अथ आचार्याद्यृत्विग्वरणप्रयोगः
आचार्यादि ऋत्विज वरण प्रयोग
तत आचार्याद्यृत्विजां वरणार्थमेकस्मिन्पात्रे आपः क्षीरमित्याद्यष्टद्रव्याण्येकीकृत्य तत्राचारात्फळं हिरण्यञ्च प्रक्षिप्य द्वितीयेन पात्रेण तत्पात्रं पिधाय रक्तसूत्रेणावेष्ट्य सपत्नीको यजमानः उदङ्गमुखो भूत्वा प्राङ्गमुखैराचार्यादिभिर्दत्तं तदर्घपात्रं गृहीत्वोत्थायोदङ्गमुख एव तिष्ठेत्॥ ततः सर्वे आचार्याद्यृत्विजः ‘आशुः शिशान’ इति द्वादशर्चमप्रतिरथसूक्तम् ‘आनोभद्राः’ इत्यनुवाकं ‘द्यौः शान्तिरि’ति कण्डिकां वा जपेयुः॥ तत उदङ्गमुखो यजमानः प्राङ्गमुखोपविष्टान्ब्राह्मणान्प्रार्थयेत्॥ (सुमुहूर्तादि कर्तव्यं शोभने मण्डपे द्विजैः। शान्तिपाठोऽर्घदानं च पृच्छापूर्व समाचरेत्॥)
ॐ आदित्याद्या ग्रहाः सर्वे राहुकेतुपुरःसराः॥
ग्रहदेवाधिदेवैश्च नक्षत्राणां च दैवतैः॥१॥
इन्द्रादिभिश्च दिक्पालैर्ब्रह्मविष्णुमहेश्वरैः॥
वास्तुदुर्गागणेशैश्च क्षेत्रपालादिसंयुतैः॥२॥
भूम्यन्तरिक्षदेवैश्च कुलदेवैश्च मातृभिः॥
चतुर्भिश्चैव वेदैश्च रुद्रेण सहितैस्तथा॥३॥
सागरा द्वीपपातालात्यूर्ध्वलोकसुरैः सह॥
पर्वता ऋषयः सर्वे गंगाद्याः सरितो द्रुमाः॥४॥
मन्त्राधिष्ठितदेवैश्च ब्रह्मन्नाचार्य ऋत्विजः॥
आयुरारोग्यपुत्रादिसुखश्रीप्राप्तये मम॥५॥
आपाद्विघ्नविनाशाय शत्रुबुद्धिक्षयाय च॥
विशेषकाम्यहोमेन सहितं समिधादिभिः॥६॥
स्वागतं वो द्विजश्रेष्ठा मदनुग्रहकारकाः॥
अयमर्घ इदं पाद्यं भवद्भिः प्रतिगृह्यताम्॥७॥
चरणक्षालनाद्देवास्तुष्यन्ति शुद्धमानसाः॥
तज्जलेनैव संसिक्ताः पूर्णकामा भवन्तु मे॥८॥
इमं वोऽर्घं प्रयच्छामि गृह्णन्तु प्रीतमानसाः॥
पावयन्तु च मां नित्यं पूरयन्तु मनोरथान्॥९॥
इति सर्वान्प्रार्थयेत्॥ ततः ‘अर्घोऽ-र्घोऽर्घः’ इति केनचिद् विप्रेणोक्ते सति यजमानः ‘प्रतिगृह्यतामि’ति वदन् अर्घपात्रं ब्राह्मण-हस्ते दद्यात्॥ ‘प्रतिगृह्णीम’ इति विप्रा वदेयुः॥ ततो यजमानः सपत्नीक उदङ्गमुख एवोपविश्य तत आचार्यं कर्तुं योग्यस्य प्राङ्गमुखोपविष्टस्य विप्रस्य साक्षतेन पाणिना दक्षिणजानु आलभ्य स्वगोत्रोच्चारपूर्वकं तं वृणुयात्॥ तद्यथा
