कलश संस्थापन प्रकरणेनसह कलशे वरुणस्य वैदिकपूजनञ्च पुण्याहवाचनम्
“कलशसंस्थापन प्रकरणेनसह कलशे वरुणस्य वैदिकपूजनञ्च पुण्याहवाचनम्”
श्रीगौरीगणेश की पूजा के बाद प्रधान कलश की स्थापना करनी चाहिए। कलश-प्रमाण-लक्षण के सम्बन्ध में श्रीमद् देवी भागवत में शास्त्रीय वचन हैं –
अभिमन्त्र्य सहस्रं तन्निखनेत्सर्वशांतये ।
सौवर्ण राजतं वापि कुम्भं ताम्रमयं च वा ॥
मृन्मयं वा नवं दिव्यं सूत्रवेष्टितमक्षणम् ।
स्थंडिले सैकते स्थाप्य पूरयेन्मन्त्रविबलैः ॥
दिग्न्य आइत्य तीर्थानि बतसूभ्यो द्विजोत्तमैः।
एलाचन्दन कर्पूरजातीपाटलमब्धिकाः॥
कलश बहुत छोटे आकार का कदापि नहीं होना चाहिए। कलश सवा किलो जल ग्रहण-योग्य अवश्य हो। गृहप्रवेशादि विशेष कार्यों में कई कलश हुआ करते हैं, जिनमें प्रधान कलश का आकार अपेक्षाकृत बड़ा होना चाहिए। सात या नौ या ग्यारह किलो जलग्रहण योग्य अवश्य हो। श्रद्धा और आर्थिक स्थिति के अनुसार समस्त पूजन-पात्र धातु के ही उपयोग में लाये जायें तो श्रेयस्कर होता है। प्रधान कलश और उसका पूर्णपात्र (ढक्कन) तो धातु निर्मित ही होना चाहिए। अभाव में मिट्टी का उपयोग हो सकता है। शास्त्र वचन है- “वित्तशाठ्यं न कारयेत” पूजन में धन की कंजूसी न करे। कलश के आकार के सम्बन्ध एक और बात का ध्यान रखा जाना अनिवार्य है कि कलश की ग्रीवा उचित ऊँचाई वाली हो, उदरप्रान्त भी प्रसस्त हो। बेडौल, चपटे, कम गर्दन वाले, ठिगने काठी के कलश का उपयोग सर्वदा वर्जित है। मिट्टी के कलश में पकाते समय का काला धब्बा-दाग आदि कदापि नहीं होना चाहिए। इसे ढकने के लिए कुम्हार रंग-रोगन कर दिया करते हैं। कलश की ग्रीवा में तीन तन्तुओं का वेष्ठन अवश्य करे, साथ ही वक्ष-प्रान्त में स्वस्तिकादि मांगलिक चिह्नों का लेखन भी अनिवार्य है। प्रायः लोग गोबर से गौरी-गणेश की लम्बी पिड़िया बना कर कलश पर चिपका देते हैं। वस्तुतः यह प्रतीक भी मान्य है। आजकल नाना प्रकार के चिह्नों, चित्रकारियों से युक्त कलश भी बाजार में उपलब्ध हैं, जिनका उपयोग किया जा सकता है। कलश स्थापन के स्थापन पर चौरेठ, हल्दी, कुमकुम, अबीर आदि से मांगलिक चिह्न- स्वस्तिक, अष्टदल आदि भी चित्रित कर देना चाहिए। और भी अलंकार पूर्वक करना हो तो प्रधान कलश के लिए सर्वतोभद्रवेदी, एवं रुद्रकलश के लिए एकलिंगतोभद्रवेदी का निर्माण किया जा सकता है – पंडित विश्वनाथ द्विवेदी ‘सनातनी ज्योतिर्विद्”।
अथ् कलशस्य स्थापनम् प्रकरण
स्वपुरतः शुद्धायां भूमौ पञ्चवर्णैस्तंडुलैर्वा यवैरष्टदलं कर्तव्यम्॥ तत्र भूमिं स्पृष्ट्वा॥
भूमि-स्पृशेत (भूमि का स्पर्श)
ॐ म॒ही द्यौः पृ॑थि॒वी च॑ नऽइ॒मँ ॺ्ॺज्ञम्मि॑मिक्षताम्।
पि॒पृ॒तान्नो भरी॑मभिः॥
ॐ भूरसि भूमिरस्त्यदितिरसि विश्वधाया विश्वस्य भुवनस्य धर्त्री।
पृथिवीं यच्छ पृथिवीं दृ ᳬ हं पृथिवीं मा हि ᳬ सीः॥
यव-प्रक्षेपः
(निम्नलिखित मन्त्र पढ़कर पूजित भूमिपर अक्षत अथवा जौ रखें)
ॐ ओष॑धयः॒ सम॑वदन्त॒ सोमे॑न स॒ह राज्ञा॑।
ॺस्म्मै॑ कृणोति॑ ब्ब्राह्म॒णस्त ᳬ रा॑जन्न्पारयामसि॥
कलशं स्थापयेत् (कलश स्थापनम्)
(धान्यपर निम्नलिखित मन्त्र पढ़कर कलशकी स्थापना करे)
ॐ आ जि॑घ्र क॒लश॑म्म॒ह्ॺ्ॺा त्त्वा॑ व्विश॒न्त्विन्दवः।
पुन॑रू॒र्ज्जा नि व॑र्त्तस्व॒ सा नः॑ स॒हस्त्र॑न् धुक्क्ष्वो॒रुधारा॒ पय॑स्वती॒ पुन॒र्म्मा वि॑शताद्र॒यिः॥
(परशुरामेण तु स्वस्तिवाचनार्थमेकस्यैव कलशस्य विधानमुक्तं परञ्च ऋक्शाखीया दाक्षिणात्यास्तु कलशद्वयं निधाय कुर्वन्ति तत्तु देशाचार एव – रुद्रकल्पद्रुम्)
कलशे जलपूरणम् (कलश में जल भरें)
ॐ व्वरु॑णस्यो॒त्तम्भ॑नमसि॒ व्वरु॑णस्य स्कम्भ॒सर्ज्ज॑नीस्त्थो॒ व्वरु॑णस्य ऽऋत॒सद॑न्न्यसि॒ व्वरु॑णस्यऽऋत॒ सद॑नमसि॒ व्वरु॑णस्य ऽऋत॒सद॑न॒मासी॑द॥
गन्धप्रक्षेपः (कलश में गन्ध)
ॐ त्वाङ्ग॑न्ध॒र्व्वाऽअ॑खनँ॒स्त्वामिन्द्र॒स्त्वाम्बृह॒स्प्पतिः॑।
त्वामो॑षधे॒ सोमो॒राजा॑व्विद्वान्न्यक्ष्मा॑दमुच्यत॥
धान्यं प्रक्षेपः (कलश में सप्तधान्य)
ॐ धा॒न्न्यॖमसि धिनु॒हि दे॒वान्प्रा॒णाय॑त्त्वोदा॒नाय॑त्त्वा व्व्या॒नाय॑त्त्वा।
दी॒र्ग्घा मनुप्प्रसि॑ति॒ मायु॑षे धान्दे॔वोवः॑ सवि॒ता हिर॑ण्यपाणिः॒ प्प्रति॑गृब्भ्णा॒त्त्वच्छि॑द्रेण पा॒णिना॒ चक्षु॑षे त्त्वा म॒हीना॒म्पयो॑ऽसि॥
धान्यविषये वशिष्ठ :- सस्यं क्षेत्रगतं प्राहुः सतुषं धान्यमुच्यते। आमं वितुषमित्युक्तं स्विन्नमन्नमुदा हृतम्। तेन सतुषं धान्यं निदध्यात्॥
सर्वौषधींप्रक्षेपः (कलश में सर्वौषधि)
ॐ ॺाऽओष॑धीः॒ पुर्व्वा॑ जा॒ता दे॒वेब्भ्य॑स्त्रियु॒गं पु॒रा।
मनै॒ नु ब॒ब्भ्रूणा॑म॒ह॒ ᳬ श॒तन्धामा॑नि स॒प्प्त च॑॥
कुष्ठं मांसी हरिद्रे द्वे मुरा शैलेयचन्दनम् ।
वचा चम्पकमुस्ता च सर्वौषध्यो दश स्मृताः॥
दूर्वाप्रक्षेपः (कलश में दूब)
ॐ काण्डा॑त्त्काण्डात्त्प्र॒रोह॑न्ती॒ परु॑षः परुष॒स्प्परि॑ ।
ए॒वानो॑ दूर्व्वे॒ प्प्रत॑नु स॒हस्त्रे॑ण श॒तेन॑ च ॥
पञ्चपल्लवप्रक्षेपः (कलश पर पञ्चपल्लव)
ॐ अ॒श्श्वत्त्थे वो॑ नि॒षद॑नम्प॒र्ण्णे वो॑ व्वस॒तिष्कृ॒ता ।
गो॒भाज॒ऽइत्किला॑सथ॒ ॺत्त्स॒नव॑थ॒ पूरु॑षम् ॥
अश्वत्थोदुम्बरप्लक्ष चूतन्यग्रोध पल्लवाः।
पञ्चभङ्गा इति प्रोक्ताः सर्वकर्मसु शोभनाः॥
पवित्रीप्रक्षेपः (कलश में कुशा)
ॐ प॒वित्रे॑स्त्थो व्वैष्ण्ण॒व्यौॖ सवि॒तुर्वः॑ प्प्रस॒वऽ उत्त्पु॑ना॒म्यच्छि॑द्रेण प॒वित्र्त्रे॑ण॒ सूर्ॺ्ॺ॑स्य र॒श्म्मिभिः॑।
तस्य॑ ते पवित्र्त्रपते प॒वित्र्त्र॑पूतस्य॒ ॺत्त्का॑मः पु॒ने तच्छ॑केयम् ॥
सप्तमृदांप्रक्षेपः (कलश में सप्तमृत्तिका)
ॐ स्यो॒ना पृ॑थिवि नो भवा नृक्ष॒रानि॒वेश॑नी ।
ॺच्छा॑ नः॒ शर्म्म॑ स॒प्प्रथाः॑॥
अश्वस्थानाद् गजस्थानाद् वल्मीकात् सङ्गमाद् हृदात् ।
राजस्थानाञ्च गोष्ठाञ्च मृदमानीय निश्चिपेत् ॥
पूगीफलंप्रक्षेपः (कलश में सुपारी फल)
ॐ ॺाः फ॒लिनी॒र्ॺ्ॺाऽ अ॑फ॒लाऽ अ॑पु॒ष्पा ॺाश्च॑ पु॒ष्प्पिणीः॑।
बृह॒स्प्प्रति॑ प्प्रसूता॒स्तानो॑ मुञ्च॒न्त्वᳬ ह॑सः॥
पञ्चरत्नंप्रक्षेपः (कलश में पञ्चरत्न)
ॐ परि॒वाज॑पतिः क॒विर॒ग्निर्ह॒व्व्यान्न्य॑क्रमीत् ।
दध॒द्रत्क्नानि दा॒शुषे॑ ॥
कनकं कुलिशं नीलं पद्मरागं च मौक्तिकम् ।
