अथ वरणश्राद्धम्
॥ अथ वरणश्राद्धम् ॥
आचम्य प्राणानायम्य यजमानो हस्ते जलं गृहीत्वा देशकालौ सङ्कीर्त्य … ब्राह्मणानां वरणश्राद्धं करिष्ये’ इति संकल्प्य ततो दिग्बन्धनं कुर्यात्॥
ॐ स्वॖस्ति नॖऽइन्द्रो॑ व्वृ॒द्धश्र्श्र॑वाः स्वॖस्ति नः॑ पू॒षा व्विॖश्श्ववे॑दाः।
स्वॖस्ति नॖस्त्तार्क्क्ष्योॖऽअरि॑ष्ट्टनेमिः स्वॖस्ति नोॖ बृहॖस्प्पति॑र्द्दधातु॥ (यजु० २५।१९)
पुनर्हस्ते जलं गृहीत्वा ‘वरणश्राद्धोपहाराः शुचयो भवन्तु’ इति तेन जलेन वरणश्राद्धोपहाराणां प्रोक्षणं कुर्यात्॥
पुनर्जलं गृहीत्वा
“आचार्यादिभ्यः सर्वेभ्य ऋत्विग्भ्य इदमासनम्। आचार्यादिभ्यः सर्वेभ्य ऋत्विग्भ्य दत्तानि दास्यमानानि गन्धमाल्यादीनि वस्त्रयुग्मोपवीत कुण्डल मुद्रिका केयूरांगद कंठाभरणादीनि यथा दैवतानि (तन्निष्क्रयद्रव्यं वा) स्वाहा संपद्यन्तां न मम॥”
पुनर्जलमादाय
“कर्मप्तः आसमाप्ति दास्यमानानि सिद्धान्नानि आमान्नानि वा आचार्यादिभ्यः सर्वेभ्य ऋत्विग्भ्यः स्वाहा संपद्यन्तां न मम॥”
पुनर्जलं गृहीत्वा
“अस्य वरणश्राद्धस्य साङ्गतासिद्धयर्थं यथाशक्ति गोनिष्क्रयीभूतं द्रव्यम् आचार्यादिभ्यः सर्वेभ्य ऋत्विग्भ्यः स्वाहा संपद्यतां न मम॥”
ततो यजमानः करसंपुटौ कृत्वा वदेत्
यस्य विप्रस्य यो भागः स तेन प्रतिगृह्यताम्॥
पुनः प्रार्थयेत्
“अस्य ऋत्विग्वरणविधेर्यन्न्यूनातिरिक्तं तत्सर्वं गणेशाम्बिकयोः प्रसादाद्भवतां ब्राह्मणानां वचनाच्च परिपूर्णमस्तु॥”
सर्वे ऋत्विजः प्रतिबूयुः
‘अस्तु परिपूर्णमि’
ततः आचारात् अधोलिखितम् मंत्रेण सपत्नीकस्य यजमानस्य भाले तिलकं कुर्यात्
ॐ स्वॖस्ति नॖऽइन्द्रो॑ व्वृ॒द्धश्र्श्र॑वाः स्वॖस्ति नः॑ पू॒षा व्विॖश्श्ववे॑दाः।
स्वॖस्ति नॖस्त्तार्क्क्ष्योॖऽअरि॑ष्ट्टनेमिः स्वॖस्ति नोॖ बृहॖस्प्पति॑र्द्दधातु॥ (यजु० २५।१९)
ततः आचारात् अधोलिखितम् मंत्रेण यजमानस्य दक्षिणहस्ते कङ्कणवन्धनम्
ॐ ॺदाब॑द्न्धन्दाक्क्षायॖणा हिर॑ण्ण्यᳯ शॖतानी॑काय सुमनॖस्यमा॑नाः।
तन्न्मॖऽआब॑द्ध्नामि शॖतशा॑रदाॖयायु॑ष्म्माञ्जॖरद॑ष्ट्टिॖर्ॺ्ॺथास॑म्॥ (यजु० ३४।५२)
इति कङ्कणवन्धनम् तथैव आचारात् अधोलिखितम् मंत्रेण यजमानपत्त्न्या वामहस्ते कङ्कणबन्धनं कुर्यात्
ॐ तम्पत्क्नी॑भिॖरनु॑गच्छेम देवाः पु॒त्र्त्रैर्ब्भ्रातृ॑भिरुॖत वाॖ हिर॑ण्ण्यैः।
नाक॑ङ्गृब्भ्णाॖनाः सु॑कृ॒तस्य॑ लोॖके तृ॒तीये॑ पृ॒षट्ठेऽअधि॑ रोचॖने दिॖवः॥ (यजु० १५।५०)
तत आचार्यो यजमानमूर्धनि अधोलिखितम् मंत्रेण दूर्वया मार्जनं कुर्यात्
ॐ काण्डा॑त्त्काण्डात्त्प्रॖरोह॑न्तीॖ परु॑षः परुषॖस्प्परि॑।
एॖवा नो॑ दूर्व्वेॖ प्प्रत॑नु सॖहस्त्रे॑ण शॖतेन॑ च॥ (यजु० १३।२०)
ततो यजमानो अधोलिखितम् मंत्रेण दधिवन्दनं कुर्यात्
ॐ दॖधिॖक्क्राव्ण्णो॑ऽ अकारिषञ्ञिॖष्ण्णो रश्श्व॑स्य व्वाॖजिनः॑।
सु॒रॖभि नोॖ मुखा॑ करॖत्त्प्र णॖऽआयू॑ ᳬ षि तारिषत्॥ (यजु० २३।३२)
आचार्यः अधोलिखितम् मंत्रेण यजमानाय फलसमर्पणं कुर्यात्
ॐ ॺाः फॖलिनीॖर्ॺ्ॺाऽ अ॑फॖलाऽ अ॑पु॒ष्प्पा ॺाश्च॑ पु॒ष्प्पिणीः॑।
बृहॖस्प्पति॑प्प्रसूताॖस्ता नो॑ मुञ्चॖन्त्वᳯ ह॑सः॥ (यजु० १२।८९)
॥ इति वरणश्राद्धम् ॥
॥ श्रीरस्तु ॥
༺❀༻
श्री हरि हरात्मक देवें सदा, मुद मंगलमय हर्ष।
सुखी रहे परिवार संग, अपना भारतवर्ष॥
༺༻❀༺༻
┉ संकलनकर्ता ┉
श्रद्धेय पंडित विश्वनाथ द्विवेदी
‘सनातनी ज्योतिर्विद’
संस्थापक, अध्यक्ष एवं प्रबंध निदेशक
(‘हरि हर हरात्मक’ ज्योतिष)
संपर्क सूत्र – 07089434899
༺༻❀꧁○꧂❀༺༻