अथ गजाननादि चतुःषष्टियोगिनीनां समन्त्रक पूजन प्रयोगः
अथ श्रीमहाकालीमहालक्ष्मीमहासरस्वती सहितं स्कान्दकाशीखण्डोक्तं गजाननादि चतुःषष्टियोगिनीनां समन्त्रक पूजन प्रयोगः
आग्नेय्यां श्वेतवस्त्राच्छादिते योगिनीपीठे कुंकुमाक्तेन सूत्रेण नवकोष्टात्मकं योगिनीमण्डलं विरच्य तत्र पूर्वादितः ईशानपर्यन्तं प्रतिकोष्टकम् ईशानतो दिक्विदिक्षु सूत्रपातेनाष्टौ कोष्टकानि कृत्वा पूर्वकोष्टतः ईशानपर्यन्तं प्रतिकोष्टकम् अष्टौ अष्टौ गजाननादि चतुःषष्टियोगिनीः स्थापयेत्॥
सपत्नीको यजमानो योगिनीपीठसमीपे पूर्वमुख उपविश्य आचमनं प्राणायामं च कुर्यात्। ततो हस्ते जलं गृहीत्वा संकल्पं कुर्यात्॥
संकल्पम्
अद्यपूर्वोच्चा० शुभपुण्यतिथौ अस्मिन्सग्रहमख अमुककर्मणि श्रीमहाकालीमहालक्ष्मीमहासरस्वती नामावाहनपूर्वकं गजाननादिचतुःषष्टियोगिनीनां आवाहनं प्रतिष्ठां पूजनं च करिष्ये॥ इति सङ्कल्प्य॥
ध्यानं – आवाहनम्
सृष्टौ या सर्गरूपा जगदवन विधौ
पालनी या च रौद्री
संहारे चापि यस्या जगदिदमखिलं
क्रीडनं या पराख्या।
पश्यन्ती मध्यमाथो तदनु भगवती
वैखरी वर्णरूपा
सास्मद्वाचं प्रसन्ना विधिहरिगिरिशा
राधितालंकरोतु॥
पूजयामि अऽहं देवि योगिनी परमेश्वरी।
योग अभ्यासेन संतुष्टा परं ध्यान समन्वित॥
खड्गं चक्रगदेषुचापपरिघाञ्छूलं भुशुण्डीं शिरः
शङ्खं संदधतीं करैस्त्रिनयनां सर्वाङ्गभूषावृताम्।
नीलाश्मद्युतिमास्यपाददशकां सेवे महाकालिकां
यामस्तौत्स्वपितेहरौकमलजो हन्तुंमधुंकैटभम्॥
ॐ अक्षस्रक्परशुं गदेषुकुलिशं पद्मं धनुष्कुण्डिकां
दण्डंशक्तिमसिं च चर्म जलजं घण्टांसुराभाजनम्।
शूलं पाशसुदर्शने च दधतीं हस्तैः प्रसन्नाननां
सेवे सैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम्॥
ॐ घण्टाशूलहलानिशङ्खमुसले चक्रं धनुःसायकं
हस्ताब्जैर्दधतींघनान्तविलसच्छीतांशुतुल्यप्रभाम्।
गौरीदेहसमुद्भवां त्रिजगतामाधारभूतां महा-
पूर्वामत्र सरस्वतीमनुभजे शुम्भादिदैत्यार्दिनीम्॥
आवाहनम् (हिन्दी)
श्रीगणपति-गौरी-गिरीश-सदा,
शिव-शक्ति नमों पद-पद्म तुम्हारे।
चौंसठहुँ योगिनि माँ जगदम्ब,
करैं सब विघ्न विनाश हमारे॥
चंडि प्रचण्ड सुमुंड विनाशिनी,
शैल-सुता अरु भद्र कल्पारे।
दीन अधीन भजैं तुमको,
नित ‘नाथ’ कहैं भव-पार उतारै॥
या जग में चौंसठ योगिनियाँ,
सब आदि भवानी के रूप बखानी।
कोटिन तेज विराजत भाल पे,
सिद्धि सुहावनि हैं वरदानी॥
दुष्ट विदारिनि भक्त उबारिनि,
शक्ति धरैं त्रिशूल सु पानी।
मातु हमारी सदा करुणा कर,
कीजै कृपा, हम हैं अज्ञानी॥
ज्ञान की दायिनी बुद्धि प्रदायिनी
दूर करो मन का अंधियारा।
मूढ़ हूँ मैं असहाय हूँ मैं
जननी ममता का माँ दे दो सहारा॥
मातु कृपा करि कष्ट हरो
अपराध बिसार के आज हमारा।
देवी तुम्हारी करूँ विनती
शरणागत है यह पुत्र तुम्हारा॥
ततो मण्डलमध्ये त्रीन्कलशान एकं वा संस्थाप्य तत्र सुवर्णनिर्मिताः कृताग्न्युत्तारणाः तिस्रः प्रतिमाः संस्थाप्य तासु प्रतिमासु स्ववामतः क्रमेण श्रीमहाकाल्यादीः स्थापयेत्। हस्तेऽक्षतानादाय आवाहयेत्॥
अधुना वामहस्ते अक्षतान् गृहीत्वा दक्षिणहस्तेन तत्तत्स्थाने श्रीमहाकाली महालक्ष्मी महासरस्वती पूर्वक गजाननादि चतुःषष्टियोगिन्यः “नाम-आवाहनं” अथवा “समन्त्रक-आवाहनम्” कुर्यात्। ततो प्रतिष्ठापूर्वकम् षोडशोपचार विधिना सम्पूजयेत्॥
अथ नाममन्त्रैः श्रीमहाकाली श्रीमहालक्ष्मी श्रीमहासरस्वती पूर्वक गजाननादि चतुःषष्टियोगिन्यः स्थापनम्
(१) स्ववामतः आरभ्य प्रथमकलशपूर्णपात्रोपरि – ॐ भूर्भुवः स्वः महाकाल्यै नमः महाकालीम् आवाह्यामि स्थापयामि। भो महाकालि इहागच्छ इइ तिष्ठ॥१॥
(२) तद्दक्षिणे द्वितीयकलशपूर्णपात्रोपरि – ॐ भूर्भुवः स्वः महालक्ष्म्यै नमः महालक्ष्मीम् आवाह्यामि स्थापयामि। भो महालक्ष्मि इहागच्छ इह तिष्ठ॥२॥
(३) तद्दक्षिणे तृतीयकलशपूर्णपात्रोपरि – ॐ भूर्भुवः स्वः महासरस्वत्यै नमः महासरस्वतीम् आवाह्यामि स्थापयामि। भो महासरस्वति इहागच्छ इह तिष्ठ॥३॥
अथ नाममन्त्रैः पूर्वे प्रथमकोष्टकस्येशानतः प्रादक्षिण्येन अष्टयोगिनी देवतास्थापनम्
(१) ॐ भूर्भुवः स्वः गजाननायै नमः गजाननाम् आवाह्यामि स्थापयामि। भो गजानने इहागच्छ इह तिष्ठ॥
(२) ॐ भूर्भुवः स्वः सिंहमुख्यै नमः सिंहमुखीम् आवाह्यामि स्थापयामि। भो सिंहमुखि इहागच्छ इह तिष्ठ॥
(३) ॐ भूर्भुवः स्वः गृध्रास्यायै नमः गृध्रास्याम् आवाह्यामि स्थापयामि। भो गृध्रास्ये इहागच्छ इह तिष्ठ॥
(४) ॐ भूर्भुवः स्वः काकतुण्डिकायै नमः काकतुण्डिकाम् आवाह्यामि स्थापयामि। भो काकतुण्डिकायै इहागच्छ इह तिष्ठ॥
(५) ॐ भूर्भुवः स्वः उष्ट्रग्रीवायै नमः उष्ट्रगीवाम् आवाह्यामि स्थापयामि। भो उष्ट्रग्रीवे इहागच्छ इह तिष्ठ॥
(६) ॐ भूर्भुवः स्वः हयग्रीवायै नमः हयग्रीवाम् आवाह्यामि स्थापयामि। भो हयग्रीवे इहागच्छ इहतिष्ठ॥
(७) ॐ भूर्भुवः स्वः वाराह्यै नमः वाराहीम् आवाह्यामि स्थापयामि। भो वाराहि इहागच्छ इह तिष्ठ॥
(८) ॐ भूर्भुवः स्वः शरभाननायै नमः शरभाननाम् आवाह्यामि स्थापयामि। भो शरभानने इहागच्छ इह तिष्ठ॥
अथ आग्नेय्यां द्वितीयकोष्टकस्येशानतः प्रादक्षिण्येन अष्टयोगिनी देवतास्थापनम्
(९) ॐ भूर्भुवः स्वः उलुकिकायै नमः उलूकिकाम् आवाह्यामि स्थापयामि। भो उलूकिके इहागच्छ इह तिष्ठ॥
(१०) ॐ भूर्भुवः स्वः शिवारावायै नमः शिवारावाम् आवाह्यामि स्थापयामि। भो शिवारावे इहागच्छ इहतिष्ठ॥
(११) ॐ भूर्भुवः स्वः मयूर्यै नमः मयूरीम् आवाह्यामि स्थापयामि। भो मयूरि इहागच्छ इहतिष्ठ॥
(१२) ॐ भूर्भुवः स्वः विकटाननायै नमः विकटाननाम् आवाह्यामि स्थापयामि। भो विकटानने इहागच्छ इह तिष्ठ॥
(१३) ॐ भूर्भुवः स्वः अष्टवक्रायै नमः अष्टवक्राम् आवाह्यामि स्थापयामि। भो अष्टवक्रे इहागच्छ इह तिष्ठ॥
(१४) ॐ भूर्भुवः स्वः कोटराक्ष्यै नमः कोटराक्षीम् आवाह्यामि स्थापयामि। भो कोटराक्षि इहागच्छ इह तिष्ठ॥
(१५) ॐ भूर्भुवः स्वः कुब्जायै नमः कुब्जाम् आवाह्यमि स्थापयामि। भो कुब्जे इहागच्छ इह तिष्ठ॥
(१६) ॐ भूर्भुवः स्वः विकटलोचनायै नमः विकटलोचनाम् आवाह्यमि स्थापयामि। भो विकटलोचने इहागच्छ इह तिष्ठ॥
अथ दक्षिणे तृतीयकोष्टकस्येशानतः प्रादक्षिण्येन अष्टयोगिनी देवतास्थापनम्
(१७) ॐ भूर्भुवः स्वः शुष्कोदर्यै नमः शुष्कोदरीम् आवाह्ययामि स्थापयामि। भो शुष्कोदरि इहागच्छ इह तिष्ठ॥
(१८) ॐ भूर्भुवः स्वः ललज्जिह्वायै नमः ललज्जिह्वाम् आवाह्यमि स्थापयामि। भो ललज्जिह्वे इहागच्छ इह तिष्ठ॥
(१९) ॐ भूर्भुवः स्वः श्वदंष्ट्रायै नमः श्वदंष्ट्राम् आवाह्यामि स्थापयामि। भो श्वदंष्ट्रे इहागच्छ इह तिष्ठ॥
(२०) ॐ भूर्भुवः स्वः वानराननायै नमः वानराननाम् आवाह्यमि स्थापयामि। भो वानरानने इहागच्छ इह तिष्ठ॥
(२१) ॐ भूर्भुवः स्वः रुक्षाक्ष्यै नमः रुक्षाक्षीम् आवाह्यमि स्थापयामि। भो रुक्षाक्षि इहागच्छ इह तिष्ठ॥
(२२) ॐ भूर्भुवः स्वः केकराक्ष्यै नमः केकराक्षीम् आवाह्यामि स्थापयामि। भो केकराक्षि इहागच्छ इह तिष्ठ॥
(२३) ॐ भूर्भुवः स्वः बृहत्तुण्डायै नमः बृहत्तुण्डाम् आवाह्यमि स्थापयामि। भो बृहत्तुण्डे इहागच्छ इह तिष्ठ॥
(२४) ॐ भूर्भुवः स्वः सुराप्रियायै नमः सुराप्रियाम् आवाह्यमि स्थापयामि। भो सुराप्रिये इहागच्छ इह तिष्ठ॥