एतानि पञ्चरत्नानि कलशे प्रक्षिपाम्यहम् ॥
हिरण्यप्रक्षेपः (कलश में द्रव्य)
ॐ हि॒र॒ण्ण्य॒ग॒र्ब्भः सम॑वर्त्त॒ताग्ग्ग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ऽआसीत्।
स दा॑धार पृथि॒वीन्द्या मु॒ते माङ्कस्म्मै॑ दे॒वाय॑ ह॒विषा॑ व्विधेम॥
कलशं रक्तसूत्रेण वस्त्रेण वा वेष्ट्येत्
(निम्नलिखित मन्त्र पढ़कर कलशको वस्त्रसे अलंकृत करे)
ॐ युवा सुवासाः परिवीत आगात् स उ श्रेयान् भवति जायमानः।
तं धीरासः कवय उन्नयन्ति स्वाध्यो मनसा देवयन्तः॥
कलशोपरि पूर्णपात्रमुपरि न्यसेत्
(कलश पर पूर्णपात्र, अर्थात् चावल से भरे पूर्णपात्र को कलश पर स्थापित करें)
ॐ पू॒र्ण्णा द॑र्व्वि॒ परा॑ पत॒ सुपू॑र्ण्णा॒ पुन॒राप॑त ।
व्व॒स्न्नेव॒ व्विक्क्री॑णा वहा॒ऽ इष॒मूर्ज्ज ᳬ शतक्क्रतो ॥
श्रीफलंन्यसेत् (कलश पर नारियल)
ॐ ॺाः फलिनीर्ॺाऽ अफलाऽ अपुष्पा ॺाश्च पुष्पिणीः।
बृहस्पति प्रसूतास्ता नो मुञ्चन्त्व ᳬ हसः॥
श्रीश्श्च॑ते लॖक्ष्मीश्श्चॖ पत्क्न्या॑वहोराॖत्र्त्रेपाॖर्श्वे नक्ष॑त्र्त्राणिरूॖपमॖश्विनौॖ व्व्यात्त॑म् ॥
इॗष्ष्णन्नि॑षाणाॖमुम्म॑ऽइषाण-सर्व्वलोॖकम्म॑ऽइषाण॥
ततो मध्य कलशे वरुणस्य विशेष पूजनम्
कलश में वरुण का पूजन करने से पहले यजमान न्यास करें तत्रादौ कलश में देवी-देवताओं का आवाहन करना चाहिये। तत्रादौ मंत्राक्षरन्यासः स्वशरीरे (यजमान अपने शरीर पर अक्षर न्यास करे)
करन्यासः
वं वरुणाय जलाधिपतये – अङ्गुष्ठाभ्यां नमः।
रुं वरुणाय जलाधिपतये – तर्जनीभ्यां नमः।
णां वरुणाय जलाधिपतये – मध्यमाभ्यां नमः।
यं वरुणाय जलाधिपतये – अनामिकाभ्यां नमः।
नं वरुणाय जलाधिपतये – कनिष्ठिकाभ्यां नमः।
मं वरुणाय जलाधिपतये – करतलकरपृष्ठाभ्यां नमः॥
हृदयादिन्यासः
ॐ शन्नो॑दे॒वीर॒भिष्ट्ट॑य॒ ऽआपो॑ भवन्तुपी॒तये॑।
शँय्ॺोर॒भिस्त्र॑वन्तु नः॥ (वरुणस्य हृदयाय नमः)
ॐ स्यो॒ना पृ॑थिवि नो भवा नृक्ष॒रानि॒वेश॑नी ।
ॺच्छा॑ नः॒ शर्म्म॑ स॒प्प्रथाः॑॥ (वरुणस्य शिरसे स्वाहा)
ॐ आपो॒हिष्ट्ठा म॑यो॒भुव॒स्तान॑ ऽऊर्ज्जेद॑धातन॥
म॒हे रणा॑यचक्ष॑से॥ (वरुणस्य शिखायै वषट्)
ॐ इमं मे गङ्गे यमुने सरस्वति शुतुद्रिस्तोमं सचतापरुष्ण्या।
असिकन्या मरुद् वृथे वितस्तयार्जीकये श्रृणुह्या सुषेमयाः॥ (वरुणस्य नेत्रत्रयाय वौषट्)
तत्त्स॑वि॒तुर्व्वरे॑ण्ण्यं॒ भर्ग्गो॑ दे॒वस्य॑ धीमहि धियो॒ ॺो नः॑ प्प्रचो॒दया॑त्॥ (वरुणस्य अस्त्राय फट्)
ततो यजमानः स्व दक्षिणहस्तेन गन्धाक्षतपुष्पं गृहीत्वा भगवते श्री वरुणदेवतस्य ध्यानम् आवाहनम् च कुर्यात् यजमान दाहिने हाथ में गन्ध, अक्षत और पुष्प लेकर कलश में वरुण देव सहित चतुर्वेद, देवी-देवताओं का आवाहन करें।)
श्रीवरुणदेव ध्यान आवाहनम्
ॐ तत्त्वा॑ ॺामि॒ ब्ब्रह्म॑णा॒ व्वन्द॑मान॒स्तदा शा॑स्ते॒ ॺज॑मानो ह॒विर्ब्भिः॑।
अहे॑डमानो व्वरुणे॒ह बो॒द्ध्यु॑रुश ᳬ स॒ मा न॒ऽ आयुः॒ प्रमो॑षीः॥
घटे धान्या धारे, कनक कलशा द्याक्षत युतैः।
तु पूर्वे श्री गंङ्गे विमल यमुना नीर निकरैः॥
चतुर्वेदै सांङ्गै, सविधी सकलै देव दनुजैः।
स्थिते श्री नीरीशं, वरुण मधुमा यामि शरणं॥
ॐ कला कला हि देवानां, दानवानां कला कला ।
संगृह्य निर्मितो यस्मात्, कलशस्तेन कथ्यते ॥
कलशस्य मुखे विष्णुः, कण्ठे रुद्रः समाश्रितः ।
मूले त्वस्य स्थितो ब्रह्मा, मध्ये मातृगणाः स्मृताः ॥
कुक्षौ तु सागराः सर्वे, सप्तद्वीपा वसुन्धरा ।
ऋग्वेदोऽथ यजुर्वेदः, सामवेदो ह्यथर्वणः ॥
अङ्गैश्च सहिताः सर्वे, कलशं तु समाश्रिताः ।
अत्र गायत्री सावित्री, शान्तिः पुष्टिकरी तथा ॥
गङ्गे च यमुने चैव, गोदावरि सरस्वति ।
नर्मदे सिन्धुकावेरि जलेऽस्मिन् संनिधिं कुरु ॥
सर्वे समुद्राः सरितस्तीर्थानि जलदा नदाः ।
आयान्तु मम शान्त्यर्थं, दुरितक्षयकारकाः ॥
आवाहयामि देवेशं वरुणं जलनायकम् ।
यादः पृष्ठसमारूढं पाशहस्तं महाबलम् ॥
आगच्छ जलदेवेश कुंभेऽस्मिन् सन्निधौ भव ॥
श्रीवरुणदेव आवाहनम् (हिन्दी)
वास करहिं मुख में लक्ष्मीपति,
कण्ठ में वास करें त्रिपुरारी।
मूल में ब्रह्मा निवास करें,
मध्य में माताएं मंगलकारी॥
सागर द्वीप नदी वसुधा सब,
तीरथ वेद भी है शुभकारी।
हे वरुण देव विराजो यहाँ,
दुःख दूर करो विनती है हमारी॥
(ॐ भुर्भुवः स्वः अपां पतये वरुणाय नमः ॐ वरुणाद्यावाहित देवताभ्यो नमः, ध्यायमि अस्मिन् कलशे वरुणं साङ्गः सपरिवारं सायुधं सशक्तिं आवाह्यामि स्थापयामि। भो वरुण इहागच्छ इह तिष्ठ, ततो प्रतिष्ठापूर्वकम् षोडशोपचार विधिना सम्पूजयेत्)
(इस तरह जलाधिपति श्री वरुणदेव तथा वेदों, तीर्थों, नदों, नदियों, सागरों, देवियों एवं देवताओं के आवाहन के पश्चात हाथ में अक्षत पुष्प लेकर निम्नलिखित मन्त्र से कलश की प्रतिष्ठापना करे)
प्रतिष्ठापनम्
ॐ मनो॑ जू॒तिर्ज्जु॑षता॒माज्ज्य॑स्य॒ बृह॒स्प्पति॑र्ॺ॒ज्ञमि॒मन्त॑नो॒त्वरि॑ष्ट्टँ ॺ्ॺ॒ज्ञᳬ समि॒मन्द॑धातु॒।
व्विश्श्वे॑दे॒वास॑ ऽइ॒हमा॑दयन्ता॒मो॑३ प्रति॑ष्ट्ठ॥
अस्यै प्राणाः प्रतिष्ठन्तु अस्यै प्राणाः क्षरन्तु च ।
अस्यै देवत्वमर्चायै मामहेति च कश्चन ॥
(ॐ श्रीवरुणाय नमः वरुण सुप्रतिष्ठितो भव।)
कलशस्य चतुर्दिक्षु चतुर्वेदान्सम्पूजयेत्
(तत्पश्चात् कलश के चारों ओर चारों दिशाओं में वेदों का पूजन करें)
पूर्वे – ऋग्वेदाय नमः।
दक्षिणे – यजुर्वेदाय नमः।
पश्चिमे – सामवेदाय नमः।
उत्तरे – अथर्ववेदाय नमः।
कलशमध्ये – अपां पतये वरुणाय नमः॥
आसनम्
ॐ पुरु॑षऽए॒वेद ᳯ सर्व्वं॒ॺ्ॺद्भू॒तंॺ्ॺच्च॑भाॖव्व्य॒म् ।
उॖतामृ॑तॖत्त्वस्येशा॑नोॖॺदन्ने॑नातिॖरोह॑ति ॥
अनेकरत्नसंयुक्तं नानामणिगणान्वितम् ।
इदं हेममयं दिव्यमासनं प्रतिगृह्यताम् ॥
(ॐ भूर्भुवः स्वः श्रीवरुणाद्यावाहितदेवताभ्यो नमः, आसनार्थे अक्षतान् समर्पयामि।)
पाद्यम्
ॐ ए॒तावा॑न॒स्य महि॒मातो ज्ज्याँश्च्च॒पूरु॑षः ।
पा॑दोऽस्य॒ व्विश्श्वा॑ भू॒तानि॑ त्र्त्रिपाद॑स्या॒मृत॑न्दिवि ॥
गंङ्गोदकं निर्मलं च सर्वसौगन्धसंयुतम् ।
पादप्रक्षालनार्थाय दत्तं मे प्रतिगृह्यताम् ॥
(ॐ भूर्भुवः स्वः श्रीवरुणाद्यावाहितदेवताभ्यो नमः, पादयोः पाद्यं समर्पयामि।)
अर्घ्यम्
ॐ त्र्त्रिपादूर्ध्व ऽउदै॒त्पुरु॑षः पादो॑ऽस्ये॒हा भ॑व॒त्पुनः ।
