श्रीगणेशगौर्यादि षोडशमातृकाणां वैदिक पूजन प्रयोगः
श्रीगणेशगौर्यादिषोडशमातृकाणां वैदिकपूजन प्रयोगः
प्रधान कलश स्थापन पूजन एवं पुण्याहवाचन के पश्चात् पूजामंडप के आग्नेयकोण में निर्मित षोडशमातृकापीठ पर श्रीगणेश सहित गौर्यादिषोडशमातृकाओं का आवाहन-पूजन करना चाहिए। ध्यातव्य है कि गौरी-गणेश षोडशमातृकाओं में भी सम्मिलित हैं – पंडित विश्वनाथ द्विवेदी “सनातनी ज्योतिर्विद” (हरि हर हरात्मक ज्योतिष)
रक्तवस्त्रास्तृते पीठे गोधूमैर्निर्मितेषु गणेशार्थपुञ्जेन सह गौर्यादि षोडशमातृकाणांपुञ्जेषु वा पीठोपरि मातृकास्थापनं कुर्यात्त। तद्यथा
पञ्चोर्द्धाः पञ्च तिर्यग्वै रेखाः कृत्वा विचक्षणैः॥
वायुचतुष्कमध्यस्थं गणेशं तत्र पूजयेत्॥१॥
मध्यनैर्ऋत्यके कोणे गौरी पद्मा तु पावके॥
शची पश्चिमतो मेधा सावित्री विजया यमे॥२॥
जयोत्तरे देवसेना स्वधा चेशान एव च॥
स्वाहा चैव तथाऽग्नेय्यां मात्रैन्यां लोकमातरः॥३॥
मध्यवायौ धृतिश्चैव नैर्ऋत्ये पुष्टिरेव च॥
तुष्टिश्चैव तु वायव्ये मध्येशे कुलदेवता॥४॥
प्रादक्षिण्य क्रमात्स्थाप्या ईशान्यदिशतोऽथवा॥
वायुचतुष्कमध्ये तु गणेशं तत्र पूजयेत्॥५॥
एवं गौर्यादिमातृणां स्थानं तु समुदीरितम्॥
कर्तव्यं स्थापनं तासां सुधिभिस्तु यथारुचि॥६॥
अधुना वामहस्तेऽक्षतान्गृहीत्वा दक्षिणहस्तेन तत्तत्स्थाने श्री गणेशसहित गौर्यादिषोडशमातृभ्यो नाम अथवा समन्त्रक आवाहनं कुर्यात्। ततो प्रतिष्ठापूर्वकम् षोडशोपचार विधिना सम्पूजयेत् —
ध्यानं – आवाहनम्
ॐ जयति वरद मूर्तिर्मङ्गलं मङ्गलानाम्।
जयति सकलवन्द्या भारती ब्रह्मस्वरूपा॥
जयति भुवनमाता चिन्मयी मोक्ष रूपा।
तानुभय महेशो वाङ्मय शब्द रूपः॥
ॐ गौरीपद्माशचीमेधा, सावित्रीविजयाजया।
देवसेना स्वधा स्वाहा, मातरो लोकमातरः॥
धृतिः पुष्टिस्तथा तुष्टिः आत्मनः कुलदेवता।
गणेशेनाधिका ह्येता वृद्धौ पूज्यास्तु षोडश॥
हिन्दी – आवाहनम्
गणनाथ के साथ उमा पदमा,
शचि मेधा कृपा कर दीजे सहारा।
सावित्री विजया जया देवसेना,
स्वधा करुणामयि माता की धारा॥
स्वाहा स्वथा लोकमाता धृति शुचि,
पुष्टि व तुष्टि हरौ महि भारा।
आत्मनः कुलदेवता है षोडश,
पूर्ण करो शुभ काम हमारा॥
शीश झुका कुलदेवी तुम्हें,
नित वंदति हूँ मन भाव सुहाई।
संकट मोचन मात हमारी,
सदा तुम ही मम लाज बचाई॥
तेज-प्रताप बढ़ायौ सदा,
कुल की तुम ही जगदंब सहाई।
दीन दयालु कृपा करिये,
मम माथ रहै प्रभुता की छाई॥
ॐ आयुरारोग्यमैश्वर्यं ददध्वं मातरो मम ।
निर्विघ्नं सर्वकार्येषु कुरुध्वं स गणाधिपाः॥
(ॐ भुर्भुवः स्वः भगवतः श्री गणेशसहित गौर्यादिषोडशमातृभ्यो नमः, ध्यायमि आवाह्यामि स्थापयामि। श्री गणेशसहित गौर्यादिषोडशमातरः इहागच्छ इह तिष्ठ,)
अधुना वामहस्ते अक्षतान् गृहीत्वा दक्षिणहस्तेन तत्तत्स्थाने श्री गणेशसहित गौर्यादिषोडशमातृभ्यो “नाम-आवाहनं” अथवा “समन्त्रक-आवाहनम्” कुर्यात्। ततो प्रतिष्ठापूर्वकम् षोडशोपचार विधिना सम्पूजयेत् —
(१) ॐ गणपतयै नमः गणपतिम् आवा० स्था० पूज०।
(२) ॐ गौर्यै नमः गौरीम् आवा० स्था० पूज०।
(३) ॐ पद्मायै नमः पद्माम् आवा० स्था० पूज०।
(४) ॐ शच्यै नमः शचीम् आवा० स्था० पूज०।
(५) ॐ मेधायै नमः मेधाम् आवा० स्था० पूज०।
(६) ॐ सावित्र्यै नमः सावित्रीम् आवा० स्था० पूज०।
(७) ॐ विजयायै नमः विजयाम् आवा० स्था० पूज०।
(८) ॐ जयायै नमः जयाम् आवा० स्था० पूज०।
(९) ॐ देवसेनायै नमः देवसेनाम् आवा० स्था० पूज०।
(१०) ॐ स्वधायै नमः स्वधाम् आवा० स्था० पूज०।
(११) ॐ स्वाहायै नमः स्वाहाम् आवा० स्था० पूज०।
(१२) ॐ मातृभ्यो नमः मातृमावाम् आवा० स्था० पूज०।
(१३) ॐ लोकमातृभ्यो नमः लोकमातृम् आवा० स्था० पूज०।