अथ नैर्ऋत्ये चतुर्थकोष्टकस्येशानतः प्रादक्षिण्येन अष्टयोगिनी देवतास्थापनम्
(२५) ॐ भूर्भुवः स्वः कपालहस्तायै नमः कपालहस्ताम् आवाह्यमि स्थापयामि। भो कपालहस्ते इहागच्छ इह तिष्ठ॥
(२६) ॐ भूर्भुवः स्वः रक्ताक्ष्यै नमः रक्ताक्षीम् आवाह्यमि स्थापयामि। भो रक्ताक्षि इहागच्छ इह तिष्ठ॥
(२७) ॐ भूर्भुवः स्वः शुक्यै नमः शुकीम् आवाह्यामि स्थापयामि। भो शुकि इहागच्छ इह तिष्ठ॥
(२८) ॐ भूर्भुवः स्वः श्येन्यै नमः श्येनीम् आवाह्यमि स्थापयामि। भो श्येनि इहागच्छ इह तिष्ठ॥
(२९) ॐ भूर्भुवः स्वः कपोतिकायै नमः कपोतिकाम् आवाह्ययामि स्थापयामि। भो कपोतिके इहागच्छ इह तिष्ठ॥
(३०) ॐ भूर्भुवः स्वः पाशहस्तायै नमः पाशहस्ताम् आवाह्यमि स्थापयामि। भो पाशहस्ते इहागच्छ इह तिष्ठ॥
(३१) ॐ भूर्भुवः स्वः दण्डहस्तायै नमः दण्डहस्ताम् आवाह्यमि स्थापयामि। भो दण्डहस्ते इहागच्छ इह तिष्ठ॥
(३२) ॐ भूर्भुवः स्वः प्रचण्डायै नमः प्रचण्डाम् आवाह्यमि स्थापयामि। भो प्रचण्डे इहागच्छ इह तिष्ठ॥
अथ पश्चिमे पञ्चमकोष्टकस्येशानतः प्रादक्षिण्येन अष्ट्योगिनी देवतास्थापनम्
(३३) ॐ भूर्भुवः स्वः चण्डविक्रमायै नमः चण्डविक्रमाम् आवाह्यमि स्थापयामि। भो चण्डविक्रमे इहागच्छ इह तिष्ठ॥
(३४) ॐ भूर्भुवः स्वः शिशुघ्न्यै नमः शिशुघ्नीम् आवाह्यमि स्थापयामि। भो शिशुघ्नि इहागच्छ इह तिष्ठ॥
(३५) ॐ भूर्भुवः स्वः पापहन्त्र्यै नमः पापहन्त्रीम् आवाह्यमि स्थापयामि। भो पापहन्त्रि इहागच्छ इह तिष्ठ॥
(३६) ॐ भूर्भुवः स्वः काल्यै नमः कालीम् आवाह्यमि स्थापयामि। भो कालि इहागच्छ इह तिष्ठ॥
(३७) ॐ भूर्भुवः स्वः रुधिरपायिन्यै नमः रुधिरपायिनीम् आवाह्यमि स्थापयामि। भो रुधिरपायिनि इहागच्छ इह तिष्ठ॥
(३८) ॐ भूर्भुवः स्वः वसाधयायै नमः वसाधयाम् आवाह्यमि स्थापयामि। भो वसाधये इहागच्छ इह तिष्ठ॥
(३९) ॐ भूर्भुवः स्वः गर्भभक्षायै नमः गर्भभक्षाम् आवाह्यमि स्थापयामि। भो गर्भभक्षे इहागच्छ इह तिष्ठ॥
(४०) ॐ भूर्भुवः स्वः शवहस्तायै नमः शवहस्ताम् आवाह्यमि स्थापयामि। भो शवहस्ते इहागच्छ इह तिष्ठ॥
अथ वायव्ये षष्ठकोष्टकस्येशानतः प्रादक्षिण्येन अष्ट्योगिनी देवतास्थापनम्
(४१) ॐ भूर्भुवः स्वः आन्त्रमालिन्यै नमः आन्त्रमालिनीम् आवाह्यामि स्थापयामि। भो आन्त्रमालिनि इहागच्छ इह तिष्ठ॥
(४२) ॐ भूर्भुवः स्वः स्थूलकेश्यै नमः स्थूलकेशीम् आवाह्यमि स्थापयामि। भो स्थूलकेशि इहागच्छ इह तिष्ठ॥
(४३) ॐ भूर्भुवः स्वः बृहत्कुक्ष्यै नमः बृहत्कुक्षीम् आवाह्यमि स्थापयामि। भो बृहत्कुक्षि इहागच्छ इह तिष्ठ॥
(४४) ॐ भूर्भुवः स्वः सर्पास्यायै नमः सर्पास्याम् आवाह्यमि स्थापयामि। भो सर्पास्ये इहागच्छ इह तिष्ठ॥
(४५) ॐ भूर्भुवः स्वः प्रेतवाहनायै नमः प्रेतवाहनाम् आवाह्यमि स्थापयामि। भो प्रेतवाहने इहागच्छ इह तिष्ठ॥
(४६) ॐ भूर्भुवः स्वः दन्दशूककरायै नमः दन्दशूककराम् आवाह्यामि स्थापयामि। भो दन्दशूककरे इहागच्छ इह तिष्ठ॥
(४७) ॐ भूर्भुवः स्वः क्रौञ्च्यै नमः क्रौञ्चीम् आवाह्यामि स्थापयामि। भो क्रौञ्चि इहागच्छ इह तिष्ठ॥
(४८) ॐ भूर्भुव स्वः मृगशीर्षायै नमः मृगशीर्षाम् आवाह्यामि स्थापयामि। भो मृगशीर्षे इहागच्छ इह तिष्ठ॥
अथ उत्तरे सप्तमकोष्टके ईशानतः प्राक्षिण्येन अष्टयोगिनी देवतास्थापनम्
(४९) ॐ भूर्भुवः स्वः वृषाननायै नमः वृषाननाम् आवाह्यामि स्थापयामि। भो वृषानने इहागच्छ इह तिष्ठ॥
(५०) ॐ भूर्भुवः स्वः व्यात्तास्यायै नमः व्यात्तास्याम् आवाह्यामि स्थापयामि। भो व्यात्तास्ये इहागच्छ इह तिष्ठ॥
(५१) ॐ भूर्भुवः स्वः धूमनिःश्वासायै नमः धूमनिःश्वासाम् आवाह्यामि स्थापयामि। भो धूमनिःश्वासे इहागच्छ इह तिष्ठ॥
(५२) ॐ भूर्भुवः स्वः व्योमैकचरणोर्ध्वदृशे नमः व्योमैकचरणोर्ध्वदृम् आवाह्यामि स्थापयामि। भो व्योमैदृक् इहागच्छ इह तिष्ठ॥
(५३) ॐ भूर्भुवः स्वः तापिन्यै नमः तापिनीम् आवाह्यामि स्थापयामि। भो तापिनि इहागच्छ इह तिष्ठ॥
(५४) ॐ भूर्भुवः स्वः शोषणीदृष्टयै नमः शोषणीदृष्टिम् आवाह्यामि स्थापयामि। भो शोषिणीदृष्टे इहागच्छ इह तिष्ठ॥
(५५) ॐ भूर्भुवः स्वः कोटयै नमः कोटरीम् आवाह्यामि स्थापयामि। भो कोटरि इहागच्छ इह तिष्ठ॥
(५६) ॐ भूर्भुवः स्वः स्थूलनासिकायै नमः स्थूलनासिकाम् आवाह्यामि स्थापयामि। भो स्थूलनासिके इहागच्छ इह तिष्ठ॥
अथ ईशान्याम् अष्टमकोष्टकस्येशानतः प्रादक्षिण्येन अष्टयोगिनी देवतास्थापनम्
(५७) ॐ भूर्भुवः स्वः विद्युत्प्रभायै नमः विद्युत्प्रभाम् आवाह्यामि स्थापयामि। भो विद्युत्प्रभे इहागच्छ इह तिष्ठ॥
(५८) ॐ भूर्भुवः स्वः बलाकास्यायै नमः बलाकास्याम् आवाह्यामि स्थापयामि। भो बलाकास्ये इहागच्छ इह तिष्ठ॥
(५९) ॐ भूर्भुवः स्वः मार्जार्यै नमः मार्जारीम् आवाह्यामि स्थापयामि। भो मार्जारि इहागच्छ इह तिष्ठ॥
(६०) ॐ भूर्भुवः स्वः कटपूतनायै नमः कटपूतनाम् आवाह्यामि स्थापयामि। भो कटपूतने इहागच्छ इह तिष्ठ॥
(६१) ॐ भूर्भुवः स्वः अट्टाट्टहासायै नमः अट्टाट्टहासाम् आवाह्यामि स्थापयामि। भो अट्टाट्टहासे इहागच्छ इह तिष्ठ॥
(६२) ॐ भूर्भुवः स्वः कामाक्ष्यै नमः कामाक्षीम् आवाह्यामि स्थापयामि। भो कामाक्षि इहागच्छ इह तिष्ठ॥
(६३) ॐ भूर्भुवः स्वः मृगाक्ष्यै नमः मृगाक्षीम् आवाह्यामि स्थापयामि। भो मृगाक्षि इहागच्छ इह तिष्ठ॥
(६४) ॐ भूर्भुवः स्वः मृगलोचनायै नमः मृगलोचनाम् आवाह्यामि स्थापयामि। भो मृगलोचने इहागच्छ इह तिष्ठ॥
अथ समन्त्रक श्रीमहाकाली श्रीमहालक्ष्मी श्रीमहासरस्वती पूर्वक गजाननादि चतुःषष्टियोगिन्यः स्थापनम्
सर्वप्रथम योगिनीमण्डलस्य मध्यकोष्टके श्रीमहाकाली श्रीमहालक्ष्मी श्रीमहासरस्वतीनां स्थापनम्
श्रीमहाकालीम् (स्ववामतः प्रथमेकलशपूर्णपात्रे)
ॐ अम्बेॖऽअम्बिॖकेम्बा॑लिकेॖ न मा॑ नयतिॖ कश्चॖन।
सस॑स्त्त्यश्श्वॖकः सुभ॑द्रिकाङ्काम्पीलवाॖसिनी॑म्॥ (यजु० २३।१८)
(ॐ भूर्भुवः स्वः महाकाल्यै नमः महाकालीम् आवाह्यामि स्थापयामि। भो महाकालि ! इहागच्छ इह तिष्ठ॥१॥)
श्रीमहालक्ष्मीम् (प्रथम कलशाद्दक्षिणतः द्वितीयेकलशं पूर्णपात्रे)
ॐ श्रीश्च्च॑ ते लॖक्ष्मीश्च्चॖ पत्न्क्या॑वहोराॖत्र्त्रे पाॖर्श्श्वे नक्क्ष॑त्राणि रूॖपमॖश्श्विनौॖ व्व्यात्त॑म्।
इॖष्ण्णन्नि॑षाणाॖमुम्म॑ऽइषाण सर्व्वलोॖकम्म॑ऽइषाण॥ (यजु० ३१।२२)
(ॐ भूर्भुवः स्वः महालक्ष्म्यै नमः महालक्ष्मीम् आवाह्यामि स्थापयामि। भो महालक्ष्मि ! इहागच्छ इह तिष्ठ॥२॥)
श्रीमहासरस्वतीम् (द्वितीय कलशाद्दक्षिणतः तृतीयेकलशपूर्णपात्रे)
ॐ पाॖवॖका नॖः सर॑स्वतीॖ व्वाजे॑भिर्व्वाॖजिनी॑वती।
ॺॖज्ज्ञँ व्व॑ष्ट्टु धिॖयाव॑सुः॥ (यजु० २०।८४)
(ॐ भूर्भुवः स्वः महासरस्वत्यै नमः महासरस्वतीम् आवाह्यामि स्थापयामि। भो महासरस्वति ! इहागच्छ इह तिष्ठ॥३॥)
अथ पूर्वकोष्टस्येशानतः अष्टसु प्रादक्षिण्येन अष्टयोगिनी देवता स्थापनम्
ईशान्याम् गजाननायै
ॐ तमीशा॑नॖञ्जग॑तस्तॖस्त्थुष॒स्प्पति॑न् धियञ्जिॖन्न्वमव॑से हूमहे व्वॖयम्।
पू॒षा नोॖ ॺथाॖ व्वेद॑साॖमस॑द्द्व्वृधे र॑क्क्षिॖता पाॖयुरद॑ब्धः स्वॖस्तये॑॥ (यजु० २५।१८)
(ॐ भूर्भुवः स्वः गजाननायै नमः गजाननाम् आवाह्यामि स्थापयामि। भो गजानने इहागच्छ इह तिष्ठ॥१॥)