ततो॒ व्वि॒ष्ष्व॒ङ् व्यक्रा मत्साशनानशने ऽअभि ॥
गन्धपुष्पाक्षतैर्युक्तमर्घ्यं सम्पादितं मया ।
गृहाणदेववरुणो प्रसन्नो वरदो भवः ॥
(ॐ भूर्भुवः स्वः श्रीवरुणाद्यावाहितदेवताभ्यो नमः, हस्तयोरर्घ्यं समर्पयामि।)
आचमनीयम्
(कर्पूर से सुवासित जल से आचमन करायें)
ॐ ततो॑ व्वि॒राड॑जायत व्वि॒राजो॒ ऽअधि॒पूरु॑षः ।
सजा॒तो ऽअत्य॑रिच्च्यत- प॒श्च्चाद् भूमि॒मथो॑पु॒रः ॥
कर्पूरेण सुगन्धेन वासितं स्वादुशीतलम् ।
तोयमाचमनीयार्थं गृहाण परमेश्वर ॥
(ॐ भूर्भुवः स्वः श्रीवरुणाद्यावाहितदेवताभ्यो नमः, आचमनीयं जलं समर्पयामि।)
स्न्नानम्
ॐ तस्मा॑द्यॖज्ञात्स॑र्व्वॖहुतॖःसम्भृ॑तम्पृषदाॖज्ज्यम् ।
पॖशूँस्ताँश्च॑क्क्रेव्वायॖव्व्याॖनारॖण्ण्याग्ग्राम्म्याश्च्चॺॆ ॥
मन्दाकिन्यास्तु यद्वारि सर्वपापहरं शुभम् ।
तदिदं कल्पितं देव स्न्नानार्थं प्रतिगृह्यताम् ॥
(ॐ भूर्भुवः स्वः श्रीवरुणाद्यावाहितदेवताभ्यो नमः, स्न्नानीयं जलं समर्पयामि। स्न्नानान्ते आचमनीयं जलं समर्पयामि।)
पञ्चामृतस्न्नानम्
ॐ पञ्च॑ न॒द्यः सर॑स्वती॒मपि यन्ति॒ सस्त्रोतसः॑।
सर॑स्वती॒तु प॑ञ्च॒धा सो दे॒शेऽभ॑वत्स॒रित् ॥
पञ्चामृतं मयानीतं पयो दधि घृतं मधु ।
शर्करया समायुक्तं स्न्नानार्थं प्रतिगृह्यताम् ॥
(ॐ भूर्भुवः स्वः श्रीवरुणाद्यावाहितदेवताभ्यो नमः, पञ्चामृतस्न्नानम् समर्पयामि। पञ्चामृतस्न्नानान्ते शुद्धोदकस्न्नानं समर्पयामि। शुद्धोदकस्न्नानान्ते आचमनीयं जलं समर्पयामि।)
शुद्धोदकस्न्नानम्
ॐ शुॖद्धवा॑लः स॒र्व्वशु॑द्धवालो मणि॒वाल॒स्त ऽआ॑श्श्विनाः श्येतः॑ श्येता॒क्षो॒ऽरु॒णस्ते रु॒द्राय॑ पशुॖपत॑ये क॒र्ण्णा ॺा॒मा ऽअव॑लि॒प्पता रौ॒द्रा नभो॑रूपाः प्रार्ज्ज॒न्न्याः॥
गङ्गे च यमुने चैव गोदावरि सरस्वती ।
नर्मदे सिन्धुकावेरी स्नानार्थं प्रतिगृह्यताम् ॥
(ॐ भूर्भुवः स्वः श्रीवरुणाद्यावाहितदेवताभ्यो नमः, स्न्नानान्ते शुद्धोदकस्न्नानं समर्पयामि। शुद्धोदकस्न्नानान्ते आचमनीयं जलं समर्पयामि।)
वस्त्रम्
ॐ युवा सुवासाः परिवीत आगात् स उ श्रेयान् भवति जायमानः।
तं धीरासः कवय उन्नयन्ति स्वाध्यो३ मनसा देवयन्तः॥
शीतवातोष्णसंत्राणं लज्जाया रक्षणं परम् ।
देहालङ्करणं वस्त्रमतः शान्तिं प्रयच्छ मे ॥
(ॐ भूर्भुवः स्वः श्रीवरुणाद्यावाहितदेवताभ्यो नमः, वस्त्रं समर्पयामि। वस्त्रान्ते आचमनीयं जलं समर्पयामि।)
यज्ञोपवीतम्
ॐ यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् ।
आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः॥
यज्ञोपवीतमसि यज्ञस्य त्वा यज्ञोपवीततेनोपनह्यामि।
नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम् ।
उपवीतं मया दत्तं गृहाण परमेश्वर ॥
(ॐ भूर्भुवः स्वः श्रीवरुणाद्यावाहितदेवताभ्यो नमः, यज्ञोपवीतं समर्पयामि। यज्ञोपवीतान्ते आचमनीयम् जलं समर्पयामि।)
उपवस्त्रम्
ॐ सुजा॑तो॒ ज्ज्योति॑षा स॒हशर्म्म॒ व्वरू॑थ॒मा स॑द॒त्त्स्वः॒।
व्वासो॑ऽ अग्ने व्वि॒श्श्वरूप॒ᳮ संव्व्य॑यस्व-व्विभावसो ॥
यस्याभावेन शास्त्रोक्तं कर्म किञ्चिन्न सिध्यति ।
उपवस्त्रं प्रयच्छामि सर्वकर्मोपकारकम् ॥
(ॐ भूर्भुवः स्वः श्रीवरुणाद्यावाहितदेवताभ्यो नमः, उपवस्त्रं (उपवस्त्रार्थे रक्तसूत्रम्) समर्पयामि। उपवस्त्रान्ते आचमनीयं जलं समर्पयामि।)
गन्धम् (चन्दनम्)
ॐ त्वाङ्ग॑न्ध॒र्व्वाऽअ॑खनँ॒स्त्वामिन्द्र॒स्त्वाम्बृह॒स्प्पतिः॑।
त्वामो॑षधे॒ सोमो॒राजा॑व्विद्वान्न्यक्ष्मा॑दमुच्यत ॥
श्रीखण्डं चन्दनं दिव्यं गंधाढ्यं सुमनोहरम् ।
विलेपनं सुरश्रेष्ठ चन्दनं प्रतिगृह्यताम् ॥
(ॐ भूर्भुवः स्वः श्रीवरुणाद्यावाहितदेवताभ्यो नमः, चन्दनं समर्पयामि।)
अक्षताः
ॐ अक्ष॒न्नमी॑मदन्त॒ह्यव॑प्प्रि॒याऽ-अ॑धूषत ।
अस्तो॑षत॒ स्वभा॑नवो व्विप्प्रा॒नवि॑ष्ट्ठया म॒ती ॺोजान्न्विन्द्रतेहरी॑ ॥
अक्षताश्च सुरश्रेष्ठ कुङ्कुमाक्ताः सुशोभिताः।
मया निवेदिता भक्त्या गृहाण परमेश्वर ॥
(ॐ भूर्भुवः स्वः श्रीवरुणाद्यावाहितदेवताभ्यो नमः, अक्षतान् समर्पयामि।)
पुष्पाणि (पुष्पमालाम्)
ॐ ओष॑धीः॒ प्प्रति॑मोदद्ध्व॒म्पुष्प्प॑वतीः प्प्र॒सूव॑रीः।
अश्श्वा॑ऽइव स॒ज्जित्त्व॑रीर्व्वी॒रुधः॑ पारयि॒ष्ण्ण्वः॒ ॥
माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो ।
मयाहृतानि पुष्पाणि पूजार्थं प्रतिगृह्यताम् ॥
(ॐ भूर्भुवः स्वः श्रीवरुणाद्यावाहितदेवताभ्यो नमः, पुष्पं (पुष्पमालाम्) समर्पयामि।)
दूर्वाङ्कुराः
ॐ काण्डा॑त्त्काण्डात्त्प्र॒रोह॑न्ती॒ परु॑षः परुष॒स्प्परि॑ ।
ए॒वानो॑ दूर्व्वे॒ प्प्रत॑नु स॒हस्त्रे॑ण श॒तेन॑ च ॥
विष्ण्वादिसर्वदेवानां दूर्वे त्वं प्रीतिदा सदा ।
क्षीरसागरसम्भूते वंशवृद्धिकरी भव ॥
(ॐ भूर्भुवः स्वः श्रीवरुणाद्यावाहितदेवताभ्यो नमः, दूर्वाङ्कुरान् समर्पयामि।)
सिन्दूरम्
ॐ सिन्धो॑रिव प्प्राद्ध्व॒ने शू॑घ॒नासो॒ व्वात॑ प्प्रमियः पतयन्न्ति ॺह्वाः।
घृ॒तस्य॒ धारा॑ ऽअरु॒षो न व्वा॒जी काष्ठ्ठा॑ भि॒न्दन्नू॒र्म्मिभिः॒ पिन्न्व॑मानः॥
ॐ सिन्दूरं शोभनं रक्तं सौभाग्यं सुखवर्धनम् ।
शुभदं कामदं चैव सिन्दूरं प्रतिगृह्यताम ॥
(ॐ भूर्भुवः स्वः श्रीवरुणाद्यावाहितदेवताभ्यो नमः, सिन्दूरं समर्पयामि।)
नानापरिमल सौभाग्यद्रव्याणि
ॐ अहि॑रिव भो॒गैः पर्ॺ्ॺेति बा॒हुञ्ज्याया॑ हे॒तिम्प॑रि बाध॑मानः।
ह॒स्त॒ग्घ्नो व्विश्श्ववा॑ व्व॒युना॑नि व्वि॒द्धान्पुमा॒न्न पुमा॑ᳬ स॒म्परि॑ पातु व्वि॒श्वतः॑॥
अबीरं च गुलालं च हरिद्रादिसमन्वितम्।
नाना परिमलं द्रव्यं गृहाण परमेश्वर॥
(ॐ भूर्भुवः स्वः श्रीवरुणाद्यावाहितदेवताभ्यो नमः, नानापरिमलसौभाग्यद्रव्याणि समर्पयामि।)
सुगन्धितद्रव्यम्
ॐ त्र्य॑म्बकँ ॺ्ॺजामहे सुग॒न्धिम्पु॑ष्ट्टि॒वर्द्ध॑नम् ।
उ॒र्व्वा॒रु॒कमि॑व॒बन्ध॑नान्मृ॒त्त्योर्मु॑क्षीय॒ मामृता॑त् ॥
दिव्यगन्धसमायुक्तं महापरिमलाद्भुतम् ।
गन्धद्रव्यमिदं भक्त्या दत्तं वै परिगृह्यताम् ॥
(ॐ भूर्भुवः स्वः श्रीवरुणाद्यावाहितदेवताभ्यो नमः, सुगन्धितद्रव्यं समर्पयामि।)
आभूषणम्
ॐ हिर॑ण्ण्यरूपा उ॒षसो॑ व्विरो॒क उ॒भावि॑न्द्रा॒ उदिथः॑ सूर्ॺ्ॺश्च।
आ रो॑हतं व्वरूण मित्र॒ गर्त्तं॒ तत॑श्चक्षाथामदि॑तिं॒ दितिं॑ च मि॒त्रो॒ऽसि॒ व्वरु॑णोऽसि॥