“अमुकगोत्रोत्पन्नः अमुकप्रवरान्वितः अमुकोऽहम्” “अमुकगोत्रोत्पन्नम् अमुकप्रवरान्वितं शुक्लयजुर्वेदान्तर्गत-वाजिमाध्यन्दिनीय शाखाध्यायिनम् अमुकशर्माणं ब्राह्मणम् अस्मिन्सग्रहमख अमुककर्मणि आचार्यत्वेन त्वामहं वृणे”
इति वदन् अक्षतान्ब्राह्मणहस्ते दद्यात्। ततो विप्रो यजमानेन दत्तान अक्षतान्गृहीत्वा ‘वृतोऽस्मी’ति वदेत्॥
ॐ व्व्रॖतेन॑ दीॖक्क्षामा॑प्प्नोति दीॖक्क्षया॑प्प्नोतिॖ दक्क्षि॑णाम्।
दक्क्षि॑णा श्र्श्रॖद्धामा॑प्प्नोति श्र्श्रॖद्धया॑ सॖत्त्यमा॑प्प्यते॥ (यजु० १९।३०)
ततो यजमानो वृतायाचार्याय एतत्ते पाद्यं पादप्रक्षालनम् एष तेऽर्घः इति पाद्यं हस्ते अर्घं च दत्वा गन्धादिभिस्तं संपूज्याचारात् रक्तसूत्रेणाचार्यहस्ते कङ्कणबन्धनं कुर्यात्॥
ॐ ॺदाब॑द्न्धन्दाक्क्षायॖणा हिर॑ण्ण्यᳯ शॖतानी॑काय सुमनॖस्यमा॑नाः।
तन्न्मॖऽआब॑द्ध्नामि शॖतशा॑रदाॖयायु॑ष्म्माञ्जॖरद॑ष्ट्टिॖर्ॺ्ॺथास॑म्॥ (यजु० ३४।५२)
ततो यजमानः प्रार्थयेत्
आचार्यस्तु यथा स्वर्गे शक्रादीनां बृहस्पतिः।
तथा त्वं मम यज्ञेऽस्मिन् आचार्यो भव सुव्रत॥
‘भवामी’त्याचार्यो वदेत्
बृह॑स्प्पतेॖऽअतिॖ यदॖर्ॺ्ॺोऽअर्हा॑द्युमद्विॖभातिॖ क्क्रतु॑मॖज्जनॆ॑षु।
ॺद्दीॖदयॖच्छव॑सऽऋतप्प्रजातॖ तदॖस्म्मासु॒ द्रवि॑णन्धेहि चिॖत्रम्।
उॖपॖयाॖमगृ॑हीतोसिॖ बृहॖस्प्पत॑ये त्त्वैॖष तेॖ ॺोनिॖर्बृहॖस्प्पत॑ये त्त्वा॥ (यजु० २६।३)
ततो ब्रह्माणं वृणुयात्। यजमानः साक्षतेन पाणिना विप्रस्य दक्षिणं जानु आलभ्य स्वगोत्रोच्चारपूर्वकम् –
“अमुकगोत्रोत्पन्नम् अमुकप्रवरान्वितं शुक्ल यजुर्वेदान्तर्गत वाजिमाध्यन्दिनीय शाखाध्यायिनम् अमुकशर्माणं ब्राह्मणम् अस्मिन्सग्रहमख अमुककर्मणि ब्रह्मत्वेन त्वामहं वृणे”
इत्युक्त्वा विप्रहस्तेऽक्षतान्दद्यात्। अक्षतानादाय ‘वृतोऽस्मी’ति विप्रो वदेत्॥
ॐ व्व्रॖतेन॑ दीॖक्क्षामा॑प्प्नोति दीॖक्क्षया॑प्प्नोतिॖ दक्क्षि॑णाम्।
दक्क्षि॑णा श्र्श्रॖद्धामा॑प्प्नोति श्र्श्रॖद्धया॑ सॖत्त्यमा॑प्प्यते॥ (यजु० १९।३०)
यजमानः ‘वृताय ब्रह्मणे एत्तत्ते पाद्यं पादप्रक्षालनम्, एष तेऽर्घः’ इत्युक्त्वा हस्ते अर्घं दत्त्वा गन्धादिभिस्तं संपूज्य तस्य हस्ते कङ्कणबन्धनं कुर्यात्।
ॐ ॺदाब॑द्न्धन्दाक्क्षायॖणा हिर॑ण्ण्यᳯ शॖतानी॑काय सुमनॖस्यमा॑नाः।