तद्दक्षिणे सिंहमुख्यै
ॐ आ ब्ब्रह्म॑न्न्ब्राह्मॖणो ब्ब्र॑ह्मवर्च्चॖसी जा॑यताॖमा राॖष्ट्रे रा॑जॖन्न्यॗः शूर॑ऽइषॖव्वयोॖतिव्व्याॖधी महारथो जा॑यताॖन्दोग्ग्ध्री॑ धेॖनुर्व्वोढा॑वा॑नॖड्डवानाॖशुः सप्प्तिॖः पुर॑न्धिॖर्ॺ्ॺोषा॑ जिॖष्ण्णू र॑थेॖष्ट्ठाः सॖभेयोॖ ॺुवास्य ॺज॑मानस्य व्वीॖरो जा॑यतान्निकाॖमेनि॑कामे नः पॖर्ज्जन्न्यो॑ व्वर्षतु॒ फल॑वत्त्यो नॖऽओष॑धयः पच्च्यन्ताँॺ्ॺोगक्क्षेॖमो नः॑ कल्प्पताम्॥ (यजु० २२।२२)
(ॐ भूर्भुवः स्वः सिंहमुख्यै नमः सिंहमुखीम् आवाह्यामि स्थापयामि। भो सिंहमुखि इहागच्छ इह तिष्ठ॥२॥)
तत्पश्चिमे गृध्रास्यायै
ॐ मॖहा२ँ॥ऽइन्द्रोॖ ॺऽओज॑सा पॖर्ज्जन्न्यो॑ व्वृष्ट्टिॖमा२ँ॥ऽइ॑व। स्तोमै॑र्व्वॖत्त्सस्य॑ व्वावृधे।
उॖपॖयाॖमगृ॑हीतोसि महेॖन्द्राय॑ त्त्वैॖष तेॖ ॺोनि॑र्म्महेॖन्द्राय॑ त्त्वा॥ (यजु० ७।४०)
(ॐ भूर्भुवः स्वः गृध्रास्यायै नमः गृध्रास्याम् आवाह्यामि स्थापयामि। भो गृध्रास्ये इहागच्छ इह तिष्ठ॥३॥)
तत्पश्चिमे काकतुण्डिकायै
ॐ सॖद्यो जाॖतो व्वय॑मिमीत ॺज्ज्ञमॖग्ग्निर्द्देॖवाना॑म भवत्त्पुरोॖगाः।
ॶस्य होतुः॑ प्प्रॖदिश्श्ॺृ॒तस्य॑ व्वाॖचि स्वाहा॑कृतᳯ हॖविर॑दन्तु देॖवाः॥ (यजु० २९।३६)
(ॐ भूर्भुवः स्वः काकतुण्डिकायै नमः काकतुण्डिकाम् आवाह्यामि स्थापयामि। भो काकतुण्डिके इहागच्छ इह तिष्ठ॥४॥)
तदुत्तरे उष्ट्रग्रीवायै
ॐ आॖदिॖत्त्यङ्गर्ब्भॖम्पय॑साॖ सम॑ङ्धि सॖहस्र॑स्य प्प्रतिॖमाँव्विॖश्श्वरू॑पम्।
परि॑वृङ्धिॖ हर॑साॖ माभिम॑ᳬ॑स्थाः शॖतायु॑षङ्कृणुहि चीयमा॑नः॥ (यजु० १३।४१)
(ॐ भूर्भुवः स्वः उष्ट्रग्रीवायै नमः उष्ट्रग्रीवाम् आवाह्यामि स्थापयामि। भो उष्ट्रग्रीवे इहागच्छ इह तिष्ठ॥५॥)
तदुत्तरे हयग्रीवायै
ॐ स्वॖर्ण्ण धॖर्म्मः स्वाहाॖ स्वॗर्ण्णार्क्कः स्वाहाॖ स्वॗर्ण्ण शु॒क्क्रः स्वाहाॖ स्वॗर्ण्ण ज्ज्योतिॖः स्वाहाॖ स्वॗर्ण्ण सूर्ॺ्ॺः स्वाहा॑॥ (यजु० १८।५०)
(ॐ भूर्भुवः स्वः हयग्रीवायै नमः हयग्रीवाम् आवाह्यामि स्थापयामि। भो हयग्रीवे इहागच्छ इह तिष्ठ॥६॥)
तत्पूर्वे वाराह्यै
ॐ सॖत्त्यञ्च॑ मे श्र्श्रॖद्धा च॑ मेॖ जग॑च्च मेॖ धन॑ञ्च मेॖ व्विश्श्व॑ञ्च मेॖ मह॑श्च्च मे क्क्रीॖडा च॑ मेॖ मोद॑श्च्च मे जाॖतञ्च॑ मे जनिॖष्ष्यमा॑णञ्च मे सू॒क्क्तञ्च॑ मे सुकृ॒तञ्च॑ मे ॺॖज्ज्ञेन॑ कल्प्पन्ताम्॥ (यजु० १८।५)
(ॐ भूर्भुवः स्वः वाराह्यै नमः वाराहीम् आवाह्यामि स्थापयामि। भो वाराहि इहागच्छ इह तिष्ठ॥७॥)
तत्पूर्वे शरभाननायै
ॐ भायै॑ दार्व्वाहाॖरम्प्रभाया॑ऽ अग्ग्न्येॖ धम्ब्रॖद्धनस्य॑ व्विॖष्टपा॑याभिषेॖक्क्तारॖँव्वर्षिष्ट्ठायॖ नाका॑य परिवेॖष्ट्टार॑न्देवलोॖकाय॑ पेशिॖतार॑म्मनुष्ष्यलोॖकाय॑ प्प्रकरिॖतारॖᳯ॒ सर्व्वे॑ब्भ्यो लोॖकेब्भ्य॑ऽ उपसेॖक्क्तारॖमव॑ऽ ऋत्त्यै व्वॖधायो॑पमन्थिॖतारॖम्मेधा॑य व्वासः पल्प्पू॒लीम्प्र॑काॖमाय॑ रजयिॖत्र्त्रीम्॥ (यजु० ३०।१२)
(ॐ भूर्भुवः स्वः शरभाननायै नमः शरभाननाम् आवाह्यामि स्थापयामि। भो शरभानने इहागच्छ इह तिष्ठ॥८॥)
अथ आग्नेय्यां द्वितीयकोष्टस्येशानतः प्रादक्षिण्येन अष्टयोगिनी देवता स्थापनम्
आग्नेय्याम् ईशाने उलूकिकायै
ॐ जिॖह्वा मे॑ भॖद्रँव्वाङ्महोॖ मनो॑ मॖन्न्युः स्वॖराड्डभामः॑।
मोदाः॑ प्प्रमोॖदाऽॶङ्गुलीॖरङ्गा॑नि मिॖत्र्त्रम्मेॖ सहः॑॥ (यजु० २०।६)
(ॐ भूर्भुवः स्वः उलूकिकायै नमः उलूकिकाम् आवाह्यामि स्थापयामि। भो उलूकिके इहागच्छ इह तिष्ठ॥९॥)
तद्दक्षिणे शिवारावायै
ॐ हिॖङ्काॖरायॖ स्वाहाॖ हिङ्कृ॑तायॖ स्वाहाॖ क्क्रन्द॑तेॖ स्वाहा॑वक्क्रॖन्दायॖ स्वाहाॖ प्प्रोथ॑तेॖ स्वाहा॑ प्प्रप्प्रोॖथायॖ स्वाहा॑ गॖन्धाय॒ स्वाहा॑ ग्घ्राॖताय॒ स्वाहाॖ निवि॑ष्ट्टायॖ स्वाहोप॑विष्ट्टायॖ स्वाहाॖ सन्दि॑तायॖ स्वाहाॖ व्वल्ग्ग॑तेॖ स्वाहासी॑नायॖ स्वाहाॖ शया॑नायॖ स्वाहाॖ स्वप॑तेॖ स्वाहाॖ जाग्ग्र॑तेॖ स्वाहाॖ कूज॑तेॖ स्वाहाॖ प्प्रबु॑द्धायॖ स्वाहा॑ व्विॖजृम्भ॑माणायॖ स्वाहाॖ व्विचृ॑त्तायॖ स्वाहाॖ सᳯहा॑नायॖ स्वाहोप॑स्त्थितायॖ स्वाहाय॑नायॖ स्वाहाॖ प्प्राय॑णायॖ स्वाहा॑॥ (यजु० २२।७)
(ॐ भूर्भुवः स्वः शिवारावायै नमः शिवारावाम् आवाह्यामि स्थापयामि। भो शिवारावे इहागच्छ इह तिष्ठ॥१०॥)
तत्पश्चिमे मयूर्यै
ॐ ॶग्ग्निश्च्च॑ मॖऽआप॑श्च्च मे व्वीॖरुध॑श्च्च मॖऽओष॑धयश्च्च मे कृष्ट्टपॖच्च्याश्च्च॑ मेकृष्ट्टपॖच्च्याश्च्च॑ मे ग्ग्राम्म्याश्च्च॑ मे पॖशव॑ऽआरॖण्ण्याश्च्च॑ मे व्वित्तञ्च॑ मेॖ व्वित्ति॑श्च्च मे भू॒तञ्च॑ मेॖ भूति॑श्च्च मे ॺॖज्ज्ञेन॑ कल्प्पन्ताम्॥ (यजु० १८।१४)
(ॐ भूर्भुवः स्वः मयूर्यै नमः मयूरीम् आवाह्यामि स्थापयामि। भो मयूरि इहागच्छ इह तिष्ठ॥११॥)
तत्पश्चिमे विकटाननायै
ॐ पूषॖन्तव॑ व्व्रॖते व्वॖयन्न रि॑ष्ष्येमॖ कदा॑चॖन।
स्त्तोॖतार॑स्त्तऽइॖह स्म्म॑सि॥ (यजु० ३४।४१)
(ॐ भूर्भुवः स्वः विकटाननायै नमः विकटाननाम् आवाह्यामि स्थापयामि। भो विकटानने इहागच्छ इह तिष्ठ॥१२॥)
तदुत्तरे अष्टवक्रायै
ॐ व्वेद्याॖ व्वेदिॖः समा॑प्प्यते बॖर्हिषा॑ बॖर्हिरि॑न्द्रिॖयम्।
ॺूपे॑नॖ ॺूप॑ऽआप्प्यतेॖ प्प्रणी॑तोऽॶग्ग्निरॖग्ग्निना॑॥ (यजु० १९।१७)
(ॐ भूर्भुवः स्वः अष्टवक्रायै नमः अष्टवक्राम् आवाह्यामि स्थापयामि। भो अष्टवक्रे इहागच्छ इह तिष्ठ॥१३॥)
तदुत्तरे कोटराक्ष्यै
ॐ ॶयमॖग्ग्निः स॑हॖस्रिणोॖ व्वाज॑स्य शॖतिनॖस्प्पतिः॑।
मु॒र्द्धा कॖवी र॑यीॖणाम्॥ (यजु० १५।२१)
(ॐ भूर्भुवः स्वः कोटराक्ष्यै नमः कोटराक्षीम् आवाह्यामि स्थापयामि। भो कोटराक्षि इहागच्छ इह तिष्ठ॥१४॥)
तत्पूर्वे कुब्जायै
ॐ इॖमम्मे॑ व्वरुण श्र्श्रु॒धी हव॑मॖद्या च॑ मृडय।
त्वाम॑वॖस्युराच॑के॥ (यजु० २१।१)
(ॐ भूर्भुवः स्वः कुब्जायै नमः कुब्जाम् आवाह्यामि स्थापयामि। भो कुब्जे इहागच्छ इह तिष्ठ॥१५॥)
तत्पूर्वे विकटलोचनायै
ॐ ॺॖमायॖ त्त्वाङ्गि॑रस्वते पितृ॒मतेॖ स्वाहा॑।
स्वाहा॑ धॖर्म्मायॖ स्वाहा॑ धॖर्म्मः पिॖत्र्त्रे॥ (यजु० ३८।९)
(ॐ भूर्भुवः स्वः विकटलोचनायै नमः विकटलोचनाम् आवाह्यामि स्थापयामि। भो विकटलोचने इहागच्छ इह तिष्ठ॥१६॥)
॥ दक्षिणस्यां तृतीयकोष्टकस्येशानतः प्रादक्षिण्येन अष्टयोगिनी देवता स्थापनम् ॥
ईशान्याम् शुष्कोदर्यै
ॐ गॖन्धॖर्व्वस्त्त्वा॑ व्विॖश्श्वाव॑सुः॒ परि॑दधातु॒ व्विश्श्वॖस्यारि॑ष्ट्टयैॖ ॺज॑मानस्य परिॖधिर॑स्यॖग्ग्निरिॖडऽई॑डिॖतः।
इन्द्र॑स्य बाॖहुर॑सिॖ दक्क्षिणोॖ व्विश्श्वॖस्यारि॑ष्ट्टयैॖ ॺज॑मानस्य परिॖधिर॑स्यॖग्ग्निरिॖडऽई॑डिॖतः।
मिॖत्र्त्रावरु॑णौ त्त्वोत्तरॖतः परि॑धत्तान्ध्रु॒वेणॖ धर्म्म॑णाॖ व्विश्श्वॖस्यारि॑ष्ट्टयैॖ ॺज॑मानस्य परिॖधिर॑स्यॖग्ग्निरिॖडऽई॑डिॖतः॥ (यजु० २।३)
(ॐ भूर्भुवः स्वः शुष्कोदर्यै नमः शुष्कोदरीम् आवाह्यामि स्थापयामि। भो शुष्कोदरि इहागच्छ इह तिष्ठ॥१७॥)
तद्दक्षिणे ललज्जिह्वायै
ॐ मिॖत्र्त्रस्य॑ चर्षणीॖधृतोवो॑ देॖवस्य॑ सानॖसि।
द्यु॒म्म्नञ्चिॖत्रश्र्श्र॑वस्त्तमम्॥ (यजु० ११।६२)
(ॐ भूर्भुवः स्वः ललज्जिह्वायै नमः ललज्जिह्वाम् आवाह्यामि स्थापयामि। भो ललज्जिह्वे इहागच्छ इह तिष्ठ॥१८॥)
तत्पश्चिमे श्वदंष्ट्रायै
ॐ अग्ग्नेॖ ब्ब्रह्म॑ गृब्भ्णीष्ष्व धॖरुण॑मस्यॖन्तरि॑क्क्षन्दृᳯह ब्ब्रह्मॖवनि॑ त्त्वा क्क्षत्रॖवनि॑ सजातॖवन्न्युप॑दधामिॖ ब्भ्रातृ॑व्व्यस्य व्वॖधाय॑।
