अथ आचार्यादीनां मधुपर्कार्चनप्रयोगः
॥ अथ आचार्यादीनां मधुपर्कार्चनप्रयोगः ॥
यजमानो वृतानां ब्राह्मणानां मधुपर्कार्चनार्थं स्वस्य दक्षिणभागे अर्च्यसङ्ख्याकानि युग्मविष्टरादीनि गन्धाक्षतपुष्पमाला युग्मोपवीतोष्णीषालङ्करण छत्रोपानत्कमण्डलु कांस्यपात्र प्रभृति वरण द्रव्याणि स्थापयित्वा स्वयमुदङ्गमुख एव प्राङ्गमुखोपविष्टानां सर्वेषाम् आचार्याद्यृत्विजां मधुपर्कार्चनमाचरेत्। तद्यथा। यजमानः आचमनं प्राणायामञ्च विधाय। हस्ते जलं गृहीत्वा संकल्पं कुर्यात्। यथा।
अस्मिन्सग्रहमख अमुक कर्मणि वृतानाम् आचार्यादीनां सर्वेषाम् ऋत्विजां मधुपर्कार्चनं करिष्ये॥
इति संकल्प्य ततो यजमानः करसंपुटौ कृत्वा वदेत्
‘साधु भवन्तः आसताम्। अर्चयिष्यामो भवतः।”
“अर्चय” इति विप्रा वदेयुः॥
ततो यजमानः स्वहस्ते उदगग्रान् विष्टरान गृह्णीयात्। अर्च्यानां मध्ये कश्चन विप्र आचार्यो वा ब्रूयात्।
“विष्टरराः विष्टराः विष्टराः॥”
“प्रतिगृह्यन्ताम्” इति यजमानः॥
“प्रतिगृह्णीम” इति विप्राः प्रतिब्रूयुः॥
एवं यजमानेन दत्तं विष्टरं सर्वे आचार्यादय ऋत्विजः स्वहस्ताभ्याम् उदगग्रं प्रागग्रं वा गृहीत्वा।
ॐ वर्षोस्मि समानानामुद्यतामिव सूर्ॺः।
इमन्तमभितिष्ठामि ॺो मा कश्चाभिदासति॥
इति मंत्रान्ते स्वस्य स्वस्यासनस्याधोभागे उदगग्रं निधाय तस्योपरि उपविशेयुः। ततः पूर्ववत् यजमानः स्वहस्ते सजलं पाद्यपात्रं गृहीत्वा तिष्ठेत्। तथैवार्च्यानां मध्ये कश्चन विप्र आचार्यो वा ब्रूयात्।
“पादार्थमुदकानि पादार्थमुदकानि पादार्थमुदकानि॥”
“प्रतिगृह्यन्ताम्” इति यजमानः॥
“प्रतिगृह्णीम” इति विप्राः प्रतिबूयुः॥
(तत आचार्यादयः सर्वे ऋत्विजो यजमानेन दत्तं पादार्थमुदकपूरितं पाद्यपात्रं स्वस्वहस्ताभ्यां गृहीत्वा।)
ॐ विराजोदोहोसि विराजोदोहमशीयमयि पाद्यायै विराजोदोहः॥
इति मन्त्रेण स्वयमेव स्वकीयं स्वकीयं दक्षिणं पादं प्रक्षाल्य पुनर्मन्त्रावृत्त्या वामपादं प्रक्षालयेयुः। ततः पूर्ववत् यजमानः उदगग्रं प्रागग्रं वा द्वितीयं विष्टरम् आदाय तिष्ठेत्। तथैव अर्च्यानां मध्ये कश्चन विप्र आचार्यो वा ब्रूयात्।
“विष्टराः विष्टराः विष्टराः॥”
“प्रतिगृह्यन्ताम्” इति यजमानः॥
“प्रतिगृह्णीम” इति विप्राः प्रतिब्रूयुः॥
एवं यजमानेन दत्तं द्वितीयं विष्टरं सर्वे आचार्यादय ऋत्विजः स्वस्वहस्ताभ्याम् उदगग्रं प्रागग्रं वा गृहीत्वा।
ॐ वर्षोस्मि समानानामुद्यतामिव सूर्ॺः।
इमन्तमभितिष्ठामि ॺो मा कश्चाभिदासति॥
इति मन्त्रेण स्वस्वपादयोरधोभागे उदगग्रं निधाय तस्योपरि पादौ स्थापयेयुः। ततः पूर्ववत् यजमानो गन्धाक्षतपुष्पादिसहितं सजलम् अर्घपात्रं स्वदक्षिणहस्ते आदाय तिष्ठेत्। ततः अर्च्यानां कश्चन विप्र आचार्यो वा ब्रूयात्।
