श्रीगणेशाम्बिका वैदिक पूजन प्रयोग

॥ अथ् श्रीगणेशाम्बिका पूजनम् ॥

“ॐ गं गणपतये नमः”
꧁❀”ॐ हरि हर नमो नमःॐ”❀꧂

अक्षरं परमं ब्रह्म ज्योतिरूपं सनातनम् । 
गुणातीतं निराकारं स्वेच्छामयमनन्तजम् ॥

“न ऋते त्वम क्रियते किं चनारे” अर्थात् श्री गणेश जी महाराज की पूजा अर्चना, ध्यान, वन्दना के बिना कोई भी कार्य प्रारम्भ नहीं होता, आप ही वैदिक देवता हैं आप के उच्चारण से ही वेद पाठ प्रारम्भ होता है, वैदिक ऋचाओं में इनका विशेष अस्तित्व रहा है। गणेश शब्द तीन शब्दों की युति अर्थात ‘ग’, ‘ण’ एवं ‘ईश’ से मिलकर बना है।  ‘ग’ शब्द ज्ञान को दर्शाता है, ‘ण’ शब्द निर्वाण को दर्शाता है तथा ‘ईश’ स्वामी के लिए संबोधित होता है। इस प्रकार इनका सम्पूर्ण मिलन ब्रह्मा, परमात्मा, आत्मा को परमत्त्व के रुप में अभिव्यक्त करता है।

ताम्रपात्रे सिद्धिबुद्धिसहितं महागणपतिं श्रीगणेशाम्बिकाम् संस्थाप्य हस्ते गन्धाक्षतपुष्पाण्यादाय ध्यायेत्…

श्रीगणेशाम्बिका ध्यानम्

ॐ गजाननं भूतगणादिसेवितं,
कपित्थजम्बू फलचारु भक्षणम्।
उमासुतं शोकविनाशकारकं,
नमामि विघ्नेश्वर पादपङ्कजम्॥

श्वेताङ्गः श्वेतवस्त्रं सितकुसुमगणैः पूजितं श्वेतगन्धैः
क्षीराब्धौ रत्नदीपैः सुर नर तिलकं रत्न सिंहासनस्थम्।
दोर्भिः पाशाङ्कुशाब्जा भय वर दधतं चन्द्रमौलिं त्रिनेत्रं
ध्यायेत् शान्त्यर्थमीशं गणपतिममलं श्रीसमेतं प्रसन्नम्॥

हस्तीन्द्रानन मिन्दु चूड मरुण्
छायं त्रिनेत्रं रसा
दाश्लिष्टं प्रियया सपद्म करया
स्वाङ्कस्थया संततम्।
बीजा पूर गदा धनुस्त्रि शिखयुक्
चक्राब्ज पाशोत्पलः
व्रीह्य ग्रस्व विषाण रत्न कलशान्
हस्तैर्वहन्तं भजे॥

ॐ उद्यद्दिनेश्वर रुचिं निजहस्तपद्यैः,
पाशांङ्कुशाऽभयवरान् दधतं गजास्याम्।
रक्ताम्बरं सकलदुःखहरं गणेशं
ध्यायेत् प्रसन्न-मखिला भरणाभिरामम्॥

(ॐ भूर्भुवः स्वः सिद्धिबुद्धिसहिताय महागणपतये नमः ध्यायामि)

भगवती श्री गौरी ध्यान

चाञ्चल्यारुण लोचनाञ्चित कृपां
चन्द्रार्क चूडामाणिं
चारुस्मेरमुखां चराचरजगत्
संरक्षणीं सत्पदाम्।
चञ्च च्चम्पक नासिका ग्रविलसन्
मुक्तामणी रञ्जितां
श्रीशैलस्थल वासिनीं भगवती
श्री मातरं भावये॥

ॐ मुखे ते ताम्बूलं नयनयुगले कज्जलकला,
ललाटे काश्मीरं विलसति गले मौक्तिकलता॥
स्फुरत्काञ्ची शाटी पृथु कटि तटे हाटकमयी,
भजामि त्वां गौरीं नगपति किशोरीम् विरतम्॥

नमो देव्यै महादेव्यै  शिवायै सततं नमः।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम्॥

(ॐ भूर्भुवः स्वः भगवते श्री गणेशाम्बिकाभ्यां नमः, श्री गणेशाम्बिकाम् ध्यानार्थे गन्धाक्षत पुष्पाणिं समर्पयामि, ततो आवाहनम्)

श्रीगणेशाम्बिका आवाहनम्

ॐ गॖणाना॑न्त्वा गॖणप॑ति ᳬ हवामहे प्प्रिॖयाणा॑न्त्वा प्प्रिॖयप॑ति ᳬ हवामहे निधीॖनान्त्वा॑ निधिॖपति॑ ᳬ हवामहे व्वसोमम। आहम॑जानिगर्ब्भॖधमात्त्वम॑जासि गर्ब्भॖधम्॥

ॐ एह्येहि हेरम्ब महेशपुत्र समस्तविघ्नौघविनाशदक्ष।
माङ्गल्य पूजा प्रथम प्रधान गृहाण पूजां भगवन् नमस्ते॥

ॐ हे हेरम्ब ! त्वमेह्येहि ह्यम्बिकाव्यम्बकात्मज।
सिद्धिबुद्धिपते ! त्र्यक्ष ! लक्षलाभपितुः पितः॥

ॐ नागास्यं नागहारं त्वां गणराजं चतुर्भुजम्।
भूषितं स्वायुधैर्दिव्यैः पाशाङ्कुशपरश्वधैः॥

ॐ आवाहयामि पूजार्थं रक्षार्थ च मम् क्रतोः।
इहाऽगत्य गृहाण त्वं पूजां याग च रक्ष मे॥

ॐ आगच्छ देव देवेश, गौरीपुत्र ​विनायक।
तव पूजां करोमद्य, अत्रतिष्ठ परमेश्वर॥

ॐ भूर्भुवः स्वः श्री ​सिद्धिबुद्धिसहिताय महागणपतये नमः इहागच्छ इह तिष्ठ॥ ॐ भूर्भुवः स्वः सिद्धिबुद्धिसहिताय श्रीमन् महागणाधिपतये नमः महागणाधिपतिमावाहयामि स्थापयामि, पूजयामि च॥

(पुनः अक्षत लेकर गणेशजी की दाहिनी ओर गौरी जी का आवाहन करें।)

ॐ अम्बे॒ऽअम्बि॒केम्बा॑ळिके॒ नमा॑नयति॒ कश्च॒न।
सस॑स्त्यश्श्व॒कः सुभ॑द्रिका काम्पीळवा॒सिनी॑म्॥

ॐ हेमाद्रितनयां देवीं वरदां शङ्करप्रियाम्।
लम्बोदरस्य जननीं गौरीमावाहयाम्यहम्॥

(ॐ भूर्भुवः स्वः गौर्यै नमः, गौरीमावाह्यामि, स्थापयामि, पूजयामि च॥)

श्री गणेश गौरी हिन्दी ध्यानम्

देवों के प्रिय विघ्ननियन्ता,
लम्बोदर भव-भय हारी।
गिरिजानन्दन देव गजानन,
यज्ञ-विभूषित श्रुतिधारी॥
मंगलकारी दुःख विदारी,
तेजोमय जय वरदायक।
बार-बार जय नमस्कार,
स्वीकार करो हे गणनायक॥

देव आइये यहाँ बैठिये,
पूजा को करिये स्वीकार।
भूर्भुवःस्वः सुख समृद्धि के,
खोल दीजिये मंगलद्वार॥
गणनायक वर बुद्धि विधायक,
सदा सहायक भयभंजन।
प्रियपति अतिप्रिय वस्तु प्रदायक
जगत्राता जन मन रंजन॥

निधिपति नवनिधियों के दाता,
भाग्य विधाता भवभावन।
श्रद्धा से हम करते सादर,
देव आपका आवाहन॥
विश्व उदर में टिका आपके,
विश्वरूप गणराज महान।
सर्वशक्ति संचारक तारक
दो अपने स्वरूप का ज्ञान॥

जय गणनायक सिद्धिविनायक,
मंगलदायक मोक्ष प्रदाता।
तुम ही हो सबके शुभदायक,
कष्ट हरो हे भाग्य विधाता॥
ऋद्धि सिद्धि के स्वामी तुम हो,
पिता शुभलाभ के हे भवदाता।
माँ गौरी के साथ में आओ,
दास तुम्हारा तुमको बुलाता॥

वन्दहु शम्भुभवानी के नन्दन
आनन्दकन्द निकन्द पति जै।
दीनन दायक ऋद्धि वा सिद्धि के,
हे गणनायक मो पे पसीझै॥
बुद्धि के दाता गजानन आनन,
मोरी कुबुद्धि सुबुद्धि कीजै।
मूषक वाहन छोड़ि विनायक,
पूजा में आयके आसन लीजै॥

(यजमान माता गौरी से निवेदन करे – कि हे मां, मैं मूर्ख अज्ञानी आपकी पूजन की विधि से अनभिज्ञ हूँ परन्तु आपके श्री चरणों में मेरी अपार श्रद्धा और आस्था है, मैं सद् भाव से आपका पूजन अर्चन प्रारम्भ करने जा रहा हूं, मेरी भावनाओं को समझते हुए मेरी पूजा को स्वीकार करें।)

पूजा विधी न जानता, पर है श्रद्धा अपार।
विनती मेरी स्वीकारिये, हे माँ प्राणाधार॥

नमो नमो हे गौरी माता।
आप हो मेरी भाग्य विधाता॥
शरणागत न कभी घबराता।
गौरी उमा शंकरी माता॥

जय जय गिरिवर राज किशोरी।
जय महेश मुख चन्द चकोरी॥
जय गजबदन षडाननमाता।
जगत जननी दामिनी दुति गाता॥

नहिं तव आदि मध्य अवसाना।
अमित प्रभाउ वेदु नहिं जाना॥
भव भव विभव पराभव कारिनि।
विश्व बिमोहनि स्वबस बिहारिनि॥

सेवत तोहि सुलभ फल चारी।
वरदायनी पुरारी पिआरी॥
देव पूजि पद कमल तुम्हारे।
सुर नर मुनि सब होहिं सुखारे॥

आगच्छ देव देवेश, गौरीपुत्र ​विनायक।
तवपूजा करोमद्य, अत्रतिष्ठ परमेश्वर॥

हेमाद्रितनयां देवीं वरदां शङ्करप्रियाम्।
लम्बोदरस्य जननीं गौरीमावाहयाम्यहम्॥

(ॐ भूर्भुवः स्वः भगवते श्रीगणेशाम्बिकाभ्यां नमः ध्यायमि आवाह्यामि स्थापयामि। भो श्रीगणेशाम्बिकाम् इहागच्छ इह तिष्ठ, ततो प्रतिष्ठापूर्वकम् षोडशोपचार विधिना सम्पूजयेत्)

प्राण-प्रतिष्ठा

ॐ मनो॑ जू॒तिर्ज्जु॑षता॒माज्ज्य॑स्य॒ बृह॒स्प्पति॑र्ॺ॒ज्ञमि॒मन्त॑नो॒त्वरि॑ष्ट्टँ ॺ्ॺ॒ज्ञᳬ समि॒मन्द॑धातु॒।
व्विश्श्वे॑दे॒वास॑ ऽइ॒हमा॑दयन्ता॒मो॑३ प्रति॑ष्ट्ठ॥

ॐ अस्यै प्राणाः प्रतिष्ठन्तु अस्यै प्राणाः क्षरन्तु च।
अस्यै देवत्वमर्चायै मामहेति च कश्चन॥

श्रीगणेशाम्बिके सुप्रतिष्ठिते वरदे भवेताम्॥

(ॐ भूर्भुवःस्वः श्रीगणेशाम्बिकाभ्यां नमः श्रीगणेशाम्बिके इहागच्छतम् इह तिष्ठतं, मम कृतां पूजां गृह्णीतं मम सकुटुम्बस्य सपरिजनस्य च सर्वात्मना कल्याणं च कुरुतम्)

