अथैकपञ्चाशत् क्षेत्रपाल देवता पूजन प्रयोगः
अथैकपञ्चाशत्क्षेत्रपालदेवतापूजन प्रयोगः
वायव्यां द्वादशाङ्गुलोच्चे चतुर्विंशत्यङ्गुल समचतुरस्त्रे क्षेत्रपालपीठे पश्चिमत आरभ्य प्रागन्ता उदक्संस्था दक्षिणत आरभ्य उदगन्ता प्राक्संस्थाश्चतुस्त्रः सूत्रपातेन रेखाः कृत्वा नवकोष्टानि कारयेत्। तत्र मध्यचतुरस्त्रे कोष्टके शुक्लैस्तण्डुलैरष्टदलं विधाय पूर्वचतुरस्त्रे षड्दलं पद्मं आग्नेये षड्दलं पद्मं दक्षिणे षड्दलं पद्मं नैर्ऋत्ये षड्दलं पद्मं पश्चिमे षड्दलं पद्मं वायव्ये षड्दलं पद्मम् उत्तरे सप्तदलं पद्मम् ईशाने सप्तदलं पद्मम् एवम् अष्टौ पद्मानि कृत्वा सर्वेषु पद्मेषु ईशानतः प्रादक्षिण्येन अजरादीन्स्थापयेत्। तत्रादौ तेषु नवकोष्टकेषु मध्यकोष्टके कलशं संस्थाप्य तदुपरि क्षेत्रपालं स्थापयित्वा कोष्टान्तरेषु ततोऽजरादीन्स्थापयेत्।
ततः सपत्नीको यजमानः क्षेत्रपालस्य पीठसमीपे उद्ङ्मुखः पश्चिमाभिमुखो वा उपविश्य आचमनं प्राणायामं च कुर्यात्। ततो हस्ते जलं गृहीत्वा संकल्पं कुर्यात्।
संकल्पम्
अद्यपूर्वोच्चारित एवं शुभपुण्यतिथौ प्रारब्धस्य सग्रहमख अमुककर्मणोऽङ्गतया अस्मिन्क्षेत्रपालपीठे मध्यकोष्टके क्षेत्रपालपूजनपूर्वकं कोष्टान्तरेषु पञ्चाशत्क्षेत्रपालानां पूजनं करिष्ये॥
अधुना वामहस्ते अक्षतान् गृहीत्वा दक्षिणहस्तेन तत्तत्स्थाने श्रीक्षेत्रपालसहितेभ्यः अजरादि क्षेत्रपालदेवेभ्यो “नाम-आवाहनं” अथवा “समन्त्रक-आवाहनम्” कुर्यात्। ततो प्रतिष्ठापूर्वकम् षोडशोपचार विधिना सम्पूजयेत्॥
श्री क्षेत्रपाल देवता ध्यानं-आवाहनम्
यं यं यं यक्ष रूपं दश दिशि वदनं,
भूमि कम्पायमानं।
सं सं सं संहारमूर्ती शुभ मुकुट जटा,
शेखरम् चन्द्रबिम्बम्॥
दं दं दं दीर्घकायं विकृतनख मुखं,
चौर्ध्वरोयं करालं।
पं पं पं पापनाशं प्रणमत सततं,
भैरवं क्षेत्रपालम्॥
ॐ कर कलित कपालः कुण्डली दण्डपाणिः
तरुण तिमिर नीलो व्याल यज्ञोपवीती।
क्रतु समय सपर्या विघ्न विच्छेद हेतुर्
जयति बटुकनाथः सिद्धिदः साधकानाम॥
रौद्राय रौद्ररूपाय रणताण्डव साहिने।
महाविघ्नविनाशाय बं बटुकाय नमो नमः॥
श्री क्षेत्रपाल देवता हिन्दी आवाहन