तन्न्मॖऽआब॑द्ध्नामि शॖतशा॑रदाॖयायु॑ष्म्माञ्जॖरद॑ष्ट्टिॖर्ॺ्ॺथास॑म्॥ (यजु० ३४।५२)
ततो यजमानः प्रार्थयेत्
यथा चतुर्मुखो ब्रह्मा सर्वलोकपितामहः।
तथा त्वं मम यज्ञेऽस्मिन्ब्रह्मा भव द्विजोत्तम॥
‘भवामी’ति विप्रो वदेत्।
ॐ ब्रह्म॑ जज्ज्ञाॖनम्प्र॑थॖमम्पु॒रस्त्ताॖद्वि सी॑मॖतः सु॒रुचो॑ व्वेॖनऽआ॑वः।
स बु॒द्ध्न्याॖऽउपॖमाऽअ॑स्य व्विॖष्ट्ठाः सॖतश्चॖ ॺोनिॖमस॑तश्चॖ व्विवः॑॥ (यजु० १३।३)
ततः कर्मणो निर्विघ्नतासिद्धयर्थं गणपतिमंत्रजपार्थं गाणपत्यं वृणुयात्। यजमानः साक्षतेन पाणिना विप्रस्य दक्षिणं जानु आलभ्य स्वगोत्रोच्चारपूर्वकम् –
“अमुकगोत्रोत्पन्नम् अमुकप्रवरान्वितं शुक्ल यजुर्वेदान्तर्गत वाजिमाध्यन्दिनीयशाखाध्यायिनम् अमुकशर्माणं ब्राह्मणम् अस्मिन्सग्रहमख अमुककर्मणि गाणपत्यत्वेन त्वामहं वृणे”
इत्युक्त्वा विप्रहस्तेऽक्षतान्दद्यात्। अक्षतानादाय ‘वृतोऽस्मी’ति विप्रो वदेत्॥
ॐ व्व्रॖतेन॑ दीॖक्क्षामा॑प्प्नोति दीॖक्क्षया॑प्प्नोतिॖ दक्क्षि॑णाम्।
दक्क्षि॑णा श्र्श्रॖद्धामा॑प्प्नोति श्र्श्रॖद्धया॑ सॖत्त्यमा॑प्प्यते॥ (यजु० १९।३०)
यजमानो ‘वृताय गाणपत्याय एतत्ते पाद्यं पादप्रक्षाळनम्’ एष तेऽर्घः’ इत्यर्घं हस्ते दत्त्वा गन्धादिभिस्तं सम्पूज्य तस्य हस्ते कङ्कणबन्धनं कुर्यात्॥
ॐ ॺदाब॑द्न्धन्दाक्क्षायॖणा हिर॑ण्ण्यᳯ शॖतानी॑काय सुमनॖस्यमा॑नाः।
तन्न्मॖऽआब॑द्ध्नामि शॖतशा॑रदाॖयायु॑ष्म्माञ्जॖरद॑ष्ट्टिॖर्ॺ्ॺथास॑म्॥ (यजु० ३४।५२)
ततो यजमानः प्रार्थयेत्
वाञ्छितार्थफलावाप्त्यै पूजितोऽसि सुरासुरैः।
निर्विघ्नं कतुसंसिद्धयै त्वामहं गणपं वृणे॥
ॐ गॖणाना॑न्त्वा गॖणप॑ति ᳯ हवामहे प्प्रिॖयाणा॑न्त्वा प्प्रिॖयप॑ति ᳯ हवामहे निधीॖनान्त्वा॑ निधिॖपति॑ ᳯ हवामहे व्वसो मम।
आहम॑जानि गर्ब्भॖधमा त्त्वम॑जासि गर्ब्भॖधम्॥ (यजु० २३।१९)
सदस्यवरणम्
यजमानः साक्षतेन पाणिना विप्रस्य दक्षिणं जानु आलभ्य स्वगोत्रोच्चारपूर्वकम् –
“अमुकगोत्रोत्पन्नम् अमुकप्रवरान्वितं शुक्ल यजुर्वेदान्तर्गत वाजिमाध्यन्दिनीयशाखाध्यायिनम् अमुकशर्माणं ब्राह्मणम् अस्मिन्सग्रहमख अमुककर्मणि सदस्यत्वेन त्वामहं वृणे”
इत्युक्त्वा विप्रहस्तेऽक्षतान् दद्यात्। अक्षतानादाय ‘वृतोऽस्मी’ति विप्रो वदेत्॥