(१४) ॐ धृत्यै नमः धृतिम् आवा० स्था० पूज०।
(१५) ॐ पुष्टयै नमः पुष्टिम् आवा० स्था० पूज०।
(१६) ॐ तुष्ट्यै नमः तुष्टिम् आवा० स्था० पूज०।
(१७) ॐ आत्मनः कुल देवतायै नमः आत्मकुल- देवतानाम् आवा० स्था० पूज०।
अथ् समन्त्रक-आवाहनम्
(१) श्रीगणेश गौरी
समीपे मातृवर्गस्य सर्वविघ्नहरं सदा।
त्रैलोक्यवन्दितं देवं गणेशं स्थापयाम्यहम्॥
ॐ गॖणाना॑न्त्वा गॖणप॑ति ᳯ हवामहे प्प्रिॖयाणा॑न्त्वा प्प्रिॖयप॑ति ᳯ हवामहे निधीॖनान्त्वा॑ निधिॖपति॑ ᳯ हवामहे व्वसो मम।
आहम॑जानि गर्ब्भॖधमा त्त्वम॑जासि गर्ब्भॖधम्॥ (यजु० २३।१९)
ॐ आगच्छ भगवन्देव स्वस्थानात् परमेश्वर।
अहं त्वां पूजयिष्यामि सदा त्वं सम्मुखो भव॥
(ॐ भूर्भुवः स्वः गणपतये नमः गणपतिमावाह्यामि स्थापयामि।)
ॐ आयङ्गौः पृश्न्नि॑रक्क्रमीॖद स॑दन्नमाॖतर॑म्पु॒रः। पिॖतर॑ञ्च प्प्रॖयन्त्स्वः॑॥ (यजु० ३।६)
ॐ हेमाद्रितनयां देवीं वरदां भैरवप्रियाम्।
लम्बोदरस्य जननीं गौरीमावाहयाम्यहम्॥
(ॐ भूर्भुवः स्वः गौर्ये नमः गौरीमावाह्यामि स्थापयामि।)
(२) पद्मा
ॐ हिर॑ण्ण्यरूपाऽउॖषसो॑ व्विरोॖकऽ उॖभावि॑न्द्राॖऽ उदि॑थॖः सूर्ॺ्ॺश्च्च।
आरो॑हतँव्वरुण मित्र्त्रॖ गर्त्तॖन्तत॑श्श्चक्क्षाथाॖ मदि॑तिॖन्दिति॑ञ्च मिॖत्र्त्रोॖसिॖ व्वरु॑णोसि॥ (यजु० १०।१६)
ॐ आवाहयाम्यहं पद्मां पद्मास्थां पद्ममालिकाम्।
पद्मावासां जगद्वन्द्यां पद्मनाभोरुसंस्थिताम्॥
(ॐ भूर्भुवः स्वः पद्मायै नमः पद्मामावाह्यामि, स्थापयामि।)
(३) शची
ॐ कॖदा चॖन स्तॖरीर॑सिॖ नेन्द्र॑ सश्च्चसि दाॖशुषे॑।
उपोॖपेन्नु म॑घवॖन्न्भूयॖऽइन्नु तेॖ दान॑न्देॖवस्य॑ पृच्चयतऽ आदिॖत्त्येब्भ्य॑स्त्त्वा॥ (यजु० ८।२)
ॐ निॖवेश॑नः सॖङ्गम॑नोॖ व्वसू॑नाॖँव्विश्श्वा॑ रूॖपाभिच॑ष्ट्टेॖ शची॑भिः।
देॖवऽइ॑व सविॖता सॖत्त्यधॖर्म्मेन्द्रोॖ न त॑स्त्थौ समॖरे प॑थीॖनाम्॥ (यजु० १२।६६)
ॐ दिव्यरुपां दिव्यवस्त्रां दिव्यालङ्कारसंयुताम्।
शतक्रतो महोरस्स्थां शचीमावाहयाम्यहम्॥
(ॐ भूर्भुवः स्वः शच्यै नमः शचीमावाह्यामि, स्थापयामि।)
(४) मेधा
ॐ मेॖधाम्मेॖ व्वरु॑णो ददातु मेॖधामॖग्ग्निः प्प्रॖजाप॑तिः।
मेॖधामिन्द्र॑श्च्च व्वाॖयुश्च्च॑ मेॖधान्धाॖता द॑दातु मेॖ स्वाहा॑॥ (यजु० ३२।१५)
ॐ आवाहयाम्यहं मेधां मेधाशक्तिप्रवर्धिनीम्।
वरप्रदां सौम्यरुपां जरां निर्जरसेविताम्॥
(ॐ भूर्भुवः स्वः मेधायै नमः मेधामावाह्यामि, स्थापयामि।)
(५) सावित्री
ॐ उॖपॖयाॖम गृ॑हीतोसि साविॖत्र्त्रोॖसि चनोॖधाश्च्च॑नोॖधाऽअ॑सिॖ चनोॖ मयि॑ धेहि।
जिन्न्व॑ ॺॖज्ज्ञञ्जिन्न्व॑ ॺॖज्ज्ञप॑तिॖम्भगा॑य देॖवाय॑ त्त्वा सविॖत्र्त्रे॥ (यजु० ८।७)
ॐ सॖविॖता त्त्वा॑ सॖवाना॑ᳬ॑ सु॒वतामॖग्निर्ग्गृ॒षहप॑तीनाॖᳬ॒॑ सोमोॖ व्वनॖस्प्पती॑नाम्।
बृहॖस्प्पति॑र्व्वाॖचऽइन्द्रोॖ ज्ज्यैष्ठठ्या॑य रुॖद्रः पॖशुब्भ्यो॑ मिॖत्र्त्रः सॖत्त्यो व्वरु॑णोॖ धर्म्म॑पतीनाम्॥ (यजु० ९।३९)
ॐ आवाहयाम्यहं जगत्सृष्टिकरीं धात्रीं देवीं प्रणवमातृकाम्।
वेदगर्भां यज्ञमयीं सावित्रीं लोकमातरम्॥
(ॐ भूर्भुवः स्वः सावित्रयै नमः सावित्रीमावाह्यामि, स्थापयामि।)
(६) विजया
ॐ व्विज्ज्यॖन्धनुः कपॖर्द्दिनोॖ व्विश॑ल्ल्योॖ बाण॑वा२ँ॥ऽउॖत।
अने॑शन्नस्यॖ ॺाऽइष॑वऽआॖभुर॑स्य निषड्गॖधिः॥ (यजु० १६।१०)
ॐ आवाहयाम्यहं देवीं विजयां सर्वदेवस्तुताम्।
सर्वास्त्रधारिणीं वन्द्यां सर्वाभरणभूषिताम्॥
(ॐ भूर्भुवः स्वः विजयायै नमः विजयामावाह्यामि, स्थापयामि।)
(७) जया
ॐ ॺा ते॑ रुद्र शिॖवा तॖनूरघोॖरापा॑पकाशिनी।
तया नस्तॖन्न्वाॗ शन्त॑मयाॖ गिरि॑शन्ताॖभिचा॑कशीहि॥ (यजु० १६।२)
ॐ बॖह्वीॖनाम्पिॖता बॖहुर॑स्य पु॒त्र्त्रश्श्चिॖश्श्च्चा कृ॑णोतिॖ सम॑नावॖगत्त्य॑।