ॐ स्व॒र्ण्ण घ॒र्म्मः स्वाहा॒ स्वॗर्णार्कः स्वाहा स्वॗर्ण्ण शु॒क्क्रः स्वाहा॒ स्वॗर्ण्ण ज्ज्योतिः॒ स्वाहा॒ स्वॗर्ण्ण सूर्ॺ्ॺः स्वाहा॑॥
अलङ्कारान् महादिव्यान् नानारत्न-विनिर्मितान् ।
गृहाण देवदेवेश ! प्रसीद परमेश्वर ॥
(ॐ भूर्भुवः स्वः श्रीवरुणाद्यावाहितदेवताभ्यो नमः, आभूषणम् समर्पयामि।)
धूपम्
ॐ धूर॑सि॒ धूर्व्व॒ धूर्व्वन्तं धूर्व्व तँ ॺ्ॺो॒ ऽस्म्मामान् धूर्व्वति॒ तन्धू॑र्व्व॒यं व्वंयं धूर्व्वा॑मः।
दे॒वाना॑मसि॒ व्वह्नि॑तम॒ ᳬ सस्न्नि॑तमम् पप्प्रि॑तमम् जुष्ट्ट॑तमम् देव॒हूत॑मम्॥
वनस्पतिरसोद्भूतो गन्धाढ्यो गन्ध उत्तमः ।
आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥
(ॐ भूर्भुवः स्वः श्रीवरुणाद्यावाहितदेवताभ्यो नमः, धूपमाघ्रापयामि।)
दीपम्
ॐ चॖन्द्रमाॖमन॑सोजाॖतश्श्चक्षोॖः सूर्ॺ्ॺो॑ऽअजायत ।
श्रोत्रा॑द्वायुश्श्च॑प्राॖणश्श्चॖमुखा॑दॖग्निर॑जायत ॥
साज्यं च वर्तिसंयुक्तं वह्निना योजितं मया ।
दीपं गृहाण देवेश त्रैलौक्यतिमिरापहम् ॥
(ॐ भूर्भुवः स्वः श्रीवरुणाद्यावाहितदेवताभ्यो नमः, दीपं दर्शयामि।)
हस्तौप्रक्षालनः – ‘ॐ हृषीकेशाय नमः’ ‘ॐ गोविन्दाय नमः’ इति मन्त्रेण हस्तौप्रक्षाल्यः॥
नैवेद्यम्
ॐ अन्न॑प॒तेन्न॑स्यनोदेह्ॺनमी॒वस्य॑ शुष्म्मिणः॑।
प्रप्प॑दातार॑न्तारिष॒ऽ ऊर्ज्ज॑न्नोधेहि द्वि॒पदे॒चतु॑ष्पदे ॥
ॐ नाब्भ्या॑ऽआसीद॒न्तरि॑क्ष ᳬ शी॒र्ष्ष्णोद्यौः सम॑वर्त्तत ।
प॒द्भ्याम्भूमिर्द्दिशः श्रोत्र्त्रात्तथा॑लो॒काँ२॥ ऽअ॑कल्प्पयन्॥
शर्कराखण्डखाद्यानि दधि क्षीर घृतानि च ।
आहारं भक्ष्यभोज्यं च नैवेद्यं प्रतिगृह्यताम् ॥
(ॐ भूर्भुवः स्वः श्रीवरुणाद्यावाहितदेवताभ्यो नमः, सर्वविधं नैवेद्यं निवेदयामि।)
ॐ प्राणाय स्वाहा । ॐ अपानाय स्वाहा । ॐ व्यानाय स्वाहा । ॐ उदानाय स्वाहा । ॐ समानाय स्वाहा ।
आचमनीयम् आदि – ॐ भूर्भुवः स्वः श्रीवरुणाद्यावाहितदेवताभ्यो नमः, आचमनीयं जलं, मध्ये पानीयं जलम, उत्तरापोऽशने, मुखप्रक्षालनार्थे, हस्तप्रक्षालनार्थे च जलं समर्पयामि॥
करोद्वर्तनम्
ॐ सि॒ञ्चति॒ परि॑ षिञ्च॒न्त्युत् सि॑ञ्चन्ति पुनन्ति॑ च।
सुरा॑यै ब॒ब्भ्व्रै मदे॑ कि॒न्त्वो व्वदति कि॒न्त्वः॥
ॐ अ॒ ᳬ शुना॑ ते अ॒ ᳬ शुः पृ॑च्च्यतां॒ परु॑षाः॒ परुः।
ग॒न्न्धस्ते॒ सोम॑मवतु॒ मदा॑य॒ रसो ऽअच्यु॑तः ॥
चन्दनं मलयोद्भुतं कस्तूर्यादिसमन्वितम्।
करोद्वर्तनकं देव गृहाण परमेश्वर॥
(ॐ भूर्भुवः स्वः श्रीवरुणाद्यावाहितदेवताभ्यो नमः, करोद्वर्तनार्थे चन्दनं समर्पयामि।)
ताम्बूलम्
ॐ ॺत्पुरु॑षेणहॖविषा॑देॖवाॺॖज्ञमत॑न्न्वत ।
व्वॖसॖन्तो॒ऽस्यासीॖदाज्ज्य॑ङ्ग्रीॖष्म ऽइ॒ध्मः शरद्धविः ॥
पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम् ।
एलादिचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥
(ॐ भूर्भुवः स्वः श्रीवरुणाद्यावाहितदेवताभ्यो नमः, मुखवासार्थे एलालवंगपूगीफलसहितं ताम्बूलं समर्पयामि।)
ऋतुफलानि (अखण्ड ऋतुफल)
ॐ ॺाः फ॒लिनी॒र्ॺ्ॺाऽ अ॑फ॒लाऽ अ॑पु॒ष्पा ॺाश्च॑ पु॒ष्प्पिणीः॑।
बृह॒स्प्प्रति॑ प्प्रसूता॒स्तानो॑ मुञ्च॒न्त्वᳬ ह॑सः॥
ॐ इदं फलं मया देव स्थापितं पुरतस्तव ।
तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि ॥
(ॐ भूर्भुवः स्वः श्रीवरुणाद्यावाहितदेवताभ्यो नमः, ऋतुफलानि, अखण्ड ऋतुफलानि, समर्पयामि । फलान्ते आचमनीयं जलं समर्पयामि। मध्ये-मध्ये पानीयं समर्पयामि, उत्तरापोशनं समर्पयामि, हस्तप्रक्षालनं समर्पयामि, मुखप्रक्षालनं समर्पयामि ॥ (मौसम के अनुसार यथा शक्ति फल अर्पण करें, श्रीफल अर्पण करें)
दक्षिणाम्
ॐ हि॒र॒ण्ण्य॒ग॒र्ब्भः सम॑वर्त्त॒ताग्ग्ग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ऽआसीत्।
स दा॑धार पृथि॒वीन्द्या मु॒ते माङ्कस्म्मै॑ दे॒वाय॑ ह॒विषा॑ व्विधेम॥
हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः ।
अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे ॥
(ॐ भूर्भुवः स्वः श्रीवरुणाद्यावाहितदेवताभ्यो नमः, कृतायाः पूजायाः साद्गुण्यार्थे द्रव्यदक्षिणां समर्पयामि।)
नीराजनम्-कर्पूरारार्तिक्यम्
ॐ इद ᳬ ह॒विः प्प्र॒जन॑न॑ मे ऽअस्तु॒ दश॑वीर॒ ᳬ सर्व्वगण ᳬ स्व॒स्तये॑ ।
आ॒त्म॒सनि॑ प्प्रजा॒सनि॑ पशु॒सनि॑ लोक॒सन्न्य॑भय॒सनि॑ ।
अ॒ग्निः प्प्र॒जां बहुलां में करोत्वन्नं पयो रेतो॑ ऽअ॒स्म्मासु॑ धत्त।
ॐ आ रा॑त्र्त्रि॒ पार्त्थि॑व॒ ᳬ रजः॑ पि॒तुर॑प्प्रायि॒ धाम॑भिः।
दि॒वः सदा॑ ᳬ ऽसि बृह॒ती व्विति॑ष्ठस॒ ऽआ त्त्वे॒षं व्व॑र्त्त॑ते तमः॑॥
कदलीगर्भसम्भूतं कर्पूरं तु प्रदीपितम् ।
आरार्तिकमहं कुर्वे पश्य मे वरदो भव ॥
(ॐ भूर्भुवः स्वः श्रीवरुणाद्यावाहितदेवताभ्यो नमः, कर्पूरनीराजनं आरार्तिक्यम् समर्पयामि।)
पुष्पाञ्जलिम्
ॐ ॺॖज्ञेन॑ ॺॖज्ञम॑यजन्त देॖवास्तानिॖ धर्म्मा॑णि प्प्रथॖमान्न्या॑सन् ।
तेहॖनाक॑म्महिॖमान॑÷ सचन्तॖॺत्र्त्रॖपूर्व्वे॑ साॖद्ध्याः सन्ति॑देॖवाः॥
ॐ जल बिम्बाय विद्महे नील पुरुषाय धीमहि तन्नो वरुणः प्रचोदयात्॥
नानासुगन्धिपुष्पाणि यथाकालोद्भवानि च।
पुष्पाञ्जलिर्मया दत्तो गृहाण परमेश्वर॥
(ॐ भूर्भुवः स्वः श्रीवरुणाद्यावाहितदेवताभ्यो नमः, मन्त्रपुष्पाञ्जलिं समर्पयामि।)
प्रदक्षिणाम्
ॐ ॺे तीॖर्त्थानि॑ प्प्रॖचर॑न्ति सृ॒काह॑स्तानिषॖङ्गिणैः॑ ।
तेषा॑ ᳬ सहस्त्रयोजॖनेऽ वॖ धन्न्वा॑नि तन्न्मसि ॥
सॖप्प्तास्या॑सन्न्यरिॖधयॖस्त्र्त्रिॖः सॖप्प्तसॖमिध॑÷ कृॖताः।
देॖवाॺद्यॖज्ञन्त॑न्न्वाॖनाऽअब॑ध्नॖन्न्पुरु॑षम्पॖशुम् ॥
ॐ यानि कानि च पापानि ज्ञाताऽज्ञात कृतानि च ।
शतानि सर्वाणि नश्यन्तु प्रदक्षिणां पदे पदे ॥
(ॐ भूर्भुवः स्वः श्रीवरुणाद्यावाहितदेवताभ्यो नमः, प्रदक्षिणां समर्पयामि।)
विशेषार्घ्यम्
श्वेताभ्र शिखराकार, नव भूतहिते रतः ।
गृहाणार्घ्यम् इमं देव, जलनाथ नमोस्तुते ॥
अभ्यर्थितो मया भक्त्या, परिवारसमन्वित ।
सान्निध्यं भव देवेश, मदीये यागमण्डपे ॥
गृहाण ब्रह्मणा सेव्य, प्रसादं कुरु मे अपः।
संपूज्य बहुधा भक्त्या, मंत्रमेतमुदीरयेत्॥
(ॐ भूर्भुवः स्वः श्रीवरुणाद्यावाहितदेवताभ्यो नमः, विशेषार्घ्यं समर्पयामि।)
पूजनोपरान्त श्रीवरुण देव प्रार्थना
निधानं धर्माणां, किमपि च विधानं नवमुदाम्