ॐ व्व्रॖतेन॑ दीॖक्क्षामा॑प्प्नोति दीॖक्क्षया॑प्प्नोतिॖ दक्क्षि॑णाम्।
दक्क्षि॑णा श्र्श्रॖद्धामा॑प्प्नोति श्र्श्रॖद्धया॑ सॖत्त्यमा॑प्प्यते॥ (यजु० १९।३०)
ततो यजमानो ‘वृताय सदस्याय एत्तत्ते पाद्यं पादप्रक्षालनम्, एष तेऽर्घ’ इत्यर्घं हस्ते दत्वा गन्धादिभिस्तं संपूज्य तस्य हस्ते कङ्कणबन्धनं कुर्यात्॥
ॐ ॺदाब॑द्न्धन्दाक्क्षायॖणा हिर॑ण्ण्यᳯ शॖतानी॑काय सुमनॖस्यमा॑नाः।
तन्न्मॖऽआब॑द्ध्नामि शॖतशा॑रदाॖयायु॑ष्म्माञ्जॖरद॑ष्ट्टिॖर्ॺ्ॺथास॑म्॥ (यजु० ३४।५२)
ततो यजमानः प्रार्थयेत्
कर्मणामुपदेष्टारं सर्वकर्म विदुत्तमम्।
कर्मिणं वेद तत्त्वज्ञं सदस्यं त्वामहं वृणे॥
ॐ सद॑सॖस्प्पतिॖमद्भु॑तम्प्रिॖयमिन्द्र॑स्यॖ काम्म्य॑म्।
सॖनिम्मेॖधाम॑यासिषॖ ᳬ॒ स्वाहा॑॥ (यजु० ३२।१३)
सर्वोपद्रष्ट्रवरणम्
यजमानः साक्षतेन पाणिना विप्रस्य दक्षिणं जानु आलभ्य स्वगोत्रोच्चारपूर्वकम् –
“अमुकगोत्रोत्पन्नम् अमुकप्रवरान्वितं शुक्ल यजुर्वेदान्तर्गत वाजिमाध्यन्दिनीयशाखाध्यायिनम् अमुकशर्माणं ब्राह्मणम् अस्मिन्सग्रहमख अमुककर्मणि सर्वोपद्रष्ट्रत्वेन त्वामहं वृणे”
इत्युक्त्वा विप्रहस्तेऽक्षतान्दद्यात्। अक्षतानादाय ‘वृतोऽस्मी’ति विप्रो वदेत्॥
ॐ व्व्रॖतेन॑ दीॖक्क्षामा॑प्प्नोति दीॖक्क्षया॑प्प्नोतिॖ दक्क्षि॑णाम्।
दक्क्षि॑णा श्र्श्रॖद्धामा॑प्प्नोति श्र्श्रॖद्धया॑ सॖत्त्यमा॑प्प्यते॥ (यजु० १९।३०)
यजमानो ‘वृताय एतत्ते पाद्यं पादप्रक्षालनम्, एष तेऽर्घः’ इत्यर्घं हस्ते दत्वा गन्धादिभिस्तं संपूज्य तस्य हस्ते कङ्कणबन्धनं कुर्यात्॥
ॐ ॺदाब॑द्न्धन्दाक्क्षायॖणा हिर॑ण्ण्यᳯ शॖतानी॑काय सुमनॖस्यमा॑नाः।
तन्न्मॖऽआब॑द्ध्नामि शॖतशा॑रदाॖयायु॑ष्म्माञ्जॖरद॑ष्ट्टिॖर्ॺ्ॺथास॑म्॥ (यजु० ३४।५२)
ततो यजमानः प्रार्थयेत्
भगवन् सर्वकर्मज्ञ सर्वधर्मभृतांवर।
गायत्र्या मम यज्ञेऽस्मिन् उपद्रष्टा भव द्विज॥
अष्टौ द्वारपालान्वृणुयात्
तत्र पूर्वद्वारे होमकाले ऋग्वेदस्य सूक्तजपार्थं द्वौ ऋग्वेदिनौ विप्रौ वृणुयात। यजमानः साक्षतेन पाणिना विप्रस्य दक्षिणं जानु आलभ्य स्वगोत्रोच्चारपूर्वकम् –
“अमुकगोत्रोत्पन्नम् अमुकप्रवरान्वितं शुक्ल यजुर्वेदान्तर्गत वाजिमाध्यन्दिनीयशाखाध्यायिनम् अमुकशर्माणं ब्राह्मणम् अस्मिन्सग्रहमख अमुककर्मणि पूर्वद्वारे ऋग्वेदसूक्तजपार्थे त्वामहं वृणे”