(प्रतिष्ठापूर्वकम् आसनार्थे पुष्पं समर्पयामि श्रीगणेशाम्बिकाभ्यां नमः।)

आसनम्

ॐ वर्ष्मो ऽस्मिसमानानामुद्यतामिव सूर्ॺः।
इमन्तमभितिष्ठामि ॺो मा कश्चाभिदासति॥

ॐ पुरु॑षऽए॒वेद ᳯ सर्व्वं॒ॺ्ॺद्भू॒तंॺ्ॺच्च॑भाॖव्व्य॒म्।
उॖतामृ॑तॖत्त्वस्येशा॑नोॖॺदन्ने॑नातिॖरोह॑ति॥

ॐ विचित्ररत्न खचितं दिव्यास्तरणसंयुतम्।
स्वर्णसिंहासनं चारु गृह्णीष्व सुरपूजित॥

ॐ रम्यं सुशोभनं दिव्यं सर्वसौख्यकरं शुभम्।
आसनं च मया दत्तं गृहाण परमेश्वर॥

(ॐ भूर्भुवः स्वः श्रीगणेशाम्बिकाभ्यां नमः, आसनार्थे पुष्पं समर्पयामि।)

पाद्यम्

ॐ ए॒तावा॑न॒स्य महि॒मातो ज्ज्याँश्च्च॒पूरु॑षः।
पा॑दोऽस्य॒ व्विश्श्वा॑ भू॒तानि॑ त्र्त्रिपाद॑स्या॒मृत॑न्दिवि॥

त्वया गृहीतं सुरसंघ दत्तं,
पाद्यं पवित्रं बहुधाऽद्य यावत्।
परं न देवेश कृतोऽपि लब्धं,
मोदाश्रुभिर्दृष्ट मतो गृहाण॥

ॐ उष्णोदकं निर्मलं च सर्वसौगन्ध्यसंयुतम्।
पादप्रक्षालनार्थाय पाद्यं ते प्रतिगृह्यताम॥

ॐ सर्वतीर्थसमुद्भूतं पाद्यं गन्धादिभिर्युतम्।
विघ्नराज गृहाणेमं भगवन् भक्तवत्सलः॥

(ॐ भूर्भुवः स्वः श्रीगणेशाम्बिकाभ्यां नमः, पादयो पाद्यं समर्पयामि। जल अर्पण करें।)

अर्घ्यम्

ॐ धाम॑न्ते॒ व्विश्व॒म्भुव॑न॒मधि॑ श्श्रि॒तम॒न्तः स॑मु॒द्द्रेहृदॖद्यॗन्तरायु॑षि।
अ॒पामनी॑केसमि॒थेॺ ऽआभृ॑त॒स्तम॑श्याम॒ मधुमन्तन्तऽऊ॒र्म्मिम्॥

ॐ त्र्त्रिपादूर्ध्व ऽउदै॒त्पुरु॑षः पादो॑ऽस्ये॒हा भ॑व॒त्पुनः।
ततो॒ व्वि॒ष्ष्व॒ङ् व्यक्रा मत्साशनानशने ऽअभि॥

मूढोस्मि जानामि न च अर्घ्यदानम्,
परं न चित्तामयि तेऽर्घ्य दाने।
यतो हि त्वं दीन जनानुकम्पो,
गृह्णासि श्रद्धार्पितं मेव देव॥

ॐ रौम्यपात्रे स्थिते तोयं गन्धपुष्पफलान्वितम्।
सहिरण्यं ददाम्यर्घ्यै गृहाण परमेश्वरः॥

ॐ गणाध्यक्ष नमस्तेऽस्तु गृहाण करुणाकर।
अर्घ्यं च फल संयुक्तं गन्धपुष्पाक्षतैर्युतम्॥

(ॐ भूर्भुवः स्वः श्रीगणेशाम्बिकाभ्यां नमः, हस्तयोरर्घ्यं समर्पयामि। गन्ध, अक्षत, पुष्प और फल से युक्त जलार्घ्य अर्पण करें।)

आचमनीयम्

इ॒मम् मे॑ व्वरुणश्श्रुधीहव॑म॒द्या च॑ मृडय। त्वाम॑व॒स्युराच॑के॥

ॐ ततो॑ व्वि॒राड॑जायत व्वि॒राजो॒ ऽअधि॒पूरु॑षः।
सजा॒तो ऽअत्य॑रिच्च्यत- प॒श्च्चाद् भूमि॒मथो॑पु॒रः॥

श्रीमन् गृहाणाऽचमनीयमेतम् ,
मयार्पितं देव विसर्पि सन्धम्।
तवोचितं नास्ति गणेश ! जाने,
तथापि श्रद्धारस पूरितं मे॥

ॐ सर्वतीर्थसमायुक्तं सुगन्धि निर्मलं जलं।
आचम्यार्थ मया दत्तं गृहाण परमेश्वर॥

ॐ विनायक ! नमस्तुभ्यं त्रिदशैरभिवन्दित।
गङ्गोदकेन देवेश कुरुष्वाचमनं प्रभो॥

(ॐ भूर्भुवः स्वः श्रीगणेशाम्बिकाभ्यां नमः, आचमनीयम् जलं समर्पयामि। आचमन के लिये जल अर्पण करें।)

स्नानम्

ॐ तस्मा॑द्यॖज्ञात्स॑र्व्वॖहुतॖःसम्भृ॑तम्पृषदाॖज्ज्यम्॥
पॖशूँस्ताँश्च॑क्क्रेव्वायॖव्व्याॖनारॖण्ण्याग्ग्राम्म्याश्च्चॺॆ॥

ॐ गङ्गे च यमुने चैव गोदावरि सरस्वती।
नर्मदे सिन्धुकावेरी स्नानार्थं प्रतिगृह्यताम्॥

ॐ स्नानार्थं तव देवेश पवित्रं तोयमुत्तम्।
तीर्थेभ्यश्च समानीतं गृहाण परमेश्वरः॥

ॐ गङ्गा-सरस्वती-रेवा-पयोष्णी-नर्मदाजलैः।
स्नापितोऽसि मया देव ततः शान्ति प्रयच्छ मे॥

ॐ मन्दाकिन्यास्तु यद्वारि सर्वपापहरं शुभम्।
तदिदं कल्पितं देव ! स्नानार्थ प्रतिगृह्यताम॥

(ॐ भूर्भुवः स्वः श्रीगणेशाम्बिकाभ्यां नमः, स्नानं समर्पयामि। स्नानीय पुनराचमनीयानि जलम् समर्पयामि। शुद्ध जल से स्नान करायें, पश्चात आचमनीय जल अर्पण करें।)

(ॐ देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम्॥ एतानि पाद्यार्घ्याचमनीय स्नानीय पुनराचमनीयानि समर्पयामि श्रीगणेशाम्बिकाभ्यां नमः।)

मधुपर्कम्

ॐ यन्मधुनो मधव्यं परम ᳬ रूपमन्नाद्यम।
तेनाहं मधुनो मधव्येन परमेण रूपेणान्नाद्येन परमो मधव्योन्नादोऽसानि॥

ॐ आज्यं दधि मधु श्रेष्ठं पात्रयुग्मसमन्वितम्।
मधुपर्क गृहाणत्वं प्रसन्नो भव गणेश्वरः॥

(ॐ भूर्भुवः स्वः श्रीगणेशाम्बिकाभ्यां नमः, मधुपर्कम् समर्पयामि ततो पयः स्न्नानम्।)

पयः स्नानम्

ॐ पयः॑ पृथि॒व्व्याम्पय॒ऽओष॑धीषुॗ पयो॑ दि॒व्वयॗन्तरि॑क्षे पयो॑धाः।
पय॑स्वतीः प्र॒दिश॑÷ सन्तुमह्यॺ्ॺ॑म्॥

ॐ पय॑सोरू॒ पँ॒ॺ्ॺ॒द्दयवा॑द॒द्घ्नो रू॒पङ्कर्क्क॒न्धू॑नि।
सोम॑स्यरू॒पंव्व‍ाजिनः सॏ॒म्म्यस्य॑ रू॒पमा॒मिक्षा॑॥

ॐ कामधेनुसमुद्भूतं सर्वेषां जीवनं परम्।
पावनं यज्ञहेतुश्च पयः स्नानार्थसमर्पितम्॥

ॐ कामधेनुसमुत्पन्नं सर्वसंतोषकारकम्।
पयस्तुभ्यं प्रयच्छामि स्नानार्थ प्रतिगृह्यताम॥

(ॐ भूर्भुवः स्वः श्रीगणेशाम्बिकाभ्यां नमः, पयः स्नानं समर्पयामि, पयः स्नानान्ते शुद्धोदकस्नानम् समर्पयामि, शुद्धोदकस्नानान्ते आचमनीयं समर्पयामि।)

दधि-स्नानम्

ॐ द॒धि॒क्क्राव्ण्णो॑ऽ अकारिषञ्ञि॒ष्ण्णो रश्श्व॑स्य व्वा॒जिनः॑।
सु॒र॒भि नो॒ मुखा॑ कर॒त्त्प्रण॒ ऽआयु॑ ᳬ षि तारिषत्॥

ॐ पयसस्तु समुद्भूतं मधुराम्लं शशिप्रभम्।
दध्यानीतं मया देव स्नानार्थं प्रतिगृह्यताम्॥

(ॐ भूर्भुवः स्वः श्रीगणेशाम्बिकाभ्यां नमः, दधिस्नानं समर्पयामि, दधिस्नानान्ते शुद्धोदकस्नानम् समर्पयामि, शुद्धोदकस्नानान्ते आचमनीयं समर्पयामि।)

घृत-स्नानम्

ॐ घृ॒तम्मि॑मिक्षे घृ॒तम॑स्य॒ ॺोनि॑र्घृते श्श्रि॒तो घृ॒तं व्व॑स्य॒ धाम॑।
अ॒नु॒ष्ष्व॒धमाव॑ह मा॒दय॑स्व॒ स्वाहा॑ कृतं व्वृषभ व्वक्क्षि ह॒व्वयम्॥

ॐ नवनीतसमुत्पन्नं  सर्वसंतोषकारकम्।
घृतं तुभ्यं प्रदास्यामि स्नानार्थं प्रतिगृह्यताम्॥

(ॐ भूर्भुवः स्वः श्रीगणेशाम्बिकाभ्यां नमः, घृतस्नानं समर्पयामि, घृतस्नानान्ते शुद्धोदकस्नानम् समर्पयामि, शुद्धोदकस्नानान्ते आचमनीयं समर्पयामि।)

मधु-स्नानम्

ॐ मधु व्वाता॑ ऽऋताय॒ते मधु॑ क्षरन्ति॒सिन्ध॑वः।
माद्धीर्न्न स॒न्त्वोष॑धीः॥
मधु॒ नक्त॑मु॒तोषसो॒ मधु॑म॒त्त्पार्त्थिव ᳬ रजः।
मधु धौरस्तु नः पि॒ता॥
मधु॑मान्नो॑नो॒ व्वन॒स्पति॒र्म्मधु॑माँ२ ऽअस्तु॒ सूर्व्वः।
माद्धीर्ग्गावों भवन्तु नः॥

ॐ स्वाहा॑ म॒रुदि्द्भः॒ परि॑श्श्रीयस्वदि॒वः स॒ ᳬ स्पृश॑स्प्पाहि। मधु॒ मधु॒ मधु॒॑॥

ॐ पुष्परेणुसमुद्भूतं सुस्वादु मधुरं मधु।
तेजः पुष्टिकरं दिव्यं स्नानार्थं प्रतिगृह्यताम्॥

(ॐ भूर्भुवः स्वः श्रीगणेशाम्बिकाभ्यां नमः, मधुस्नानं समर्पयामि, मधुस्नानान्ते शुद्धोदकस्नानम् समर्पयामि, शुद्धोदकस्नानान्ते आचमनीयं समर्पयामि।)