प्रधानं तीर्थानाम्, मलपरिधानं त्रिजगतः।
समाधानं बुद्धे, रथ खलु तिरो धानम धियाम्
श्रियामा धानं नः, परिहरतु तापं तव वपुः॥
नमो नमस्तेस्फटिकप्रभाय सुश्वेतहाराय सुमङ्गलाय।
सुपाश हस्ताय झषासनाय, जलाधि नाथाय नमो नमस्ते॥
वन्दे तीर्थमयं सदाशुचिकरं, वन्दे जलाधीश्वरं
वन्दे पाशकरं सुदा सुरवरं, वन्दे महाशोकहम्।
वन्दे सन्तत पाप पुञ्जशमनं, वन्दे सदा प्रीतिदं
पादः पृष्ठ समाश्रितञ्च वरुणं, वन्दे प्रतीची पतिम्॥
ॐ पाशपाणे नमस्तुभ्यं , पद्मिनीजीवनायक ।
सांनिध्य कुरु मे देव प्रसन्नो भव सर्वदा ॥
(ॐ भुर्भुवः स्वः अपां पतये वरुणाय नमः ॐ वरुणाद्यावाहित देवताभ्यो नमः, प्रार्थनापूर्वकं नमस्कारान् समर्पयामि।)
ॐ अपां पतये वरुण देवताः पुण्याहवाचनं यावत् तावत् त्वं सुस्थिरो भव॥
(इसके पश्चात् हाथ में जल लेकर निम्नलिखित वाक्य का उच्चारण कर जल कलश के पास छोड़ते हुए समस्त पूजन-कर्म भगवान् वरुणदेवको निवेदित करते हुए समर्पित करें)
समर्पणम् – अनेन कृतेन पूजनेन कलशे वरुणाद्यावाहित देवताः प्रीयन्तां न मम्।
श्रीगणेशगौर्यादि षोडशमातृकाणां वैदिक पूजन प्रयोगः
(ततो पुण्याहवाचनम् च कुर्यात्)
॥ अथ् पुण्याहवाचन ॥
श्रीवरुण प्रार्थना
ॐ पाशपाणे नमस्तुभ्यं पद्मिनीजीवनायक ।
पुण्याहवाचनं यावत् तावत् त्वं सन्निधौ भव ॥
अवनिकृतर्जानु मण्डलः कमल मुकुल सदृशमञ्जलिं शिरस्याधायाऽनन्तरं वामान्वारब्ध दक्षिणेन पाणिना स्वर्णपूर्ण कलशं धारयित्वा आशिषः प्रार्थयेत्॥
(यजमान अपने दाहिनी ओर पुण्याहवाचन-कर्म के लिए वरण किये हुए युग्म ब्राह्मणों को, जिनका मुख उत्तर की ओर हो, बैठा ले। इसके बाद यजमान घुटने टेककर कमल की कोढ़ीं की तरह अञ्जलि बनाकर सिर से लगाकर तीन बार प्रणाम करे। तब आचार्य अपने दाहिने हाथ से स्वर्णयुक्त उस जलपात्र (लोटे) को यजमान की अञ्जलि में रख दे। यजमान उसे सिर से लगाकर निम्नलिखित मन्त्र पढ़कर ब्राह्मणों से अपनी दीर्घ आयु का आशीर्वाद मांगे)
यजमान – ॐ दीर्घा नागा नद्यो गिरयस्त्राीणि विष्णुपदानि च। तेनायुष्यप्रमाणेन पुण्यं पुण्याहं दीर्घमायुरस्तु॥
ब्राह्मण – अस्तु दीर्घमायुः॥
यजमान – त्राीणि पदा विचक्रमे विष्णुर्गोपा अदाभ्यः। अतो धर्माणि धारयन्। तेनायुष्य प्रमाणेन पुण्यं पुण्याहं दीर्घमायुरस्तु॥ इति भवन्तु ब्रुवन्तु॥
ब्राह्मण – ॐ पुण्यं पुण्याहं दीर्घमायुरस्तु॥
(इसी आनुपूर्वी से यजमान ब्राह्मण संवाद दो बार करके यजमान सिर पर से कलश को हटाकर कलश के स्थान पर रखे पुनः इसी कलश को सिर से लगाकर पूर्वोक्त आनुपूर्वी मंत्र बोले)
यजमान – ॐ दीर्घा नागा नद्यो गिरयस्त्राीणि विष्णुपदानि च। तेनायुष्यप्रमाणेन पुण्यं पुण्याहं दीर्घमायुरस्तु॥
ब्राह्मण – दीर्घमायुरस्तु॥
(यजमान सिर पर से कलश को हटाकर कलश के स्थान पर रखे पुनः इसी कलश को सिर से लगाकर पूर्वोक्त आनुपूर्वी मंत्र बोले)
यजमान – ॐ दीर्घा नागा नद्यो गिरयस्त्राीणि विष्णुपदानि च। तेनायुष्यप्रमाणेन पुण्यं पुण्याहं दीर्घमायुरस्त्विति भवतो ब्रुवन्तु॥
ब्राह्मण – पुण्यं पुण्याहं दीर्घमायुरस्तु॥
(ततश्चतुर ऋग्यजुःसामाथर्वविदो विमानुपवेश्य तेषां ब्राह्मणानां हस्ते सुप्रोक्षितादिकरणम् – पुनः कर्ता पूर्वाभिमुख बैठे युग्म ब्राह्मणों को जल दे।)
यजमान – सुप्रोक्षितमस्तु॥
ब्राह्मण – अस्तु सुप्रोक्षितम्॥
यजमान – ॐ शिवा आपः सन्तु॥ (ऐसा कहकर आम्र पल्लव आदि के द्वारा ब्राह्मण के दाहिने हाथ में जल दे।)
ब्राह्मण – ॐ सन्तु शिवा आपः॥ (ऐसा कहकर ग्रहण कर ले।)
(इसी प्रकार यजमान, ब्राह्मण के हाथ में पुष्प, अक्षत, गन्ध, सुपारी-पान, द्रव्य-दक्षिणा, जल आदि क्रमशः देता जाय और ब्राह्मण इन्हें स्वीकार करते हुए यजमान की मङ्गलकामना करें।)
यजमान – सौमनस्यमस्तु पुष्पं दद्यात्। (ॐ लक्ष्मीर्वसति पुष्पेषु लक्ष्मीर्वसति पुष्करे। सा मे वसतु वै नित्यं सौमनस्यं मे॥)
ब्राह्मण – अस्तु सौमनस्यम्॥
यजमान – अक्षतं चारिष्टं चास्तु। (अक्षतं चास्तु मे पुण्यं दीर्घमायुर्यशोबलम्। यद्यच्छ्रेयस्करं लोके तत्तदस्तु सदा मम्॥)
ब्राह्मण – अस्त्वक्षतमरिष्टं च॥
यजमान – ॐ गन्धाः पान्तु सौमङ्गल्यं चास्त्विति भवन्तो ब्रुवन्तु॥
ब्राह्मण – ॐ गन्धाः पान्तु सौमङ्गल्यं चास्तु॥
यजमान – ॐ अक्षताः पान्तु आयुष्यमस्त्विति भवन्तो ब्रुवन्तु॥
ब्राह्मण – ॐ अक्षताः पान्तु आयुष्यमस्तु॥
यजमान – ॐ पुष्पाणि पान्तु सौश्रियमस्त्विति भवन्तो ब्रुवन्तु॥
ब्राह्मण – ॐ पुष्पाणि पान्तु सौश्रियमस्तु॥
यजमान – ॐ सफलानि ताम्बूलानि पान्तु ऐश्वर्यमस्त्विति भवन्तो ब्रुवन्तु॥
ब्राह्मण – ॐ सफलानि ताम्बूलानि पान्तु ऐश्वर्यमस्तु॥
यजमान – ॐ पूगीफलानि पान्तु बहुफलमस्त्विति भवन्तो ब्रुवन्तु॥
ब्राह्मण – ॐ पूगीफलानि पान्तु बहुफलमस्तु॥
यजमान – ॐ दक्षिणाः पान्तु बहु देयं चास्त्विति भवन्तो ब्रुवन्तु॥
ब्राह्मण – ॐ दक्षिणाः पान्तु बहुधनञ्चास्तु॥
यजमान – ॐ आपः पान्तु॥
ब्राह्मण – स्वर्चितमस्तु॥
यजमान, आचार्य एवं ब्राह्मणों को पुनः प्रणाम करके प्रार्थना करते हुए कहे –
ततो यजमान ब्रुयात् – ॐ दीर्घमायुः शान्तिः पुष्टिस्तुष्टिः श्रीर्यशो विद्या विनयो वित्तं बहुपुत्रं बहुधनं च आयुष्यं चास्त्विति भवन्तो ब्रुवन्तु॥
ब्राह्मण उसी कलश के जल का यजमान के सिर पर सिञ्चन करते हुए कहे –
ब्राह्मण वदेयुः – तथास्तु। ‘अस्तु ते दीर्घमायुः शान्तिः पुष्टिस्तुष्टि श्रीर्यशो विद्या विनयो वित्तं बहुपुत्रं बहुधनं च आयुष्यं’॥
पुनर्यजमान वदेत – (अक्षत लेकर) – यं कृत्वा सर्ववेद यज्ञक्रियाकरण कर्मारम्भाः शुभाः शोभनाः प्रवर्तन्ते तमहमोङ्कारमादिं कृत्वा ऋग्यजुः सामाथर्वणाशीर्वचनं बहुऋषिमतं समनुज्ञातं भवद्भिरनुज्ञातः पुण्यं पुण्याहं वाचयिष्ये॥
ब्राह्मण – ‘ॐ वाच्यताम्’॥
ब्राह्मणानां हस्ते अक्षतान्दद्यात्ते च मन्त्रान्ते आशिषो दद्युः ब्राह्मण अग्र मन्त्रों का वाचन करे)
ॐ भ॒द्रङ्क॑र्ण्णै॑भिः शृणुयामदेवा भ॒द्द्रम्प॑श्श्येमा क्षभि॑र्ॺ्ॺजत्र्त्राः॥
स्थि॒रैरङ्गै॑स्तुष्टु॒वा ᳬ स॑स्त॒नूभि॒र्व्व्य॒शेमहि दे॒वहि॑तँ॒ ॺ्ॺदायुः॑॥