इत्यक्षतान् विप्रहस्ते दद्यात्। अक्षतान्गृहीत्वा ‘वृतोऽस्मी’ति विमो वदेत्॥
ॐ व्व्रॖतेन॑ दीॖक्क्षामा॑प्प्नोति दीॖक्क्षया॑प्प्नोतिॖ दक्क्षि॑णाम्।
दक्क्षि॑णा श्र्श्रॖद्धामा॑प्प्नोति श्र्श्रॖद्धया॑ सॖत्त्यमा॑प्प्यते॥ (यजु० १९।३०)
यजमानो ‘वृताय एतत्ते पाद्यं पादप्रक्षालनम्, एष तेऽर्घः’ इत्यर्घं हस्ते दत्वा गन्धादिभिस्तं संपूज्य तस्य हस्ते कङ्कणबन्धनं कुर्यात्॥
ॐ ॺदाब॑द्न्धन्दाक्क्षायॖणा हिर॑ण्ण्यᳯ शॖतानी॑काय सुमनॖस्यमा॑नाः।
तन्न्मॖऽआब॑द्ध्नामि शॖतशा॑रदाॖयायु॑ष्म्माञ्जॖरद॑ष्ट्टिॖर्ॺ्ॺथास॑म्॥ (यजु० ३४।५२)
ततो यजमानः प्रार्थयेत्
ऋग्वेदः पद्मपत्राक्षो गायत्रः सोमदैवतः।
अत्रिगोत्रस्तु विप्रेन्द्र ऋत्विक् त्वं मे मखे भव॥
ॐ ॶग्निमी॑ळे पु॒रोहि॑तं यॖज्ञस्य॑ देॖवमृ॒त्विज॑म्।
होता॑रं रत्नॖधात॑मम्॥
एवं द्वितीयं वृणुयात्॥ ततो दक्षिणद्वारे यजुर्वेदस्य सूक्तजपार्थे द्वयोर्विप्रयोर्वरणम्॥ यजमानः साक्षतेन पाणिना विप्रस्य दक्षिणं जानु आलभ्य स्वगोत्रोच्चारपूर्वकम् –
“अमुकगोत्रोत्पन्नम् अमुकप्रवरान्वितं शुक्ल यजुर्वेदान्तर्गत वाजिमाध्यन्दिनीयशाखाध्यायिनम् अमुकशर्माणं ब्राह्मणम् अस्मिन्सग्रहमख अमुककर्मणि दक्षिणद्वारे यजुर्वेदसूक्तजपार्थे त्वामहं वृणे”
इत्युक्त्वाऽक्षतान् विप्रहस्ते दद्यात्। ‘वृतोऽस्मी’ति विप्रो वदेत्॥
ॐ व्व्रॖतेन॑ दीॖक्क्षामा॑प्प्नोति दीॖक्क्षया॑प्प्नोतिॖ दक्क्षि॑णाम्।
दक्क्षि॑णा श्र्श्रॖद्धामा॑प्प्नोति श्र्श्रॖद्धया॑ सॖत्त्यमा॑प्प्यते॥ (यजु० १९।३०)
ततो यजमानः ‘वृताय एतत्ते पाद्यं पादप्रक्षालनम्, एष तेऽर्घः’ इत्यर्घ हस्ते दत्वा गन्धादिभिस्तं संपूज्य तस्य हस्ते कङ्कणबन्धनं कुर्यात्॥
ॐ ॺदाब॑द्न्धन्दाक्क्षायॖणा हिर॑ण्ण्यᳯ शॖतानी॑काय सुमनॖस्यमा॑नाः।
तन्न्मॖऽआब॑द्ध्नामि शॖतशा॑रदाॖयायु॑ष्म्माञ्जॖरद॑ष्ट्टिॖर्ॺ्ॺथास॑म्॥ (यजु० ३४।५२)
ततो यजमानः प्रार्थयेत्
कातराक्षो यजुर्वेदस्त्रैष्टुभो विष्णुदैवतः।
काश्यपेयस्तु विप्रेन्द्र ऋत्विक् त्वं मे मखे भव॥