शर्करा-स्नानम्

ॐ अ॒पा ᳬ रस॒मुद्॑द्वयसः॒ ᳬ सूर्ॺ्ॺे॒ सन्त॑ ᳬ स॒माहि॑तम्।
अ॒पा ᳬ रस॑स्य॒ ॺो रस॒स्तंव्वो॑ गृह्णाम्म्युत्त॒पमु॑पया॒म गृ॑हीतो॒ऽसीन्द्रा॑य त्त्वा॒ जुष्ट्ट॑ङ्गृह्णाम्म्ये॒ष ते॒ ॺोनि॒रि॒न्द्रा॑य त्त्वा॒ जुष्ट्ट॑तमम्॥

ॐ इक्षुरससमुद्भूतां शर्करां पुष्टिदां शुभाम्।
मलापहारिकां दिव्यां स्नानार्थं प्रतिगृह्यताम्॥

(ॐ भूर्भुवः स्वः श्रीगणेशाम्बिकाभ्यां नमः, शर्करास्नानं समर्पयामि, शर्करास्नानान्ते शुद्धोदकस्नानम् समर्पयामि, शुद्धोदकस्नानान्ते आचमनीयं समर्पयामि।)

पञ्चामृत-स्नानम्

ॐ पञ्च॑ न॒द्यः सर॑स्वती॒मपि यन्ति॒ सस्त्रोतसः॑।
सर॑स्वती॒तु प॑ञ्च॒धा सो दे॒शेऽभ॑वत्स॒रित्॥

ॐ पञ्चामृतं मयाऽऽनीतं पयो दधि घृतं मधु।
शर्करा च समायुक्तं स्नानार्थं प्रतिगृह्यताम॥

ॐ पयो दधि घृतं चैव मधु च शर्करायुतम्।
पञ्चामृतं मयाऽऽनीतं स्नानार्थं प्रतिगृह्यताम्॥

(ॐ भूर्भुवः स्वः श्रीगणेशाम्बिकाभ्यां नमः, पञ्चामृतस्नानं समर्पयामि, पञ्चामृतस्नानान्ते शुद्धोदकस्नानम् समर्पयामि, शुद्धोदकस्नानान्ते आचमनीयं समर्पयामि।)

गन्धोदक-स्नानम्

ॐ ग॒न्ध॒र्व्वस्त्वा॑ व्वि॒श्श्वाव॑सुः परि॑दधातु॒ व्विश्श्व॒स्यारि॑ष्ट्यै॒ ॺज॑मानस्य परि॒धिर॑स्य॒ग्नि रि॒डऽई॑डि॒तः॥

ॐ त्वाङ्ग॑न्ध॒र्व्वाऽअ॑खनँ॒स्त्वामिन्द्र॒स्त्वाम्बृह॒स्प्पतिः॑।
त्वामो॑षधे॒ सोमो॒राजा॑व्विद्वान्न्यक्ष्मा॑दमुच्यत॥

ॐ मलयाचलसम्भूतं चन्दनागुरुसम्भवम्।
चन्दनं देव देवेश स्नानार्थं प्रतिगृह्यताम॥

ॐ मलयाचल सम्भूत चन्दनेन विमिश्रितम्।
इदं गन्धोदकस्नानं कुङ्कुमाक्तं च गृह्यताम्॥

(ॐ भूर्भुवः स्वः श्रीगणेशाम्बिकाभ्यां नमः, गन्धोदकस्नानं समर्पयामि। गन्धोदकस्नानान्ते शुद्धोदकस्नानम् समर्पयामि, शुद्धोदकस्नानान्ते आचमनीयं समर्पयामि।)

उद्वर्तन-स्नानम्

ॐ अ॒ ᳬ शुना॑ ते अ॒ ᳬ शुः पृ॑च्च्यतां॒ परु॑षाः॒ परुः।
ग॒न्न्धस्ते॒ सोम॑मवतु॒ मदा॑य॒ रसो ऽअच्यु॑तः॥

ॐ नानासुगन्धिद्रव्यं च चन्दनं रजनीयुतम्।
उद्वर्तनं मया दत्तं स्नानार्थं प्रतिगृह्यताम॥

(ॐ भूर्भुवः स्वः श्री गणेशाम्बिकाभ्यां नमः, उद्वर्तनस्नानं समर्पयामि। उद्वर्तनस्नानान्ते शुद्धोदकस्नानम् समर्पयामि, शुद्धोदकस्नानान्ते आचमनीयं समर्पयामि।)

तीर्थोदक-स्नानम्

ॐ ॺे तीॖर्त्थानि॑ प्प्रॖचर॑न्ति सृ॒काह॑स्तानिषॖङ्गिणैः॑।
तेषा॑ ᳬ सहस्त्रयोजॖनेऽ वॖ धन्न्वा॑नि तन्न्मसि॥

(ॐ भूर्भुवः स्वः श्री गणेशाम्बिकाभ्यां नमः, तीर्थोदकस्नानं समर्पयामि। तीर्थोदकस्नानान्ते शुद्धोदकस्नानम् समर्पयामि, शुद्धोदकस्नानान्ते आचमनीयं समर्पयामि।)

ततः सर्वोपचारार्थे गन्धाक्षतपुष्पैः संपूज्य निर्माल्यमुत्तरे विसृज्य अभिषेकं कुर्यात्॥

धारापात्र पूजनम् (अभिषेकस्य धारापात्रेण पूजनम्)

ॐ धारापात्र अधिष्ठातृ देवताभ्यो नमः।
इति मन्त्रेण सर्वोपचारार्थे गन्धाक्षतपुष्पाणि समर्पयामि।

(गन्ध, अक्षत, पुष्प द्वारा अभिषेक करने से पूर्व धारापात्र का पूजन करके महाअभिषेक स्नान प्रारम्भ करें।)

महाअभिषेकं-स्नानम्

“श्रीगणपतित्यथर्वशीर्षं श्रीसूक्तं च पाठेन अभिषेकं कुर्यात्”

ॐ लं नमस्ते गणपतये। त्वमेव प्रत्यक्षं तत्वमसि। त्वमेव केवलं कर्तासि। त्वमेव केवलं धर्तासि। त्वमेव केवलं हर्तासि। त्वमेव सर्वं खल्विदं ब्रह्मासि। त्व साक्षादात्मासि नित्यम्। ऋतं वच्मि। सत्यं वच्मि। अव त्वं माम्। अव वक्तारम्। अव श्रोतारम्। अव दातारम्। अव धातारम्। अवानूचानमव शिष्यम्। अव पश्चातात्। अव पुरस्तात्। अव चोत्तरात्तात्। अव दक्षिणात्तात्। अव चोर्ध्वात्तात्। अवाधरात्तात्। सर्वतो मां पाहि-पाहि समन्तात्। त्वं वाङ्‍मयस्त्वं चिन्मयः। त्वमानंदमसयस्त्वं ब्रह्ममयः। त्वं सच्चिदानन्दाद्वितीयोऽसि। त्वं प्रत्यक्षं ब्रह्मासि। त्वं ज्ञानमयो विज्ञानमयोऽसि। सर्वं जगदिदं त्वत्तो जायते। सर्वं जगदिदं त्वत्तस्तिष्ठति। सर्वं जगदिदं त्वयि लयमेष्यति। सर्वं जगदिदं त्वयि प्रत्येति। त्वं भूमिरापोऽनलोऽनिलो नभः। त्वं चत्वारि वाक्पदानि। त्वं गुणत्रयातीतः त्वमवस्थात्रयातीतः। त्वं देहत्रयातीतः। त्वं कालत्रयातीतः। त्वं मूलाधार स्थितोऽसि नित्यं। त्वं शक्ति त्रयात्मकः। त्वां योगिनो ध्यायन्ति नित्यम्। त्वं ब्रह्मा त्वं विष्णुस्त्वं रूद्रस्त्वं इंद्रस्त्वं अग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चंद्रमास्त्वं ब्रह्मभूर्भुवःस्वरोम्। गणादि पूर्वमुच्चार्य वर्णादिं तदनन्तरम्। अनुस्वारः परतरः। अर्धेन्दुलसितम्। तारेण रुद्धम्। एतत्तव मनुस्व रूपम्। गकारः पूर्वरूपम्। अकारो मध्यमरूपम्। अनुस्वारश्चान्त्यरूपम्। बिन्दुरूत्तररूपम्। नादः सन्धानम्। संहिता संधिः सैषा गणेश विद्या। गणक ऋषिः निचृद्गायत्रीच्छंदः। श्रीमहागणपतिर्देवता। ॐ गं गणपतये नमः। एकदन्ताय विद्‍महे। वक्रतुण्डाय धीमहि। तन्नो दन्ती प्रचोदयात्। एकदन्तं चतुर्हस्तं पाशमङ्कुश धारिणम्। अभयं वरदं हस्तैर्विभ्राणं मूषकध्वजम्। रक्तं लंबोदरं शूर्प कर्णकं रक्तवाससम्। रक्तगंधानुलिप्ताङ्गं रक्तपुष्पैः सुपुजितम्। भक्तानुकम्पिनं देवं जगत्कारण मच्युतम्। आविर्भूतं च सृष्ट्यादौ प्रकृ‍तेः पुरुषात्परम्। एवं ध्यायति यो नित्यं स योगी योगिनां वरः। नमो व्रातपतये। नमो गणपतये। नम: प्रमथपतये। नमस्तेऽस्तु लंबोदरायै एकदन्ताय। विघ्ननाशिने शिवसुताय। श्रीवरदमूर्तये नमो नमः॥

ॐ हिरण्यवर्णां हरिणीं सुवर्णरजतस्त्रजाम्॥
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह॥१॥
तां म आवह जातवेदो लक्ष्मीमनपगामिनीम्॥
यस्यां हिरण्यं विन्देयं, गामश्वं पुरूषानहम्॥२॥
अश्वपूर्वां रथमध्यां, हस्तिनादप्रबोधिनीम्॥
श्रियं देवीमुप ह्वये, श्रीर्मा देवी जुषताम्॥३॥
कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम्॥
पद्मेस्थितां पद्मवर्णां तामिहोप ह्वये श्रियम्॥४॥
चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम्॥
तां पद्मिनीमीं शरणं प्रपद्ये अलक्ष्मीर्मे नश्यतां त्वां वृण॥५॥
आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ विल्वः॥
तस्य फलानि तपसा नुदन्तु मायान्तरा याश्च बाह्या अलक्ष्मीः॥६॥
उपैतु मां देवसखः, कीर्तिश्च मणिना सह॥
प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन्, कीर्तिमृद्धिं ददातु मे॥७॥
क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम्॥
अभूतिमसमृद्धिंञ्च, सर्वांन्निर्णुद मे गृहात्॥८॥
गन्धद्वारां दुराधर्षां, नित्यपुष्टां करीषिणीम्॥
ईश्वरीं सर्वभूतानां, तामिहोपह्वये श्रियम्॥९॥
मनसः काममाकूतिं, वाचः सत्यमशीमहि॥
पशूनां रूपमन्नस्य, मयि श्रीः श्रयतां यशः॥१०॥
कर्दमेन प्रजा भूता मयि सम्भव कर्दम॥
श्रियं वासय मे कुले मातरं पद्ममालिनीम्॥११॥
आपः सृजन्तु स्त्रिग्धानि चिक्लीत वस मे गृहे॥
नि च देवीं मातरं श्रियं वासय मे कुले॥१२॥
आर्द्रां पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीम॥
चन्द्रां हिरण्मयीं लक्ष्मीं, जातवेदो म आवह॥१३॥
आर्द्रां यः करिणीं यष्टिं सुवर्णां हेममालिनीम्॥
सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह॥१४॥
तां म आवह जातवेदो लक्ष्मीमनपगामिनीम्॥
यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान्विन्देयं पुरुषानहम्॥१५॥
यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम्॥
सूक्तं पंचदशर्चं च श्रीकाम: सततं जपेत्॥१६॥

श्रीश्श्च॑ते लॖक्ष्मीश्श्चॖ पत्क्न्या॑वहोराॖत्र्त्रेपाॖर्श्वे नक्ष॑त्र्त्राणिरूॖपमॖश्विनौॖ व्व्यात्त॑म्।
इॗष्ष्णन्नि॑षाणाॖमुम्म॑ऽइषाण-सर्व्वलोॖकम्म॑ऽइषाण॥