कर कपाल शुभ सुन्दर राजे,
कुंडल कर्ण दण्ड कर साजे।
तरुण-तिमिर सम नील स्वरूपा,
व्याल-यज्ञ उपवीत अनूपा॥
विघ्ननाशि मखरक्षक पूरे,
साधु सिद्धिप्रद रण अति शूरे।
जय जय बटुकनाथ सिधिदायक,
कृपासिन्धु प्रभु भक्त सहायक॥
सीस जटा सिरमौर विराजत
भाल विशाल लसै छवि भारी।
कानन कुण्डल की मकराकृति
सोहत सुन्दरता अति प्यारी।
क्षेत्रपाल दयानिधि पाहि सदा
मम रक्षक आप सदा हितकारी।
तेज प्रताप बढ़ै जग में
मम विघ्न हरौ सब संकट टारी॥
यज्ञ की रक्षा करें जो सदा
काशी के कोतवाल कहाते।
भक्तों की कामना पूर्ण करें
माँ वैष्णों के घाम की शोभा बढ़ाते॥
कष्ट अमंगल दूर करो
कर जोरि के हम सब शीश नवाते।
हे अष्ट भैरव सुनो विनती
हो के आतुर भक्त तुम्हारे बुलाते॥
(ॐ भुर्भुवः स्वः भगवते अजरादि श्री क्षेत्रपालाय नमः, ध्यायमि आवाह्यामि स्थापयामि। भो क्षेत्रपालम् इहागच्छ इह तिष्ठ, अधुना वामहस्ते अक्षतान् गृहीत्वा दक्षिणहस्तेन तत्तत्स्थाने नाम् आवाहनं कुर्यात्। ततो प्रतिष्ठापूर्वकम् षोडशोपचार विधिना सम्पूजयेत्)
अथ श्रीक्षेत्रपालसहितेभ्यः अजरादि क्षेत्रपालदेवेभ्यो नाममन्त्रैः स्थापनम्
अथ मध्यचतुरस्त्रेऽष्टदलपद्मे क्षेत्रपालमूर्तिं निधाय क्षेत्रपाल स्थापयेत्
(१) ॐ भूर्भुवः स्वः क्षेत्रपालाय नमः क्षेत्रपालम् आवाह्यामि स्थापयामि। भो क्षेत्रपाल इहागच्छ इह तिष्ठ॥
पूर्वदिक्चतुरस्त्रे षड्दले पद्मे ईशानतः प्रदक्षिणक्रमेण षट्क्षेत्रपाल देवता स्थापनम्
(१) ॐ भूर्भुवः स्वः अजराय नमः अजरम् आवाह्यामि स्थापयामि। भो अजर इहागच्छ इह तिष्ठ॥
(२) ॐ भूर्भुवः स्वः व्यापकाय नमः व्यापकम् आवाह्यामि स्थापयामि। भो व्यापक इहागच्छ इह तिष्ठ॥
(३) ॐ भूर्भुवः स्वः इन्द्रचौराय नमः इन्द्रचौरम् आवाह्यामि स्थापयामि। भो इन्द्रचौर इहागच्छ इह तिष्ठ॥
(४) ॐ भूर्भुवः स्वः इन्द्रमूर्तये नमः इन्द्रमूर्तिम् आवाह्यामि स्थापयामि। भो इन्द्रमूर्ते इहागच्छ इह तिष्ठ ॥
(५) ॐ भूर्भुवः स्वः उक्षाय नमः उक्षम् आवाह्यामि स्थापयामि। भो उक्ष इहागच्छ इह तिष्ठ॥
(६) ॐ भूर्भुवः स्वः कूष्माण्डाय नमः कूष्माण्डम् आवाह्यामि स्थापयामि। भो कूष्माण्ड इहागच्छ इह तिष्ठ॥