ॐ इ॒षे त्त्वोॖर्ज्जे त्त्वा॑ व्वाॖयव॑ स्त्थ देॖवो वः॑ सविॖता प्प्रार्प्प॑यतु॒ श्श्रेष्ठ॑तमायॖ कर्म्म॑णॖऽआप्प्यायद्ध्वमग्घ्न्याॖ ऽइन्द्रा॑य भाॖगम्प्रॖजाव॑तीरनमीॖवाऽ अ॑यॖक्ष्मा मा व॑ स्तेॖनऽई॑शतॖ माघश॑ᳬ सोद्ध्रुवाऽअ॒स्म्मिन्न्गोप॑तौ स्यात बॖह्वीर्ॺ्ॺज॑मानस्य पॖशुन्न्पा॑हि॥ (यजु० १।१)
एवं द्वितीयमपिवृणुयात्॥ ततः पश्चिमद्वारे सामवेद सूक्तजपार्थे द्वयोर्विप्रयोर्वरणं कुर्यात्॥ यजमानः साक्षतेन पाणिना विप्रस्य दक्षिणं जानु आलभ्य स्वगोत्रोच्चारपूर्वकम् –
“अमुकगोत्रोत्पन्नम् अमुकप्रवरान्वितं शुक्ल यजुर्वेदान्तर्गत वाजिमाध्यन्दिनीयशाखाध्यायिनम् अमुकशर्माणं ब्राह्मणम् अस्मिन्सग्रहमख अमुककर्मणि पश्चिमद्वारे सामवेदसूक्तजपार्थे त्वामहं वृणे”
इत्युक्त्वाऽक्षतान्विप्रहस्ते दद्यात्। ‘वृतोऽस्मी’ति विप्रो वदेत्॥
ॐ व्व्रॖतेन॑ दीॖक्क्षामा॑प्प्नोति दीॖक्क्षया॑प्प्नोतिॖ दक्क्षि॑णाम्।
दक्क्षि॑णा श्र्श्रॖद्धामा॑प्प्नोति श्र्श्रॖद्धया॑ सॖत्त्यमा॑प्प्यते॥ (यजु० १९।३०)
ततो यजमानो ‘वृताय एतत्ते पाद्यं पादप्रक्षालनम् एष तेऽर्घ’ इत्यर्घं हस्ते दत्वा गन्धादिभिस्तं संपूज्य तस्य हस्ते कङ्कणबन्धनं कुर्यात्॥
ॐ ॺदाब॑द्न्धन्दाक्क्षायॖणा हिर॑ण्ण्यᳯ शॖतानी॑काय सुमनॖस्यमा॑नाः।
तन्न्मॖऽआब॑द्ध्नामि शॖतशा॑रदाॖयायु॑ष्म्माञ्जॖरद॑ष्ट्टिॖर्ॺ्ॺथास॑म्॥ (यजु० ३४।५२)
ततो यजमानः प्रार्थयेत्
सामवेदस्तु पिङ्गाक्षो जाग्रतः शक्रदैवतः।
भारद्वाजस्तु विप्रेन्द्र ऋत्विक् त्वं मे मखे भव॥
ॐ अग्न आयाहि वीतये गृणानो हव्यदातये।
नि होता सत्मि बर्हिषि॥
एवं द्वितीयमपि सामगायिनं वृणुयात्॥ तत उत्तरद्वारे अथर्ववेदसूक्तजपार्थे द्वयोर्विप्रयोर्वरणम्॥ यजमानः साक्षतेन पाणिना विप्रस्य दक्षिणं जानु आलभ्य स्वगोत्रोच्चारपूर्वकम् –
“अमुकगोत्रोत्पन्नम् अमुकप्रवरान्वितं शुक्ल यजुर्वेदान्तर्गत वाजिमाध्यन्दिनीयशाखाध्यायिनम् अमुकशर्माणं ब्राह्मणम् अस्मिन्सग्रहमख अमुककर्मणि उत्तरद्वारे अथर्ववेदसूक्तजपार्थे त्वामहं वृणे”
इत्युक्त्वा विप्रहस्तेऽक्षतान्दद्यात्। ‘वृतोऽस्मी’ति विप्रो वदेत्॥
ॐ व्व्रॖतेन॑ दीॖक्क्षामा॑प्प्नोति दीॖक्क्षया॑प्प्नोतिॖ दक्क्षि॑णाम्।
दक्क्षि॑णा श्र्श्रॖद्धामा॑प्प्नोति श्र्श्रॖद्धया॑ सॖत्त्यमा॑प्प्यते॥ (यजु० १९।३०)
