अथ आचार्यादिपूजनपूर्वकप्रार्थनाप्रयोगः

॥ अथ आचार्यादिपूजनपूर्वकप्रार्थनाप्रयोगः ॥

ततो यजमानो वृतान् ब्राह्मणान यथाशक्ति गन्धादिभिः पुष्पमालाभिश्च समभ्यर्च्य हस्ते कुसुमाञ्जलिम् आदाय आचार्यादीनां सर्वेषाम् ऋत्विजां प्रार्थनां कुर्यात् यथा

ब्राह्मणाः सन्तु मे शस्ताः पापात् पान्तु समाहिताः॥
देवानाञ्चैव दातारः पातारः सर्वदेहिनाम्॥१॥
जपयज्ञैस्तथा होमैर्दानैश्च विविधैः पुनः॥
देवानाञ्च ऋषीणाञ्च सृप्त्यर्थं याजकाः कृताः॥२॥
येषां देहे स्थिता वेदाः पावयन्ति जगत्रयम्॥
रक्षन्तु सततं ते मां गायत्रीयागसंस्थिताः॥३॥
ब्राह्मणा जङ्गमं तीर्थं त्रिषु लोकेषु विश्रुतम्॥
येषां वाक्योदकेनैव शुद्ध्यन्ति मलिनो जनाः॥४॥
पावनाः सर्ववर्णानां ब्राह्मणा ब्रह्मरूपिणः॥
सर्व कर्मरता नित्यं वेदशास्त्रार्थकोविदाः॥५॥
श्रोत्रियाः सत्यवाचश्च गायत्रीध्यानतत्पराः॥
यद् वाक्यामृत संसिक्ता ऋद्धिं यान्ति नरद्रुमाः॥६॥
अङ्गीकुर्वन्तु कर्मैतत् कल्पद्रुमसमाशिषः॥
यथोक्त नियमैर्युक्ता मन्त्रार्थे स्थिरबुद्धयः॥७॥
यत् कृपालोचनात्सर्वा ऋद्धयो वृद्धिमाप्नुयुः॥
गायत्रीयाग संपूज्याः सन्तु मे नियमान्विताः॥८॥
अक्रोधनाः शौचपराः सततं ब्रह्मचारिणः॥
गायत्री ध्यान सन्ध्येयाः प्रसन्नमनसः सदा॥९॥
अदुष्टभाषणाः सन्तु मा सन्तु परनिन्दकाः॥
ममापि नियमा ह्येते भवन्तु भवतामपि॥१०॥
ऋत्विजश्च यथापूर्वं शक्रादीनां मखेऽभवन्॥
यूयं तथा मे भवत ऋत्विजो द्विजसत्तमाः॥११॥
गायत्रीयागनिष्पत्तौ भवन्तोऽभ्यर्चिता मया॥
सुप्रसन्नैः प्रकर्तव्यं कर्मेदं विधिपूर्वकम्॥१२॥

(इति संप्रार्थ्य तान् ब्रूयाद् यथावत् क्रियतां विधिः)

ततः कुसुमाञ्जलिम् आचार्याद् ऋत्विजां समीपे निधाय करसंपुटौ कृत्वा तान् प्रणमेत्। ततो आचार्य यजमानभाले तिलकं कृत्वा।

ॐ स्वॖस्ति नॖऽइन्द्रो॑ व्वृ॒द्धश्र्श्र॑वाः स्वॖस्ति नः॑ पू॒षा व्विॖश्श्ववे॑दाः।
स्वॖस्ति नॖस्त्तार्क्क्ष्योॖऽअरि॑ष्ट्टनेमिः स्वॖस्ति नोॖ बृहॖस्प्पति॑र्द्दधातु॥ (यजु० २५।१९)

सर्वे आचार्यादय ऋत्विजः मन्त्रान्पठित्वा आशिषो दद्युः।

ॐ व्विश्श्वा॑नि देव सवितर्द्दुरिॖतानिॖ परा॑सुव।
ॺद्भॖद्रन्तन्नॖऽआसु॑व॥ (यजु० ३०।३)

॥ इति आचार्यादिपूजनपूर्वकप्रार्थनाप्रयोगः ॥

॥ श्रीरस्तु ॥
༺❀༻

श्री हरि हरात्मक देवें सदा, मुद मंगलमय हर्ष।
सुखी रहे परिवार संग, अपना भारतवर्ष॥
༺༻❀༺༻

संकलनकर्ता
श्रद्धेय पंडित विश्‍वनाथ द्विवेदी
‘सनातनी ज्योतिर्विद’
संस्थापक, अध्यक्ष एवं प्रबंध निदेशक
(‘हरि हर हरात्मक’ ज्योतिष)
संपर्क सूत्र – 07089434899
༺༻❀꧁○꧂❀༺༻

Copyright © 2025 Hari Har Haratmak. All rights reserved.

"enter" 2026 | Powered By SpiceThemes

error: Content is protected !!