ॐ स॒र्व्वेषां वा॒ऽएष व्वे॒दाना ᳬ र॒सोॺत्सा॒म।
स॒र्व्वेषा मे॒ वैनमेतद् वे॒दाना ᳬ र॒सेनाभि॒ षिञ्चति॥

ॐ शान्तिः शान्तिः सुशान्तिर्भवतु सर्वारिष्ट शान्तिर्भवतु।
अमृताभिषेकोऽस्तु। अस्त्वमृताभिषेकः।

(ॐ भूर्भुवः स्वः श्रीगणेशाम्बिकाभ्याम् नमः महाभिषेकंस्नानं समर्पयामि, महाभिषेकस्नानान्ते शुद्धोदकस्नानं समर्पयामि, शुद्धोदकस्नानान्ते, आचमनीयं जलं समर्पयामि॥ अभिषेकोदकं नेत्रे स्पृशेत्॥)

शुद्धोदक-स्नानम्

ॐ शुॖद्धवा॑लः स॒र्व्वशु॑द्धवालो मणि॒वाल॒स्त ऽआ॑श्श्विनाः श्येतः॑ श्येता॒क्षो॒ऽरु॒णस्ते रु॒द्राय॑ पशुॖपत॑ये क॒र्ण्णा ॺा॒मा ऽअव॑लि॒प्पता रौ॒द्रा नभो॑रूपाः प्रार्ज्ज॒न्न्याः॥

ॐ मन्दाकिन्यास्तु यद्वारि सर्वपापहरं शुभम्।
तदिदं कल्पितं देव ! स्नानार्थं प्रतिगृह्यताम्॥

ॐ गङ्गे च यमुने चैव गोदावरि सरस्वती।
नर्मदे सिन्धुकावेरी स्नानार्थं प्रतिगृह्यताम्॥

ॐ स्नानार्थं तव देवेश पवित्रं तोयमुत्तम्।
तीर्थेभ्यश्च समानीतं गृहाण परमेश्वरः॥

ॐ गङ्गा-सरस्वती-रेवा-पयोष्णी-नर्मदाजलैः।
स्नापितोऽसि मया देव ततः शान्ति प्रयच्छ मे॥

(ॐ भूर्भुवः स्वः श्रीगणेशाम्बिकाभ्यां नमः, शुद्धोदकस्नानं समर्पयामि, शुद्धोदकस्नानान्ते, आचमनीयम्। शुद्ध जल से स्नान कराएं, पश्चात आचमन के लिए जल अर्पण करें)

आचमनम्

ॐ अद्ध्य॑वोचदधिव॒क्क्ता प्प्र॑थ॒मो दैव्यो॑ भि॒षक्।
अहीश्श्च॒ सर्व्वाञ्ज॒म्भयत्त्सवी॑श्श्च॒ ॺातुधा॒न्न्यो॒ ऽध॒राचीः॒ परा॒सु॒व॥

ॐ सर्वतीर्थसमायुक्तं सुगन्धि निर्मलं जलं।
आचम्यतां मया दत्तं गृहीत्वा परमेश्वर॥

(ॐ भूर्भुवः स्वः श्रीगणेशाम्बिकाभ्यां नमः, आचमनीयं जलं समर्पयामि। आचमन के लिये जल अर्पण करें)

ततः सिद्धिबुद्धिसहिताय श्रीमहागणपतिं एवं भगवती श्रीअम्बिकाम् रक्तवस्त्रोपरि गोधूमादिनिर्मिताष्टदले पीठे स्वसमीपे संस्थापयेत्॥

वस्त्रम्

ॐ युवा सुवासाः परिवीत आगात् स उ श्रेयान् भवति जायमानः।
तं धीरासः कवय उन्नयन्ति स्वाध्यो मनसा देवयन्तः॥

ॐ सर्वभूषाधिके सौम्ये लोक लज्जानिवारिणे।
मयोप पादिते तुभ्यं वाससी प्रतिगृह्यताम॥

ॐ शीतवातोष्णसंत्राणं लज्जाया रक्षणं परम् ।
देहालङ्करणं वस्त्रमतः शान्तिं प्रयच्छ मे ॥

(ॐ भूर्भुवः स्वः श्रीगणेशाम्बिकाभ्यां नमः, वस्त्रं समर्पयामि, वस्त्रान्ते आचमनीयम् जलं समर्पयामि।)

यज्ञोपवीतम्

ॐ ब्रह्म॑ जज्ज्ञा॒नम्प्र॑थ॒मम्पुरस्ता॒द्विसी॑म॒तः सु॒रुचो॑व्वे॒नऽआ॑वः।
सबु॒द्ध्न्या॒ऽउप॒माऽ अ॑स्य व्वि॒ष्ट्ठाः स॒तश्च॒ॺोनि॒मस॑तश्च॒व्विवः॥

ॐ यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात्।
आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः॥

यज्ञोपवीतमसि यज्ञस्य त्वा यज्ञोपवीततेनोपनह्यामि।

ॐ नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम्।
उपवीतं मया दत्तं गृहाण परमेश्वर॥

(ॐ भूर्भुवः स्वः श्रीगणाधिपाय नमः, यज्ञोपवीतं समर्पयामि, यज्ञोपवीतान्ते आचमनीयम् जलं समर्पयामि।)

उपवस्त्रम्

ॐ सुजा॑तो॒ ज्ज्योति॑षा स॒हशर्म्म॒ व्वरू॑थ॒मा स॑द॒त्त्स्वः॒।
व्वासो॑ऽ अग्ने व्वि॒श्श्वरूप॒ᳮ संव्व्य॑यस्व-व्विभावसो॥

ॐ यस्याभावेन शास्त्रोक्तं कर्म किञ्चिन्न सिध्यति।
उपवस्त्रं प्रयच्छामि सर्वकर्मोपकारकम्॥

(ॐ भूर्भुवः स्वः श्रीगणेशाम्बिकाभ्यां नमः, उपवस्त्रं (उपवस्त्राभावे रक्तसूत्रं) समर्पयामि, उपवस्त्रान्ते आचमनीयम जलं समर्पयामि।)

गन्धम् (चन्दनम्)

ॐ त्वाङ्ग॑न्ध॒र्व्वाऽअ॑खनँ॒स्त्वामिन्द्र॒स्त्वाम्बृह॒स्प्पतिः॑।
त्वामो॑षधे॒ सोमो॒राजा॑व्विद्वान्न्यक्ष्मा॑दमुच्यत॥

ॐ गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीं।
ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम्॥

ॐ श्रीखण्डं चन्दनं दिव्यं गंधाढ्यं सुमनोहरम्।
विलेपनं सुरश्रेष्ठ गृहाण परमेश्वरः॥

(ॐ भूर्भुवः स्वः श्रीगणेशाम्बिकाभ्यां नमः, चन्दनानुलेपनं समर्पयामि।)

अक्षताः

ॐ अक्ष॒न्नमी॑मदन्त॒ह्यव॑प्प्रि॒याऽ-अ॑धूषत।
अस्तो॑षत॒ स्वभा॑नवो व्विप्प्रा॒नवि॑ष्ट्ठया म॒ती ॺोजान्न्विन्द्रतेहरी॑॥

ॐ अक्षताश्च सुरश्रेष्ठ कुङ्कुमाक्ताः सुशोभिताः।
मया निवेदिता भक्त्या गृहाण परमेश्वर॥

(ॐ भूर्भुवः स्वः श्रीगणेशाम्बिकाभ्यां नमः, अक्षतान् समर्पयामि।)

पुष्पाणि

ॐ ओष॑धीः॒ प्प्रति॑मोदद्ध्व॒म्पुष्प्प॑वतीः प्प्र॒सूव॑रीः।
अश्श्वा॑ऽइव स॒ज्जित्त्व॑रीर्व्वी॒रुधः॑ पारयि॒ष्ण्ण्वः॒॥

ॐ माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो।
मयाहृतानि (मयाऽऽनीतानि) पुष्पाणि पूजार्थं प्रतिगृह्यताम्॥

(ॐ भूर्भुवः स्वः श्रीगणेशाम्बिकाभ्यां नमः, पुष्पमालां समर्पयामि।)

दूर्वाङ्कुराः

ॐ काण्डा॑त्त्काण्डात्त्प्र॒रोह॑न्ती॒ परु॑षः परुष॒स्प्परि॑।
ए॒वानो॑ दूर्व्वे॒ प्प्रत॑नु स॒हस्त्रे॑ण श॒तेन॑ च॥

ॐ दूर्वाङ्कुरान् सुहरितानमृतान् मङ्गलप्रदान्।
आनीतांस्तव पूजार्थं गृहाण गणनायक॥

ॐ दुर्वे ह्यमृतसम्पन्ने शतमूले शताङ्कुरे।
शतं पातक-संहन्त्री शतमायुष्यवर्धिनी॥

ॐ त्वं दूर्वेऽमृतजन्मासि वन्दितासि सुरैरपि।
सौभाग्यं सन्ततिं देहि सर्वकार्यकरी भव॥

ॐ विष्ण्वादिसर्वदेवानां दूर्वे त्वं प्रीतिदा सदा।
क्षीरसागरसम्भूते वंशवृद्धिकरी भव॥

(ॐ भूर्भुवः स्वः श्रीगणेशाम्बिकाभ्यां नमः, दूर्वाङ्कुरान् समर्पयामि। (गणेशजी को तीन, पांच, सात की संख्या में दूर्वा और तद्अंकुर दूब अर्पण करें)

बिल्वपत्रम्

ॐ नमो॑ बिॖल्म्मिनॆ॑ च कव॒चिनॆ॑ च॒ नमो॑ व्व॒र्म्मिणे॑ च व्वरूॖथिनॆ॑ च॒ नमः॑।
श्र्श्रु॒ताय॑ च श्रुतसे॒नाय॑ च॒ नमो॑ दुन्दु॒ब्भ्या॒य चा हनॖन्न्या॒य च॒ नमो॑ धृ॒ष्ष्णवे॑॥

ॐ त्रिशाखैर्बिल्वपत्रैश्च ह्यच्छिद्रैः कोमलैः शुभैः।
तव पूजां करिष्यामि गृहाण परमेश्वरः॥

(ॐ भूर्भुवः स्वः श्रीगणेशाम्बिकाभ्यां नमः, बिल्वपत्राणि समर्पयामि।)

सिन्दूरम्

ॐ सिन्धो॑रिव प्प्राद्ध्व॒ने शू॑घ॒नासो॒ व्वात॑ प्प्रमियः पतयन्न्ति ॺह्वाः।
घृ॒तस्य॒ धारा॑ ऽअरु॒षो न व्वा॒जी काष्ठ्ठा॑ भि॒न्दन्नू॒र्म्मिभिः॒ पिन्न्व॑मानः॥

ॐ सन्नः सिन्धु॑रवभृ॒थायोद्य॑तः समु॒द्द्रोब्भ्य वह्ह्नि॒यमा॑णः सलि॒लः प्प्रप्लु॑तोॺयो॒ रोज॑सास्क्कभि॒ता रजा॑ ᳬ सि व्वी॒र्ॺ्ॺे॒ भिर्व्वी॒रत॑ मा॒शवि॑ष्ठा।
यापत्ये॑ते॒ऽअप्प्र॑तीता॒ सहो॑भि॒र्व्विष्ष्णू॑ऽ अग॒न्न्वरू॑णा पू॒र्व्वहु॑तौ॥

ॐ सिन्दूरं शोभनं रक्तं सौभाग्यं सुखवर्धनम्।
शुभदं कामदं चैव सिन्दूरं प्रतिगृह्यताम॥

(ॐ भूर्भुवः स्वः श्रीगणेशाम्बिकाभ्यां नमः, सिन्दूरम् समर्पयामि।)

नानापरिमल-सौभाग्यद्रव्याणि

ॐ अहि॑रिव भो॒गैः पर्ॺ्ॺेति बा॒हुञ्ज्याया॑ हे॒तिम्प॑रि बाध॑मानः।
ह॒स्त॒ग्घ्नो व्विश्श्ववा॑ व्व॒युना॑नि व्वि॒द्धान्पुमा॒न्न पुमा॑ᳬ स॒म्परि॑ पातु व्वि॒श्वतः॑॥