इॖषु॒धिॖः सङ्काॖः पृत॑नाश्श्चॖ सर्व्वाः॑ पृ॒ष्ठ्ठे निन॑द्धो जयतिॖ प्प्रसू॑तः॥ (यजु० २९।४२)
ॐ आवाहयाम्यहं देवीं जयां त्रैलोक्यपूजिताम्।
सुरारिमथिनीं वन्द्यां देवानामभयं प्रदाम्॥
(ॐ भूर्भुवः स्वः जयायै नमः जयामावाह्यामि, स्थापयामि।)
(८) देवसेना
ॐ देॖवाना॑म्भॖद्रा सु॑मॖतिर्ऋ॑जूयॖतान्देॖवाना॑ᳬ॑ राॖतिरॖभि नोॖ निव॑र्त्तताम्।
देॖवाना॑ᳬ॑ सॖक्ख्यमुप॑सेदिमा व्वॖयन्देॖवा नॖऽआयुः॒ प्प्रति॑रन्तु जीॖवसे॑॥ (यजु० २५।१५)
ॐ इन्द्र॑ऽआसान्नेॖता बृहॖस्प्पतिॖर्द्दक्क्षि॑णा ॺॖज्ज्ञः पु॒रऽए॑तु॒ सोम॑÷।
देॖवॖसेॖनाना॑मॖभिभञ्जतीॖ नाञ्जय॑न्तीना॑म्मॖरुतो॑ ॺॖन्त्वग्ग्र॑म्॥ (यजु० १७।४०)
ॐ आवाहयाम्यहं देवीं देवसेनां महाबलाम्। तारकासुरसंहारकारिणीं बर्हिवाहनाम्॥
(ॐ भूर्भुवः स्वः देवसेनायै नमः देवसेनामावाह्यामि, स्थापयामि।)
(९) स्वधा
ॐ पिॖतृब्भ्यः॑ स्वधाॖयिब्भ्यः॑ स्वॖधा नमः॑ पितामॖहेब्भ्यः॑ स्वधाॖयिब्भ्यः॑ स्वॖधा नमॖः प्प्रपि॑तामहेब्भ्यः स्वधाॖयिब्भ्यः॑ स्वॖधा नमः॑।
अक्क्ष॑न्न्पिॖतरोऽमी॑मदन्त पिॖतरोऽती॑तृपन्त पिॖत॑रॖः पित॑रॖः शुन्ध॑द्धवम्॥ (यजु० १९।३६)
ॐ आवाहयाम्यहं देवीं पितृणां तोषदायिनीम्।
स्वधां देवाग्रजां देवैः कव्यार्थं या प्रतिष्ठिता॥
(ॐ भूर्भुवः स्वः स्वधायै नमः स्वधामावाह्यामि, स्थापयामि।)
(१०) स्वाहा
ॐ स्वाहा॑ ॺॖज्ञ्ज्ञम्मन॑सॖः स्वाहोॖरोरॖन्तरि॑क्क्षाॖत्त्स्वाहाॖ द्यावा॑पृथिॖवीब्भ्याॖᳬ॒॑ स्वाहाॖ व्वाताॖदार॑भेॖ स्वाहा॑॥ (यजु० ४।६)
ॐ स्वाहा॑ प्प्राॖणेब्भ्यॖः साधि॑पतिकेब्भ्यः।
पृ॒थिॖव्व्यै स्वाहाॖग्नयेॖ स्वाहाॖन्तरि॑क्क्षायॖ स्वाहा॑ व्वाॖयवेॖ स्वाहा॑।
दिॖवे स्वाहाॖ॑ सूॖर्ॺ्ॺा॑यॖ स्वाहा॑॥ (यजु० ३९।१)
ॐ आवाहयाम्यहं स्वाहां वरदां दिव्यरुपिणीम्।
हविर्गृहीत्वा सततं देवेभ्यो या प्रयच्छति॥
(ॐ भूर्भुवः स्वः स्वाहायै नमः स्वाहामावाह्यामि, स्थापयामि।)
(११) मातृः
ॐ आपो॑ऽॶस्म्मान्न्माॖतरः॑ शुन्धयन्तु घृ॒तेन॑ नो घृतॖप्प्वॖः पुनन्तु।
व्विश्श्वॖᳮ॒ हि रिॖप्प्रम्प्रॖवह॑न्ति देॖवीरुॖदिदा॑ब्भ्यॖः शुचिॖरा पू॒तऽऐ॑मि।
दीॖक्क्षाॖतॖपसो॑स्त्तॖनूर॑सिॖ तान्त्वा॑ शिॖवाᳬ॑ शॖग्ग्माम्परि॑दधे भॖद्रँव्वर्णॖम्पुष्ष्य॑न्॥ (यजु० ४।२)
ॐ आवाहयाम्यहं मातृः पूजिता या सुरासुरैः।
सर्वकल्याणरुपिण्यः सर्वाभरणभूषिताः॥
(ॐ भूर्भुवः स्वः मातृभ्यो नमः मातृमावामावाह्यामि, स्थापयामि।)
(१२) लोकमातृः
ॐ रॖयिश्च्च॑ मेॖ राय॑श्च्चॖ मे पु॒ष्ट्टञ्च॑ मेॖ पुष्ट्टि॑श्च्च मे व्विॖभु च॑ मे प्प्रॖभु च॑ मे पू॒र्ण्णञ्च॑ मे पू॒र्ण्णत॑रञ्च् मेॖ कुय॑वञ्चॖ मेऽक्क्षि॑तञ्चॖ मेऽन्न॑ञ्चॖ मेऽक्क्षु॑च्च मे ॺॖज्ज्ञेन॑ कल्प्पन्न्ताम्॥ (यजु० १८।१०)
ॐ सर्वाभीष्टप्रदाः वन्द्याः सर्वलोकहितावहाः।
जयन्तीप्रमुखाः लोकमातृरावाहयाम्यम्॥
(ॐ भूर्भुवः स्वः लोकमातृभ्यो नमः लोकमातृमावामावाह्यामि, स्थापयामि।)
(१३) धृति
ॐ धृष्ट्टि॑रॖस्य पा॑ग्ग्नेऽॶग्ग्निमाॖ माद॑ञ्जहिॖ निष्क्क्रॖव्व्याद॑ᳯ सेॖधा दे॑वॖयजँ॑व्वह।
ध्रु॒वम॑सि पृथिॖवीन्दृ॑ᳯह ब्ब्रह्मॖवनि॑ त्त्वा क्क्षत्र्त्रॖवनि॑ सजातॖवन्न्युप॑दधामिॖ ब्भ्रातृ॑व्व्यस्य व्वॖधाय॑॥ (यजु० १।१७)
ॐ ॺत्त्प्रॖज्ज्ञान॑मु॒त चेतोॖ धृति॑श्च्चॖ ॺज्ज्योति॑रॖन्तरॖ मृत॑म्प्प्रॖजासु॑।
ॺॖस्म्माॖन्नऽॠॖते किञ्चॖन कर्म्म॑ क्क्रिॖयतेॖ तन्न्मेॖ मनः॑ शिॖवस॑ङ्क॑ल्प्पमस्तु॥ (यजु० ३४।३)
ॐ आवाहयाम्यहं देवीं धृतिं भक्ताऽनामभयप्रदाम्।
हर्षोत्फुल्लास्यकमलां सर्वसन्तोषदायिनीम्॥
(ॐ भूर्भुवः स्वः धृत्यै नमः धृतिमावाह्यामि, स्थापयामि।)
(१४) पुष्टिं
ॐ त्वष्ट्टा॑ तु॒रीपोॖऽअद्भु॑तऽइन्द्राॖग्ग्नी पु॑ष्ट्टिॖवर्द्ध॑ना।