धॖर्त्र्त्रम॑सिॖ दिव॑न्दृᳯह ब्ब्रह्मॖवनि॑ त्त्वा क्क्षत्रॖवनि॑ सजातॖवन्न्युप॑दधामिॖ ब्भ्रातृ॑व्व्यस्य व्वॖधाय॑।
व्विश्श्वा॑ब्भ्यॖस्त्त्वाशा॑ब्भ्यॖऽ उप॑दधामिॖ चित॑ स्त्थोर्द्ध्वॖचितोॖ भृगू॑णाॖमङ्गि॑रसाॖन्तप॑सा तप्प्यद्ध्वम्॥ (यजु० १।१८)
(ॐ भूर्भुवः स्वः श्वदंष्ट्रायै नमः श्वदंष्ट्राम् आवाह्यामि स्थापयामि। भो श्वदंष्ट्रे इहागच्छ इह तिष्ठ॥१९॥)
तत्पश्चिमे वानराननायै
ॐ भगॖ प्प्रणे॑तॖर्ब्भगॖ सत्त्य॑राधोॖ भगेॖमान्धियॖमुद॑वाॖ दद॑न्नः।
भगॖ प्प्र नो॑ जनयॖ गोभिॖरश्श्वै॒र्ब्भगॖ प्प्र नृभि॑र्न्नृ॒वन्तः॑ स्या॑म॥ (यजु० ३४।३६)
(ॐ भूर्भुवः स्वः वानराननायै नमः वानराननाम् आवाह्यामि स्थापयामि। भो वानरानने इहागच्छ इह तिष्ठ॥२०॥)
तदुत्तरे रुक्षाक्ष्यै
ॐ सु॒पॖर्ण्णोॖसि गॖरुत्क्मा॑न्न्पृ॒ष्ट्ठे पृ॑थिॖव्व्याः सी॑द।
भाॖसान्तरि॑क्क्षॖमापृ॑णॖ ज्ज्योति॑षाॖ दिवॖमुत्त्त॑भानॖ तेज॑साॖ दिशॖऽउद्दृ॑ᳯह॥ (यजु० १७।७२)
(ॐ भूर्भुवः स्वः रुक्षाक्ष्यै नमः रुक्षाक्षीम् आवाह्यामि स्थापयामि। भो रुक्षाक्षि इहागच्छ इह तिष्ठ॥२१॥)
तदुत्तरे केकराक्ष्यै
ॐ उदी॑रताॖमव॑रॖऽ उत्त्परा॑सॖऽ उन्न्म॑द्ध्यॖमाः पिॖतरः॑ सोॖम्म्यासः॑।
असुँ॒ॺ्ॺऽईॖयुर॑वृ॒काऽ ऋ॑तॖज्ज्ञास्त्ते नो॑वन्तु पिॖतरोॖ हवे॑षु॥ (यजु० १९।४९)
(ॐ भूर्भुवः स्वः केकराक्ष्यै नमः केकराक्षीम् आवाह्यामि स्थापयामि। भो केकराक्षि इहागच्छ इह तिष्ठ॥२२॥)
तत्पूर्वे बृहत्तुण्डायै
ॐ व्वरु॑णस्योॖत्तम्भ॑नमसिॖ व्वरु॑णस्य स्क्कम्भॖसर्ज्ज॑नी स्त्थोॖ व्वरु॑णस्यऽऋतॖसद॑न्न्यसिॖ व्वरु॑णस्यऽऋतॖसद॑नमसिॖ व्वरु॑णस्यऽऋतॖसद॑नॖमासी॑द॥ (यजु० ४।३६)
(ॐ भूर्भुवः स्वः बृहत्तुण्डायै नमः बृहत्तुण्डीम् आवाह्यामि स्थापयामि। भो बृहत्तुण्डे इहागच्छ इह तिष्ठ॥२३॥)
तत्पूर्वे सुराप्रियायै
ॐ व्वरु॑णः प्प्राविॖता भु॑वन्न्मिॖत्र्त्रो व्विश्श्वा॑भिरूॖतिभिः॑।
कर॑तान्नः सु॒राध॑सः॥ (यजु० ३३।४६)
(ॐ भूर्भुवः स्वः सुराप्रियायै नमः सुराप्रियाम् आवाह्यामि स्थापयामि। भो सुराप्रिये इहागच्छ इह तिष्ठ॥२४॥)
नैर्ऋत्यां चतुर्थकोष्टकस्येशानतः प्रादक्षिण्येन अष्टयोगिनी देवता स्थापनम्
ईशान्याम् कपालहस्तायै
ॐ हॖᳯ॒सः शु॑चिॖषद्वसु॑रन्तरिक्क्षॖ सद्धोता॑ व्वेदिॖषदति॑थिर्द्दुरोणॖसत्।
नृ॒षद्व॑रॖसद्द॑तॖ सद्वॺो॑मॖसदॖब्ब्जा गोॖजाऽऋ॑तॖजाऽ अ॑द्रिॖजाऽ ऋॖतम्बृ॒हत्॥ (यजु० १०।२४)
(ॐ भूर्भुवः स्वः कपालहस्तायै नमः कपालहस्ताम् आवाह्यामि स्थापयामि। भो कपालहस्ते इहागच्छ इह तिष्ठ॥२५॥)
तद्दक्षिणे रक्ताक्ष्यै
ॐ सु॒सॖन्दृश॑न्त्वा व्वॖयम्म ध॑वन्न्वन्दि षीॖमहि॑।
प्रनू॒नम्पू॒र्ण्णव॑न्धुर स्त्तु॒तो ॺा॑सिॖ व्वशाॖ२ँ॥ऽअनु॒ ॺोजाॖ न्न्विॖन्द्र तेॖ हरीं॥ (यजु० ३।५२)
(ॐ भूर्भुवः स्वः रक्ताक्ष्यै नमः रक्ताक्षीम् आवाह्यामि स्थापयामि। भो रक्ताक्षि इहागच्छ इह तिष्ठ॥२६॥)
तत्पश्चिमे शुक्यै
ॐ प्रॖतिॖपद॑सि प्प्रतिॖपदे॑ त्त्वानु॒पद॑स्यनु॒पदे॑ त्त्वा सॖम्पद॑सि सॖम्पदे॑ त्त्वाॖ तेजो॑सिॖ तेज॑से त्त्वा॥ (यजु० १५।८)
(ॐ भूर्भुवः स्वः शुक्यै नमः शुकीम् आवाह्यामि स्थापयामि। भो शुकि इहागच्छ इह तिनंष्ठ॥२७॥)
तत्पश्चिमे श्येन्यै
ॐ देॖवीर्द्वारो॑ऽॶश्श्विना॑ भिॖषजेन्द्रेॖ सर॑स्वती।
प्राॖणन्न व्वीॖर्ॺ्ॺॖन्नॖसि द्वारो॑ दधुरिन्द्रिॖयँव्व॑सु॒वने॑ व्वसुधेय॑स्य व्व्यन्तु॒ ॺज॑॥ (यजु० २१।४९)
(ॐ भूर्भुवः स्वः श्येन्यै नमः श्येनीम् आवाह्यामि स्थापयामि। भो श्येनि इहागच्छ इह तिष्ठ॥२८॥)
तदुत्तरे कपोतिकायै
ॐ देॖवस्य॑ त्त्वा सविॖतुः प्प्र॑सॖवेॗश्श्विनो॑ र्ब्बाॖहुब्भ्या॑म्पू॒ष्ण्णो हस्त्ता॑ब्भ्याम्।
सर॑स्वत्त्यै व्वाॖचो ॺॖन्तुर्ॺ्ॺॖन्त्रिये॑ दधामि बृहॖस्प्पते॑ष्ट्टवाॖ साम्म्रा॑ज्ज्येनाॖभिषि॑ञ्चाम्म्यसौ॥ (यजु० ९।३०)
(ॐ भूर्भुवः स्वः कपोतिकायै नमः कपोतिकाम् आवाहयामि स्थापयामि। भो कपोतिके इहागच्छ इह तिष्ठ॥२९॥)
तदुत्तरे पाशहस्तायै
ॐ देॖवस्य॑ त्त्वा सविॖतुः प्प्र॑सॖवेॗश्श्विनो॑ र्ब्बाॖहुब्भ्या॑म्पू॒ष्ण्णो हस्त्ता॑ब्भ्याम्।
सर॑स्वत्त्यै व्वाॖचो ॺॖन्तुर्ॺ्ॺॖन्त्रेणाॖग्ग्नेः साम्म्रा॑ज्ज्येनाॖभिषि॑ञ्चामि॥ (यजु० १८।३७)
(ॐ भूर्भुवः स्वः पाशहस्तायै नमः पाशहस्ताम् आवाह्यामि स्थापयामि। भो पाशहस्ते इहागच्छ इह तिष्ठ॥३०॥)
तत्पूर्वे दण्डहस्तायै
ॐ भुवो॑ ॺॖज्ज्ञस्यॖ रज॑सश्च्च नेॖता ॺत्रा॑ निॖयुद्भिॖः सच॑से शिॖवाभिः॑।
दिॖवि मू॒र्द्धान॑न्दधिषे स्वॖर्षाञ्जिॖह्वाम॑ग्ग्ने चकृषे हव्व्यॖवाह॑म्॥ (यजु० १५।२३)
(ॐ भूर्भुवः स्वः दण्डहस्तायै नमः दण्डहस्ताम् आवाह्यामि स्थापयामि। भो दण्डहस्ते इहागच्छ इह तिष्ठ॥३१॥)
तत्पूर्वे प्रचण्डायै
ॐ कॖदाचॖन स्त्तॖरीर॑सिॖ नेन्द्र॑ सश्च्चसि दाॖशुषे॑।
उपोॖपेन्नु म॑घवॖन्न्भूयॖऽइन्नु तेॖ दान॑न्देॖवस्य॑ पृच्च्यते॥ (यजु० ३।३४)
(ॐ भूर्भुवः स्वः प्रचण्डायै नमः प्रचण्डाम् आवाहयामि स्थापयामि। भो प्रचण्डे इहागच्छ इह तिष्ठ॥३२॥)
॥ पश्चिमायां पञ्चमकोष्टकस्येशानतः प्रादक्षिण्येन अष्टयोगिनी देवता स्थापनम् ॥
ईशान्याम् चण्डविक्रमायै
ॐ भॖद्रङ्कर्ण्णै॑॑भिः शृणुयामदेवा भॖद्द्रम्प॑श्श्येमाॖक्क्षभि॑र्ॺ्ॺजत्र्त्राः।
स्थिॖरैरङ्गै॑स्तुष्टु॒वाᳬ॑ स॑स्त्तॖनूभिॖर्व्व्यॖशेमहि देॖवहि॑तॖँ ॺ्ॺदायुः॑॥ (यजु० २५।२१)
(ॐ भूर्भुवः स्वः चण्डविक्रमायै नमः चण्डविक्रमाम् आवाह्यामि स्थापयामि। भो चण्डविक्रमे इहागच्छ इह तिष्ठ॥३३॥)
तद्दक्षिणे शिशुघ्न्यै
ॐ इ॒षे त्त्वोॖर्ज्जे त्त्वा॑ व्वाॖयव॑ स्त्थ देॖवो वः॑ सविॖता प्प्रार्प्प॑यतु॒ श्श्रेष्ठ॑तमायॖ कर्म्म॑णॖऽआप्प्यायद्ध्वमग्घ्न्याॖ ऽइन्द्रा॑य भाॖगम्प्रॖजाव॑तीरनमीॖवाऽ अ॑यॖक्ष्मा मा व॑ स्तेॖनऽई॑शतॖ माघश॑ᳬ सोद्ध्रुवाऽअ॒स्म्मिन्न्गोप॑तौ स्यात बॖह्वीर्ॺ्ॺज॑मानस्य पॖशुन्न्पा॑हि॥ (यजु० १।१)
(ॐ भूर्भुवः स्वः शिशुघ्न्यै नमः शिशुघ्नीम् आवाह्यामि स्थापयामि। भो शिशुघ्नि इहागच्छ इह तिष्ठ॥३४॥)
तत्पश्चिमे पापहन्त्र्यै
ॐ देवी॑ द्यावापृथिवी मॖखस्य॑ वामॖद्य शिरो॑ राद्ध्यासन्देवॖयज॑ने पृथिॖव्व्याः।
मॖखाय॑ त्त्वा मॖखस्य॑ त्त्वा शीॖर्ष्ष्णे॥ (यजु० ३७।३)
(ॐ भूर्भुवः स्वः पापहन्त्र्यै नमः पापहन्त्रीम् आवाह्यामि स्थापयामि। भो पापहन्त्रि इहागच्छ इह तिष्ठ॥३५॥)
तत्पश्चिमे काल्यै
ॐ असु॑न्न्वन्तॖमय॑जमानमिच्छ स्त्तेॖनस्येॖत्त्यामन्न्वि॑हिॖ तस्क्क॑रस्य।
अ॒न्न्यमॖ स्म्मदि॑च्छॖ सा त॑ऽइॖत्त्या नमो॑ देवि निर्ऋतेॖ तुब्भ्य॑मस्तु॥ (यजु० १२।६२)
(ॐ भूर्भुवः स्वः काल्यै नमः कालीम् आवाहयामि स्थापयामि। भो कालि इहागच्छ इह तिष्ठ॥३६॥)
तदुत्तरे रुधिरपायिन्यै
ॐ व्विश्वा॑नि देव सवितर्द्दुरिॖतानिॖ परा॑सुव।
ॺद्भॖद्रन्तन्नॖऽआसु॑व॥ (यजु० ३०।३)
(ॐ भूर्भुवः स्वः रुधिरपायिन्यै नमः रुधिरपायिनीम् आवाह्यामि स्थापयामि। भो रुधिरपायिनि इहागच्छ इह तिष्ठ॥३७॥)
तदुत्तरे वसाधयायै
ॐ ॶग्ग्निश्च्च॑ मे घॖर्म्मश्च्च॑ मेॖर्क्कश्च्च॑ मेॖ सूर्ॺ्ॺ॑श्च्च मे प्प्राॖणश्च्च॑ मेश्श्वमेॖधश्च्च॑ मे पृथिॖवी चॖ मेदि॑तिश्च्च मेॖ दिति॑श्च्च मेॖ द्यौश्च्च॑ मेॖङ्गुल॑यॖः शक्क्व॑रयोॖ दिश॑श्च्च मे ॺॖज्ज्ञेन॑ कल्प्पन्ताम्॥ (यजु० १८।२२)
(ॐ भूर्भुवः स्वः वसाधयायै नमः वसाधयाम् आवाह्यामि स्थापयामि। भो वसाधये इहागच्छ इह तिष्ठ॥३८॥)