ॐ अबीरं च गुलालञ्च चोवा चन्दनमेव च।
अबीरेणार्चितो देव ! अतः शान्ति प्रयच्छ मे॥

ॐ अबीरं च गुलालं च हरिद्रादिसमन्वितम्।
नानापरिमलद्रव्यं गृहाण परमेश्वर॥

ॐ नाना परिमलैर्द्रव्यैर्निर्मितं चूर्णमुत्तमं।
अबीरनामकंदिव्यं गन्धं चारु प्रतिगृह्यताम्॥

(ॐ भूर्भुवः स्वः श्रीगणेशाम्बिकाभ्यां नमः, नानापरिमल-द्रव्याणि समर्पयामि।)

सुगन्धि-द्रव्यम्

ॐ त्र्य॑म्बकँ ॺ्ॺजामहे सुग॒न्धिम्पु॑ष्ट्टि॒वर्द्ध॑नम्।
उ॒र्व्वा॒रु॒कमि॑व॒बन्ध॑नान्मृ॒त्त्योर्मु॑क्षीय॒ मामृता॑त्॥

ॐ चम्पकाशोकवकुल्मालतीमोगरादिभिः।
वासितं स्निग्धाहेतु तैलं चारु प्रतिगृह्यताम्॥

स्नेहं गृहाण सस्नेह लोकेश्वर दयानिधे।
भक्त्या दत्तं मया देव स्नेहं ते प्रतिगृह्यताम्॥

ॐ दिव्यगन्धसमायुक्तं महापरिमलाद्भुतम्।
गन्धद्रव्यमिदं भक्त्या दत्तं वै प्रतिगृह्यताम्॥

(ॐ भूर्भुवः स्वः श्रीगणेशाम्बिकाभ्यां नमः, सुगन्धितद्रव्यं समर्पयामि।)

आभूषणम्

ॐ हिर॑ण्ण्यरूपा उ॒षसो॑ व्विरो॒क उ॒भावि॑न्द्रा॒ उदिथः॑ सूर्ॺ्ॺश्च।
आ रो॑हतं व्वरूण मित्र॒ गर्त्तं॒ तत॑श्चक्षाथामदि॑तिं॒ दितिं॑ च मि॒त्रो॒ऽसि॒ व्वरु॑णोऽसि॥

ॐ स्व॒र्ण्ण घ॒र्म्मः स्वाहा॒ स्वॗर्णार्कः स्वाहा स्वॗर्ण्ण शु॒क्क्रः स्वाहा॒ स्वॗर्ण्ण ज्ज्योतिः॒ स्वाहा॒ स्वॗर्ण्ण सूर्ॺ्ॺः स्वाहा॑॥

मातस्तवेमं मुकुटं हरिन्मणि प्रवाल मुक्ता मणिभिर्विराजितम्।
गारूत्मतैश्चाऽपि मनोहरं कृतं गृहाण मातः शिरसो विभूषणम्॥

ॐ अलङ्कारान् महादिव्यान् नानारत्न-विनिर्मितान्।
गृहाण देवदेवेश ! प्रसीद परमेश्वर॥

(ॐ भूर्भुवः स्वः श्रीगणेशाम्बिकाभ्यां नमः, आभूषणम् समर्पयामि।)

धूपम्

ॐ धूर॑सि॒ धूर्व्व॒ धूर्व्वन्तं धूर्व्व तँ ॺ्ॺो॒ ऽस्म्मामान् धूर्व्वति॒ तन्धू॑र्व्व॒यं व्वंयं धूर्व्वा॑मः।
दे॒वाना॑मसि॒ व्वह्नि॑तम॒ ᳬ सस्न्नि॑तमम् पप्प्रि॑तमम् जुष्ट्ट॑तमम् देव॒हू‌त॑मम्॥

ॐ अश्र्श्व॑स्यत्त्वा॒व्वृष्ण्णः॑ श॒क्क्ना धू॑पयामि देव॒यज॑ने पृथि॒व्व्याः।
म॒खाय॑त्त्वा म॒खस्य॑त्त्वा शी॒ष्ष्णें॥
अश्र्श्व॑स्य त्त्वा॒ व्वृष्ण्णः॑ श॒क्क्नाधू॑पयामिदेव॒यज॑ने पृथि॒व्व्याः।
म॒खाय॑त्त्वा म॒खस्य॑त्त्वाशी॒ष्ष्णें॥
म॒खाय॑त्त्वाम॒खस्य॑त्त्वाशी॒ष्ष्णें॥
म॒खाय॑त्त्वाम॒खस्य॑त्त्वाशी॒ष्ष्णें॥
म॒खाय॑त्त्वाम॒खस्य॑त्त्वाशी॒ष्ष्णें॥

ॐ वनस्पतिरसोद्भूतो गन्धाढ्यो गन्ध उत्तमः।
आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम्॥

(ॐ भूर्भुवः स्वः श्रीगणेशाम्बिकाभ्यां नमः, धूपमाघ्रापयामि।)

दीपम्

ॐ च॒न्द्रमा॑ ऽअ॒प्प्स्वॗन्तरा सु॑प॒र्ण्णोधा॑वतेदि॒वि‌।
र॒यिम्पि॒शङ्ग॑म्बहु॒लम्पु॑रु॒स्पृह॒ ᳬ हरि॑रेति॒क नि॑क्रदत्॥

चॖन्द्रमाॖ मन॑सोजाॖतश्श्चक्षोॖः सूर्ॺ्ॺो॑ऽअजायत।
श्रोत्रा॑द्वायुश्श्च॑ प्राॖणश्श्चॖ मुखा॑दॖग्निर॑जायत॥

ॐ अ॒ग्ग्निर्ज्ज्योति॑षा॒ ज्ज्योति॑ष्म्मान्न्नु॒क्क्मो व्वर्च्च॑सा॑ व्वर्च्च॑स्वान्।
स॒ह॒स्त्र॒दाऽअ॑सि स॒हस्त्रा॑यत्त्वा॥

ॐ अ॒ग्ग्निर्ज्ज्ॺोति॒ र्ज्ज्ॺोति॑र॒ग्निः स्वाहा॒ सूर्ॺ्ॺो॒ र्ज्ज्योति॒र्ज्ज्योतिः॒ सूर्ॺ्ॺः॒ स्वाहा॑।
अ॒ग्निर्व्वर्च्चो॒ ज्ज्योति॒र्व्वर्च्चः॒ स्वाहा॒ सूर्ॺ्ॺो॒ व्वर्च्चो॒ ज्ज्योति॒र्व्वर्च्चः॒ स्वाहा।
ज्ज्योतिः॒ सूर्ॺ्ॺः॒ सूर्ॺ्ॺो॒ ज्ज्योतिः॒ स्वाहा॑॥

ॐ साज्यं च वर्तिसंयुक्तं वह्निना योजितं मया।
दीपं गृहाण देवेश त्रैलौक्यतिमिरापहम्॥

ॐ भक्त्या दीपं प्रयच्छामि देवाय परमात्मने।
त्राहि मां निरयाद् घोराद् दीपज्योतिर्नमोऽस्तु ते॥

(ॐ भूर्भुवः स्वः श्रीगणेशाम्बिकाभ्यां नमः, प्रत्यक्ष दीपं दर्शयामि।)

(‘ॐ हृषीकेशाय नमः’ ‘ॐ गोविन्दाय नमः’ इति मन्त्रेण हस्तौप्रक्षालनः)

नैवेद्यम्

साधार पात्रे संस्थाप्य। मूल मंत्रेण जलेन संप्रोक्ष्य।
गन्ध पुष्पाभ्याम् आच्छाद्य। धेनुमुद्रया अमृतीकृत्य।
घण्टावादनम् पूर्वकं अन्तर्पट् निधाय॥

(नैवेद्य को प्रोक्षित कर गन्ध पुष्पादि से आच्छादित करें। तदनन्तर जल से चतुष्कोण घेरा लगाकर भगवान के समक्ष रखें)

ॐ अन्न॑प॒तेन्न॑स्य नो देह्ॺनमी॒वस्य॑ शुष्म्मिणः॑।
प्रप्प॑दातार॑न्तारिष॒ऽ ऊर्ज्ज॑न्नोधेहि द्वि॒पदे॒चतु॑ष्पदे॥

ॐ नाब्भ्या॑ऽआसीद॒न्तरि॑क्ष ᳬ शी॒र्ष्ष्णोद्यौः सम॑वर्त्तत।
प॒द्भ्याम्भूमिर्द्दिशः श्रोत्र्त्रात्तथा॑लो॒काँ२ ऽअ॑कल्प्पयन्॥

ॐ शर्कराखण्डखाद्यानि दधिक्षीरघृतानि च।
आहारं भक्ष्यभोज्यंञ्च नैवेद्यं प्रतिगृह्यताम्॥

गायत्रीमन्त्रेण सम्प्रोक्ष्य धेनुमुद्रयाऽमृतीकृत्य ग्रासमुद्रया पञ्च प्राणाहुतीर्दद्यात्॥

ॐ अमृतोपस्तरणमसि स्वाहा॥ ॐ प्राणाय स्वाहा॥ ॐ अपानाय स्वाहा॥

ॐ एलोशीरळवङ्गादि कर्पूर परिवासितम्।
प्राशनार्थं कृतं तोयं गृहाण गणनायक॥
अतितृप्तिकरं तोयं सुगन्धि च पिवेच्छयौ।
त्वयि तृप्ते जगत्तृप्तं नित्यतृप्ते महात्मनि॥
(मध्ये पानीयं समर्पयामि॥)

ॐ व्यानाय स्वाहा॥ ॐ उदानाय स्वाहा॥ ॐ समानाय स्वाहा॥ उत्तरापोऽशनम् समर्पयामि॥ ॐ अमृतापिधानमसि स्वाहा॥ हस्तप्रक्षालनं समर्पयामि॥ मुखप्रक्षालनं समर्पयामि॥ आचमनीयं समर्पयामि॥

(ॐ भूर्भुवः स्वः श्रीगणेशाम्बिकाभ्यां नमः, नैवेद्यं निवेदयामि।)

करोद्वर्तनम्

ॐ सि॒ञ्चति॒ परि॑ षिञ्च॒न्त्युत् सि॑ञ्चन्ति पुनन्ति॑ च।
सुरा॑यै ब॒ब्भ्व्रै मदे॑ कि॒न्त्वो व्वदति कि॒न्त्वः॥

ॐ अ॒ ᳬ शुना॑ ते अ॒ ᳬ शुः पृ॑च्च्यतां॒ परु॑षाः॒ परुः।
ग॒न्न्धस्ते॒ सोम॑मवतु॒ मदा॑य॒ रसो ऽअच्यु॑तः॥

ॐ चन्दनं मलयोद्भूतं कस्तूर्यादिसमन्वितम्।
करोद्वर्तनकं देव गृहाण परमेश्वर॥

(ॐ भूर्भुवः स्वः श्रीगणेशाम्बिकाभ्यां नमः, करोद्वर्तनार्थे चन्दनं समर्पयामि।)

ऋतुफलानि – अखण्ड ऋतुफलम्

ॐ ॺाः फ॒लिनी॒र्ॺ्ॺाऽ अ॑फ॒लाऽ अ॑पु॒ष्पा ॺाश्च॑ पु॒ष्प्पिणीः॑।
बृह॒स्प्प्रति॑ प्प्रसूता॒स्तानो॑ मुञ्च॒न्त्वᳬ ह॑सः॥

ॐ इदं फलं मया देव स्थापितं पुरतस्तव।
तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि॥

ॐ द्राक्षा-खजूर-कदली- पनसा – ऽऽम्र-कपित्थकम्। नारिकेलेषु-जम्ब्वादि-फलानि प्रतिगृह्यताम्॥