द्विप॑दाॖ च्छन्द॑ऽइन्द्रिॖयमु॒क्क्षा गौर्न्न व्वयो॑ दधुः॑॥ (यजु० २१।२०)
ॐ अङ्गा॑न्न्याॖत्क्मन्न्भिॖषजाॖ तदॖश्श्विनाॖत्क्मानॖमङ्गैॖः सम॑धाॖत्त्सर॑स्वती।
इन्द्र॑स्य रूॖपᳯ शॖतमा॑नॖमायु॑श्च्चॖन्द्रेणॖ ज्ज्योति॑रॖमृतॖन्दधा॑नाः॥ (यजु० १९।९३)
ॐ आवाहयाम्यहं पुष्टिं पोषयन्तीं जगत्त्रयम्।
स्वदेहजैः फलैः शाकैः जलैः रत्नैर्मनोरमैः॥
(ॐ भूर्भुवः स्वः पुष्ट्यै नमः पुष्टिमावाह्यामि, स्थापयामि।)
(१५) तुष्टिं
ॐ बृह॑स्प्पतेॖऽअतिॖ यदॖर्ॺ्ॺो॑ऽअर्हा॑द्युमद्विॖभातिॖ क्क्रतु॑मॖज्जने॑षु।
ॺद्दीॖदयॖच्छव॑सऽऋतप्प्रजातॖ तदॖस्म्मासु॒ द्रवि॑णन्धेहि चिॖत्रम्॥ (यजु० २६।३)
ॐ जा॒तवे॑दसे सुनवाम॒सोम॑मरातीय॒तो निद॑हाति॒वेदः॑
सनः॑ पर्ष॒दति दु॒र्गाणि॒ विश्श्वा॑ ना॒वेवसिन्धुं॑ दुरि॒तात्य॒ग्निः॥
ॐ आवाहयाम्यहं तुष्टिं वन्दितामसुरारिभिः।
सदा सन्तोषदां शान्तां प्रसन्नास्यां महाबलाम्॥
(ॐ भूर्भुवः स्वः तुष्ट्यै नमः तुष्टिमावाह्यामि, स्थापयामि।)
(१६) आत्मनःकुलदेवताः
ॐ अम्बेॖऽअम्बिॖकेम्बा॑लिकेॖ न मा॑ नयतिॖ कश्चॖन।
सस॑स्त्त्यश्श्वॖकः सुभ॑द्रिकाङ्काम्पीलवाॖसिनी॑म्॥ (यजु० २३।१८)
ॐ प्राॖणायॖ स्वाहा॑ऽपाॖनायॖ स्वाहा॑ व्व्याॖनायॖ स्वाहा॑।
चक्क्षु॑षेॖ स्वाहाॖ श्र्श्रोत्र्त्रा॑यॖ स्वाहा॑ व्वाॖचे स्वाहाॖ मन॑सेॖ स्वाहा॑॥ (यजु० २२।२३)
ॐ देशे ग्रामे गृहे बाह्ये विपिने पर्वते रणे।
आवाहयामि तां दुर्गां या पाति यातनार्णवात्॥
(ॐ भूर्भुवः स्वः आत्मकुलदेवतायै नमः आत्मकुलदेवतानामावाह्यामि, स्थापयामि।)
प्रतिष्ठापनम्
ॐ मनो॑ जू॒तिर्ज्जु॑षताॖमाज्ज्य॑स्यॖ बृहॖस्प्पति॑र्ॺ्ॺज्ज्ञमिॖमन्त॑नोॖत्त्वरि॑ष्ट्टँ ॺ्ॺॖज्ज्ञᳯ समिॖमन्द॑धातु॒।
व्विश्श्वे॑ देॖवास॑ऽइॖह मा॑दयन्ताॖमो॑३ म्प्रति॑ष्ट्ठ॥ (यजु० २।१३)
ॐ अस्यै प्राणाः प्रतिष्ठन्तु अस्यै प्राणाः क्षरन्तु च।
अस्यै देवत्वमर्चायै मामहेति च कश्चन॥
(ॐ भूर्भुवः स्वः श्रीगौर्यादिषोडशमातरः गणपतिसहिताः सुप्रतिष्ठिता वरदाः भवन्तु।)
आसनम्
ॐ वर्ष्मोऽस्मि समानानामुद्यतामिव सूर्ॺः।
इमन्तमभितिष्ठामि ॺो मा कश्चाभिदासति॥
ॐ तां म आवह जातवेदो लक्ष्मीमनपगामिनीम्।
यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम्॥
ॐ पुरु॑षऽ एॖवेद ᳯ सर्व्वँ॒ॺ्ॺद्भू॒तँॺ्ॺच्च॑ भाॖव्व्यॖम्।
उॖतामृ॑तॖत्त्वस्येशा॑नोॖ ॺदन्ने॑नातिॖरोह॑ति॥ (यजु० ३१।२)
ॐ रम्यं सुशोभनं दिव्यं सर्वसौख्यकरं शुभम्।
आसनं च मया दत्तं गृहाण परमेश्वरी॥
(ॐ सगणेशगौर्यादिषोडशमातृभ्यो नमः एतानि पाद्यार्घ्याचमनीय स्नानीय पुनराचमनीयानि जलं समर्पयामि॥ ततो पञ्चामृत स्नानम्)
पञ्चामृतस्नानम्
ॐ पञ्च॑ नॖद्यॖः सर॑स्वतीॖमपि॑यन्तिॖ सस्त्रो॑तसः॑।
सर॑स्वतीॖ तु प॑ञ्चॖधा सो देॖशेऽभ॑वत्त्सॖरित्॥ (यजु० ३४।११)
ॐ पञ्चामृतं मयाऽऽनीतं पयो दधि घृतं मधु।
शर्करा च समायुक्तं स्नानार्थं प्रतिगृह्यताम॥
(ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः पञ्चामृतस्नानं समर्पयामि। ततो शुद्धोदकस्नानम्)
शुद्धोदकस्नानम्
ॐ शु॒द्धवा॑लः सॖर्व्वशु॑द्धवालो मणिॖवालॖस्तऽआ॑श्श्विॖनाः श्येतः॑ श्येताॖक्क्षोॖरुॖणस्ते रुॖद्राय॑ पशु॒पत॑ये कॖर्ण्णा ॺाॖमाऽअ॑वलिॖप्पता रौॖद्रा नभो॑रूपाः पार्ज्जॖन्न्याः॥ (यजु० २४।३)
ॐ गङ्गे च यमुने चैव गोदावरि सरस्वती।
नर्मदे सिन्धुकावेरी स्नानार्थं प्रतिगृह्यताम्॥
(ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः शुद्धोकस्नानं समर्पयामि। शुद्धोकदकस्नानान्ते आचमनीयं जलं समर्पयामि।)
वस्त्रम्
ॐ सुजा॑तोॖ ज्ज्योति॑षा सॖह शर्म्मॖ व्वरू॑थॖमा स॑दॖत्त्स्वॖः।
व्वासो॑ऽ अग्ग्ने व्विॖश्श्वरूपॖ ᳯ॒ सँव्व्य॑यस्व व्विभावसो॥ (यजु० ११।४०)
ॐ सर्वभूषाधिके सौम्ये लोक लज्जानिवारिणे।