आग्नेयदिक्चतुरस्त्रे षड्दले पद्मे ईशानतः प्रदक्षिणक्रमेण षट्क्षेत्रपाल देवतास्थापनम्
(७) ॐ भूर्भुवः स्वः वरुणाय नमः वरुणम् आवाह्यामि स्थापयामि। भो वरुण इहागच्छ इह तिष्ठ॥
(८) ॐ भूर्भुवः स्वः बटुकाय नमः बटुकम् आवाह्यामि स्थापयामि। भो बटुक इहागच्छ इह तिष्ठ॥
(९) ॐ भूर्भुवः स्वः विमुक्ताय नमः विमुक्तम् आवाह्यामि स्थापयामि। भो विमुक्त इहागच्छ इह तिष्ठः॥
(१०) ॐ भूर्भुवः स्वः लिप्तकायाय नमः लिप्तकायम् आवाह्यामि स्थापयामि। भो लिप्तकाय इहागच्छ इह तिष्ठ॥
(११) ॐ भूर्भुवः स्वः लीलाकाय नमः लीलाकम् आवाह्यामि स्थापयामि। भो लीलाक इहागच्छ इह तिष्ठ॥
(१२) ॐ भूर्भुवः स्वः एकदंष्ट्राय नमः एकदंष्ट्रम् आवाह्यामि स्थापयामि। भो एकदंष्ट्र इहागच्छ इह तिष्ठ॥
दक्षिणदिक्चतुरस्स्त्रे षड्दले पद्मे ईशानतः प्रदक्षिणक्रमेण षट्क्षेत्रपालदेवता स्थापनम्
(१३) ॐ भूर्भुवः स्वः ऐरावताय नमः ऐरावतम् आवाह्यामि स्थापयामि। भो ऐरावत इहागच्छ इह तिष्ठ॥
(१४) ॐ भूर्भुवः स्वः ओषधिघ्नाय नमः ओषधिघ्नम् आवाह्यामि स्थापयामि। भो ओषधिघ्न इहागच्छ इह तिष्ठ॥
(१५) ॐ भूर्भुवः स्वः बन्धनाय नमः बन्धनम् आवाह्यामि स्थापयामि। भो बन्धन इहागच्छ रह तिष्ठ॥
(१६) ॐ भूर्भुवः स्वः दिव्यकाय नमः दिव्यकम आवाह्यामि स्थापयामि। भो दिव्यक इहागच्छ इह तिष्ठ॥
(१७) ॐ भूर्भुवः स्वः कम्बलाय नमः कम्बलम् आवाह्यामि स्थापयामि। भो कम्बल इहागच्छ इह तिष्ठ॥
(१८) ॐ भूर्भुवः स्वः भीषणाय नमः भीषणम् आवाह्यामि स्थापयामि। भो भीषण इहागच्छ इह तिष्ठ॥
नैर्ऋत्यदिक्चतुरस्त्रे षड्दले पद्मे ईशानतः प्रदक्षिणक्रमेण षट्क्षेत्रपाल देवतास्थापनम्
(१९) ॐ भूर्भुवः स्वः गवयाय नमः गवयम् आवाह्यामि स्थापयामि। भो गवय इहागच्छ इह तिष्ठ॥
(२०) ॐ भूर्भुवः स्वः घण्टाय नमः घण्टम् आवाह्यामि स्थापयामि। भो घण्ट इहागच्छ इह तिष्ठ॥
(२१) ॐ भूर्भुवः स्वः व्यालाय नमः व्यालम् आवाह्यामि स्थापयामि। भो व्याल इहागच्छ इह तिष्ठ॥
(२२) ॐ भूर्भुवः स्वः अणवे नमः अणुम् आवाह्यामि स्थापयामि। भो अणो इहागच्छ इह तिष्ठ॥