तत्पूर्वे गर्भभक्षायै
ॐ बॖह्वीॖनाम्पिॖता बॖहुर॑स्य पु॒त्र्त्रश्च्चिॖश्च्चाकृ॑णोतिॖ सम॑नावॖगत्त्य॑।
इॖषु॒धिः सङ्काॖः पृत॑नाश्च्चॖ सर्व्वाः॑ पृ॒ष्ट्ठे निन॑द्धो जयतिॖ प्प्रसू॑तः॥ (यजु० २९।४२)
(ॐ भूर्भुवः स्वः गर्भभक्षायै नमः गर्भभक्षाम् आवाह्यामि स्थापयामि। भो गर्भभक्षे इहागच्छ इह तिष्ठ॥३९॥)
तत्पूर्वे शवहस्तायै
ॐ नम॑स्ते रुद्र मॖन्न्यव॑ऽउॖतो तॖऽइष॑वेॖ नमः॑।
बाॖहुब्भ्या॑मु॒त तेॖ नमः॑॥ (यजु० १६।१)
(ॐ भूर्भुवः स्वः शवहस्तायै नमः शवहस्ताम् आवाह्यामि स्थापयामि। भो शवहस्ते इहागच्छ इह तिष्ठ॥४०॥)
॥ वायव्यां षष्ठकोष्टकस्येशानतः प्रादक्षिण्येन अष्टयोगिनी देवता स्थापनम् ॥
ईशान्याम् आन्त्रमालिन्यै
ऋॖतव॑स्त्ते ॺॖज्ज्ञँव्वित॑न्न्वन्तु॒ मासा॑ रॖक्क्षन्तु॑ तेॖ हविः॑।
सॖँव्वॖत्त्सॖरस्ते॑ ॺॖज्ज्ञन्द॑धातु नः प्प्रॖजाञ्चॖ परि॑पातु नः॥ (यजु० २६।१४)
(ॐ भूर्भुवः स्वः आन्त्रमालिन्यै नमः आन्त्रमालिनीम् आवाह्यामि स्थापयामि। भो आन्त्रमालिनि इहागच्छ इह तिष्ठ॥४१॥)
तद्दक्षिणे स्थूलकेश्यै
ॐ तेऽआॖचर॑न्तीॖ सम॑नेवॖ ॺोषा॑ माॖतेव॑ पु॒त्र्त्रम्बि॑भृतामु॒पस्त्थे॑।
अपॖ शत्र्त्रू॑न्न्विद्ध्यताᳬ॑ सँव्विदाॖनेऽआर्त्क्नी॑ऽइॖमे व्वि॑ष्प्फु॒रन्ती॑ऽॶमित्र्त्रा॑न्॥ (यजु० २९।४१)
(ॐ भूर्भुवः स्वः स्थूलकेश्यै नमः स्थूलकेशीम् आवाह्यामि स्थापयामि। भो स्थूलकेशि इहागच्छ इह तिष्ठ॥४२॥)
तत्पश्चिमे बृहत्कुक्ष्यै
ॐ व्वेद्याॖ व्वेदिॖः समा॑प्प्यते बॖर्हिषा॑ बॖर्हिरि॑न्द्रिॖयम्।
ॺूपे॑नॖ ॺूप॑ऽआप्प्यतेॖ प्प्रणी॑तोऽॶग्ग्निरॖग्ग्निना॑॥ (यजु० १९।१७)
(ॐ भूर्भुवः स्वः बृहत्कुक्ष्यै नमः बृहत्कुक्षीम् आवाहयामि स्थापयामि। भो बृहत्कुक्षि इहागच्छ इह तिष्ठ॥४३॥)
तत्पश्चिमे सर्पास्यायै
ॐ पाॖवॖका नॖः सर॑स्वतीॖ व्वाजे॑भिर्व्वाॖजिनी॑वती।
ॺॖज्ज्ञँ व्व॑ष्ट्टु धिॖयाव॑सुः॥ (यजु० २०।८४)
(ॐ भूर्भुवः स्वः सर्पास्यायै नमः सर्पास्याम् आवाह्यामि स्थापयामि। भो सर्पास्ये इहागच्छ इह तिष्ठ॥४४॥)
तदुत्तरे प्रेतवाहनायै
ॐ अस्क्क॑न्नमॖद्य देॖवेब्भ्यॖऽआज्ज्यॖᳯ॒ सम्भ्रि॑यासॖमङ्घ्रि॑णा व्विष्ण्णोॖ मा त्त्वाव॑क्क्रमिषॖँव्वसु॑मतीमग्ग्ने ते च्छाॖयामुप॑स्त्थेषॖँव्विष्ण्णोॖ स्त्थान॑मसीॖतऽइन्द्रो॑ व्वीॖर्ॺ्ॺॖमकृणोदू॒र्द्धोॖद्ध्वरऽआस्त्था॑त्॥ (यजु० २।८)
(ॐ भूर्भुवः स्वः प्रेतवाहनायै नमः प्रेतवाहनाम् आवाह्यामि स्थापयामि। भो प्रेतवाहने इहागच्छ इह तिष्ठ॥४५॥)
तदुतरे दन्दशूककरायै
ॐ ॺॖमायॖ त्त्वाङ्गि॑रस्वते पितृ॒मतेॖ स्वाहा॑।
स्वाहा॑ धॖर्म्मायॖ स्वाहा॑ धॖर्म्मः पिॖत्र्त्रे॥ (यजु० ३८।९)
(ॐ भूर्भुवः स्वः दन्दशूककरायै नमः दन्दशूककराम् आवाह्यामि स्थापयामि। भो दन्दशूककरे इहागच्छ इह तिष्ठ॥४६॥)
तत्पूर्वे क्रोञ्च्यै
ॐ मॖही द्यौः पृ॑थिॖवी च॑ नऽइॖमँॺ्ॺॖज्ज्ञम्मि॑मिक्क्षताम्।
पिॖपृ॒तान्नोॖ भरी॑मभिः॥ (यजु० ८।३२)
(ॐ भूर्भुवः स्वः क्रोञ्च्यै नमः क्रोञ्चीम् आवाह्यामि स्थापयामि। भो क्रोञ्चि इहागच्छ इह तिष्ठ॥४७॥)
तत्पूर्वे मृगशीर्षायै
ॐ उॖपॖयाॖमगृ॑हीतोसिॖ हरि॑रसि हारियोजॖनो हरि॑ब्भ्यान्त्वा।
हर्ॺ्ॺो॑र्द्धाॖना स्त्थ॑ सॖहसो॑माॖऽइन्द्रा॑य॥ (यजु० ८।११)
(ॐ भूर्भुवः स्वः मृगशीर्षायै नमः मृगशीर्षाम् आवाह्यामि स्थापयामि। भो मृगशीर्षे इहागच्छ इह तिष्ठ॥४८॥)
उत्तरस्यां सप्तमकोष्टकस्येशानतः प्रादक्षिण्येन अष्टयोगिनी देवता स्थापनम्
ईशान्याम् वृषाननायै
ॐ आप्प्या॑यस्वॖ समे॑तु ते व्विॖश्श्वतः॑ सोमॖ व्वृष्ण्ण्य॑म्।
भवाॖ व्वाज॑स्य सङ्गॖथे॥ (यजु० १२।११२)
(ॐ भूर्भुवः स्वः वृषाननायै नमः वृषाननाम् आवाहयामि स्थापयामि। भो वृषानने इहागच्छ इह तिष्ठ॥४९॥)
तद्दक्षिणे व्यात्तास्यायै
ॐ कार्षि॑रसि समु॒द्रस्यॖ त्त्वा क्क्षि॑त्त्याॖऽउन्न॑यामि॥
समापो॑ऽअ॒द्भिर॑ग्ग्मतॖ समोष॑धी भिॖरोष॑धीः॥ (यजु० ६।२८)
(ॐ भूर्भुवः स्वः व्यात्तास्यायै नमः व्यात्तास्याम् आवाह्यामि स्थापयामि। भो व्यात्तास्ये इहागच्छ इह तिष्ठ॥५०॥)
तत्पश्चिमे धूमनिःश्वासायै
ॐ त्र्य॑म्बकँॺ्ॺजामहे सुगॖन्धिम्पु॑ष्ट्टिॖवर्द्ध॑नम्।
उॖर्व्वाॖरुॖकमि॑वॖ बन्ध॑नान्न्मृ॒त्त्योर्म्मु॑क्क्षीयॖ मामृता॑त्॥ (यजु० ३।६०)
(ॐ भूर्भुवः स्वः धूमनिःश्वासायै नमः धूमनिःश्वासाम् आवाह्यामि स्थापयामि। भो धूमनिःश्वासे इहागच्छ इह तिष्ठ॥५१॥)
तत्पश्चिमे व्योमैकचरणोर्ध्वदृशे
ॐ श्रीश्च॑ ते लॖक्ष्मीश्चॖ पत्क्न्या॑वहोराॖत्र्त्रे पाॖर्श्श्वे नक्क्ष॑त्राणि रुॖपमॖश्श्विनौॖ व्वयात्त॑म्।
इॖष्ण्णन्नि॑षाणाॖमुम्म॑ऽइषाण सर्व्वलोॖकम्म॑ऽइषाण॥ (यजु० ३१।२२)
(ॐ भूर्भुवः स्वः व्योमैकचरणोर्ध्वदृशे नमः व्योमैकचरणोर्ध्वदृशम् आवाह्यामि स्थापयामि। भो व्योमैकचरणोर्ध्वदृक् इहागच्छ इह तिष्ठ॥५२॥)
तदुत्तरे तापिन्यै
ॐ व्विष्ण्णो॑ रॖराट॑मसिॖ व्विष्ण्णोः॒ श्नप्प्त्रे॑ स्त्थोॖ व्विष्ण्णोः॒ स्यूर॑सिॖ व्विष्ण्णो॑र्द्ध्रु॒वोॖसि।
व्वैॖष्ण्णॖवम॑सिॖ व्विष्ण्ण॑वे त्त्वा॥ (यजु० ५।२१)
(ॐ भूर्भुवः स्वः तापिन्यै नमः तापिनीम् आवाह्यामि स्थापयामि। भो तापिनि इहागच्छ इह तिष्ठ॥५३॥)
तदुत्तरे शोषणीदृष्टयै
ॐ ब्राॖह्मॖणमॖद्य व्वि॑देयम्पितृ॒मन्त॑म्पैतृमॖत्त्य मृषि॑मार्षेॖयᳯ सु॒धातु॑दक्क्षिणम्।
ॶस्म्मद्रा॑ता देवॖत्र्त्रा ग॑च्छत प्प्रदाॖतारॖमावि॑शत॥ (यजु० ७।४६)
(ॐ भूर्भुवः स्वः शोषणीदृष्टयै नमः शोषणीदृष्टिम् आवाह्यामि स्थापयामि। भो शोषणीदृष्टे इहागच्छ इह तिष्ठ॥५४॥)
तत्पूर्वे कोटर्यै
ॐ ॺा व्व्याॖग्घ्रँ व्विषू॑चिकोॖभौ व्वृक॑ञ्चॖ रक्क्ष॑ति।
श्येॖनम्प॑तॖत्रिण॑ᳯ सिॖᳯहᳯ सेमम्पाॖत्त्वᳯह॑सः॥ (यजु० १९।१०)
(ॐ भूर्भुवः स्वः कोटर्यै नमः कोटरीम् आवाह्यामि स्थापयामि। भो कोटरि इहागच्छ इह तिष्ठ ॥५५॥)
तत्पूर्वे स्थूलनासिकायै
ॐ एका॑ च मे तिॖस्रश्च्च॑ मे तिॖस्रश्च्च॑ मेॖ पञ्च॑ च मेॖ पञ्च॑ च मे सॖप्प्त च॑ मे सॖप्प्त च॑ मेॖ नव॑ च मेॖ नव॑ च मॖऽएका॑दश च मॖऽएका॑दश च मेॖ त्र्त्रयो॑दश च मेॖ त्र्त्रयो॑दश च मेॖ पञ्च॑दश च मेॖ पञ्च॑दश च मे सॖप्प्तद॑श च मे सॖप्प्तद॑श च मेॖ नव॑दश च मेॖ नव॑दश च मॖऽएक॑विᳯशतिश्च्च मॖऽएक॑विᳯशतिश्च्च मेॖ त्र्त्रयो॑विᳯशतिश्च्च मेॖ त्र्त्रयो॑विᳯशतिश्च्च मेॖ पञ्च॑विᳯशतिश्च्च मेॖ पञ्च॑विᳯशतिश्च्च मे सॖप्प्तवि॑ᳯशतिश्च्च मे सॖप्प्तवि॑ᳯशतिश्च्च मेॖ नव॑विᳯशतिश्च्च मेॖ नव॑विᳯशतिश्च्च मॖऽएक॑त्रिᳯशच्च मॖऽएक॑त्रिᳯशच्च मेॖ त्र्त्रय॑स्त्र्त्रिᳯशच्च मे ॺॖज्ज्ञेन॑ कल्प्पन्ताम्॥ (यजु० १८।२४)
(ॐ भूर्भुवः स्वः स्थूलनासिकायै नमः स्थूलनासिकाम् आवाहयामि स्थापयामि। भो स्थूलनासिके इहागच्छ इह तिष्ठ॥५६॥)
ईशान्यामष्टमकोष्टके ईशानतः प्रादक्षिण्येन अष्टयोगिनी देवता स्थापनम्
ॐ ईशान्याम् विद्युत्प्रभायै
ब्रह्ममा॑णि मे मॖतयॖः शᳯ सु॒तासॖः शुष्म्म॑ऽइयर्त्तिॖ प्प्रभृ॑तो मेॖऽअद्रिः॑।
आशा॑सतेॖ प्प्रति॑हर्ॺ्ॺन्त्यु॒क्क्थेमा हरी॑ व्वहतॖस्त्ता नोॖऽअच्छ॑॥ (यजु० ३३।७८)
(ॐ भूर्भुवः स्वः विद्युत्प्रभायै नमः विद्युत्प्रभाम् आवाह्यामि स्थापयामि। भो विद्युत्प्रभे इहागच्छ इह तिष्ठ॥५७॥)
तद्दक्षिणे बलाकास्यायै
ॐ अग्ग्ने॑ ॺु॒क्क्ष्वा हि ॺे तवाश्श्वा॑सो देव सा॒धवः॑।
अरॖँव्वह॑न्ति मॖन्न्यवे॑॥ (यजु० १३।३६)