मयोप पादिते तुभ्यं वाससी प्रतिगृह्यताम॥
(ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः वस्त्रं समर्पयामि। वस्त्रान्ते आचमनीयं जलं समर्पयामि।)
उपवस्त्रम्
ॐ युवा सुवासाः परिवीत आगात् स उ श्रेयान् भवति जायमानः।
तं धीरासः कवय उन्नयन्ति स्वाध्यो३ मनसा देवयन्तः॥ (ऋग्० ३।८।४)
ॐ यस्याभावेन शास्त्रोक्तं कर्म किञ्चिन्न सिध्यति।
उपवस्त्रं प्रयच्छामि सर्वकर्मोपकारकम्॥
(ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः उपवस्त्रं (उपवस्त्राभावे रक्तसूत्रं) समर्पयामि। उपवस्त्रान्ते आचमनीयं जलं समर्पयामि।)
गन्धम् (कुङ्कुमम्)
ॐ त्वाङ्ग॑न्धॖर्व्वाऽ अ॑खनॖँस्त्वामिन्द्रॖस्त्त्वाम्बृहॖस्प्पतिः॑।
त्वामो॑षधेॖ सोमोॖ राजा॑ व्विॖद्वान्न्यक्ष्मा॑दमुच्च्यत॥ (यजु० १२।९८)
ॐ गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीं।
ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम्॥
(ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः कुङ्कुमम्लेपनं समर्पयामि।)
अक्षतान्
ॐ अक्क्षॖन्नमी॑मदन्तॖ ह्यव॑ प्प्रिॖयाऽअ॑धूषत।
अस्तो॑षतॖ स्वभा॑नवोॖ व्विप्प्राॖ नवि॑ष्ट्ठया मॖती ॺोजाॖ न्न्विॖन्द्र तेॖ हरी॑॥ (यजु० ३।५१)
ॐ अक्षताश्च सुरश्रेष्ठ कुङ्कुमाक्ताः सुशोभिताः।
मया निवेदिता भक्त्या गृहाण परमेश्वरी॥
(ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः अक्षतान् समर्पयामि।)
पुष्पाणि
ॐ ओष॑धीॖः प्प्रति॑मोदद्ध्वॖम्पुष्प्प॑वतीः प्प्रॖसूव॑रीः।
अश्श्वा॑ऽइव सॖज्जित्त्व॑रीर्व्वीॖरुधः॑ पारयिॖष्ण्ण्वॖः॥ (यजु० १२।७७)
ॐ माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो।
मयाहृतानि (मयाऽऽनीतानि) पुष्पाणि पूजार्थं प्रतिगृह्यताम्॥
(ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः पुष्पं समर्पयामि।)
पुष्पमालाम्
द्याम्मा ले॑खीरॖन्तरि॑क्क्षम्मा हि॑ᳯसीः पृथिॖव्व्या सम्भ॑व।
ॶयᳯ हि त्त्वाॖ स्वधि॑तिॖस्तेति॑जानः प्प्रणिॖनाय॑ महॖते सौभ॑गाय।
अतॖस्त्त्वन्दॆ॑व व्वनस्प्पते शॖतव॑ल्शोॖ व्विरो॑ह सॖहस्र॑वल्शा व्वि वॖयᳯ रुहेम॥ (यजु० ५।४३)
(ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः पुष्पमालाम् समर्पयामि।)
दूर्वाङ्कुराः
ॐ काण्डा॑त्त्काण्डात्त्प्रॖरोह॑न्तीॖ परु॑षः परुषॖस्प्परि॑।
एॖवा नो॑ दूर्व्वेॖ प्प्रत॑नु सॖहस्त्रे॑ण शॖतेन॑ च॥ (यजु० १३।२०)
ॐ दूर्वाङ्कुरान् सुहरितानमृतान् मङ्गलप्रदान्।
आनीतांस्तव पूजार्थं गृहाण गणनायक॥
(ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः दूर्वाङ्कुरान् समर्पयामि।)
सिन्दूरम्
ॐ सिन्धो॑रिव प्प्राद्ध्वॖने शू॑घॖनासोॖ व्वात॑प्प्रमियः पतयन्न्ति ॺॖह्वाः।
घृ॒तस्यॖ धारा॑ऽअरुॖषो न व्वाॖजी काष्ठ्ठा॑ भिॖन्दन्नू॒र्म्मिभिॖः पिन्न्व॑मानः॥ (यजु० १७।९५)
ॐ सिन्दूरं शोभनं रक्तं सौभाग्यं सुखवर्धनम्।
शुभदं कामदं चैव सिन्दूरं प्रतिगृह्यताम॥
(ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः सिन्दूरं समर्पयामि।)
सौभाग्यपरिमलद्रव्याणि
ॐ अहि॑रिव भोॖगैः पर्ॺ्ॺे॑ति बाॖहुञ्ज्याया॑ हेॖतिम्प॑रिॖबाध॑मानः।
हॖस्तॖग्घ्नो व्विश्श्ववा॑ व्वॖयुना॑नि व्विॖद्वान्न्पुमाॖन्न्पुमा॑ᳬ सॖम्परि॑पातु व्विॖश्वतः॑॥ (यजु० २९।५१)
ॐ अबीरं च गुलालञ्च चोवा चन्दनमेव च।
अबीरेणार्चितो देव ! अतः शान्ति प्रयच्छ मे॥
(ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः नानापरिमलद्रव्याणि समर्पयामि।)
सुगन्धित्द्रव्यम्
ॐ त्र्य॑म्बकँॺ्ॺजामहे सुगॖन्धिम्पु॑ष्ट्टिॖवर्द्ध॑नम्।
उॖर्व्वाॖरुॖकमि॑वॖ बन्ध॑नान्न्मृ॒त्त्योर्म्मु॑क्क्षीयॖ मामृता॑त्॥ (यजु० ३।६०)