(२३) ॐ भूर्भुवः स्वः चन्द्रवारुणाय नमः चन्द्रवारुणम् आवाह्यामि स्थापयामि। भो चन्द्रवारुण इहागच्छ इह तिष्ठ॥
(२४) ॐ भूर्भुवः स्वः पटाटोपाय नमः पटाटोपम् आवाह्यामि स्थापयामि। भो पटाटोप इहागच्छ इह तिष्ठ॥
पश्चिमदिक्चतुरस्त्रे षड्दले पद्मे ईशानतः प्रदक्षिणक्रमेण षट्क्षेत्रपालदेवता स्थापनम्
(२५) ॐ भूर्भुवः स्वः जटालाय नमः जटालम् आवाह्यामि स्थापयामि। भो जटाल इहागच्छ इह तिष्ठ॥
(२६) ॐ भूर्भुवः स्वः क्रतवे नमः क्रतुम् आवाह्यामि स्थापयामि। भो क्रतो इहागच्छ इह तिष्ठ॥
(२७) ॐ भूर्भुवः स्वः घण्टेश्वराय नमः घण्टेश्वरम् आवाह्यामि स्थापयामि। भो घण्टेश्वर इहागच्छ इह तिष्ठ॥
(२८) ॐ भूर्भुवः स्वः विटङ्काय नमः विटङ्कम् आवाह्यामि स्थापयामि। भो विटङ्क इहागच्छ इह तिष्ठ॥
(२९) ॐ भूर्भुवः स्वः मणिमानाय नमः मणिमानम् आवाह्यामि स्थापयामि। भो मणिमान इहागच्छ इह तिष्ठ॥
(३०) ॐ भूर्भुवः स्वः गणबन्धवे नमः गणबन्धुम् आवाह्यामि स्थापयामि। भो गणबन्धो इहागच्छ इह तिष्ठ॥
वायव्यदिक्चतुरस्त्रे षड्दले पद्मे ईशानतः प्रदक्षिणक्रमेण षट्क्षेत्रपाल देवतास्थापनम्
(३१) ॐ भूर्भुवः स्वः डामराय नमः डामरम् आवाह्यामि स्थापयामि। भो डामर इहागच्छ इह तिष्ठ ।।
(३२) ॐ भूर्भुवः स्वः ढुण्ढिकर्णाय नमः ढुण्ढिकर्णम् आवाह्यामि स्थापयामि। भो ढुण्डिकर्ण इहागच्छ इह तिष्ठ॥
(३३) ॐ भूर्भुवः स्वः स्थविराय नमः स्थविरम् आवाह्यामि स्थापयामि। भो स्थविर इहागच्छ इह तिष्ठ॥
(३४) ॐ भूर्भुवः स्वः दन्तुराय नमः दन्तुरम् आवाह्यामि स्थापयामि। भो दन्तुर इहागच्छ इह तिष्ठ॥
(३५) ॐ भूर्भुवः स्वः धनदाय नमः धनदम् आवाह्यामि स्थापयामि। भो धनद इहागच्छ इह तिष्ठ॥
(३६) ॐ भूर्भुवः स्वः नागकर्णाय नमः नागकर्णम् आवाह्यामि स्थापयामि। भो नागकर्ण इहागच्छ इह तिष्ठ॥
उत्तरदिक्चतुरस्त्रे सप्तद्ले पद्मे ईशानतः प्रदक्षिणक्रमेण सप्तक्षेत्रपाल देवतास्थापनम्
(३७) ॐ भूर्भुवः स्वः महाबलाय नमः महाबलम् आवाह्यामि स्थापयामि। भोः महाबल इहागच्छ इह तिष्ठ॥
(३८) ॐ भूर्भुवः स्वः फेत्काराय नमः फेत्कारम् आवाह्यामि स्थापयामि। भो फेत्कार इहागच्छ इह तिष्ठ॥
(३९) ॐ भूर्भुवः स्वः चीकराय नमः चीकरम् आवाह्यामि स्थापयामि। भो चीकर इहागच्छ इह तिष्ठ॥