“अर्घाः अर्घाः अर्घाः॥”
“प्रतिगृह्यन्ताम्” इति यजमानः॥
“ॐ आपस्थ युष्माभिः सर्वान्कामानवाप्नवानि” इति मन्त्रं पठन्तः ‘प्रतिगृह्णीम’ इति आचार्यादय विप्राः प्रतिब्रूयुः॥
एवम् आचार्यादयः सर्वे ऋत्विजः स्वस्वहस्ताभ्याम् अर्घपात्रम् गृहीत्वा तत्पात्रं स्वस्य मस्तकं नीत्वा शिरसाऽभिवन्द्य तदर्घपात्रं निनयन् (नामयन्) यजमानेन दत्तम् अर्घपात्रस्थं जलं, अधोलिखित मन्त्रं पठन्तः स्वसमीपे स्थापिते पात्रान्तरे प्रक्षिपेयुः।
ॐ समुद्रं वः प्रहिणोमि स्वां ॺोनिमभिगच्छत।
अरिष्टाऽअस्माकं वीरा मा परासेचिमत्पयः॥
ततो यजमान एवमेव जलपूरितम् आचमनीयपात्रं स्वदक्षिणहस्ते गृहीत्वा तिष्ठेत्। तथैव पूर्ववत् अर्च्यानां कश्चन विप्र आचार्यों वा ब्रूयात्।
“आचमनीयानि आचमनीयानि आचमनीयानि॥”
“प्रतिगृह्यन्ताम्” इति यजमानः॥
“प्रतिगृह्णीम” इति विमा प्रतिब्रूयुः॥
तत आचार्यादयः सर्वे ऋत्विजो यजमानेन दत्तम् आचमनीयपात्रं स्वदक्षिणहस्ते आदाय वामहस्ते गृहीत्वा तत्पात्राद्दक्षिणहस्ते जलम् आदाय।
ॐ आमागन्यशसा सᳬ सृजवर्चसा।
तम्मा कुरु प्रियं प्रजानामधिपतिं पशुनामरिष्टिन्तनूनाम्॥
इति मन्त्रेण स्वदक्षिणहस्तस्थं तज्जलं पीत्वा पुनस्तूष्णीं द्विवारं जलं पात्राद्दक्षिणहस्ते गृहीत्वा पिबेयुः॥
अथ मधुपर्कः
एकस्मिन् कांस्यपात्रे दधिमधुघृतानि एकीकृत्य तत्पात्रम् अन्येन पात्रेण पिधाय तन्मधुपर्कपात्रं यजमानः स्वदक्षिणहस्ते आदाय तिष्ठेत्। पूर्ववत् अर्च्यानां कश्चिद् विप्र आचार्यो वा ब्रूयात्।
“मधुपर्काः मधुपर्काः मधुपर्काः”
“प्रतिगृह्यन्ताम्” इति यजमानः॥
ततो यजमानहस्तस्थं तन्मधुपर्कपात्रं,
“ॐ मित्रस्य त्वा चक्षुषा प्रतीक्षे।” इति मंत्रेण आचार्यादयः सर्वे ऋत्विजः प्रतीक्षन्तः।
“ॐ देॖवस्य॑ त्त्वा सविॖतुः प्र॑सॖवेॗश्श्विनो॑र्ब्बाॖहुब्भ्या॑म्पू॒ष्ण्णो हस्ता॑ब्भ्याम्॥”(यजु० ५।२२) इति मन्त्रेण ‘प्रतिगृह्णीमः’॥
इति प्रत्युक्त्वा मधुपर्कपात्रं स्वस्वदक्षिणहस्ते गृह्णीयुः। ततः सव्ये (वामे) पाणौ कृत्वा मधुपर्कपात्रस्योपरि आच्छादितं पात्रम् अपाकृत्य मधुपर्कं, स्वस्वदक्षिणहस्तस्य अनामिकया
“ॐ नमः श्यावास्यायान्नशने ॺत्तऽआविद्ध तत्ते निष्कृन्तामि॥”
इति मन्त्रेण प्रदक्षिणमालोड्य किञ्चिन्मधुपर्कं तूष्णीमनामिकया प्रागुदग्वा बहिः प्रक्षिपेयुः। एवं पुनः द्विवारम् “ॐ नमः श्यावास्यायान्निति० मंत्रं पठित्वा प्रदक्षिणमालोड्य अनामिकया बहिः प्रक्षिपेयुः।
मधुपर्कप्राशनम्
तत आचार्यादयः सर्वे ऋत्विजः स्वस्वदक्षिणहस्तस्य अनामिकाङ्गुष्ठेन मधुपर्कं गृहीत्वा।
ॐ यन्मधुनो मधव्यं परमᳬ रूपमन्नाद्यम्।
तेनाहं मधुनो मधव्येन परमेण रूपेणान्नाद्येन परमो मधव्योन्नादोसानि॥