ॐ चम्पकाशोकवकुल्मालतीमोगरादिभिः।
वासितं स्निग्धाहेतु तैलं चारु प्रतिगृह्यताम्॥
ॐ दिव्यगन्धसमायुक्तं महापरिमलाद्भुतम्।
गन्धद्रव्यमिदं भक्त्या दत्तं वै प्रतिगृह्यताम्॥
(ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः सुगन्धिद्रव्यं समर्पयामि।)
आभूषणम्
ॐ हिर॑ण्ण्यरूपाऽउॖषसो॑ व्विरोॖकऽउॖभावि॑न्द्राॖ उदि॑थः॒ सूर्ॺ्ॺ॑श्च।
आरो॑हतँव्वरूण मित्र्त्रॖ गर्त्तॖन्तत॑श्चक्क्षाथाॖमदि॑तिॖन्दिति॑ञ्च मिॖत्र्त्रोॖसिॖ व्वरु॑णोसि॥ (यजु० १०।१६)
ॐ स्वॖर्ण्ण धॖर्म्मः स्वाहाॖ स्वॗर्ण्णार्क्कः स्वाहाॖ स्वॗर्ण्ण शु॒क्क्रः स्वाहाॖ स्वॗर्ण्ण ज्ज्योतिॖः स्वाहाॖ स्वॗर्ण्ण सूर्ॺ्ॺः स्वाहा॑॥ (यजु० १८।५०)
ॐ अलङ्कारान् महादिव्यान् नानारत्न-विनिर्मितान् ।
गृहाण देवदेवेशि ! प्रसीद परमेश्वरि ॥
(ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः आभूषणम् समर्पयामि।)
धूपम्
ॐ धूर॑सिॖ धूर्व्वॖ धूर्व्व॑न्तॖन्धूर्व्वॖ तँॺ्ॺोॖऽस्म्मामान्धूर्व्व॑तिॖ तन्धू॑र्व्वॖ ॺँव्वॖयन्धूर्व्वा॑मः।
देॖवाना॑मसिॖ व्वह्नि॑तमॖᳯ॒ सस्न्नि॑तमम् पप्प्रि॑तमॖञ्जुष्ट्ट॑तमन् देवॖहूत॑मम्॥ (यजु० १।८)
ॐ अश्श्व॑स्य त्त्वाॖ व्वृष्णः॑ शॖक्क्ना धू॑पयामि देवॖयज॑ने पृथिॖव्व्याः।
मॖखाय॑ त्त्वा मॖखस्य॑ त्त्वा शीॖर्ष्ण्णे॥ (यजु० ३७।९)
ॐ वनस्पतिरसोद्भूतो गन्धाढ्यो गन्ध उत्तमः।
आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम्॥
(ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः धूपमाघ्रापयामि।)
दीपम्
ॐ ॶग्ग्निर्ज्ज्योतिॖर्ज्ज्योति॑रॖग्ग्निः स्वाहाॖ सूर्ॺ्ॺोॖ ज्ज्योतिॖर्ज्ज्योतिॖः सूर्ॺ्ॺॖः स्वाहा॑।
ॶग्ग्निर्व्वर्च्चोॖ ज्ज्योतिॖर्व्वर्च्चॖः स्वाहाॖ सूर्ॺ्ॺो व्वर्च्चोॖ ज्ज्योतिॖर्व्वर्च्चॖः स्वाहा॑। ज्योतिॖः सूर्ॺ्ॺॖः सूर्ॺ्ॺो ज्योतिॖः स्वाहा॑॥ (यजु० ३।९)
ॐ चॖन्द्रमाॖमन॑सोजाॖतश्श्चक्षोॖः सूर्ॺ्ॺो॑ऽअजायत।
श्रोत्रा॑द्वायुश्श्च॑प्राॖणश्श्चॖमुखा॑दॖग्निर॑जायत॥ (यजु० ३१।१२)
ॐ साज्यं च वर्तिसंयुक्तं वह्निना योजितं मया।
दीपं गृहाण देवेशि त्रैलौक्यतिमिरापहम्॥
ॐ भक्त्या दीपं प्रयच्छामि देवाय परमात्मने।
त्राहि मां निरयाद् घोराद् दीपज्योतिर्नमोऽस्तु ते॥
(ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः दीपं दर्शयामि।‘ॐ हृषीकेशाय नमः’ इति मन्त्रेण हस्तौप्रक्षाल्य।)
नैवेद्यम्
ॐ अन्न॑पॖतेन्न॑स्य नो देह्ॺनमीॖवस्य॑ शु॒ष्म्मिणः॑।
प्रप्प्र॑ दाॖतार॑न्तारिषॖऽ ऊर्ज्ज॑न्नो धेहि द्विॖपदेॖ चतु॑ष्पदे॥ (यजु० ११।८३)
ॐ शर्कराखण्डखाद्यानि दधिक्षीरघृतानि च।
आहारं भक्ष्यभोज्यं च नैवेद्यं प्रतिगृह्यताम्॥
नैवेद्यं जलेन संप्रोक्ष्य धेन्वाऽमृतीकृत्य वामहस्ते पद्माकारं कृत्वा दक्षिणहस्तेन ग्रासमुद्राः मदर्शयेत्॥
ॐ प्राणाय स्वाहा॥ ॐ अपानाय स्वाहा॥ ॐ व्यानाय स्वाहा॥ ॐ उदानाय स्वाहा॥ ॐ समानाय स्वाहा॥ नैवेद्यान्ते आचमनीयं सम०॥ पूर्वापोशानं सम०॥ मध्ये पानीयं सम०॥ उत्तरापोशानं सम०॥ हस्तप्रक्षालनं सम०॥ मुखप्रक्षालनं सम०॥ आचमनीयं सम०॥
(ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः नैवेद्यं निवेदयामि।)
करोद्वर्तनम्
ॐ ॶᳯ॒शुना॑ तेऽॶᳯ॒शुः पृ॑च्च्यताॖम्परु॑षाॖ परुः॑।
गॖन्न्धस्तेॖ सोम॑मवतु॒ मदा॑यॖ रसोॖऽअच्च्यु॑तः॥ (यजु० २०।२७)
ॐ सिॖञ्चतिॖ परि॑षिञ्चॖन्त्युत्त्सि॑ञ्चन्ति पुनन्ति॑ च।
सुरा॑यै बॖब्भ्व्रै मदे॑ किॖन्त्वो व्व॑दति किॖन्त्वः॥ (यजु० २०।२८)
ॐ चन्दनं मलयोद्भुतं कस्तूर्यादिसमन्वितम्।
करोद्वर्तनकं देवी गृहाण परमेश्वरी॥
(ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः करोद्वर्तनकं चन्दनं समर्पयामि।)
ऋतुफलानि-अखण्ड ऋतुफलम्