(४०) ॐ भूर्भुवः स्वः सिंहाय नमः सिंहम् आवाह्यामि स्थापयामि। भो सिंह इहागच्छ इह तिष्ठ॥
(४१) ॐ भूर्भुवः स्वः मृगाय नमः मृगम् आवाह्यामि स्थापयामि। भो मृग इहागच्छ इह तिष्ठ॥
(४२) ॐ भूर्भुवः स्वः यक्षाय नमः यक्षम् आवाह्यामि स्थापयामि। भो यक्ष इहागच्छ इह तिष्ठ॥
(४३) ॐ भूर्भुवः स्वः मेघवाहनाय नमः मेघवाहनम् आवाह्यामि स्थापयामि। भो मेघवाहन इहागच्छ इह तिष्ठ॥
ईशानदिक्चतुरस्त्रे सप्तदले पद्मे पूर्वतः प्रदक्षिणक्रमेण सप्तक्षेत्रपाल देवतास्थापनम्
(४४) ॐ भूर्भुवः स्वः तीक्ष्णोष्ठाय नमः तीक्ष्णोष्ठम् आवाह्यामि स्थापयामि। भो तीक्ष्णोष्ठ इहागच्छ इह तिष्ठ॥
(४५) ॐ भूर्भुव स्वः अनलाय नमः अनलम् आवाह्यामि स्थापयामि। भो अनल इहागच्छ इह तिष्ठ॥
(४६) ॐ भूर्भुवः स्वः शुक्लतुण्डाय नमः शुक्लतुण्डम् आवाह्यामि स्थापयामि। भो शुक्लतुण्ड इहागच्छ इह तिष्ठ॥
(४७) ॐ भूर्भुवः स्वः सुधालापाय नमः सुधालापम् आवाह्यामि स्थापयामि। भो सुधालाप इहागच्छ इह तिष्ठ॥
(४८) ॐ भूर्भुव स्वः बर्बरकाय नमः बर्बरकम् आवाह्यामि स्थापयामि। भो बर्बरक इहागच्छ इह तिष्ठ॥
(४९) ॐ भूर्भुवः स्वः पवनाय नमः पवनम् आवाह्यामि स्थापयामि। भो पवन इहागच्छ इह तिष्ठ॥
(५०) ॐ भूर्भुवः स्वः पावनाय नमः पावनम् आवाह्यामि स्थापयामि। भो पावन इहागच्छ इह तिष्ठ॥
अथ श्रीक्षेत्रपालसहितेभ्यः अजरादि क्षेत्रपालदेवेभ्यो समन्त्रक स्थापनम्
क्षेत्रपालपीठे मध्यकोष्टके क्षेत्रपालस्य कृताग्न्युत्तारणां सुवर्णनिर्मितां क्षेत्रपालप्रतिमां निधाय तत्र क्षेत्रपालमावाहयेत्। हस्तेऽक्षतान्गृहीत्वा॥
क्षेत्रपालम्
ॐ नमो॑स्तु सॖर्प्पेब्भ्योॖ ॺे के च॑ पृथिॖवीमनु॑।
ॺेऽअ॒न्तरि॑क्षे॒ ॺे दिॖवि तेब्भ्यः॑ सॖर्प्पेब्भ्योॖ नमः॑॥ (यजु० १३।६)
(ॐ भूर्भुवः स्वः क्षेत्रपालाय नमः क्षेत्रपालम् आवाह्यामि स्थापयामि। भो क्षेत्रपाल इहागच्छ इह तिष्ठ॥१॥)
पूर्वादिक् चतुरस्त्रे षड्दले पद्मे ईशानतः प्रदक्षिणक्रमेण षट्क्षेत्रपाल देवतास्थापनम्
अजरम्
ॐ पाॖवॖकयाॖ ॺश्च्चिॖतय॑न्त्या कृ॒पा क्क्षाम॑न्नुरुॖचऽउॖषसोॖ न भाॖनुना॑।