ॐ दे॒वाना॑म्भ॒द्रा सु॑मतिर्ऋ॑जूय॒तान्दे॒वाना॑ ᳬ रा॒तिर॒भिनो॒ निव॑र्त्तताम्॥
दे॒वाना॑ᳬ स॒क्ख्यमुप॑सेदिमा व्व॒यन्दे॒वा न॒ऽआयुः॒ प्प्रति॑रन्तु जी॒वसे॑॥
ॐ दी॒र्ग्घायु॑स्त॒ऽओष॑धे खनि॒ता ॺस्म्मै चत्त्वा खना॑म्म्य॒हम्॥
अथो॒त्त्वन्दी॒र्ग्घायु॑ र्ब्भूत्त्वा श॒तव॑ल्शा॒ व्विरो॑हतात्॥
ॐ द्र॒वि॒णो॒दाः पि॑पीषति जु॒होत॒ प्प्र च॑ तिष्ट्ठत॥
ने॒ष्ट्रादृ॒तुभि॑रिष्ष्यत॥
ॐ स॒वि॒ता त्त्वा॑ स॒वाना॑ ᳬ सुवताम॒ग्निर्गृ॒हप॑तीना॒ ᳬ सोमो॒ व्वनस्प्पती॑नाम्।
बृह॒स्प्पति॑र्व्वा॒चऽ इन्द्रो॒ ज्ज्यैष्ठ्या॑य रु॒द्रः प॒शुब्भ्यो॑ मि॒त्रः स॒त्त्यो व्वरु॑णो॒ धर्म्म॑पतीनाम्॥
ॐ न तद्द् रक्षा॑ ᳬ सि॒ न पि॑शा॒चास्त॑रन्ति दे॒वाना॒मोजः॑ प्प्रथम॒ज ᳬ ह्ये॒तत्।
ॺो बि॒भर्ति॑ दाक्षाय॒ण ᳬ हिर॑ण्ण्य॒ ᳬ॒ स दे॒वेषु॑ कृणुते दी॒र्ग्घमायुः॒ स म॑नु॒ष्ये॒षु कृणुते दी॒र्ग्घमायुः॒॥
ॐ उ॒च्चा ते॑ जा॒तमन्ध॑सो दि॒वि सद्भूम्म्या ददे।
उ॒ग्ग्र ᳬ शर्म्म॒ महि॒ श्रवः॑॥ इत्याशीर्वाद॥
यजमान वदेत् – व्रत जप नियम तपः स्वाध्याय क्रतु दया दम दान विशिष्टानां सर्वेषां ब्राह्मणानां मनः समाधीयताम्॥
ब्राह्मण – समाहितमनसः स्मः॥
यजमान – प्रसीदन्तु भवन्तः॥
ब्राह्मण – प्रसन्नाः स्मः॥
(अब, यजमान पुण्याहवाचनकलश के दायें-बायें रखे दो जलपात्र(कटोरी) में से सिर्फ दाहिने पात्र में आम्र पल्लव या दूर्वा से, या सीधे कलश से ही, थोड़ा-थोड़ा जल डालता जाय और ब्राह्मण मन्त्र बोलते जायें। ध्यातव्य है कि बीच-बीच में थोड़ा जल बायें पात्र में भी डालना है। सुविधा के लिए दोनों पात्रों का संकेत दिया जा रहा है। जल डालने में बिलकुल सावधानी वरतें। दायें-बायें के भेद को समझें। दायें में शुद्ध-पवित्र कामना का जल डाल रहे हैं, और बायें में अशुद्ध-पापादि जनित जल क्षेपित किया जा रहा है। यहाँ त्रुटि होने का अर्थ ये होगा कि आप कूड़े को तिजोरी में और सोने को कूड़े में स्थान दे रहे हैं। अतः सावधानीपूर्वक पुण्याहवाचन कर्म करें। सामान्यतौर पर अन्य प्रकार की परेशानियों की स्थिति में भी पुण्याहवाचन का कर्म किया जा सकता है। इसके अनेक लाभ हैं।)
दाहिने पात्र में – ॐ शान्तिरस्तु। ॐ अस्तु शान्तिः। ॐ पुष्टिरस्तु। ॐ तुष्टिरस्तु। ॐ वृद्धिरस्तु। ॐ अविघ्नमस्तु। ॐ आयुष्यमस्तु। ॐ आरोग्यमस्तु। ॐ शिवंकर्मास्तु। ॐ कर्मसमृद्धिरस्तु। ॐ धर्मसमृद्धिरस्तु। ॐ वेदसमृद्धिरस्तु। ॐ शास्त्रसमृद्धिरस्तु। ॐ धनधान्यसमृद्धिरस्तु। ॐ पुत्रपौत्रसमृद्धिरस्तु। ॐ इष्टसम्पदस्तु।
बायें पात्र में – ॐ अरिष्टनिरसनमस्तु। ॐ यत्पापं रोगम् शुभम् कल्याणं तद् दूरे प्रतिहतमस्तु।
पुनः दाहिने पात्र में – ॐ यच्छ्रेयस्तदस्तु। ॐ उत्तरे कर्मणि निर्विघ्नमस्तु। ॐ उत्तरोत्तरम हर हरभि वृद्धिरस्तु। ॐ उत्तरोत्तराः क्रियाः शुभाः शोभनाः सम्पद्यन्ताम्। ॐ तिथि करण मुहूर्त नक्षत्र ग्रह लग्न सम्पदस्तु। “पात्रेउदकसेकः” ॐ तिथि करण मुहूर्त नक्षत्र ग्रह लग्नाधि देवताः प्रीयन्ताम्। ॐ तिथिकरणे सुमुहूर्ते सनक्षत्रे सग्रहे साधिदेवते प्रीयेताम्। ॐ दुर्गापाञ्चाल्यौ प्रीयेताम्। ॐ अग्निपुरोगा विश्वेदेवाः प्रीयन्ताम्। ॐ इन्द्रपुरोगा मरुद्गणाः प्रीयन्ताम्। ॐ वशिष्ठपुरोगा ऋषिगणाः प्रीयन्ताम्। ॐ माहेश्वरीपुरोगा उमामातरः प्रीयन्ताम्। ॐ अरुन्धतीपुरोगा एकपत्न्यः प्रीयन्ताम्। ॐ ब्रह्मपुरोगाः सर्वे वेदाः प्रीयन्ताम्। ॐ विष्णुपुरोगा सर्वे देवाः प्रीयन्ताम्। ॐ ऋषयश्छन्दांस्याचार्या वेदा देवा यज्ञाश्च प्रीयन्ताम्। ॐ ब्रह्म च ब्राह्मणाश्च प्रीयन्ताम्। ॐ श्रीसरस्वत्यौ प्रीयेताम्। ॐ श्रद्धामेधे प्रीयेताम्। ॐ भगवती कात्यायनी प्रीयताम्। ॐ भगवती माहेश्वरी प्रीयताम्। ॐ भगवती ऋद्धिकरी प्रीयताम्। ॐ भगवती सिद्धिकरी प्रीयताम्। ॐ भगवती पुष्टिकरी प्रीयताम्। ॐ भगवती तुष्टिकरी प्रीयताम्। ॐ भगवन्तौ विघ्नविनायकौ प्रीयेताम्। ॐ सर्वाः कुलदेवताः प्रीयन्ताम्। ॐ सर्वा ग्रामदेवताः प्रीयन्ताम्। ॐ सर्वा इष्टदेवताः प्रीयन्ताम्।
अब बायें पात्र में – ॐ हताश्च ब्रह्मद्विषः। ॐ हताश्च परिपन्थिनः। ॐ हताश्च कर्मणो विघ्नकर्तारः। ॐ शत्रवः पराभवं यान्तु। ॐ शाम्यन्तु घोराणि। ॐ शाम्यन्तु पापानि। ॐ शाम्यन्त्वीतयः।ॐ शाम्यन्तूपद्रवाः॥
अब दाहिने पात्र में – ॐ शुभानि वर्धन्ताम्। ॐ शिवा आपः सन्तु। ॐ शिवा ऋतवः सन्तु। ॐ शिवा ओषधयः सन्तु। ॐ शिवा वनस्पतयः सन्तु। ॐ शिवा नद्यः सन्तु। ॐ शिवा गिरयः सन्तु। ॐ शिवा अतिथयः सन्तु। ॐ शिवा अग्नयः सन्तु। ॐ शिवा आहुतयः सन्तु। ॐ अहोरात्रे शिवे स्याताम्।
ॐ नि का॒मे नि॑ कामे नः प॒र्ज्जन्न्यो॑ व्वर्षतु फल॑वत्त्यो न॒ऽ ओष॑धयः पच्च्यन्ताँ ॺ्ॺोगक्षे॒मो नः॑ कल्प्पताम्॥
ॐ शुक्राङ्गारक बुध बृहस्पति शनैश्चर राहु केतु सोम सहिता आदित्यपुरोगाः सर्वे ग्रहाः प्रीयन्ताम्। ॐ भगवान् नारायणः प्रीयताम्। ॐ भगवान् पर्जन्यः प्रीयताम्। ॐ भगवान् स्वामी महासेनः प्रीयताम्। ॐ पुरोऽनुवाक्यया यत्पुण्यं तदस्तु। ॐ याज्यया यत्पुण्यं तदस्तु। ॐ वषट्कारेण यत्पुण्यं तदस्तु। ॐ प्रातः सूर्योदये यत्पुण्यं तदस्तु॥
इसके बाद यजमान कलश को यथास्थान रख दे, और दाहिने पात्र में गिराये गए जल से मार्जन करे(अपने सिर पर आम्रपल्लव से जल छिड़के। आचार्य मन्त्रोच्चारण करें—
मार्जन मन्त्र
ॐ पु॒नन्तु॑ मा देवज॒नाः पु॒नन्तु॒ मन॑सा॒ धियः॑।
पु॒नन्तु॒ व्विश्श्वा॑ भू॒तानि जात॑वेदः पुनी॒हि मा॑॥
इस कार्य को परिवार के अन्य सदस्यों को भी करना चाहिए। साथ ही पूरे भवन/भूमि पर भी छिड़काव किया जाना चाहिए। दूसरे, यानी बायें पात्र के जल को नापित वा किसी अन्य के द्वारा बाहर कहीं दूर जाकर एकान्त में रखवा देना चाहिए। लोकाचार में प्रायः देखा जाता है कि नापित ही इस कार्य को करता है, और जल बाहर फेंक कर उपयोगी पात्र रख लेता है। साथ ही कुछ विशेष नेग(उपहार) की भी मांग करता है, जिसका कि उसे अधिकार है। जहाँ यह कार्य मिट्टी के पात्र से कर रहे हों तो नापित को तद् मूल्यस्वरुप विशेष द्रव्य अवश्य देना चाहिए। ध्यातव्य है कि अलग-अलग कार्यों के अलग-अलग अधिकारी होते हैं, और उनका पारिश्रमिक भी हुआ करता है, ऐसा नहीं कि सब कुछ ब्राह्मण ही ले लें। कर्मकाण्ड में आचार्य, पुरोहित, होता, नापित, कुम्भकार, मालाकार आदि का कार्य विभाजित है। तदनुसार सबका पारिश्रमिक भी शास्त्रकारों ने निर्धारित किया है।) अस्तु।