इति मंत्रेण किंचित् प्राशयेयुः। एवं पुनर्द्विवारं स्वस्वदक्षिणहस्तानामिकाङ्गुष्ठेन मधुपर्कं गृहीत्वा “ॐ यन्मधुनो मधव्यम्०” इति मन्त्रेण किञ्चित् प्राशयेयुः।
(अवशिष्टं प्रागसंचरे निनयेयुः पुत्राय शिष्याय वा दद्यात् सर्वं वा प्राश्नीयात्।)
तत आचमनम्। ततः सर्वे आचार्यादय ऋत्विजो मधुपर्क प्राशनानन्तरम् आचमनं कुर्युः। स्वदक्षिणहस्ते जलं गृहीत्वा।
ॐ आमागन्यशसा सᳮ सृजव्वर्चसा।
तं मा कुरु प्रियं प्रजानामधिपतिं पशूनामरिष्टिं तनूनाम्॥
अनेन मंत्रेण सकृदाचमनं विधाय पुनर्द्विवारं तूष्णीम् आचामेयुः। एवमाचमनं विधाय तत आचार्यादयः सर्वे ऋत्विजो वामहस्ते जलं गृहीत्वा दक्षिणहस्तेन प्राणान्संस्पृशेयुः॥
ॐ वाङ्गमऽआस्येऽस्तु॥ (इति दक्षिणहस्तांगुलिभिः आस्यं स्पृशेयुः अर्थात् काराग्रेणमुखालम्भनम्)
ॐ नसोर्मे प्राणोऽस्तु॥ (इति दक्षिणहस्तस्य तर्जन्यङ्गुष्ठेन नासापुटौ स्पृशेयुः)
ॐ अक्ष्णोर्मे चक्षुरस्तु॥ (इति दक्षिणहस्तस्य मध्यमाङ्गुष्ठेन युगपच्चक्षुषी स्पृशेयुः)
ॐ कर्णयोर्मे श्रोत्रमस्तु॥ (इति दक्षिणहस्तस्य अनामिकाङ्गुष्ठेन दक्षिणवामकर्णौ स्पृशेयुः)
ॐ बाह्वोर्मे बलमस्तु॥ (इति दक्षिणहस्तस्य कराग्रेण दक्षिणबाहुं वामबाहुं च स्पृशेयुः)
ॐ ऊर्वोर्मेऽओजोऽस्तु॥ (इति दक्षिणहस्तस्य कराग्रेण दक्षिणवामोरू स्पृशेयुः)
ॐ अरिष्टानि मेऽङ्गानि तनूस्तन्वा मे सह सन्तु॥ (इति शिरःप्रभृति पादान्तान्यङ्गानि उभाभ्यां हस्ताभ्यां स्पृशेयुः)
ततो मधुपर्काङ्गगोरुत्सर्जनं कुर्यात्। यजमानोऽर्च्यसङ्ख्याकं गोनिष्क्रयद्रव्यं गृहीत्वा ब्रूयात्।
गौर्गोर्गौः (गावो गावो गावः)॥
तत आचार्यादयः मन्त्रान्पठित्वा यथा
माता रुद्राणां दुहिता वसूनाᳬ स्वसादित्यानाममृतस्य नाभिः।
प्र नु वोचं चिकितुषे जनाय मा गामनागामदितिं वधिष्ठ॥
अस्माकम् अमुकशर्मणाम् अस्य यजमानस्य च पाप्मा हतः॥
इति तूष्णीमुक्त्वा ‘उत्सृजत तृणान्यत्तु’ इत्युच्चैर्ब्रूयात्।
ततो यजमानो गोनिष्क्रयद्रव्यम् उत्सृजेत्।
कृतस्य मधुपर्कादिपूजनकर्मणः साङ्गतासिद्ध्यर्थम् इमानि गोनिष्क्रयभूतानि द्रव्याणि नानानामगोत्रेभ्यो ब्राह्मणेभ्यो विभज्य दातुमहमुत्सृजे॥
इति ऋत्विजो वृत्वा प्रार्थयेत्॥ तद्-द्रव्यम् आचार्यादय ऋत्विजो विभज्य विभज्य गृह्णीयुः। अथवा आचार्य एव गृह्णीयात्॥
॥ इति आचार्यादीनां मधुपर्कार्चनप्रयोगः ॥
॥ श्रीरस्तु ॥
༺❀༻
श्री हरि हरात्मक देवें सदा, मुद मंगलमय हर्ष।
सुखी रहे परिवार संग, अपना भारतवर्ष॥
༺༻❀༺༻
┉ संकलनकर्ता ┉
श्रद्धेय पंडित विश्वनाथ द्विवेदी
‘सनातनी ज्योतिर्विद’
संस्थापक, अध्यक्ष एवं प्रबंध निदेशक
(‘हरि हर हरात्मक’ ज्योतिष)
संपर्क सूत्र – 07089434899
༺༻❀꧁○꧂❀༺༻