(ॐ भूर्भुवः स्वः श्रीगणेशाम्बिकाभ्यां नमः, ऋतुफलानि, अखण्ड ऋतुफलानि, समर्पयामि। फलान्ते आचमनीयं जलं समर्पयामि। मध्ये-मध्ये पानीयं समर्पयामि, उत्तरापोशनं समर्पयामि, हस्तप्रक्षालनं समर्पयामि, मुखप्रक्षालनं समर्पयामि॥ मौसम के अनुसार यथा शक्ति फल अर्पण करें, श्रीफल अर्पण करें)

ताम्बूलम्

ॐ उ॒तस्म्मा॑स्य॒द्रव॑तस्तुरण्ण्य॒तः प॒र्ण्णन्नवेरनु॑वातिप्प्रग॒र्द्धिनः॑।
श्ये॒नस्ये॑व॒द्ध्रज॑तोऽ‌ अङ्क॒सम्परि॑दधिक्क्राव्ण्णः॑ स॒होर्ज्जा तरित्र्त्रतः॒ स्वाहा॑॥

ॐ ॺत्पुरु॑षेणहॖविषा॑देॖवाॺॖज्ञमत॑न्न्वत।
व्वॖसॖन्तो॒ऽस्यासीॖदाज्ज्य॑ङ्ग्रीॖष्म ऽइ॒ध्मः शरद्धविः॥

ॐ पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम्।
एलादिचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम्॥

(ॐ भूर्भुवः स्वः श्रीगणेशाम्बिकाभ्यां नमः, मुखवासार्थे एलालवंगपूगीफलसहितं ताम्बूलं समर्पयामि। पान, सुपारी, लोंग, इलायची अर्पण करें)

दक्षिणाम्

ॐ हि॒र॒ण्ण्य॒ग॒र्ब्भः सम॑वर्त्त॒ताग्ग्ग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ऽआसीत्।
स दा॑धार पृथि॒वीन्द्या मु॒ते माङ्कस्म्मै॑ दे॒वाय॑ ह॒विषा॑ व्विधेम॥

ॐ ॺद्द॒त्तँॺ्ॺत्त्प॑रा॒दानँ॒ॺ्ॺत्त्पू॒र्तंॺ्ॺाश्च दक्षि॑णाः।
तद॒ग्ग्निर्व्वै॑श्वकर्म्म॒णः स्व॑र्दे॒वेषु॑ नोदधत्॥

ॐ हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः।
अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे॥

(ॐ भूर्भुवः स्वः श्रीगणेशाम्बिकाभ्यां नमः, कृतायाः पूजायाः सा दुगुण्यार्थे द्रव्यदक्षिणां समर्पयामि। सोना, चाँदी अथवा यथा शक्ति रुपये दक्षिणा के रूप में अर्पण करें।)

अथ श्रीगणेश अंङ्गपूजा

(वामहस्ते गन्धपात्रे गृहीत्वा दक्षहस्तेन पूजयेत्)

श्रीगणेशाय नमः – पादौ पूजयामि।
आखुवाहनाय नमः – ऊरू पूजयामि।
हेरम्बाय नमः – कटी पूजयामि।
कामारिसूनवे नमः – नाभिं पूजयामि।
गणनायकाय नमः – हृदयं पूजयामि।
स्थूलकण्ठाय नमः – कण्ठे पूजयामि।
स्कन्दाग्रजाय नमः – स्कन्धौ पूजयामि।
पाशहस्ताय नमः – हस्तौ पूजयामि।
गजवक्त्राय नमः – वक्त्रे पूजयामि।
विघ्नहर्त्रे नमः – ललाटं पूजयामि
सर्वेश्वराय नमः – शिरः पूजयामि।
श्रीगणाधिपाय नमः – सर्वाङ्गं पूजयामि॥

आवरणपूजा – अक्षतैः पूजयेत्

सुमुखाय नमः। एकदन्ताय नमः। कपिलाय नमः।
गजकर्णाय नमः। लम्बोदराय नमः। विकटाय नमः।
विघ्ननाशनाय नमः। विनायकाय नमः। धूम्रकेतवे नमः।
गणाध्यक्षाय नमः। भालचन्द्राय नमः। गजाननाय नमः।

ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल।
भक्त्या समर्पये तुभ्यं समस्तावरणार्चनम्॥

(समस्तावरणदेवेभ्यो नमः सर्वोपचारार्थे गन्धाक्षतपुष्पाणि समर्पयामि।)

(हस्ते जलं गृहीत्वा – अनेन समस्तावरणदेवतार्चनेन श्रीसिद्धिबुद्धिसहिताय श्रीमहागणपतिः प्रीयताम्॥)

नीराजनम् – कर्पूरारार्तिक्यम्

ॐ इद ᳬ ह॒विः प्प्र॒जन॑न॑ मे ऽअस्तु॒ दश॑वीर॒ ᳬ सर्व्वगण ᳬ स्व॒स्तये॑।
आ॒त्म॒सनि॑ प्प्रजा॒सनि॑ पशु॒सनि॑ लोक॒सन्न्य॑भय॒सनि॑।
अ॒ग्निः प्प्र॒जां बहुलां में करोत्वन्नं पयो रेतो॑ ऽअ॒स्म्मासु॑ धत्त॥

ॐ आ रा॑त्र्त्रि॒ पार्त्थि॑व॒ ᳬ रजः॑ पि॒तुर॑प्प्रायि॒ धाम॑भिः।
दि॒वः सदा॑ ᳬ ऽसि बृह॒ती व्विति॑ष्ठस॒ ऽआ त्त्वे॒षं व्व॑र्त्त॑ते तमः॑॥

ॐ अ॒ग्ग्निर्द्देवता॒ व्वातो॑दे॒वता॒ सूर्य्यो॑दे॒वता॑ च॒न्द्रमा॑दे॒वता॒ व्वस॑वोदे॒वता॑ रु॒द्द्रादे॒वता॑ऽऽदि॒त्त्यादे॒वता॑ म॒रुतो॑दे॒वता॒ व्विश्श्वे॑दे॒वादे॒वता॒ बृह॒स्पति॑र्दे॒वतेन्द्रोंदे॒वता॒ व्वरु॑णोदे॒वता॑॥

ॐ कदलीगर्भसम्भूतं कर्पूरं तु प्रदीपितम्।
आरार्तिकमहं कुर्वे पश्य मे वरदो भव॥

ॐ कर्पूरगौरं करुणावतारं संसारसारं भूजगेन्द्रहारं।
सदा वसन्तं हृदयारविन्दे भवं भवानीसहितं नमामि॥

ॐ देवा लम्बोदर गिरजा नन्दना, देवा पूर्ण करो मनोकामना।
देवा सिद्ध करो सब कामना, देवा लम्बोदर गिरजा नन्दना॥
देवा लम्बोदर गिरजा नन्दना…..॥
हे मनभावन, अति सुख पावन, तुम गौरी नन्दना।
हे दुःखहर्ता, हे सुखकर्ता विद्यादायी, हे षडानना॥
देवा लम्बोदर गिरजा नन्दना…..॥
रुण झुण-रुण झुण पैंजनी बाजत, चलत मस्त मुचुकुन्दना।
प्रथम पूज्य तुम देव गजानन, गौरीशंकर प्रिय नन्दना॥
देवा लम्बोदर गिरजा नन्दना…..॥
जो प्रभु तुम्हरी आरती गावै, मिटै विघ्न कटत फन्दना।
देवा लम्बोदर गिरजा नन्दना…..॥

ॐ जय गणेश जय गणेश जय गणेश देवा।
माता जाकी पार्वती पिता महादेवा॥ जय …
एक दंत दयावंत चार भुजा धारी।
माथे सिंदूर सोहे मूसे की सवारी॥ जय …
अंधन को आंख देत, कोढ़िन को काया।
बांझन को पुत्र देत, निर्धन को माया॥ जय …
पान चढ़े फल चढ़े और चढ़े मेवा।
लड्डुअन का भोग लगे संत करें सेवा॥ जय …
दीनन की लाज रखो शम्भु सुतवारी।
कामना को पूर्ण करो जाऊँ बलिहारी॥
‘सूर’ श्याम शरण आए सफल कीजे सेवा।
जय गणेश जय गणेश जय गणेश देवा॥ जय …

ॐ जय गौरी नन्दा, देवा जय गिरिजानन्दा
गणप​ति आनंदकंदा, गणपति आनंदकंदा
हम चरणनवन्दा॥ ॐ जय……
सूंड सुंडालो नेत्र ​विशालो, कुण्डल झलकन्दा
देवा कुण्डल झलकन्दा।
कुंकुम केसर चन्दन, कुंकुम केसर चन्दन
सिन्दूर वदन ​विन्दा॥ ॐ जय……
मुकुट सुघट शोभंता, मस्तक शोभंता
देवा मस्तक शोभंता।
ब​हियाँ बाजूबन्दा, बहियाँ बाजूबन्दा,
पहुँची ​निरखंता॥ ॐ जय……
रतन जडित सिंहासन शोभित, गणपति आनंदा
देवा गणपति आनंदा।
गल मोतियन की माला, गल वैजयंती माला
सुरनर मुनि वन्दा॥ ह​रि ॐ जय……
मूषक वाहन राजत, शिव सुत आनंदा
ह​रि शिव सुत आनंदा।
कहत शिवानन्द स्वामी भजत हराहर स्वामी,
मेटत भव फंदा॥ ॐ जय……
ॐ जय गौरी नन्दा, देवा जय गिरिजानन्दा
गणप​ति आनंदकंदा, गणपति आनंदकंदा
हम चरणनवन्दा॥ ह​रि ॐ जय……

गणपति जी की सेवा मंगल मेवा, सेवा से सब विघ्न टरैं। तीन लोक के सकल देवता, द्वार खड़े नित अर्ज करैं॥
रिद्धिसिद्धि दक्षिणवाम विराजें, अरु आनन्दसो चँवर करैं।
धूप-दीप अरू लिए आरती, भक्त खड़े जयकार करैं॥
गुड़ के मोदक भोग लगत हैं मूषक वाहन चढ्या सरै।
सौम्य रूप को देख गणपति के, विघ्न भाग जा दूर परैं॥
भादो मास अरु शुक्ल चतुर्थी, दिन दोपारा दूर परैं।
लियो जन्म गणपति प्रभु जी, दुर्गा मन आनन्द भरैं॥
अद्भुत बाजा बजा इन्द्र का, देव बंधु सब गान करैं।
श्री शंकर के आनन्द उपज्या, नाम सुन्यो सब विघ्न टरैं॥
आनि विधाता बैठे आसन, इन्द्र अप्सरा नृत्य करैं ।
देख वेद ब्रह्मा जी जाको, विघ्न विनाशक नाम धरैं॥
एकदन्त गजवदन विनायक, त्रिनयन रूप अनूप धरैं।
पगथंभा सा उदर पुष्ट है, देव चन्द्रमा हास्य करैं॥
दिया श्राप श्री चन्द्रदेव को, कलाहीन तत्काल करैं।
चौदह लोक में फिरें गणपति, तीन लोक में राज्य करैं॥
उठि प्रभात जप करैं ध्यान कोई, ताके कारज सर्व सरैं।
पूजा काल आरती गावैं, ताके शिर यश छत्र फिरैं॥
गणपति की पूजा पहले करने से, कार्य सभी निर्विघ्न सरैं।
सभी भक्त गणपति जी के आगे, हाथ जोड़ अस्तुति करैं॥

(ॐ भूर्भुवः स्वः श्रीगणेशाम्बिकाभ्यां नमः, कर्पूरनीराजनं अरार्तिकं समर्पयामि। पुष्पैर्देववन्दनम्। हस्तेन आत्मवन्दनम्। हस्तौप्रक्षाल्यः। ततोपुष्पांञ्जलिम्)

पुष्पांञ्जलिम्

ॐ नमो॑ ग॒णेब्भ्यो॑ ग॒णप॑तिब्भ्यश्चवो॒ नमो॒ नमो॒ व्व्राते॑ब्भ्यो॒ व्व्रात॑पतिब्भ्यश्च वो॒ नमो॒ नमो॒ गृत्त्सेब्भ्यो॒ गृत्स॑पतिब्भ्यश्चवो॒ नमो॒ नमो॒ व्विरू॑पेब्भ्यो व्वि॒श्वरू॑पेब्भ्यश्चवो॒ नमः॑॥