(अब यजमान हाथ जोड़कर ब्राह्मण से प्रार्थना करे, और ब्राह्मण प्रतिवचन कहें)
यजमान – ॐ एतत्कल्याणयुक्तं पुण्यं पुण्याहं वाचयिष्ये॥
ब्राह्मण – ॐ वाच्यताम्॥
यजमान – (पहली बार) ॐ ब्राह्यं पुण्यं महर्यच्च सृष्ट्युत्पादनकारकम्। वेदवृक्षोद्भवं नित्यं तत्पुण्याहं ब्रुवन्तु नः। भो ब्राह्मणाः! मह्यं सकुटुम्बिने महाजनान्नमस्कुर्वाणाय आशीर्वचनमपेक्षमाणाय सपरिवारस्य मया गृहे क्रियमाणस्या अस्य ..अमुक.. कर्मणः पुण्याहं भवन्तो ब्रुवन्तु॥
(रिक्तस्थानपर कार्योद्येश्य- भूमिपूजन/गृहप्रवेश/अन्यकार्य का उच्चारण करे। एक ही वाक्य तीन बार दोनों को बोलना चाहिए। अन्तिम यानि तीसरी बार में कुछ अतिरिक्त वाक्य भी संलग्न है- इसपर ध्यान दें)
ब्राह्मण – ॐ अस्तु पुण्याहम्॥
यजमान – (दूसरी बार) भो ब्राह्मणाः! मम सकुटुम्बस्य सपरिवारस्य गृहे करिष्यमाणस्य ..अमुक.. कर्मणः पुण्याहं भवन्तो ब्रुवन्तु॥
ब्राह्मण – ॐ अस्तु पुण्याहम्॥
यजमान – (तीसरी बार) भो ब्राह्मणाः! मम सकुटुम्बस्य सपरिवारस्य गृहे करिष्यमाणस्य ..अमुक.. कर्मणः पुण्याहं भवन्तो ब्रुवन्तु॥
ब्राह्मण – ॐ अस्तु पुण्याहम्॥
ॐ पु॒नन्तु॑ मा देवज॒नाः पु॒नन्तु॒ मन॑सा॒ धियः॑।
पु॒नन्तु॒ व्विश्श्वा॑ भू॒तानि जात॑वेदः पुनी॒हि मा॑॥
यजमान – (पहली बार) पृथिव्यामुद्धृतायां तु यत्कल्याणं पुरा कृतम्। ऋषिभिः सिद्धगन्धर्वैस्तत्कल्याणं ब्रुवन्तु नः॥ भो ब्राह्मणाः! मह्यं सकुटुम्बिने महाजनान्नमस्कुर्वाणाय आशीर्वचनम् अपेक्षमाणाय सपरिवारस्य मया गृहे क्रियमाणस्या अस्य ..अमुक.. कर्मणः पुण्याहं भवन्तो ब्रुवन्तु॥
ब्राह्मण – ॐ अस्तु कल्याणम्॥
यजमान – (दूसरी बार) भो ब्राह्मणाः! मह्यं सकुटुम्बिने महाजनान्नमस्कुर्वाणाय आशीर्वचनम् अपेक्षमाणाय सपरिवारस्य मया गृहे क्रियमाणस्या अस्य ..अमुक.. कर्मणः पुण्याहं भवन्तो ब्रुवन्तु॥
ब्राह्मण – ॐ अस्तु कल्याणम्॥
यजमान – (तीसरी बार) भो ब्राह्मणाः! मह्यं सकुटुम्बिने महाजनान्नमस्कुर्वाणाय आशीर्वचनम् अपेक्षमाणाय सपरिवारस्य मया गृहे क्रियमाणस्या अस्य ..अमुक.. कर्मणः पुण्याहं भवन्तो ब्रुवन्तु॥
ब्राह्मण – ॐ अस्तु कल्याणम्॥
ॐ ॺथे॒मां व्वाचं॑ कल्ल्या॒णीमा॒वदा॑नि॒ जने॑ब्भ्यः।
ब्र॒ह्म॒रा॒ज॒न्न्याॖब्भ्या ᳬ शू॒द्राय॒ चार्ॺ्ॺा॑य च॒ स्वाय॒ चार॑णाय च।
प्रि॒यो दे॒वाना॒न्दक्षि॑णायै दा॒तुरि॒ह भूयासम॒यं मे॒ कामः॒ समृ॑द्ध्यता॒मुपमा॒दो न॑मतु॥
यजमान – (पहली बार) ॐ सागरस्य यथा वृद्धिर्महालक्ष्म्यादिभिः कृता। सम्पूर्णा सुप्रभावा च तां च ऋद्धिं ब्रुवन्तु नः॥ भो ब्राह्मणाः! मह्यं सकुटुम्बिने महाजनान्नमस्कुर्वाणाय आशीर्वचनम् अपेक्षमाणाय सपरिवारस्य मया गृहे क्रियमाणस्या अस्य ..अमुक.. कर्मणः ऋद्धिं भवन्तो ब्रुवन्तु॥
ब्राह्मण – ॐ कर्म ऋद्ध्यताम्॥
यजमान – (दूसरी बार) मह्यं सकुटुम्बिने महाजनान्नमस्कुर्वाणाय आशीर्वचनम् अपेक्षमाणाय सपरिवारस्य मया गृहे क्रियमाणस्या अस्य ..अमुक.. कर्मणः ऋद्धिं भवन्तो ब्रुवन्तु॥
ब्राह्मण – ॐ कर्म ऋद्ध्यताम्॥
यजमान – (तीसरी बार) भो ब्राह्मणाः ! मह्यं सकुटुम्बिने महाजनान्नमस्कुर्वाणाय आशीर्वचनम् अपेक्षमाणाय सपरिवारस्य मया गृहे क्रियमाणस्या अस्य ..अमुक.. कर्मणः ऋद्धिं भवन्तो ब्रुवन्तु॥
ब्राह्मण – ॐ कर्म ऋद्ध्यताम्॥
ॐ स॒त्रस्य॒ऽ ऋद्धि॑र॒स्यग॑न्न्म॒ ज्ज्योति॑र॒मृता॑ऽ अभूम।
दिव॑म्पृथि॒व्व्याऽ अद्ध्यारु॑हा॒ मावि॑दाम दे॒वान्त्स्व॒र्ज्ज्योतिः॑॥
यजमान – (पहली बार) ॐ स्वस्तिस्तु याऽविनाशाख्या पुण्यकल्याणवृद्धिदा। विनायकप्रिया नित्यं तां च स्वस्तिं ब्रुवन्तु नः॥ भो ब्राह्मणाः! मह्यं सकुटुम्बिने महाजनान्नमस्कुर्वाणाय आशीर्वचनम् अपेक्षमाणाय सपरिवारस्य मया गृहे क्रियमाणायास्मै ..अमुक.. कर्मणे स्वस्ति भवन्तो ब्रुवन्तु॥
ब्राह्मण – ॐ आयुष्मते स्वस्ति॥
यजमान – (दूसरी बार) भो ब्राह्मणाः! मह्यं सकुटुम्बिने महाजनान्नमस्कुर्वाणाय आशीर्वचनम् अपेक्षमाणाय सपरिवारस्य मया गृहे क्रियमाणायास्मै ..अमुक.. कर्मणे स्वस्ति भवन्तो ब्रुवन्तु॥
ब्राह्मण – ॐ आयुष्मते स्वस्ति॥
यजमान – (तीसरी बार) भो ब्राह्मणाः! मह्यं सकुटुम्बिने महाजनान्नमस्कुर्वाणाय आशीर्वचनम् अपेक्षमाणाय सपरिवारस्य मया गृहे क्रियमाणायास्मै ..अमुक.. कर्मणे स्वस्ति भवन्तो ब्रुवन्तु॥
ब्राह्मण – ॐ आयुष्मते स्वस्ति॥
ॐ स्व॒स्ति न॒ऽ इन्द्रो॑ व्वृ॒द्धश्श्र॑वाः स्व॒स्ति नः॑ पू॒षा व्वि॒श्श्ववे॑दाः। स्व॒स्तिन॒स्तार्क्ष्यो॒ऽ अरि॑ष्टनेमिः स्व॒स्ति नो॒ बृह॒स्प्पति॑र्दधातु॥
यजमान – (पहली बार) ॐ समुद्रमथनाज्जाता जगदानन्दकारिका। हरिप्रिया च माङ्गल्या तां श्रियं च ब्रुवन्तु नः॥ भो ब्राह्मणाः! मह्यं सकुटुम्बिने महाजनान्नमस्कुर्वाणाय आशीर्वचनम् अपेक्षमाणाय सपरिवारस्य मया गृहे क्रियमाणस्या अस्य ..अमुक.. कर्मणः श्रीरस्तु इति भवन्तो ब्रुवन्तु॥
ब्राह्मण – ॐ अस्तु श्रीः॥
यजमान – (दूसरी बार) भो ब्राह्मणाः! मह्यं सकुटुम्बिने महाजनान्नमस्कुर्वाणाय आशीर्वचनम् अपेक्षमाणाय सपरिवारस्य मया गृहे क्रियमाणस्या अस्य ..अमुक.. कर्मणः श्रीरस्तु इति भवन्तो ब्रुवन्तु॥
ब्राह्मण – ॐ अस्तु श्रीः॥
यजमान – (तीसरी बार) भो ब्राह्मणाः! मह्यं सकुटुम्बिने महाजनान्नमस्कुर्वाणाय आशीर्वचनम् अपेक्षमाणाय सपरिवारस्य मया गृहे क्रियमाणस्या अस्य ..अमुक.. कर्मणः श्रीरस्तु इति भवन्तो ब्रुवन्तु॥
ब्राह्मण – ॐ अस्तु श्रीः॥
ॐ मन॑सः॒ काम॒माकू॑तिं व्वा॒चः स॒त्त्यम॑शीय।
प॒शूनाᳬ रु॒पमन्न॑स्य॒ रसो॒ ॺशः॒ श्रीः श्र॑यता॒म्मयि॒ स्वाहा॑॥
ॐ श्रीश्श्च॑ते लॖक्ष्मीश्श्चॖ पत्क्न्या॑ वहोराॖत्र्त्रेपाॖर्श्वे नक्ष॑त्र्त्राणि रूॖपमॖश्विनौॖ व्व्यात्त॑म्।
इॗष्ष्णन्नि॑षाणाॖमुम्म॑ऽइषाण सर्व्वलोॖकम्म॑ऽइषाण॥
यजमान – ॐ मृकण्डु सूनोरायुर्यद् ध्रुवलोम शयोस्तथा। आयुषा तेन संयुक्ता जीवेम शरदः शतम्॥
