अथ पञ्चगव्यकरणम्
॥ अथ पञ्चगव्यकरणम् ॥
यजमानः आचार्यो वा स्वसमीपे कांस्यपात्रं निधाय तत्र
गोमूत्रं क्षिपेत्
ॐ भूर्ब्भुवः॒ स्वः॒ तत्त्स॑विॖतुर्व्वरे॑ण्ण्यॖम्भर्ग्गो॑ देॖवस्य॑ धीमहि।
धियोॖ ॺो नः॑ प्प्रचोॖदया॑त्॥ (यजु० ३६।३)
ततो गोमयम् क्षिप्त्वा
ॐ मा न॑स्त्तोॖके तन॑येॖ मा नॖऽआयु॑षिॖ मा नोॖ गोषु॒ मा नोॖऽअश्श्वे॑षु रीरिषः।
मा नो॑ व्वीॖरान्न्रु॑द्र भाॖमिनो॑ व्वधीर्हॖविष्म्म॑न्तः॒ सदॖमित्त्वा॑ हवामहे॥ (यजु० १६।१६)
ततः क्षीरम् क्षिप्त्वा
ॐ आप्प्या॑यस्वॖ समे॑तु ते व्विॖश्श्वतः॑ सोमॖ व्वृ॒ष्ण्ण्य॑म्।
भवाॖ व्वाज॑स्य सङ्गॖथे॥ (यजु० १२।११२)
ततो दधि क्षिप्त्वा
ॐ दॖधिॖक्क्राव्ण्णो॑ऽ अकारिषञ्ञिॖष्ण्णो रश्श्व॑स्य व्वाॖजिनः॑।
सु॒रॖभि नोॖ मुखा॑ करॖत्त्प्र णॖऽआयू॑ ᳬ षि तारिषत्॥ (यजु० २३।३२)
ततः आज्यम् (घृत) क्षिप्त्वा
ॐ तेजो॑सि शु॒क्क्रम॑स्यॖमृत॑मसिॖ धामॖ नामा॑सि प्प्रिॖयन्देॖवा नाॖमना॑ धृष्ट्टन्देवॖयज॑नमसि॥ (यजु० १।३१)
ततः कुशोदकम् क्षिप्त्वा
ॐ देॖवस्य॑ त्त्वा सवि॒तुः प्प्र॑सॖवेॗश्श्विनो॑र्ब्बाॖहुब्भ्या॑म्पू॒ष्ण्णो हस्त्ता॑ब्भ्याम्॥ (यजु० १।२१)
अनेन मन्त्रेण कुशोदकं क्षिप्त्वा। ॐ इति पञ्चगव्यम् आलोड्य॥
त्र्यृचेन कुशैः पञ्चगव्येन यज्ञमण्डपं प्रोक्षयेत्
ॐ आपोॖ हि ष्ट्ठा म॑योॖभुवॖस्ता न॑ऽऊॖर्ज्जे द॑धातन।
मॖहे रणा॑यॖ चक्क्ष॑से॥ (यजु० ११।५०)
भूमिं गन्धादिभिः संपूज्य
ॐ स्योॖना पृ॑थिवि नो भवानृक्क्षॖरा निॖवेश॑नी।
ॺच्छा॑ नः॒ शर्म्म॑ सॖप्प्रथाः॑॥ (यजु० ३६।१३)
ॐ मॖही द्यौः पृ॑थिॖवी च॑ नऽइॖमँॺ्ॺॖज्ज्ञम्मि॑मिक्क्षताम्।
पिॖपृ॒तान्नोॖ भरी॑मभिः॥ (यजु० ८।३२)
यजमानः कृताञ्जलिः सन् अधोलिखितम् मन्त्रेण त्रिवारं जपेत्
ॐ स्वॖस्ति नॖऽइन्द्रो॑ व्वृ॒द्धश्र्श्र॑वाः स्वॖस्ति नः॑ पू॒षा व्विॖश्श्ववे॑दाः।
स्वॖस्ति नॖस्त्तार्क्क्ष्योॖऽअरि॑ष्ट्टनेमिः स्वॖस्ति नोॖ बृहॖस्प्पति॑र्द्दधातु॥ (यजु० २५।१९)
पुनर्गृहीतकुसुमाञ्जलिर्यजमानः ऊर्द्ध्वं पश्यन्।
देवा आयान्तु यातुधाना अपयान्तु विष्णो देवयजनं रक्ष॥
इति पठन कुसुमाञ्जलिमूर्द्ध्वं प्रक्षिप्याचारात् भूमौ प्रादेशं कुर्यात्।
॥ इति पञ्चगव्यकरणम् ॥
॥ श्रीरस्तु ॥
༺❀༻
श्री हरि हरात्मक देवें सदा, मुद मंगलमय हर्ष।
सुखी रहे परिवार संग, अपना भारतवर्ष॥
༺༻❀༺༻
┉ संकलनकर्ता ┉
श्रद्धेय पंडित विश्वनाथ द्विवेदी
‘सनातनी ज्योतिर्विद’
संस्थापक, अध्यक्ष एवं प्रबंध निदेशक
(‘हरि हर हरात्मक’ ज्योतिष)
संपर्क सूत्र – 07089434899
༺༻❀꧁○꧂❀༺༻