ॐ ॺॖज्ञेन॑ ॺॖज्ञम॑यजन्त देॖवास्तानिॖ धर्म्मा॑णि प्प्रथॖमान्न्या॑सन्।
तेहॖनाक॑म्महिॖमान॑÷ सचन्तॖॺत्र्त्रॖपूर्व्वे॑ साॖद्ध्याः सन्ति॑देॖवाः॥

ॐ राजाधिराजाय प्रसह्यसाहिने। नमो वयं वैश्रवणाय कुर्महे। स मे कामान् कामकामाय मह्यम्। कामेश्वरो वैश्रवणो ददातु। कुबेराय वैश्रवणाय महाराजाय नमः॥

ॐ स्वस्ति। साम्राज्यं भोज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यं राज्यं माहाराज्यमाधिपत्यमयं समंन्तपर्यायी स्यात् सार्वभौमः सार्वायुषऽआन्तादा परार्धात्। पृथिव्यै समुद्रपर्यन्ताया एकराळिति॥

ॐ तदप्येष श्लोकोऽभिगीतो मरुतः परिवेष्टारो मरुत्तस्याऽऽवसन् गृहे। आविक्षितस्य कामप्रेर्विश्वे देवाः सभासद इति॥

ॐ व्वि॒श्श्वत॑श्चक्क्षुरु॒त व्वि॒श्श्वतो॑ मुखो व्वि॒श्श्वतो॑ बाहुरु॒त व्वि॒श्श्वत॑स्प्पात्।
सम्बा॒हुब्भ्या॒न्धम॑ति॒ सम्पत॑त्र्त्रै॒द्या॑वा॒ भूमी॑ ज॒नय॑न्न्देव ऽएकः॑॥

ॐ एकदन्ताय विद्महे वक्रतुण्डाय धीमहि।
तन्नो दन्ती प्रचोदयात्॥
ॐ कात्यायन्यै विद्महे कन्याकुमार्यै धीमहि।
तन्नो देवी प्रचोदयात्॥

ॐ सेवन्तिका बकुल चम्पक पाटलाऽब्जै।
पुन्नाग जाति करवीर रसाल पुष्पैः॥
बिल्व प्रवाल तुलसीदल मंञ्जरीभिः।
त्वां पूजयामि जगदीश्वर में प्रसीद॥

ॐ कायेन वाचा मनसेन्द्रियैर्वा।
बुद्ध्यात्मना वा प्रकृतिस्वभावात्। (वानुसृतस्वभावात्)।
करोमि यद्यत् सकलं परस्मै।
नारायणायेति समर्पयेत्तत्॥

ॐ इमानि पुष्पाणि मनोहराणि
सुरा सुराणा मपि दुर्लभानि।
कल्पद्रुमादि द्रुमजानि तानि
पुष्पाञ्जलीर्मेस्तु सुखाय नित्यम्॥

ॐ नानासुगन्धिपुष्पाणि यथाकालोद्भवानि च।
पुष्पाञ्जलिर्मया दत्तो गृहाण परमेश्वर॥

ॐ मालतीमल्लिकाजाती-शतपत्रादिसंयुताम्।
पुष्पाञ्जलिं गृहाणेश तव पादयुगार्पितम्॥

ॐ जानामिपूजनमहं न हि शास्त्रसिद्धं
शक्तिस्तु ते परिचिता मम सर्व तश्च।
पुष्पाञ्जलिर्भगवतश्चरणाब्ज योस्ते,
सन्दीयते परिगृहाण विसृज्य दोषाम्॥

(ॐ भूर्भुवः स्वः श्रीगणेशाम्बिकाभ्यां नमः मन्त्रपुष्पाञ्जलिं समर्पयामि।)

प्रदक्षिणाम्

ॐ ॺे तीॖर्त्थानि॑ प्प्रॖचर॑न्ति सृ॒काह॑स्तानिषॖङ्गिणैः॑।
तेषा॑ ᳬ सहस्त्रयोजॖनेऽ वॖ धन्न्वा॑नि तन्न्मसि॥

ॐ सॖप्प्तास्या॑सन्न्यरिॖधयॖस्त्र्त्रिॖः सॖप्प्तसॖमिध॑÷ कृॖताः।
देॖवाॺद्यॖज्ञन्त॑न्न्वाॖनाऽअब॑ध्नॖन्न्पुरु॑षम्पॖशुम्॥

ॐ यानि कानि च पापानि ज्ञाताऽज्ञात कृतानि च।
शतानि सर्वाणि नश्यन्तु प्रदक्षिणां पदे पदे॥

ॐ पदे पदे या परिपूज्यकेभ्यः,
सद्योऽश्वमेधादिफलं ददाति।
तां सर्व पापक्षय हेतुभूतां
प्रदक्षिणां ते परितः करोमि॥

(ॐ भूर्भुवः स्वः श्रीगणेशाम्बिकाभ्यां नमः, प्रदक्षिणां समर्पयामि। दायें से बांये श्री गणेश की तीन एवं देवी की एक प्रदक्षिणा करें)

विशेषार्घ्यम्

सजलं गन्धाक्षतपुष्पैः सहितं सनारिकेलम् अर्घ्य पात्रं धृत्वा विशेषार्घं दद्यात् / जलगन्धाऽक्षत फलपुष्पदूर्वादक्षिणाः ताम्रपात्रे प्रक्षिप्य अवनिकृतजानुमण्डलं कृत्वा अर्घ्यपात्रमञ्जलिनां गृहीत्वा श्लोकान् पठेत् ।

(ताम्रपात्र में जल, चन्दन, अक्षत, फल, फूल, दूर्वा और दक्षिणा रखकर अर्घ्यपात्र को हाथ की अञ्जलि में लेकर विशेष अर्घ्य अर्पण करें)

ॐ रक्ष रक्ष गणाध्यक्ष ! रक्ष त्रैलोक्यरक्षकः।
भक्तानामभयं कर्ता त्राता भव भवार्णवात्॥
द्वैमातुर! कृपासिन्धो! षाण्मातुराग्रज प्रभो।
वरदस्त्वं वरं देहि वाञ्छितं वाञ्छितार्थद॥
गृहाणार्घ्यम इमं देव सर्वदेवनमस्कृतम्।
अनेन सफलार्घ्येण वरदोऽस्तु सदा मम्॥

(ॐ भूर्भुवः स्वः श्रीगणेशाम्बिकाभ्यां नमः, विशेषार्घ्य समर्पयामि।)

पूजनोपरांत श्रीगणेशाम्बिका प्रार्थना

ॐ वन्दे देव गजाननं षडगुरूं
वन्दे जगत्भूषणम।
वन्दे विघ्न विनायकं त्रिभुवनं
वन्दे शुभं मङ्गलम्॥
वन्दे ईश उमासुतं कविवरं
वन्दे सुलम्बोदरम्।
वन्दे सिद्धि विनायकं शिवसुतं
कुर्यात्सदा मङ्गलम्॥

ॐ अति मंडल मंडित गंड्तलम्
तिलकीकृत कोमल चंद्रकलम।
करघात विदारित बैरि बलम्
प्रणमामि गणाधिपतिम् जटिलम्॥

ॐ निजैरोषधीष्तपर्यन्तम् कराद्यै
सुरौघान्कलाभिः सुधास्त्राविणीभिः।
दिनेशांशुसन्ताप हारं द्विजेशं
शशाङ्क स्वरूपं गणेशं नमामिः॥

ॐ विघ्नेश्वराय वरदाय सुरप्रियाय
लम्बोदराय सकलाय जगद्धिताय।
नागाननाय श्रुतियज्ञविभूषिताय
गौरीसुताय गणनाथ नमो नमस्ते॥

ॐ भक्तार्तिनाशनपराय गणेश्‍वराय
सर्वेश्‍वराय शुभदाय सुरेश्‍वराय।
विद्याधराय विकटाय च वामनाय
भक्तप्रसन्नवरदाय नमो नमस्ते॥

ॐ नमस्ते ब्रह्मरूपाय विष्णुरूपाय ते नमः
नमस्ते रुद्ररूपाय करिरूपाय ते नमः।
विश्‍वरूपस्वरूपाय नमस्ते ब्रह्मचारिणे
भक्तप्रियाय देवाय नमस्तुभ्यंविनायक॥

ॐ त्वां विघ्नशत्रु दलनेति च सुन्दरेति
भक्तप्रियेति सुखदेति फलप्रदेति।
विद्याप्रदेत्यघहरेति च ये स्तुवन्ति
तेभ्यो गणेश वरदो भव नित्यमेव॥

ॐ लम्बोदर नमस्तुभ्यं सततं मोदकप्रिय।
निर्विविघ्नं कुरु मे देव सर्वकार्येषु सर्वदा॥
हरात्मज चतुर्बाहो वारणास्य महोदर।
प्रसन्नो भव मह्य त्वं गौरीपुत्र नमोस्तुते॥

ॐ ॐ त्वं वैष्णवी शक्तिरनन्तवीर्या
विश्‍वस्य बीजं परमासि माया।
सम्मोहितं देवि समस्तमेतत्
त्वं वै प्रसन्ना भुवि मुक्तिहेतुः॥

ॐ सर्वेश्वरी सर्वमाता शर्वाणी हरवल्लभा सर्वज्ञा।
सिद्धिदा सिद्धा भव्या भाव्या भयापहा नमो नमस्ते॥

ॐ शरणागत दीनार्त परित्राण परायणे।
सर्वस्यार्तिहरे देवि नारायणिनमोऽस्तु॥

ॐ जय देवि नमस्तुभ्यं, जय भक्त वरप्रदे।
जय शंकर वामाङ्गे , मङ्गले सर्व मङ्गले॥

ॐ पुत्रान् देहि धनं देहि , सौभाग्यं देहि सुव्रते।
अन्याँश्च सर्व-कामांश्च , देहि देवि नमोऽस्तु ते॥

(ॐ भुर्भुवः स्वः भगवते श्रीगणेशाम्बिकाभ्यां नमः, प्रार्थनापूर्वकं नमस्कारान् समर्पयामि।)

षडविनायक-पूजनम्

ॐ मोदश्चैव प्रमोदश्च सुमुखो दुर्मुखस्तथा।
अविघ्नो विघ्नहर्ता च षडेते विघ्ननायकाः॥

ॐ भूर्भुवः स्वः मोद ! इहागच्छ, इहतिष्ठ। मोदाय नमः॥
ॐ भूर्भुवः स्वः प्रमोद ! इहागच्छ, इहतिष्ठ। प्रमोदाय नमः॥
ॐ भूर्भुवः स्वः सुमुख ! इहागच्छ, इहतिष्ठ। सुमुखाय नमः॥
ॐ भूर्भुवः स्वः दुर्मुख ! इहागच्छ, इहतिष्ठ। दुर्मुखाय नमः॥
ॐ भूर्भुवः स्वः अविघ्न ! इहागच्छ, इहतिष्ठ। अविघ्नाय नमः॥
ॐ भूर्भुवः स्वः विघ्नहर्तार ! इहागच्छ, इहतिष्ठ। विघ्नहर्त्रे नमः॥

(ॐ भूर्भुवः स्वः मोदादि षड्विनायकेभ्यो नमः सम्पूजयामि। षोडषोपचारेन् यथोपचारेन् सम्पूज्येत्। षोडषोपचार अथवा यथोपचार षड्विनायक का पूजन करें)

क्षमा-प्रार्थना

ॐ आवाहनम् न जानामि, न जानामि तवार्चनम्।
पूजां चैव न जानामि, क्षमस्व परमेश्वरः॥
अन्यथां शरणम् नास्ति, त्वमेव शरणम् मम्।
तस्मात् कारुण्यभावेन् रक्षस्व परमेश्वर॥
भूमौस्खलित पादानां भूमिरेवावलम्बनम्।
त्वयिजाता पराधानाम् त्वमेव शरणम् मम्॥
मत्समो नास्ति पापिष्ठस् त्वत् समोनास्ति पापहा।
इतिमत्वा दयासिन्धो यथेच्छसि तथा कुरु॥
गतं पापं गतं दुख॔ गतं दारिद्यमेव च।
आगता सुख सम्पत्तिः पुण्योहं तव दर्शनात्॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर।
यत्पूजितम् मयादेव परिपूरणम् तदस्तु मे॥
यदक्षरं पदभ्रष्टं मात्राहीनं च यद्भवेत्।
तत्सर्वं क्षम्यताम् देव प्रसीद परमेश्वरः॥
अपराध सहस्त्राणि क्रियन्तेऽहर्निशं मया।
दासोऽयमिति मां मत्वाक्षमस्व परमेश्वरः॥