ब्राह्मण – ॐ शतं जीवन्तु भवन्तः॥
ॐ श॒तमिन्नु श॒रदो॒ऽ अन्ति॑ देवा॒ ॺत्रा॑ नश्च॒क्रा ज॒रस॑न्त॒नूना॑म्।
पु॒त्रासो॒ ॺत्र॑ पि॒तरो॒ भव॑न्ति॒ मा नो॑ म॒द्ध्या री॑रिष॒तायु॒र्ग्गन्तोः॑॥
यजमान – ॐ शिवगौरीविवाहे या या श्रीरामे नृपात्मजे। धनदस्य गृहे या श्रीरस्माकं सास्तु सद्मनि॥
ब्राह्मण – ॐ अस्तु श्रीः॥
ॐ मन॑सः॒ काम॒माकू॑तिं व्वा॒चः स॒त्त्यम॑शीय।
प॒शूनाᳬ रु॒पमन्न॑स्य॒ रसो॒ ॺशः॒ श्रीः श्र॑यता॒म्मयि॒ स्वाहा॑॥
यजमान – प्रजापतिर्लोकपालो धाता ब्रह्मा च देवराट्। भगवाञ्छाश्वतो नित्यं नो वै रक्षतु सर्वतः॥
ब्राह्मण – ॐ भगवान् प्रजापतिः प्रीयताम्॥
ॐ प्रजा॑पते॒ नत्त्वदे॒तान्न्य॒न्न्यो विश्वा॑ रू॒पाणि प्रिया ब॑भूव।
यत्त्का॑मास्ते जुहु॒ मस्तन्नो॑ऽअस्तुव॒यᳬ स्या॑म॒ पत॑यो रयीणाम्॥
यजमान – आयुष्मते स्वस्तिमते यजमानाय दाशुषे। श्रिये दत्ताशिषः सन्तु ऋत्विग्भिर्वेद पारगैः॥ देवेन्द्रस्य यथा स्वस्तिस्तथा स्वस्तिर्गुरोर्गृहे। एकलिङ्गे यथा स्वस्तिस्तथा स्वस्तिः सदा मम॥
ब्राह्मण – ॐ आयुष्मते स्वस्ति॥ ॐ प्रति पन्थामपद्महि स्वस्तिगामनेहसम्। येन विश्वा परि द्विषो वृणक्ति विन्दते वसु॥ ॐ पुण्याहवाचन समृद्धिरस्तु॥
(यजमान दक्षिणहस्तेजलमादाय समर्पण् कृत्वा)
यजमान – मया कृते अस्मिन पुण्याहवाचने न्यूनातिरिक्तो यो विधिः स उपविष्ट ब्राह्मणानां वचनात् श्रीमहागणपति प्रसादाच्च सर्वः परिपूर्णोऽस्तु॥
ब्राह्मण – अस्तु परिपूर्णः॥
(अब यजमान जलाक्षतपुष्पद्रव्यादि लेकर पुण्याहवाचन का विशेष दक्षिणा का संकल्प करे)
दक्षिणा संकल्प – ॐ अद्य कृतस्य पुण्याहवाचनकर्मणः समृद्ध्यर्थं पुण्याहवाचकेभ्यो ब्राह्मणेभ्य इमां दक्षिणां विभज्य अहं दास्ये॥
ब्राह्मण – ॐ स्वस्ति।
अथाऽभिषेकम्
सामान्य कर्मों में पुण्याहवाचन किया जाये तो क्रिया के अन्त में अभिषेक का विधान है। ध्यातव्य है कि भूमि पूजन, गृहप्रवेश के प्रारम्भ में ही यह कार्य किया जाता है, अतः अभिषेक-कार्य क्रियान्त में ही करना व्यावहारिक होगा। अभिषेक के समय पत्नी को पति के बाईं ओर बैठ जाना चाहिए, जबकि अन्यान्य पूजाकार्य में दाईं ओर बैठना चाहिए। इस सम्बन्ध में शास्त्र वचन है – “आशीर्वादेऽभिषेकेच पादप्रक्षालने तथा, शयने भोजने चैव पत्नी तूत्तरतो भवेत्”॥
अभिषेके पत्नी वामतः। इत्यनुरोधात् यजमानस्य वामभागे पत्नीमुपवेश्य, एकस्मिन् पात्रे कलशोदकेन गृहीत्वा अविधुराश्चत्वारो ब्राह्मणाः दूर्वा आम्र पल्लवैः रुदङ्गखास्तिष्ठन्तः सकुटुम्बस्य सपत्नीकं यजमानमभिषिञ्चेयुः॥
ॐ पयः॑ पृथि॒व्व्याम्पय॒ऽओष॑धीषुॗ पयो॑ दि॒व्वयॗन्तरि॑क्षे पयो॑धाः।
पय॑स्वतीः प्र॒दिश॑÷ सन्तुमह्यॺ्ॺ॑म्॥
ॐ पञ्च॑ न॒द्यः सर॑स्वती॒मपि यन्ति॒ सस्त्रोतसः॑।
सर॑स्वती॒तु प॑ञ्च॒धा सो दे॒शेऽभ॑वत्स॒रित्॥
ॐ व्वरु॑णस्यो॒त्तम्भ॑नमसि॒ व्वरु॑णस्य स्कम्भ॒सर्ज्ज॑नीस्त्थो॒ व्वरु॑णस्य ऽऋत॒सद॑न्न्यसि॒ व्वरु॑णस्यऽऋत॒ सद॑नमसि॒ व्वरु॑णस्य ऽऋत॒सद॑न॒मासी॑द॥
ॐ पु॒नन्तु॑ मा देवज॒नाः पु॒नन्तु॒ मन॑सा॒ धियः॑।
पु॒नन्तु॒ व्विश्श्वा॑ भू॒तानि जात॑वेदः पुनी॒हि मा॑॥
ॐ दे॒वस्य॑त्त्वा सवि॒तुः प्प्र॑स॒व्वेॗश्श्विनो॑ र्ब्बा॒हुब्भ्या॑म् पू॒ष्ण्णो हस्ता॑ब्भ्याम्।
सर॑स्वत्त्यै व्वा॒चो ॺ॒न्तुर्ॺ्ॺन्त्रिये॑ दधामि॒ बृह॒स्प्पते॑ष्ट्वा॒ साम्म्रा॑ज्ज्ये ना॒भिषि॑ञ्चामि॥
ॐ दे॒वस्य॑त्त्वा सवि॒तुः प्प्र॑स॒व्वेॗश्श्विनो॑ र्ब्बा॒हुब्भ्या॑म् पू॒ष्ण्णो हस्ता॑ब्भ्याम्।
अ॒श्शिनो॒र्ब्भैष॑ ज्जयेन॒तेज॑से ब्ब्रह्म वर्च्च॒साया॒भि षि॑ञ्चामि सर॑स्वत्तयै॒ भैषंज्ज्येन द्यीॖर्ॺ्ॺा॒या॒न्नाद्द्या॒॑भि षि॑ञ्चा॒मि इन्द्र॑स्य इन्द्रि॒येण॒ वला॑य श्श्रि॒यै ॺश॑से॒भि षि॑ञ्चा॒मि॥
ॐ व्विश्वा॑नि देव सवितर्द्दुरि॒तानि॒ परा॑सुव।
ॺद्भ॒द्रन्तन्न॒ऽ आयु॑व॥
ॐ धा॒म॒च्छद॒ग्निर इन्द्रो॑ ब्ब्रह्मा दे॒वो बृह॒स्प्पतिः॑।
सचे॑तसो॒ विश्वे॑दे॒वा ॺ॒ज्ञम्प्राव॑न्तुनः शु॒भे॥
ॐ त्वँ ॺ्ॺ॑विष्ट्ठ दा॒शुषो॒नॄँः पा॑हि शृणु॒धीगिरः॑।
रक्षा॑तो॒क मुतत्क्मना॑॥
ॐ अन्न॑प॒तेन्न॑स्यनोदेह्ॺनमी॒वस्य॑ शुष्म्मिणः॑।
प्रप्प॑दातार॑न्तारिष॒ऽ ऊर्ज्ज॑न्नोधेहि द्वि॒पदे॒चतु॑ष्पदे॥
ॐ द्यौः शान्ति॑र॒न्तरि॑क्ष॒ ᳬ शान्तिः पृथि॒वी शान्ति॒रापः॒ शान्ति॒रोष॑धयः॒ शान्तिः॑।
व्वन॒स्प्पत॑यः॒ शान्ति॒र्व्विश्श्वे॑ दे॒वाः शान्ति॒र्ब्रह्म॒ शान्तिः॒ सर्व॒ ᳬ॒ शान्तिः॒ शान्ति॑रे॒व शान्तिः॒ सा मा॒ शान्ति॑रेधि॥
ॐ ॺतो॑यतः स॒मीह॑से॒ ततो॑ नो॒ऽ अभ॑यंङ्कुरु। शन्नः॑ कुरु प्प्र॒जाब्भ्योऽभ॑यन्नः प॒शुब्भ्यः॑॥
ॐ स॒र्व्वेषां वा॒ऽएष व्वे॒दाना ᳬ र॒सोॺत्सा॒म।
स॒र्व्वेषा मे॒ वैनमेतद् वे॒दाना ᳬ र॒सेनाभि॒ षिञ्चति॥
ॐ शान्तिः शान्तिः सुशान्तिर्भवतु॥
ॐ अमृताभिषेकोऽस्तु। अस्तु अमृताभिषेकः।
स्वस्थाने उपविश्य हस्ते जलं गृहीत्वा अभिषेक कर्तृकेभ्यो ब्राह्मणेभ्यो यथोत्साहं दक्षिणां दास्ये तेन कर्माधीशः प्रीयताम्॥
(अत्रावसरे दम्पत्योः पुत्रवतीभिर्वृद्ध सुवासिनीभिर्नीराजनं कार्यम्)
ॐ अना॑धृष्ट्टा पु॒रस्ता॑द॒ग्ने राधि॑पत्त्य॒ऽ आयु॑र्म्मेदाः पु॒त्रव॑ती दाक्षिण॒तऽइन्द्र॒स्याधि॑ पत्त्ये प्प्र॒जाम्मे॑दाः। सुददा॑प॒श्चाद्दे॒वस्य॑ सवि॒तुराधि॑पत्त्ये॒ चक्षु॑र्म्मेदा॒ऽ आश्र्श्रु॑ति रुत्तर॒तो धा॒तुराधि॑ पत्त्ये राय॒स्प्पोष॑म्मेदाः॥
व्विधृ॑ति रु॒परि॑ष्टाृ॒द् बृह॒स्प्पते॒ राधि॑ पत्त्यऽ ओजो॑मेदा॒ व्विश्श्वा॑ब्भ्यो माना॒ष्ट्टाब्भ्य॑स्पाहि॒ मनो॒रश्वा॑सि॥
(अत्रावसरे यजमानेन यथाशक्ति नीराजन कर्त्रीभ्यः सुवासिनीभ्यो यत्किञ्चिद् व्यावहारिकं द्रव्यं देयम्, ततो हस्ते जलं गृहीत्वा)
समर्पणम् – अनेन पुण्याह-वाचनेन कर्मणा कर्माङ्गदेवता श्री आदित्यादिनवग्रहाः प्रीयन्ताम् न मम् ॥
॥ इति पुण्याहवाचनप्रयोगः ॥
श्रीगणेशगौर्यादि षोडशमातृकाणां वैदिक पूजन प्रयोगः
॥ श्रीरस्तु ॥
༺❀༻
श्री हरि हरात्मक देवें सदा, मुद मंगलमय हर्ष।
सुखी रहे परिवार संग, अपना भारतवर्ष॥
༺༻❀༺༻
┉ संकलनकर्ता ┉
श्रद्धेय पंडित विश्वनाथ द्विवेदी
‘सनातनी ज्योतिर्विद’
संस्थापक, अध्यक्ष एवं प्रबंध निदेशक
(‘हरि हर हरात्मक’ ज्योतिष)
संपर्क सूत्र – 07089434899
༺༻❀꧁○꧂❀༺༻