(ॐ भूर्भुवः स्वः बलाकास्यायै नमः बलाकास्याम् आवाह्यामि स्थापयामि। भो बलाकास्ये इहागच्छ इह तिष्ठ॥५८॥)
तत्पश्चिमे मार्जार्यै
ॐ सु॒पॖर्ण्णो॒सि गॖरुत्क्मा॑न्न्पृ॒ष्ट्ठे पृ॑थिॖव्व्याः सी॑द।
भाॖसान्तरि॑क्क्षॖमापृ॑णॖ ज्ज्योति॑षाॖ दिवॖमुत्त्त॑भानॖ तेज॑साॖ दिशॖऽउद्दृ॑ᳯह॥ (यजु० १७।७२)
(ॐ भूर्भुवः स्वः मार्जार्यै नमः मार्जारीम् आवाह्यामि स्थापयामि। भो मार्जारि इहागच्छ इह तिष्ठ॥५९॥)
तत्पश्चिमे कटपूतनायै
ॐ ॺा ते॑ रुद्द्र शिॖवा तॖनूरघोॖरापा॑पकाशिनी।
तया॑ नस्तॖन्न्वाॗ शन्त॑मयाॖ गिरि॑शन्ताॖभिचा॑कशीहि॥ (यजु० १६।२)
(ॐ भूर्भुवः स्वः कटपूतनायै नमः कटपूतनाम् आवाह्यामि स्थापयामि। भो कटपूतने इहागच्छ इह तिष्ठ॥६०॥)
तदुत्तरे अट्टाट्टहासायै
ॐ देवी॑ द्यावापृथिवी मॖखस्य॑ वामॖद्य शिरो॑ राद्ध्यासन्देवॖयज॑ने पृथिॖव्व्याः।
मॖखाय॑ त्त्वा मॖखस्य॑ त्त्वा शीॖर्ष्ष्णे॥ (यजु० ३७।३)
(ॐ भूर्भुवः स्वः अट्टाट्टहासायै नमः अट्टाट्टहासाम् आवाह्यामि स्थापयामि। भो अट्टाट्टहासे इहागच्छ इह तिष्ठ॥६१॥)
तदुत्तरे कामाक्ष्यै
ॐ इॖदँव्विष्ण्णु॒र्व्विच॑क्रमे त्र्त्रेॖधा निद॑धे पॖदम्।
समू॑ढमस्य पाᳬ॑ सु॒रे स्वाहा॑॥ (यजु० ५।१५)
(ॐ भूर्भुवः स्वः कामाक्ष्यै नमः कामाक्षीम् आवाहयामि स्थापयामि। भो कामाक्षि इहागच्छ इह तिष्ठ॥६२॥)
तत्पूर्वे मृगाक्ष्यै
ॐ व्वृष्ण्ण॑ऽऊॖर्म्मिर॑सि राष्ट्ट्रदा राॖष्ट्ट्रम्मे॑ देहिॖ स्वाहाॖ व्वृष्ण्ण॑ऽऊॖर्म्मिर॑सि राष्ट्ट्रदा राॖष्ट्ट्रमॖ मुष्म्मै॑ देहि व्वृषसेॖनो॒सि राष्ट्ट्रदा राॖष्ट्ट्रम्मे॑ देहिॖ स्वाहाॖ व्वृषसेॖनो॒सि राष्ट्ट्रदा राॖष्ट्ट्रमॖ मुष्म्मै॑ देह्यर्त्थेत॑ स्त्थ॥ (यजु० १०।२)
(ॐ भूर्भुवः स्वः मृगाक्ष्यै नमः मृगाक्षीम् आवाह्यामि स्थापयामि। भो मृगाक्षि इहागच्छ इह तिष्ठ॥६३॥)
तत्पूर्वे मृगलोचनायै
ॐ भायै॑ दार्व्वाहाॖरम्प्रॖभाया॑ऽ अग्ग्न्येॖधम्ब्रॖद्ध्नस्य॑ व्विॖष्ट्टपा॑याभिषेॖक्क्तारँ॒ व्वर्षि॑ष्ट्ठायॖ नाका॑य परिवेॖष्ट्टार॑न्देवलोॖकाय॑ पेशिॖतार॑म्मनुष्ष्यलोॖकाय॑ प्प्रकरिॖतारॖᳯ सर्व्वे॑ब्भ्यो लोॖकेब्भ्य॑ऽ उपसेॖक्क्तारॖमव॑ऽऋत्यै व्वॖधायो॑पमन्थिॖतारॖम्मेधा॑य व्वासः पल्प्पू॒लीम्प्र॑काॖमाय॑ रजयिॖत्र्त्रीम्॥ (यजु० ३०।१२)
(ॐ भूर्भुवः स्वः मृगलोचनायै नमः मृगलोचनाम् आवाह्यामि स्थापयामि। भो मृगलोचने इहागच्छ इह तिष्ठ॥६४॥)
ततः प्रतिष्ठापनम्
ॐ मनो॑ जू॒तिर्ज्जु॑षताॖमाज्ज्य॑स्यॖ बृहॖस्प्पति॑र्ॺ्ॺॖज्ज्ञमिॖमन्त॑नोॖत्त्वरि॑ष्ट्टँ ॺ्ॺॖज्ज्ञᳯ समिॖमन्द॑धातु॒।
व्विश्श्वे॑ देॖवास॑ऽइ॒ह मा॑दयन्ताॖमो३ म्प्रति॑ष्ट्ठ॥ (यजु० २।१३)
ॐ अस्यै प्राणाः प्रतिष्ठन्तु अस्यै प्राणाः क्षरन्तु च।
अस्यै देवत्वमर्चायै मामहेति च कश्चन॥
(ॐ भूर्भुवः स्वः श्रीमहाकाली महालक्ष्मी महासरस्वती पूर्वक गजाननादि चतुःषष्टियोगिन्यः सुप्रतिष्ठिता वरदा भवत॥ पुनर्हस्तेऽक्षतानादाय।)
आसनम्
ॐ वर्ष्मोऽस्मि समानानामुद्यतामिव सूर्ॺः।
इमन्तमभितिष्ठामि ॺो मा कश्चाभिदासति॥
ॐ पुरु॑षऽ एॖवेद ᳯ सर्व्वँ॒ॺ्ॺद्भू॒तँॺ्ॺच्च॑ भाॖव्व्यॖम्।
उॖतामृ॑तॖत्त्वस्येशा॑नोॖ ॺदन्ने॑नातिॖरोह॑ति॥ (यजु० ३१।२)
ॐ रम्यं सुशोभनं दिव्यं सर्वसौख्यकरं शुभम्।
आसनं च मया दत्तं गृहाण परमेश्वरी॥
(ॐ भूर्भुवः स्वः श्रीमहाकाली महालक्ष्मी महासरस्वती पूर्वक गजाननादि चतुःषष्टियोगिनीभ्यो नमः आसनार्थे अक्षतान् समर्पयामि॥)
पाद्यम्
ॐ एॖतावा॑नस्य महिॖमातोॖ ज्ज्यायाँ॑श्च्वॖ पूरु॑षः।
पादो॑ऽस्यॖ व्विश्श्वा॑ भू॒तानि॑ त्र्त्रिॖपाद॑स्याॖमृत॑न्दिॖवि॥ (यजु० ३१।३)
ॐ उष्णोदकं निर्मलं च सर्वसौगन्ध्यसंयुतम्।
पादप्रक्षालनार्थाय पाद्यं ते प्रतिगृह्यताम॥
(ॐ भूर्भुवः स्वः श्रीमहाकाली महालक्ष्मी महासरस्वती पूर्वक गजाननादि चतुःषष्टियोगिनीभ्यो नमः पादयोः पाद्यं समर्पयामि॥)
अर्घ्यम्
एकस्मिन्नर्घपात्रे गन्धाक्षतपुष्पसहितं जलं गृहीत्वा तत्र पूगीफलं हिरण्यञ्च प्रक्षिप्य हस्ते गृहीत्वा —
ॐ धाम॑न्तेॖ व्विश्श्वॖम्भुव॑नॖमधि॑ श्श्रिॖतमॖन्तः स॑मु॒द्द्रे हृॖद्यॗन्तरायु॑षि।
ॶपामनी॑के समिॖथे ॺऽआभृ॑तॖस्त्तम॑श्श्यामॖ मधु॑मन्तन्तऽऊॖर्म्मिम्॥ (यजु० १७।९९)
ॐ त्र्त्रिॖपादू॒र्ध्वऽउदैॖत्त्पूरु॑षॖः पादो॑ऽस्येॖहाभ॑वॖत्त्पुनः॑।
ततॊॖ व्विष्ष्वॖङ्ङ्व्यॖक्क्रामत्त्सा शनानशॖनेऽॶभि॥ (यजु० ३१।४)
ॐ रौम्यपात्रे स्थिते तोयं गन्धपुष्पफलान्वितम्।
सहिरण्यं ददाम्यर्घ्यै गृहाण परमेश्वरी॥
(ॐ भूर्भुवः स्वः श्रीमहाकाली महालक्ष्मी महासरस्वती पूर्वक गजाननादि चतुःषष्टियोगिनीभ्यो नमः हस्तयोर्घ्यम् समर्पयामि॥)
आचमनीयम्
ॐ इॖमम्मे॑ व्वरुण श्र्श्रु॒धी हव॑मॖद्द्या च॑ मृडय।
त्वाम॑वॖस्युराच॑के॥ (यजु० २१।१)
ॐ ततॊ॑ व्विॖराड॑जायत व्विॖराजोॖऽअधिॖ पूरु॑षः।
स जाॖतोऽअत्त्य॑रिच्च्यत पॖश्च्चाद्भूमिॖमथो॑ पु॒रः॥ (यजु० ३१।५)
ॐ सर्वतीर्थसमायुक्तं सुगन्धि निर्मलं जलं।
आचम्यार्थ मया दत्तं गृहाण परमेश्वर॥
(ॐ भूर्भुवः स्वः श्रीमहाकाली महालक्ष्मी महासरस्वती पूर्वक गजाननादि चतुःषष्टियोगिनीभ्यो नमः आचमनीयं समर्पयामि॥)
स्न्नानम्
ॐ तस्म्मा॑द्यॖज्ज्ञात्त्स॑र्व्वॖहुतॖः सम्भृ॑तम्पृषदाॖज्ज्यम्।
पॖशूँस्ताँश्च॑क्क्रे व्वायॖव्व्याॖनारॖण्ण्या ग्ग्राॖम्म्याश्च्च ॺॆ॥ (यजु० ३१।६)
ॐ स्नानार्थं तव देवेशि पवित्रं तोयमुत्तम्।
तीर्थेभ्यश्च समानीतं गृहाण परमेश्वरी॥
(ॐ भूर्भुवः स्वः श्रीमहाकाली महालक्ष्मी महासरस्वती पूर्वक गजाननादि चतुःषष्टियोगिनीभ्यो नमः स्न्नानम् समर्पयामि॥)
पञ्चामृतस्न्नानम्
ॐ पञ्च॑ नॖद्यॖः सर॑स्वतीॖमपि॑यन्तिॖ सस्त्रो॑तसः॑।
सर॑स्वतीॖ तु प॑ञ्चॖधा सो देॖशेऽभ॑वत्त्सॖरित्॥ (यजु० ३४।११)
ॐ पञ्चामृतं मयाऽऽनीतं पयो दधि घृतं मधु।
शर्करा च समायुक्तं स्नानार्थं प्रतिगृह्यताम॥
(ॐ भूर्भुवः स्वः श्रीमहाकाली महालक्ष्मी महासरस्वती पूर्वक गजाननादि चतुःषष्टियोगिनीभ्यो नमः पञ्चामृतस्न्नानं समर्पयामि॥)
शुद्धोदकस्न्नानम्
ॐ शु॒द्धवा॑लः सॖर्व्वशु॑द्धवालो मणिॖवालॖस्तऽआ॑श्श्विॖनाः श्येतः॑ श्येताॖक्क्षोॖरुॖणस्ते रुॖद्राय॑ पशु॒पत॑ये कॖर्ण्णा ॺाॖमाऽअ॑वलिॖप्पता रौॖद्रा नभो॑रूपाः पार्ज्जॖन्न्याः॥ (यजु० २४।३)
ॐ गङ्गे च यमुने चैव गोदावरि सरस्वती।
नर्मदे सिन्धुकावेरी स्नानार्थं प्रतिगृह्यताम्॥
(ॐ भूर्भुवः स्वः श्रीमहाकाली महालक्ष्मी महासरस्वती पूर्वक गजाननादि चतुःषष्टियोगिनीभ्यो नमः शुद्धोदकस्न्नानं समर्पयामि॥)
वस्त्रम्
ॐ सुजा॑तोॖ ज्ज्योति॑षा सॖह शर्म्मॖ व्वरू॑थॖमा स॑दॖत्त्स्वॖः।
व्वासो॑ऽ अग्ग्ने व्विॖश्श्वरूपॖ ᳯ॒ सँव्व्य॑यस्व व्विभावसो॥ (यजु० ११।४०)
ॐ सर्वभूषाधिके सौम्ये लोक लज्जानिवारिणे।
मयोप पादिते तुभ्यं वाससी प्रतिगृह्यताम॥
(ॐ भूर्भुवः स्वः श्रीमहाकाली महालक्ष्मी महासरस्वती पूर्वक गजाननादि चतुःषष्टियोगिनीभ्यो नमः वस्त्रं समर्पयामि। वस्त्रान्ते आचमनीयं समर्पयामि॥)
उपवस्त्रम्
ॐ युवा सुवासाः परिवीत आगात् स उ श्रेयान् भवति जायमानः।
तं धीरासः कवय उन्नयन्ति स्वाध्यो३ मनसा देवयन्तः॥ (ऋग्० ३।८।४)
ॐ यस्याभावेन शास्त्रोक्तं कर्म किञ्चिन्न सिध्यति।
उपवस्त्रं प्रयच्छामि सर्वकर्मोपकारकम्॥
(ॐ भूर्भुवः स्वः श्रीमहाकाली महालक्ष्मी महासरस्वती पूर्वक गजाननादि चतुःषष्टियोगिनीभ्यो नमः वस्त्रोपवस्त्रं समर्पयामि। वस्त्रोपवस्त्रान्ते आचमनीयं समर्पयामि॥)