(ॐ भूर्भुवः स्वः श्री गणेशाम्बिकाभ्यां नमः, प्रार्थनापूर्वकं नमस्कारान् समर्पयामि।)

समर्पणम्

ॐ गणेशपूजने कर्म यन्न्यूनमधिकं कृतम्।
तेन सर्वेण सर्वात्मा प्रसन्नोऽस्तु सदा मम्॥

अनया पूजया सिद्धिबुद्धिसहिताय साङ्गः सपरिवारः श्रीगणेशाम्बिके प्रीयेताम् न मम्॥

अन्ते – आसनाद्यः जलं निक्षिप्य ललाटे मृदा तिलकं धारयेत् यथा…

यस्मिन् स्थाने कर्म कृत्वा शक्रो हरति तत्कर्मम्।
तन्मृदा लक्ष्म कुर्वीत ललाटे तिलकाकृति॥

“ॐ श्रीविघ्नराज प्रसादात् कर्तव्यामुककर्म निर्विघ्न समाप्तिश्चास्तु”

ततो दक्षिणहस्तेन गन्धाक्षतपुष्पं गृहीत्वा भगवते श्रीवरुणदेवतस्य ध्यानम् आवाहनम् च कुर्यात्…

कलश संस्थापन प्रकरणेनसह कलशे वरुणस्य वैदिकपूजनञ्च पुण्याहवाचनम्

श्रीगणेशगौर्यादि षोडशमातृकाणां वैदिक पूजन प्रयोगः

श्र्यादिसप्तवसोर्द्धारादेवता सप्तघृतमातृकाणां वैदिक पूजन प्रयोगः

अथ् श्रीगणेश स्त्रोतम्

यह गणेश स्त्रोत समस्त कार्यों की पूर्ति हेतु किया जाता है। यदि जीवन का कोई कार्य पूर्ण नहीं हो पा रहा हो या कार्य में परेशानियों एवं बाधाओं का सामना करना पड़ रहा हो तो इस सर्व सिद्धिकारक श्री गणेश स्त्रोत का श्रवण एवं मनन करने से समस्त अभिलाषों की पूर्ति होती है एवं सभी बाधाएं समाप्त हो जाती हैं।

“श्रीगणेशाय नमः”

सर्वे ऊच्चुः।
यतोऽनंतशक्तेरनंताश्च जीव यतो निर्गुणादप्रमेया गुणस्ते।
यतो भाति सर्वं त्रिधा भेदभिन्नं सदा तं गणेश नमामो भजामः॥१॥
यतश्चाविरासीज्जगत्सर्वमेतत्तथाब्जासनो विश्वगो विश्वगोप्ता।
तथेद्रादयो देवसंघा मनुष्याः सदा तं गणेश नमामो भजामः॥२॥
यतो वह्निभानू भवो भूर्जलं च यतः सागराश्चंद्रमा व्योम वायु।
यतः स्थावरा जंगमा वृक्षसंघाः सदा तं गणेश नमामो भजामः॥३॥
यतो दानवाः किन्नरा यक्षसंघाः यतश्चारणा वारणाः श्वापदाश्च।
यतः पक्षिकीटा यतो वीरूधश्च सदा तं गणेशं नमामं भजामः॥४॥
यतो बुद्धिरज्ञाननाशो मुमुक्षोर्यत: संपदो भक्तसंतोषिकाः स्युः।
यतो विघ्ननाशो यतः कार्यासिद्धिः सदा तं गणेशं नमामो भजामः॥५॥
यतः पुत्रसंपद्दतो वांछितार्थो यतोऽभक्तविघ्नस्तथाऽनेकरूपा।
यतः शोकमोहौ यतः काम एव सदा तं गणेश नमामो भजामः॥६॥
यतोऽनंतशक्तिः स शेषो वभूव धराधारणेऽनेकरूपे च शक्ताः।
यतोऽनेकधा स्वर्गलोका हि नाना सदा तं गणेशं नमामो भजमः॥७॥
यतो वेदवाचो विकुंठा मनोभिः सदा नेति नेतीति यत्तो गृणन्ति।
परब्रह्मरूपं चिदानंदभूतं सदा तं गणेश नमामो भजामः॥८॥

“श्रीगणेश उवाच”
पुनरूचे गणाधीशः स्तोत्रमेतत्पठेन्नरः।
त्रिसन्ध्यं त्रिदिनं तस्य सर्वकार्यं भविष्यति॥९॥
यो जपेदष्टदिवसं श्लोकाष्टकमिदं शुभम्।
अष्टवारं चतुर्थ्यां तु सोऽष्टसिद्धिरवाप्नुयात्॥१०॥
यः पठेन्मासमात्रं तु दशवारं दिने दिने।
स मोचयेद्वन्धगतं राजवध्यं न संशयः॥११॥
विद्याकामो लभेद्विद्यां पुत्रार्थी पुत्रमान्मुयात्।
वांछितांल्लभते सर्वानेकविंशतिवारतः॥१२॥
यो जपेत्परया भक्त्या गजाननपरो नरः।
एवमुक्त्वा ततो देवश्चांतर्धानं गत: प्रभुः॥

कल्याण कारक गणेश जी महाराज समस्त इच्छाओं एवं कामनाओं की पूर्ति करते हैं।  श्रीगणपति की पूजा भक्त को सभी संकटों से मुक्त करती है।

आरोग्यं भास्करादिच्छेय मिछ्येध्द्ताशनात।
ईश्वराज्ज्ञान नमन्विच्छेन्मोक्षमिच्छे ज्जनार्द्नात॥
दुर्गादिभिस्तथा रक्षां भैर्वाद्यैस्तु दुर्गमं।
विद्यासारं सरस्वत्या लक्ष्म्या चैश्वर्यवर्धनम॥
पार्वत्या चैव सौभाग्यं शच्या कल्याण संतति।
स्कंदात प्रजाभिवृद्धिं च सर्वं चैव गणाधिपात॥
मूर्तिभेदा महेशस्य त एते यन्मयोदिता वसो मम।
आहमजानि गर्भधमात्वमजासि गर्भधम्‌॥

श्रीगणपति के १२ प्रमुख नाम

(१)• सुमुख, (२)• एकदंत, (३)• कपिल, (४)• गजकर्णक
(५)• लंबोदर (६)• विकट (७)• विघ्ननाश, (८)• विनायक
(९)• धूम्रकेतु, (१०)• गणाध्यक्ष, (११)• भालचंद्र, (१२)• गजानन।

श्रीगणपतिअष्टोत्तरशतनामावली (१०८ नाम)

ॐगणनाथाय नमः, ॐगणाधिपाय नमः, ॐ एकदंष्ट्राय नमः, ॐलम्बोदराय नमः, ॐगजवक्त्राय नमः, ॐमदोदराय नमः, ॐवक्रतुण्डाय नमः, ॐदुर्मुखाय नमः, ॐबुद्धाय नमः, ॐविघ्नराजाय नमः, ॐगजाननाय नमः, ॐभीमाय नमः, ॐप्रमोदाय नमः, ॐआनन्दाय नमः, ॐसुरानन्दाय नमः, ॐमदोत्कटाय नमः, ॐहेरम्बाय नमः, ॐशम्बराय नमः, ॐशम्भवे नमः, ॐलम्बकर्णाय नमः, ॐमहाबलाय नमः, ॐनन्दनाय नमः, ॐअलम्पटाय नमः, ॐभीमाय नमः, ॐमेघनादाय नमः, ॐगणञ्जयाय नमः, ॐविनायकाय नमः, ॐविरूपाक्षाय नमः, ॐधीराय नमः, ॐशूराय नमः, ॐवरप्रदाय नमः, ॐमहागणपतये नमः, ॐबुद्धिप्रियाय नमः, ॐक्षिप्रप्रसादनाय नमः, ॐ रुद्रप्रियाय नमः, ॐगणाध्यक्षाय नमः, ॐउमापुत्राय नमः, ॐकुमारगुरवे नमः, ॐ धूम्रवर्णाय नमः, ॐविकटाय नम:, ॐ विघ्ननायकाय नमः, ॐसुमुखाय नमः, ॐईशानपुत्राय नमः, ॐ मूषकवाहनाय नमः, ॐसिद्धिप्रदाय नमः, ॐ सिद्धिपतये नमः, ॐसिद्ध्यै नमः, ॐसिद्धिविनायकाय नमः, ॐविघ्नाय नमः, ॐतुङ्गभुजाय नमः, ॐसिंहवाहनाय नमः, ॐमोहिनीप्रियाय नमः, ॐकटिंकटाय नमः, ॐराजपुत्राय नमः, ॐशकलाय नमः, ॐसम्मिताय नमः, ॐअमिताय नमः, ॐकूश्माण्डगणसम्भूताय नमः, ॐदुर्जयाय नमः, ॐधूर्जयाय नमः, ॐअजयाय नमः, ॐभूपतये नमः, ॐभुवनेशाय नमः, ॐभूतानां पतये नमः, ॐअव्ययाय नमः, ॐविश्वकर्त्रे नमः, ॐविश्वमुखाय नमः, ॐविश्वरूपाय नमः, ॐनिधये नमः,  ॐघृणये नमः, ॐकवये नमः, ॐकवीनामृषभाय नमः, ॐब्रह्मण्याय नमः, ॐब्रह्मणस्पतये नमः, ॐज्येष्ठराजाय नमः, ॐनिधिपतये नमः, ॐसूर्यमण्डलमध्यगाय नमः, ॐकराहतिध्वस्तसिन्धुसलिलाय नमः, ॐनिधिप्रियपतिप्रियाय नमः, ॐहिरण्मयपुरान्तस्थाय नमः, ॐपूषदन्तभृते नमः, ॐउमाङ्गकेळिकुतुकिने नमः, ॐमुक्तिदाय नमः, ॐकुलपालकाय नमः, ॐ किरीटिने नमः, ॐकुण्डलिने नमः, ॐसद्योजाताय नमः, ॐस्वर्णभुजाय नमः, ॐमेखलिन नमः, ॐदुर्निमित्तहृते नमः, ॐदुस्स्वप्नहृते नमः, ॐ प्रहसनाय नमः, ॐगुणिने नमः, ॐ हारिणे नमः, ॐवनमालिने नमः, ॐमनोमयाय नमः, ॐवैमुख्यहतदृश्यश्रियै नमः, ॐपादाहत्याजितक्षितये नमः, ॐनादप्रतिष्ठिताय नमः, ॐसुरूपाय नमः, ॐसर्वनेत्राधिवासाय नमः, ॐवीरासनाश्रयाय नमः, ॐपीताम्बराय नमः, ॐखड्गधराय नमः, ॐखण्डेन्दुकृतशेखराय नमः,‌ ॐचित्राङ्कश्यामदशनाय नमः, ॐफालचन्द्राय नमः, ॐचतुर्भुजाय नमः।

॥ श्रीरस्तु ॥
༺❀༻

श्री हरि हरात्मक देवें सदा, मुद मंगलमय हर्ष।
सुखी रहे परिवार संग, अपना भारतवर्ष॥
༺༻❀༺༻

संकलनकर्ता
श्रद्धेय पंडित विश्‍वनाथ द्विवेदी
‘सनातनी ज्योतिर्विद’
संस्थापक, अध्यक्ष एवं प्रबंध निदेशक
(‘हरि हर हरात्मक’ ज्योतिष)
संपर्क सूत्र – 07089434899
༺༻❀꧁○꧂❀༺༻

Copyright © 2025 Hari Har Haratmak. All rights reserved.

"enter" 2026 | Powered By SpiceThemes