ततो यजमानो ‘वृताय एतत्ते पाद्यं पादप्रक्षालनम् एष तेऽर्घ’ इत्यर्घं हस्ते दत्त्वा गन्धादिभिस्तं संपूज्य तस्य हस्ते कङ्कणबन्धनं कुर्यात्॥
ॐ ॺदाब॑द्न्धन्दाक्क्षायॖणा हिर॑ण्ण्यᳯ शॖतानी॑काय सुमनॖस्यमा॑नाः।
तन्न्मॖऽआब॑द्ध्नामि शॖतशा॑रदाॖयायु॑ष्म्माञ्जॖरद॑ष्ट्टिॖर्ॺ्ॺथास॑म्॥ (यजु० ३४।५२)
ततो यजमानः प्रार्थयेत्
बृहन्नेत्रोऽथर्ववेदोऽनुष्टुभो रुद्रदैवतः।
वैशम्पायन विप्रेन्द्र ऋत्विक्ं त्वं मे मखे भव॥
ॐ शन्नो॑ देॖवीरॖभिष्ट्ट॑यॖ ऽआपो॑ भवन्तु पीॖतये॑।
शँॺ्ॺोरॖभिस्त्र॑वन्तु नः॥ (यजु० ३६।१२)
एवं द्वितीयमपि विप्रं वृणुयात्॥ ततो जपार्थं होमार्थं वा ब्राह्मणानां वरणम्॥ यजमानः साक्षतेन पाणिना विप्रस्य दक्षिणं जानु आलभ्य स्वगोत्रोच्चारपूर्वकम् –
“अमुकगोत्रोत्पन्नम् अमुकप्रवरान्वितं शुक्ल यजुर्वेदान्तर्गत वाजिमाध्यन्दिनीयशाखाध्यायिनम् अमुकशर्माणं ब्राह्मणम् अस्मिन्सग्रहमख अमुककर्मणि जपार्थं होमार्थं वा ऋत्विक्त्वेन त्वामहं वृणे”
इत्युक्त्वा विप्रहस्तेऽक्षतान्दद्यात्। ‘वृतोऽस्मी’ति विप्रो वदेत्॥
ॐ व्व्रॖतेन॑ दीॖक्क्षामा॑प्प्नोति दीॖक्क्षया॑प्प्नोतिॖ दक्क्षि॑णाम्।
दक्क्षि॑णा श्र्श्रॖद्धामा॑प्प्नोति श्र्श्रॖद्धया॑ सॖत्त्यमा॑प्प्यते॥ (यजु० १९।३०)
ततो यजमानः ‘वृताय एतत्ते पाद्यं पादप्रक्षालनम् एष तेऽर्घ’ इत्यर्घं हस्ते दत्त्वा गन्धादिभिस्तं संपूज्य तस्य हस्ते कङ्कणबन्धनं कुर्यात्॥
ॐ ॺदाब॑द्न्धन्दाक्क्षायॖणा हिर॑ण्ण्यᳯ शॖतानी॑काय सुमनॖस्यमा॑नाः।
तन्न्मॖऽआब॑द्ध्नामि शॖतशा॑रदाॖयायु॑ष्म्माञ्जॖरद॑ष्ट्टिॖर्ॺ्ॺथास॑म्॥ (यजु० ३४।५२)
ततो यजमानः प्रार्थयेत्
भगवन् सर्वधर्मज्ञ सर्वशास्त्रविशारद।
गायत्र्याश्चैव यज्ञेऽस्मिन् ऋत्विक्ं त्वं मे प्रभों भव॥
एवं होमार्थं जपार्थ वा यावत्सङ्ख्याकानाम् ऋत्विजां प्रयोजनं तावत्संख्याकान् ऋत्विजो वृणुयात्॥
॥ इति आचार्याद्यृत्विग्वरणप्रयोगः ॥
॥ श्रीरस्तु ॥
༺❀༻
श्री हरि हरात्मक देवें सदा, मुद मंगलमय हर्ष।
सुखी रहे परिवार संग, अपना भारतवर्ष॥
༺༻❀༺༻
┉ संकलनकर्ता ┉
श्रद्धेय पंडित विश्वनाथ द्विवेदी
‘सनातनी ज्योतिर्विद’
संस्थापक, अध्यक्ष एवं प्रबंध निदेशक
(‘हरि हर हरात्मक’ ज्योतिष)
संपर्क सूत्र – 07089434899
༺༻❀꧁○꧂❀༺༻