ॐ ॺाः फॖलिनीॖर्ॺ्ॺाऽ अ॑फॖलाऽ अ॑पु॒ष्प्पा ॺाश्च॑ पु॒ष्प्पिणीः॑।
बृहॖस्प्पति॑प्प्रसूताॖस्ता नो॑ मुञ्चॖन्त्वᳯ ह॑सः॥ (यजु० १२।८९)
ॐ इदं फलं मया देवी स्थापितं पुरतस्तव।
तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि॥
ॐ आयुरारोग्यमैश्वर्यं ददध्वं मातरो मम।
निर्विध्नं सर्वकार्येषु कुरुध्वं सगणाधिपाः॥
”गृहे वृद्धिशतानि भवन्तु“ उत्तरे कर्मण्यनिर्विविघ्नमस्तु।
(ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः ऋतुफलानि अखण्ड ऋतुफलानि समर्पयामि। श्रीफलान्ते आचमनीयं जलं समर्पयामि।)
ताम्बूलम्
उॖत स्म्मा॑स्यॖ द्रव॑तस्त्तुरण्ण्यॖतः पॖर्ण्णन्न वेरनु॑वाति प्प्रगॖर्द्धिनः॑।
श्येॖनस्ये॑वॖ द्ध्रज॑तोऽअङ्कॖसम्परि॑ दधिॖक्क्राव्ण्णः॑ सॖहोर्ज्जा तरि॑त्र्त्रतॖः स्वाहा॑॥ (यजु० ९।१५)
ॐ ॺत्त्पुरु॑षेण हॖविषा॑ देॖवा ॺॖज्ज्ञमत॑न्न्वत।
व्वॖसॖन्तोॖऽस्यासीॖदाज्ज्य॑ङ्ग्रीॖष्म्म ऽइॖद्ध्मः शॖरद्धॖविः॥ (यजु० ३१।१४)
ॐ पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम्।
एलादिचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम्॥
(ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः मुखवासार्थम् एलालवंगपूगीफलसहितं ताम्बूलं समर्पयामि।)
दक्षिणाम्
ॐ हिॖरॖण्ण्यॖगॖर्ब्भः सम॑वर्त्तॖताग्ग्ग्रे॑ भू॒तस्य॑ जाॖतः पतिॖरेक॑ऽआसीत्।
स दा॑धार पृथिॖवीन्द्या मु॒ते माङ्कस्म्मै॑ देॖवाय॑ हॖविषा॑ व्विधेम॥ (यजु० १३।४)
ॐ ॺद्दॖत्तँ ॺ्ॺत्त्प॑राॖदानँ॒ ॺ्ॺत्त्पू॒र्त्तँ ॺ्ॺाश्चॖ दक्क्षि॑णाः।
तदॖग्न्निर्व्वै॑श्श्वकर्म्मॖणः स्व॑र्द्देॖवेषु॑ नो दधत्॥ (यजु० १८।६४)
ॐ हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः।
अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे॥
(ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः कृतायाः पूजायाः सा द्गुण्यार्थे द्रव्यदक्षिणां समर्पयामि।)
नीराजनम्-कर्पूरारार्तिक्यम्
ॐ इॖदᳯ हॖविः प्प्रॖजन॑नम्मे ऽअस्तु॒ दश॑वीरॖ ᳯ॒ सर्व्व॑गणᳬ स्वॖस्त्तये॑।
आॖत्क्मॖसनि॑ प्प्रजाॖसनि॑ पशु॒सनि॑ लोकॖसन्न्य॑भयॖसनि॑।
ॶग्ग्निः प्प्रॖजाम्ब॑हु॒लाम्मे॑ करोॖत्त्वन्नॖम्पयोॖ रेतो॑ऽॶस्म्मासु॑ धत्त॥ (यजु० १९।४८)
ॐ ॺे दे॑वासो दिॖव्व्येका॑दशॖ स्त्थ पृ॑थिॖव्व्यामद्ध्येका॑दशॖ स्त्थ।
अ॒प्प्सु॒क्क्षितो॑ महिॖनैका॑दशॖ स्त्थ ते दे॑वासो ॺॖज्ज्ञमिॖमञ्जु॑षद्ध्वम्॥ (यजु० ७।१९)
ॐ आ रा॑त्र्त्रिॖ पार्त्थि॑वॖ ᳯ॒ रजः॑ पिॖतुर॑प्प्रायिॖ धाम॑भिः।
दिॖवः सदा॑ᳬसि बृहॖती व्विति॑ष्ठसॖऽआ त्त्वेॖषँव्व॑र्त्त॑तेॖ तमः॑॥ (यजु० ३४।३२)
ॐ ॶग्ग्निर्द्देॖवताॖ व्वातो॑ देॖवताॖ सूर्ॺ्ॺो॑ देॖवता॑ चॖन्द्रमा॑ देॖवताॖ व्वस॑वो देॖवता॑ रुॖद्द्रा देॖवता॑ऽऽदिॖत्त्या देॖवता॑ मॖरुतो॑ देॖवताॖ विश्श्वे॑देॖवा देॖवताॖ बृहॖस्प्पति॑र्द्देॖवतेन्द्रो॑ देॖवताॖ व्वरु॑णो देॖवता॑॥ (यजु० १४।२०)
कदलीगर्भसम्भूतं कर्पूरं तु प्रदीपितम्।
आरार्तिकमहं कुर्वे पश्य मे वरदो भव॥
(ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः अरार्तिकं समर्पयामि। पुष्पैर्देववन्दनम्। हस्तेन आत्मवन्दनम् कृत्वा हस्तौप्रक्षाल्य।)
मन्त्रपुष्पाञ्जलिम्
ॐ ॺॖज्ज्ञेन॑ ॺॖज्ज्ञम॑यजन्त देॖवास्त्तानिॖ धर्म्मा॑॑णि प्प्रथॖमान्न्या॑सन्।
ते हॖ नाक॑म्महिॖमानः॑ सचन्तॖ ॺत्र्त्रॖ पूर्व्वे॑ साॖद्ध्याः सन्ति॑ देॖवाः॥ (यजु० ३१।१६)
ॐ सम॑क्ख्ये देॖव्व्या धिॖया सन्दक्क्षि॑णयोॖरुच॑क्क्षसा।
मा मॖऽआयुः॒ प्प्रमो॑षीॖर्म्मो॑ऽॶहन्तव॑ व्वीॖरँव्वि॑देयॖ तव॑ देवि सॖन्दृशि॑॥ (यजु० ४।२३)
ॐ नानासुगन्धिपुष्पाणि यथाकालोद्भवानि च।
पुष्पाञ्जलिर्मया दत्तो गृहाण परमेश्वरी॥
(ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः पुष्पाञ्जलिं समर्पयामि।)
प्रदक्षिणाम्
ॐ ॺे तीॖर्त्थानि॑ प्प्रॖचर॑न्ति सृ॒काह॑स्ता निषॖङ्गिणैः॑।
तेषा॑ᳬ सहस्त्रयोजॖनेवॖ धन्न्वा॑नि तन्न्मसि॥ (यजु० १६।६१)
ॐ यानि कानि च पापानि जन्मान्तरकृतानि च।
तानि सर्वाणि नश्यन्तु प्रदक्षिणपदे पदे॥
(ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः प्रदक्षिणां समर्पयामि।)
विशेषार्घ्यम्
अर्घ्यपात्रे गन्धाक्षतपुष्पसहितं जलं सहिरण्यं नालिकेरं च निधाय प्रत्येकं दत्त्वा गौर्यादिमातृभ्योऽर्घ्यं दद्यात्
ॐ प्रसन्ना मातरः सर्वाः पूजां गृह्णन्तु मामकीम्।
अनेन सफलार्घ्येण वरदाः सन्तु मे सदा॥
इदं फलं मया देवि स्थापितं पुरतस्तव।
तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि॥
रूपं देहि जयं देहि भाग्यं भगवति देहि मे।
पुत्रान्देहि धनं देहि सर्वान्कामाँश्च देहि मे॥
(ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः विशेषार्ध्यं समर्पयामि।)
ततः प्रार्थयेत्
ॐ ब्राह्मणी कमलेंन्दु सौम्यवदना,
माहेश्वरी लीलया।
कौमारी रिपु दर्प्पनाशनकरी,
चक्रायुधा वैष्णवी॥
वाराही घनघोर घर्घरमुखी,
च ऐन्द्री च वज्रायुधा।
चामुण्डा गणनाथ रुद्रसहिता,
रक्षन्तु माम मातरः॥
ॐ गणेश्चपूर्विका देव्यो गौर्यादिप्रमुखाः स्मृताः।
प्रसीदन्तु हि कल्याण्यो निर्विघ्नं कुरुताध्वरम्॥
यदङ्गत्वेन भो देव्यः पूजिता विधिमार्गतः।
कुर्वन्तु कार्यमखिलं निर्विघ्नेन ऋतूद्भवम्॥
ॐ गौरीपद्माशचीमेधा सावित्रीविजयाजया।
देवसेना स्वधा स्वाहा मातरो लोकमातरः॥
धृतिः पुष्टिस्तथा तुष्टिरात्मनः कुलदेवता।
गणेशेनाधिका ह्येता वृद्धौ पूज्यास्तु षोडश॥
ॐ जयति वरद मूर्तिर्मङ्गलं मङ्गलानाम्।
जयति सकलवन्द्या भारती ब्रह्मस्वरूपा॥
जयति भुवनमाता चिन्मयी मोक्षरूपा।
तानुभय महेशो वाङ्मय शब्दरूपः॥
ॐ आयुरारोग्यमैश्वर्यं ददध्वं मातरो मम।
निर्विघ्नं सर्वकार्येषु कुरुध्वं सगणाधिपाः॥
(ॐ भुर्भुवः स्वः श्री गणेशसहित गौर्यादिषोडशमातृभ्यो नमः प्रार्थनापूर्वकं नमस्कारान् समर्पयामि।)
क्षमा प्रार्थना
आवाहनम् न जानामि, न जानामि तवार्चनम्।
पूजां चैव न जानामि, क्षमस्व परमेश्वी॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वी।
यत्पूजितम् मयादेवि परिपूर्णम् तदस्तु मे॥
यदक्षरं पदभ्रष्टं मात्राहीनं च यद्भवेत्।
तत्सर्वं क्षम्यताम् देवि प्रसीद परमेश्वरी॥
अपराध सहस्त्राणि क्रियन्तेऽहर्निशं मया।
दासोऽयमिति मां मत्वाक्षमस्व परमेश्वरी॥
पूजानिवेदनम् (समर्पणम्)
ॐ श्रीगणेश सहित श्रीगौर्यादिषोडशमातृणां पूजनकर्मणो
यन्न्यूनमतिरिक्तं वा तत्सर्वं मातृणां प्रसादात्परिपूर्णमस्तु॥
अनेन यथाज्ञानेन ध्यान आवाहनादि षोडशोपचारैः अन्योपचारैश्च कृतेन पूजनेन श्रीगणेश सहित गौर्यादिषोडशमातरः प्रीयन्ताम् न मम्।
अन्ते – आसनाद्यः जलं निक्षिप्य ललाटे मृदा तिलकं धारयेत्।
यथा – यस्मिन् स्थाने कर्म कृत्वा शक्रो हरति तत्कर्मम्। तन्मृदा लक्ष्म कुर्वीत ललाटे तिलकाकृति॥
॥ इति श्री सगणेशगौर्यादि षोडशमातृकाणां पूजनप्रकरणम् ॥
ततो दक्षिणहस्तेन गन्धाक्षतपुष्पं गृहीत्वा भगवत्यै श्री श्रियादि सहित सप्तघृतमातृका वसोर्द्धारा देव्या ध्यानाम् आवाहनम् च कुर्यात्…..सप्तघृतमातृका पूजन विधान
॥ श्रीरस्तु ॥
༺❀༻
श्री हरि हरात्मक देवें सदा, मुद मंगलमय हर्ष।
सुखी रहे परिवार संग, अपना भारतवर्ष॥
༺༻❀༺༻
┉ संकलनकर्ता ┉
श्रद्धेय पंडित विश्वनाथ द्विवेदी
‘सनातनी ज्योतिर्विद’
संस्थापक, अध्यक्ष एवं प्रबंध निदेशक
(‘हरि हर हरात्मक’ ज्योतिष)
संपर्क सूत्र – 07089434899
༺༻❀꧁○꧂❀༺༻