं च निधाय प्रत्येकं दत्त्वा गौर्यादिमातृभ्योऽर्घ्यं दद्यात्

ॐ प्रसन्ना मातरः सर्वाः पूजां गृह्णन्तु मामकीम्।
अनेन सफलार्घ्येण वरदाः सन्तु मे सदा॥
इदं फलं मया देवि स्थापितं पुरतस्तव।
तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि॥
रूपं देहि जयं देहि भाग्यं भगवति देहि मे।
पुत्रान्देहि धनं देहि सर्वान्कामाँश्च देहि मे॥

(ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः विशेषार्ध्यं समर्पयामि।)

पूजनोपरांत प्रार्थना

ॐ ब्राह्मणी कमलेंन्दु सौम्यवदना ,
माहेश्वरी लीलया।
कौमारी रिपु दर्प्पनाशनकरी ,
चक्रायुधा वैष्णवी॥
वाराही घनघोर घर्घरमुखी ,
च ऐन्द्री च वज्रायुधा।
चामुण्डा गणनाथ रुद्रसहिता ,
रक्षन्तु माम मातरः॥

ॐ गणेश्चपूर्विका देव्यो गौर्यादिप्रमुखाः स्मृताः।
प्रसीदन्तु हि कल्याण्यो निर्विघ्नं कुरुताध्वरम्॥
यदङ्गत्वेन भो देव्यः पूजिता विधिमार्गतः।
कुर्वन्तु कार्यमखिलं निर्विघ्नेन ऋतूद्भवम्॥

ॐ गौरीपद्माशचीमेधा सावित्रीविजयाजया। 
देवसेना स्वधा स्वाहा मातरो लोकमातरः॥
धृतिः पुष्टिस्तथा तुष्टिरात्मनः कुलदेवता।
गणेशेनाधिका ह्येता वृद्धौ पूज्यास्तु षोडश॥

ॐ जयति वरद मूर्तिर्मङ्गलं मङ्गलानाम्।
जयति सकलवन्द्या भारती ब्रह्मस्वरूपा॥
जयति भुवनमाता चिन्मयी मोक्षरूपा।
तानुभय महेशो वाङ्मय शब्दरूपः॥

ॐ आयुरारोग्यमैश्वर्यं ददध्वं मातरो मम।
निर्विघ्नं सर्वकार्येषु कुरुध्वं सगणाधिपाः॥

(ॐ भुर्भुवः स्वः श्री गणेशसहित गौर्यादिषोडशमातृभ्यो  नमः प्रार्थनापूर्वकं नमस्कारान् समर्पयामि।)

क्षमा प्रार्थना

आवाहनम् न जानामि, न जानामि तवार्चनम्।
पूजां चैव न जानामि, क्षमस्व परमेश्वी॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वी।
यत्पूजितम् मयादेवि परिपूर्णम् तदस्तु मे॥
यदक्षरं पदभ्रष्टं मात्राहीनं च यद्भवेत्।
तत्सर्वं क्षम्यताम् देवि प्रसीद परमेश्वरी॥
अपराध सहस्त्राणि क्रियन्तेऽहर्निशं मया।
दासोऽयमिति मां मत्वाक्षमस्व परमेश्वरी॥

समर्पणम्

ॐ श्रीगणेश सहित श्रीगौर्यादिषोडशमातृणां पूजनकर्मणो
यन्न्यूनमतिरिक्तं वा तत्सर्वं मातृणां प्रसादात्परिपूर्णमस्तु॥

अनेन यथाज्ञानेन ध्यान आवाहन आदि षोडशोपचारैः कृतपूजनेन श्रीगणेश सहित गौर्यादिषोडशमातरः प्रीयन्ताम् न मम्।

अन्ते – आसनाद्यः जलं निक्षिप्य ललाटे मृदा तिलकं धारयेत्।
यथा – यस्मिन् स्थाने कर्म कृत्वा शक्रो हरति तत्कर्मम्। तन्मृदा लक्ष्म कुर्वीत ललाटे तिलकाकृति॥

॥ इति श्री सगणेशगौर्यादि षोडशमातृकाणां पूजनप्रकरणम् ॥

ततो दक्षिणहस्तेन गन्धाक्षतपुष्पं गृहीत्वा भगवत्यै श्री श्रियादि सहित सप्तघृतमातृका वसोर्द्धारा देव्या ध्यानाम् आवाहनम् च कुर्यात्…..सप्तघृतमातृका पूजन विधान

॥ श्रीरस्तु ॥
༺❀༻

श्री हरि हरात्मक देवें सदा, मुद मंगलमय हर्ष।
सुखी रहे परिवार संग, अपना भारतवर्ष॥
༺༻❀༺༻

संकलनकर्ता
श्रद्धेय पंडित विश्‍वनाथ द्विवेदी
‘सनातनी ज्योतिर्विद’
संस्थापक, अध्यक्ष एवं प्रबंध निदेशक
(‘हरि हर हरात्मक’ ज्योतिष)
संपर्क सूत्र – 07089434899
༺༻❀꧁○꧂❀༺༻

Copyright © 2025 Hari Har Haratmak. All rights reserved.

"enter" 2026 | Powered By SpiceThemes