गन्धम् (कुङ्कुमम्)
ॐ त्वाङ्ग॑न्धॖर्व्वाऽ अ॑खनॖँस्त्वामिन्द्रॖस्त्त्वाम्बृहॖस्प्पतिः॑।
त्वामो॑षधेॖ सोमोॖ राजा॑ व्विॖद्वान्न्यक्ष्मा॑दमुच्च्यत॥ (यजु० १२।९८)
ॐ गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीं।
ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम्॥
(ॐ भूर्भुवः स्वः श्रीमहाकाली महालक्ष्मी महासरस्वती पूर्वक गजाननादि चतुःषष्टियोगिनीभ्यो नमः गन्धम् कुङ्कुमम् समर्पयामि॥)
अक्षतान्
ॐ अक्क्षॖन्नमी॑मदन्तॖ ह्यव॑ प्प्रिॖयाऽअ॑धूषत।
अस्तो॑षतॖ स्वभा॑नवोॖ व्विप्प्राॖ नवि॑ष्ट्ठया मॖती ॺोजाॖ न्न्विॖन्द्र तेॖ हरी॑॥ (यजु० ३।५१)
ॐ अक्षताश्च सुरश्रेष्ठ कुङ्कुमाक्ताः सुशोभिताः।
मया निवेदिता भक्त्या गृहाण परमेश्वरी॥
(ॐ भूर्भुवः स्वः श्रीमहाकाली महालक्ष्मी महासरस्वती पूर्वक गजाननादि चतुःषष्टियोगिनीभ्यो नमः अक्षतान्समर्पयामि॥)
पुष्पाणि
ॐ ओष॑धीॖः प्प्रति॑मोदद्ध्वॖम्पुष्प्प॑वतीः प्प्रॖसूव॑रीः।
अश्श्वा॑ऽइव सॖज्जित्त्व॑रीर्व्वीॖरुधः॑ पारयिॖष्ण्ण्वॖः॥ (यजु० १२।७७)
ॐ माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो।
मयाहृतानि (मयाऽऽनीतानि) पुष्पाणि पूजार्थं प्रतिगृह्यताम्॥
(ॐ भूर्भुवः स्वः श्रीमहाकाली महालक्ष्मी महासरस्वती पूर्वक गजाननादि चतुःषष्टियोगिनीभ्यो नमः पुष्पाणि समर्पयामि॥)
पुष्पमालाम्
द्याम्मा ले॑खीरॖन्तरि॑क्क्षम्मा हि॑ᳯसीः पृथिॖव्व्या सम्भ॑व।
ॶयᳯ हि त्त्वाॖ स्वधि॑तिॖस्तेति॑जानः प्प्रणिॖनाय॑ महॖते सौभ॑गाय।
अतॖस्त्त्वन्दॆ॑व व्वनस्प्पते शॖतव॑ल्शोॖ व्विरो॑ह सॖहस्र॑वल्शा व्वि वॖयᳯ रुहेम॥ (यजु० ५।४३)
(ॐ भूर्भुवः स्वः श्रीमहाकाली महालक्ष्मी महासरस्वती पूर्वक गजाननादि चतुःषष्टियोगिनीभ्यो नमः पुष्पमालाम् समर्पयामि॥)
दूर्वाङ्कुराः
ॐ काण्डा॑त्त्काण्डात्त्प्रॖरोह॑न्तीॖ परु॑षः परुषॖस्प्परि॑।
एॖवा नो॑ दूर्व्वेॖ प्प्रत॑नु सॖहस्त्रे॑ण शॖतेन॑ च॥ (यजु० १३।२०)
ॐ दूर्वाङ्कुरान् सुहरितानमृतान् मङ्गलप्रदान्।
आनीतांस्तव पूजार्थं गृहाण परमेश्वरी॥
(ॐ भूर्भुवः स्वः श्रीमहाकाली महालक्ष्मी महासरस्वती पूर्वक गजाननादि चतुःषष्टियोगिनीभ्यो नमः दूर्वाङ्कुरान् समर्पयामि॥)
सिन्दूरम्
ॐ सिन्धो॑रिव प्प्राद्ध्वॖने शू॑घॖनासोॖ व्वात॑प्प्रमियः पतयन्न्ति ॺॖह्वाः।
घृ॒तस्यॖ धारा॑ऽअरुॖषो न व्वाॖजी काष्ठ्ठा॑ भिॖन्दन्नू॒र्म्मिभिॖः पिन्न्व॑मानः॥ (यजु० १७।९५)
ॐ सिन्दूरं शोभनं रक्तं सौभाग्यं सुखवर्धनम्।
शुभदं कामदं चैव सिन्दूरं प्रतिगृह्यताम॥
(ॐ भूर्भुवः स्वः श्रीमहाकाली महालक्ष्मी महासरस्वती पूर्वक गजाननादि चतुःषष्टियोगिनीभ्यो नमः सिन्दूरं समर्पयामि॥)
सौभाग्यपरिमलद्रव्याणि
ॐ अहि॑रिव भोॖगैः पर्ॺ्ॺे॑ति बाॖहुञ्ज्याया॑ हेॖतिम्प॑रिॖबाध॑मानः।
हॖस्तॖग्घ्नो व्विश्श्ववा॑ व्वॖयुना॑नि व्विॖद्वान्न्पुमाॖन्न्पुमा॑ᳬ सॖम्परि॑पातु व्विॖश्वतः॑॥ (यजु० २९।५१)
ॐ अबीरं च गुलालञ्च चोवा चन्दनमेव च।
अबीरेणार्चितो देवि ! अतः शान्ति प्रयच्छ मे॥
(ॐ भूर्भुवः स्वः श्रीमहाकाली महालक्ष्मी महासरस्वती पूर्वक गजाननादि चतुःषष्टियोगिनीभ्यो नमः सौभाग्यपरिमलद्रव्याणि समर्पयामि॥)
सुगन्धित्द्रव्यम्
ॐ त्र्य॑म्बकँॺ्ॺजामहे सुगॖन्धिम्पु॑ष्ट्टिॖवर्द्ध॑नम्।
उॖर्व्वाॖरुॖकमि॑वॖ बन्ध॑नान्न्मृ॒त्त्योर्म्मु॑क्क्षीयॖ मामृता॑त्॥ (यजु० ३।६०)
ॐ चम्पकाशोकवकुल्मालतीमोगरादिभिः।
वासितं स्निग्धाहेतु तैलं चारु प्रतिगृह्यताम्॥
(ॐ भूर्भुवः स्वः श्रीमहाकाली महालक्ष्मी महासरस्वती पूर्वक गजाननादि चतुःषष्टियोगिनीभ्यो नमः सुगन्धिद्रव्यम् समर्पयामि॥)
आभूषणम्
ॐ हिर॑ण्ण्यरूपाऽउॖषसो॑ व्विरोॖकऽउॖभावि॑न्द्राॖ उदि॑थः॒ सूर्ॺ्ॺ॑श्च।
आरो॑हतँव्वरूण मित्र्त्रॖ गर्त्तॖन्तत॑श्चक्क्षाथाॖमदि॑तिॖन्दिति॑ञ्च मिॖत्र्त्रोॖसिॖ व्वरु॑णोसि॥ (यजु० १०।१६)
ॐ स्वॖर्ण्ण धॖर्म्मः स्वाहाॖ स्वॗर्ण्णार्क्कः स्वाहाॖ स्वॗर्ण्ण शु॒क्क्रः स्वाहाॖ स्वॗर्ण्ण ज्ज्योतिॖः स्वाहाॖ स्वॗर्ण्ण सूर्ॺ्ॺः स्वाहा॑॥ (यजु० १८।५०)
ॐ अलङ्कारान् महादिव्यान् नानारत्न-विनिर्मितान्।
गृहाण देवदेवेशि ! प्रसीद परमेश्वरि॥
(ॐ भूर्भुवः स्वः श्रीमहाकाली महालक्ष्मी महासरस्वती पूर्वक गजाननादि चतुःषष्टियोगिनीभ्यो नमः आभूषणम् समर्पयामि॥)
धूपम्
ॐ धूर॑सिॖ धूर्व्वॖ धूर्व्व॑न्तॖन्धूर्व्वॖ तँॺ्ॺोॖऽस्म्मामान्धूर्व्व॑तिॖ तन्धू॑र्व्वॖ ॺँव्वॖयन्धूर्व्वा॑मः।
देॖवाना॑मसिॖ व्वह्नि॑तमॖᳯ॒ सस्न्नि॑तमम् पप्प्रि॑तमॖञ्जुष्ट्ट॑तमन् देवॖहूत॑मम्॥ (यजु० १।८)
ॐ अश्श्व॑स्य त्त्वाॖ व्वृष्णः॑ शॖक्क्ना धू॑पयामि देवॖयज॑ने पृथिॖव्व्याः।
मॖखाय॑ त्त्वा मॖखस्य॑ त्त्वा शीॖर्ष्ण्णे॥ (यजु० ३७।९)
ॐ वनस्पतिरसोद्भूतो गन्धाढ्यो गन्ध उत्तमः।
आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम्॥
(ॐ भूर्भुवः स्वः श्रीमहाकाली महालक्ष्मी महासरस्वती पूर्वक गजाननादि चतुःषष्टियोगिनीभ्यो नमः धूपमाघ्रापयामि॥)
दीपम्
ॐ ॶग्ग्निर्ज्ज्योतिॖर्ज्ज्योति॑रॖग्ग्निः स्वाहाॖ सूर्ॺ्ॺोॖ ज्ज्योतिॖर्ज्ज्योतिॖः सूर्ॺ्ॺॖः स्वाहा॑।
ॶग्ग्निर्व्वर्च्चोॖ ज्ज्योतिॖर्व्वर्च्चॖः स्वाहाॖ सूर्ॺ्ॺो व्वर्च्चोॖ ज्ज्योतिॖर्व्वर्च्चॖः स्वाहा॑। ज्योतिॖः सूर्ॺ्ॺॖः सूर्ॺ्ॺो ज्योतिॖः स्वाहा॑॥ (यजु० ३।९)
ॐ चॖन्द्रमाॖमन॑सोजाॖतश्श्चक्षोॖः सूर्ॺ्ॺो॑ऽअजायत।
श्रोत्रा॑द्वायुश्श्च॑प्राॖणश्श्चॖमुखा॑दॖग्निर॑जायत॥ (यजु० ३१।१२)
ॐ साज्यं च वर्तिसंयुक्तं वह्निना योजितं मया।
दीपं गृहाण देवेशि त्रैलौक्यतिमिरापहम्॥
(ॐ भूर्भुवः स्वः श्रीमहाकाली महालक्ष्मी महासरस्वती पूर्वक गजाननादि चतुःषष्टियोगिनीभ्यो नमः दीपं दर्शयामि॥ ‘ॐ हृषीकेशाय नमः’ इति मन्त्रेण हस्तौप्रक्षाल्य)
नैवेद्यम्
ॐ अन्न॑पॖतेन्न॑स्य नो देह्ॺनमीॖवस्य॑ शु॒ष्म्मिणः॑।
प्रप्प्र॑ दाॖतार॑न्तारिषॖऽ ऊर्ज्ज॑न्नो धेहि द्विॖपदेॖ चतु॑ष्पदे॥ (यजु० ११।८३)
ॐ शर्कराखण्डखाद्यानि दधिक्षीरघृतानि च।
आहारं भक्ष्यभोज्यं च नैवेद्यं प्रतिगृह्यताम्॥
(ॐ भूर्भुवः स्वः श्रीमहाकाली महालक्ष्मी महासरस्वती पूर्वक गजाननादि चतुःषष्टियोगिनीभ्यो नमः नैवेद्यम् निवेदयामि॥)
नैवेद्यं जलेन संप्रोक्ष्य धेन्वाऽमृतीकृत्य वामहस्ते पद्माकारं कृत्वा दक्षिणहस्तेन ग्रासमुद्राः मदर्शयेत्॥
ॐ प्राणाय स्वाहा। ॐ अपानाय स्वाहा। ॐ व्यानाय स्वाहा। ॐ उदानाय स्वाहा। ॐ समानाय स्वाहा॥
नैवेद्यमध्ये पानीयं समर्पयामि॥ उत्तरापोशनं समर्पयामि॥ हस्तप्रक्षालनं समर्पयामि॥ मुखप्रक्षालनं समर्पयामि॥
करोद्वर्तनम्
ॐ ॶᳯ॒शुना॑ तेऽॶᳯ॒शुः पृ॑च्च्यताॖम्परु॑षाॖ परुः॑।
गॖन्न्धस्तेॖ सोम॑मवतु॒ मदा॑यॖ रसोॖऽअच्च्यु॑तः॥ (यजु० २०।२७)
ॐ सिॖञ्चतिॖ परि॑षिञ्चॖन्त्युत्त्सि॑ञ्चन्ति पुनन्ति॑ च।
सुरा॑यै बॖब्भ्व्रै मदे॑ किॖन्त्वो व्व॑दति किॖन्त्वः॥ (यजु० २०।२८)
ॐ चन्दनं मलयोद्भुतं कस्तूर्यादिसमन्वितम्।
करोद्वर्तनकं देवी गृहाण परमेश्वरी॥
(ॐ भूर्भुवः स्वः श्रीमहाकाली महालक्ष्मी महासरस्वती पूर्वक गजाननादि चतुःषष्टियोगिनीभ्यो नमः करोद्वर्तनार्थे गन्धं समर्पयामि॥)
ऋतुफलानि-अखण्ड ऋतुफलम्
ॐ ॺाः फॖलिनीॖर्ॺ्ॺाऽ अ॑फॖलाऽ अ॑पु॒ष्प्पा ॺाश्च॑ पु॒ष्प्पिणीः॑।
बृहॖस्प्पति॑प्प्रसूताॖस्ता नो॑ मुञ्चॖन्त्वᳯ ह॑सः॥ (यजु० १२।८९)
ॐ इदं फलं मया देवी स्थापितं पुरतस्तव।
तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि॥
(ॐ भूर्भुवः स्वः श्रीमहाकाली महालक्ष्मी महासरस्वती पूर्वक गजाननादि चतुःषष्टियोगिनीभ्यो नमः ऋतुफलानि अखण्ड ऋतुफलानि समर्पयामि। श्रीफलान्ते आचमनीयं जलं समर्पयामि॥)
ताम्बूलम्
उॖत स्म्मा॑स्यॖ द्रव॑तस्त्तुरण्ण्यॖतः पॖर्ण्णन्न वेरनु॑वाति प्प्रगॖर्द्धिनः॑।
श्येॖनस्ये॑वॖ द्ध्रज॑तोऽअङ्कॖसम्परि॑ दधिॖक्क्राव्ण्णः॑ सॖहोर्ज्जा तरि॑त्र्त्रतॖः स्वाहा॑॥ (यजु० ९।१५)
ॐ ॺत्त्पुरु॑षेण हॖविषा॑ देॖवा ॺॖज्ज्ञमत॑न्न्वत।
व्वॖसॖन्तोॖऽस्यासीॖदाज्ज्य॑ङ्ग्रीॖष्म्म ऽइॖद्ध्मः शॖरद्धॖविः॥ (यजु० ३१।१४)
ॐ पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम्।
एलादिचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम्॥
(ॐ भूर्भुवः स्वः श्रीमहाकाली महालक्ष्मी महासरस्वती पूर्वक गजाननादि चतुःषष्टियोगिनीभ्यो ताम्बूलम् समर्पयामि॥)
दक्षिणाम्
ॐ हिॖरॖण्ण्यॖगॖर्ब्भः सम॑वर्त्तॖताग्ग्ग्रे॑ भू॒तस्य॑ जाॖतः पतिॖरेक॑ऽआसीत्।
स दा॑धार पृथिॖवीन्द्या मु॒ते माङ्कस्म्मै॑ देॖवाय॑ हॖविषा॑ व्विधेम॥ (यजु० १३।४)
ॐ ॺद्दॖत्तँ ॺ्ॺत्त्प॑राॖदानॖँ ॺ्ॺत्त्पू॒र्त्तँ ॺ्ॺाश्चॖ दक्क्षि॑णाः।
तदॖग्न्निर्व्वै॑श्श्वकर्म्मॖणः स्व॑र्द्देॖवेषु॑ नो दधत्॥ (यजु० १८।६४)
ॐ हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः।
अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे॥
(ॐ भूर्भुवः स्वः श्रीमहाकाली महालक्ष्मी महासरस्वती पूर्वक गजाननादि चतुःषष्टियोगिनीभ्यो नमः कृतायाः पूजायाः सा द्गुण्यार्थे द्रव्यदक्षिणां समर्पयामि॥)
नीराजनम्-कर्पूरारार्तिक्यम्
एकस्मिन्पात्रे कर्पूरं प्रज्वाल्य गन्धाक्षतपुष्पैः संपूज्य आरार्तिक्यं कुर्यात्–
ॐ इॖदᳯ हॖविः प्प्रॖजन॑नम्मे ऽअस्तु॒ दश॑वीरॖ ᳯ॒ सर्व्व॑गणᳬ॑ स्वॖस्त्तये॑।
आॖत्क्मॖसनि॑ प्प्रजाॖसनि॑ पशु॒सनि॑ लोकॖसन्न्य॑भयॖसनि॑।
ॶग्ग्निः प्प्रॖजाम्ब॑हु॒लाम्मे॑ करोॖत्त्वन्नॖम्पयोॖ रेतो॑ऽॶस्म्मासु॑ धत्त॥ (यजु० १९।४८)
ॐ ॺे दे॑वासो दिॖव्व्येका॑दशॖ स्त्थ पृ॑थिॖव्व्यामद्ध्येका॑दशॖ स्त्थ।
ॶप्प्सु॒क्क्षितो॑ महिॖनैका॑दशॖ स्त्थ ते दे॑वासो ॺॖज्ज्ञमिॖमञ्जु॑षद्ध्वम्॥ (यजु० ७।१९)
ॐ आ रा॑त्र्त्रिॖ पार्त्थि॑वॖ ᳯ॒ रजः॑ पिॖतुर॑प्प्रायिॖ धाम॑भिः।
दिॖवः सदा॑ᳬ॑सि बृहॖती व्विति॑ष्ठसॖऽआ त्त्वेॖषँव्व॑र्त्त॑तेॖ तमः॑॥ (यजु० ३४।३२)
ॐ ॶग्ग्निर्द्देॖवताॖ व्वातो॑ देॖवताॖ सूर्ॺ्ॺो॑ देॖवता॑ चॖन्द्रमा॑ देॖवताॖ व्वस॑वो देॖवता॑ रुॖद्द्रा देॖवता॑ऽऽदिॖत्त्या देॖवता॑ मॖरुतो॑ देॖवताॖ विश्श्वे॑देॖवा देॖवताॖ बृहॖस्प्पति॑र्द्देॖवतेन्द्रो॑ देॖवताॖ व्वरु॑णो देॖवता॑॥ (यजु० १४।२०)
कदलीगर्भसम्भूतं कर्पूरं तु प्रदीपितम्।
आरार्तिकमहं कुर्वे पश्य मे वरदो भव॥
(ॐ भूर्भुवः स्वः श्रीमहाकाली महालक्ष्मी महासरस्वती पूर्वक गजाननादि चतुःषष्टियोगिनीभ्यो नमः आरातिक्यं समर्पयामि॥ जलेन प्रदक्षिणां समर्पयामि॥ पुष्पैर्देववन्दनम्॥ हस्तेन् आत्मवन्दनं कृत्वा हस्तौप्रक्षाल्य॥)
मन्त्रपुष्पाञ्जलिम्
ॐ ॺॖज्ज्ञेन॑ ॺॖज्ज्ञम॑यजन्त देॖवास्त्तानिॖ धर्म्मा॑॑णि प्प्रथॖमान्न्या॑सन्।
ते हॖ नाक॑म्महिॖमानः॑ सचन्तॖ ॺत्र्त्रॖ पूर्व्वे॑ साॖद्ध्याः सन्ति॑ देॖवाः॥ (यजु० ३१।१६)
ॐ सम॑क्ख्ये देॖव्व्या धिॖया सन्दक्क्षि॑णयोॖरुच॑क्क्षसा।
मा मॖऽआयुः॒ प्प्रमो॑षीॖर्म्मो॑ऽॶहन्तव॑ व्वीॖरँव्वि॑देयॖ तव॑ देवि सॖन्दृशि॑॥ (यजु० ४।२३)
ॐ नानासुगन्धिपुष्पाणि यथाकालोद्भवानि च।
पुष्पाञ्जलिर्मया दत्तो गृहाण परमेश्वरी॥
(ॐ भूर्भुवः स्वः श्रीमहाकाली महालक्ष्मी महासरस्वती पूर्वक गजाननादि चतुःषष्टियोगिनीभ्यो नमः मन्त्रपुष्पाञ्जलिं समर्पयामि॥)
प्रदक्षिणाम्
ॐ ॺे तीॖर्त्थानि॑ प्प्रॖचर॑न्ति सृ॒काह॑स्ता निषॖङ्गिणैः॑।
तेषा॑ᳬ सहस्त्रयोजॖनेवॖ धन्न्वा॑नि तन्न्मसि॥ (यजु० १६।६१)
ॐ यानि कानि च पापानि जन्मान्तरकृतानि च।
तानि सर्वाणि नश्यन्तु प्रदक्षिणपदे पदे॥
(ॐ भूर्भुवः स्वः श्रीमहाकाली महालक्ष्मी महासरस्वती पूर्वक गजाननादि चतुःषष्टियोगिनीभ्यो नमः प्रदक्षिणां समर्पयामि॥)
विशेषार्घ्यम्
एकस्मिन्पात्रे जलं गन्धाक्षतपुष्पाणि पूगीफलं हिरण्यञ्च प्रक्षिप्य तदुपरि नारिकेलादिकं निधाय हस्तयोर्गृहीत्वा
इदं फलं मया देवि स्थापितं पुरतस्तव।
तेन मे सुफलावाप्तिर्भवेज्जन्मनि जन्मनि॥
रूपं देहि जयं देहि भाग्यं भगवति देहि मे।
पुत्रान्देहि धनं देहि सर्वान्कामाँश्च देहि मे॥
(ॐ भूर्भुवः स्वः श्रीमहाकाली महालक्ष्मी महासरस्वती पूर्वक गजाननादि चतुःषष्टियोगिनीभ्यो नमः विशेषार्घ्यम् समर्पयामि॥)
ततः प्रार्थयेत्
या माया मधु-कैटभ-प्रमथनी,
या माहिषोन् मूलनी,
या धूम्रेक्षण-चण्ड-मुण्ड-दलनी,
या रक्त-बीजाशनी।
शक्तिः शुम्भ-निशुम्भ-दैत्य-मथनी,
या सिद्धि-लक्ष्मीः परा,
सा देवी नव-कोटि-मूर्ति-सहिता,
मां पातु विश्वेश्वरी॥
ॐ नमो देव्यै महादेव्यै शिवायै सततं नमः।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम्॥
रौद्रायै नमो नित्यायै गौर्ये धात्र्यै नमो नमः।
ज्योत्स्नायै चेन्दुरूपिण्यै शिवायै सततं नमः॥
कल्याण्यै प्रणतां वृद्धचे सिद्धये कूर्म्यै नमो नमः।
नैऋत्यै भभृतां लक्ष्म्यै सर्वाण्यै ते नमो नमः॥
दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै।
ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः॥
अतिसौम्यातिरुद्रायै नतास्तस्यै नमो नमः।
नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः॥
यदङ्गत्वेन भो देव्यः पूजिता विधिमार्गतः।
कुर्वन्तु कार्यमखिलं निर्विघ्नेन ऋतूद्भवम्॥
(ॐ भूर्भुवः स्वः श्रीमहाकाली महालक्ष्मी महासरस्वती पूर्वक गजाननादि चतुःषष्टियोगिनीभ्यो नमः प्रार्थनापूर्वकं नमस्कारान् समर्पयामि॥)
क्षमा प्रार्थना
आवाहनम् न जानामि, न जानामि तवार्चनम्।
पूजां चैव न जानामि, क्षमस्व परमेश्वी॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वी।
यत्पूजितम् मयादेवि परिपूर्णम् तदस्तु मे॥
यदक्षरं पदभ्रष्टं मात्राहीनं च यद्भवेत्।
तत्सर्वं क्षम्यताम् देवि प्रसीद परमेश्वरी॥
अपराध सहस्त्राणि क्रियन्तेऽहर्निशं मया।
दासोऽयमिति मां मत्वाक्षमस्व परमेश्वरी॥
पूजानिवेदनम् (समर्पणम्)
हस्ते जलं गृहीत्वा – अनेन यथाज्ञानेन यथाशक्ति ध्यान् आवाहनादि षोडशोपचारैः अन्योपचारैश्च कृतेन पूजनेन ॐ भूर्भुवः स्वः श्रीमहाकाली महालक्ष्मी महासरस्वती पूर्वक गजाननादि चतुःषष्टियोगिन्यः प्रीयन्तां न मम्॥
अन्ते – आसनाद्यः जलं निक्षिप्य ललाटे मृदा तिलकं धारयेत्।
यथा – यस्मिन् स्थाने कर्म कृत्वा शक्रो हरति तत्कर्मम्। तन्मृदा लक्ष्म कुर्वीत ललाटे तिलकाकृति॥
॥ इति योगिनीदेवतापूजनप्रयोगः समाप्तः ॥
॥ श्रीरस्तु ॥
༺❀༻
श्री हरि हरात्मक देवें सदा, मुद मंगलमय हर्ष।
सुखी रहे परिवार संग, अपना भारतवर्ष॥
༺༻❀༺༻
┉ संकलनकर्ता ┉
श्रद्धेय पंडित विश्वनाथ द्विवेदी
‘सनातनी ज्योतिर्विद’
संस्थापक, अध्यक्ष एवं प्रबंध निदेशक
(‘हरि हर हरात्मक’ ज्योतिष)
संपर्क सूत्र – 07089434899
༺༻❀꧁○꧂❀༺༻