तूर्व्वॖन्न यामॖन्नेत॑शस्यॖ नू रण॑ऽआ यो घृ॒णे न त॑तृषाॖणोऽॶजरः॑॥ (यजु० १७।१०)
(ॐ भूर्भुवः स्वः अजराय नमः अजरम् आवाह्यामि स्थापयामि। भो अजर इहागच्छ इह तिष्ठ॥१॥)
व्यापकम्
ॐ प्रॖथॖमा वा॑ᳬ॑ सरॖथिना॑ सु॒वर्ण्णा॑ देॖवौ पश्श्य॑न्तौॖ भुव॑नानिॖ व्विश्श्वा॑।
अपि॑प्प्रयॖञ्चोद॑ना वाॖम्मिमा॑नाॖ होता॑राॖ ज्ज्योतिः॑ प्प्रॖदिशा॑ दिॖशन्ता॑॥ (यजु० २९।७)
(ॐ भूर्भुवः स्वः व्यापकाय नमः व्यापकम् आवाह्यामि स्थापयामि। भो व्यापक इहागच्छ इह तिष्ठ॥२॥)
इन्द्रचौरम्
ॐ इन्द्र॑स्य॒ व्वज्ज्रो॑ मॖरुताॖमनी॑कम्मिॖत्र्त्रस्यॖ गर्ब्भोॖ व्व॑रुणस्यॖ नाभिः॑।
सेमान्नो॑ हॖव्व्यदा॑तिञ्जुषाॖणो देव॑ रथॖ प्प्रति॑ हॖव्व्या गृ॑भाय॥ (यजु० २९।५४)
(ॐ भूर्भुवः स्वः इन्द्रचौराय नमः इन्द्रचौरम् आवाह्यामि स्थापयामि। भो इन्द्रचौर इहागच्छ इह तिष्ठ॥३॥)
इन्द्रमूर्तिम्
ॐ एॖवेदिन्द्रॖँव्वृष॑णॖँ व्वज्ज्र॑बाहुँ॒ व्वसि॑ष्ट्ठासोऽ ॶब्भ्य॒र्च्चन्त्यॖर्क्कैः।
स न॑ स्त्तु॒तो व्वीॖरव॑द्धातु॒ गोम॑द्यू॒यम्पा॑त स्वॖस्त्तिभिॖः सदा॑ नः॥ (यजु० २०।५४)
(ॐ भूर्भुवः स्वः इन्द्रमूर्तये नमः इन्द्रमूर्तिम् आवाह्यामि स्थापयामि। भो इन्द्रमूर्ते इहागच्छ इह तिष्ठ॥४॥)
उक्षम्
ॐ उॖक्क्षा स॑मु॒द्रोऽअ॑रुॖणः सु॑पॖर्ण्णः पूर्व्व॑स्यॖ ॺोनि॑म्पिॖतुरावि॑वेश।
मद्ध्ये॑ दिॖवो निहि॑तॖः पृश्न्निॖरश्म्माॖ व्विच॑क्क्रमेॖ रज॑सस्प्पाॖत्त्यन्तौ॑॥ (यजु० १७।६०)
(ॐ भूर्भुवः स्वः उक्षाय नमः उक्षम् आवाह्यामि स्थापयामि। भो उक्ष इहागच्छ इह तिष्ठ॥५॥)
कूष्माण्डम्
ॐ ॺद्दे॑वा देवॖहेड॑नॖन्देवा॑सश्च्चकृ॒मा व्वॖयम्।
ॶग्निर्म्माॖ तस्म्माॖदेन॑सोॖ व्विश्श्वा॑न्न्मुञ्चत्त्वᳯह॑सः॥ (यजु० २०।१४)
(ॐ भूर्भुवः स्वः कूष्माण्डाय नमः कूष्माण्डम् आवाह्यामि स्थापयामि। भो कूष्माण्ड इहागच्छ इह तिष्ठ॥६॥)
आग्नेयदिश्चतुरस्रे षड्दले पद्म ईशानतः प्रदक्षिणक्रमेण षट्क्षेत्रपालदेवतास्थापनम्
वरुणम्
ॐ इॖमम्मे॑ व्वरुण श्र्श्रु॒धी हव॑मॖद्या च॑ मृडय।
त्वाम॑वॖस्युराच॑के॥ (यजु० २१।१)
(भूर्भुवः स्वः वरुणाय नमः वरुणम् आवाह्यामि स्थापयामि। भो वरुण इहागच्छ इह तिष्ठ॥७॥)
बटुकम्
ॐ नॖहि स्प्पशॖमवि॑दन्नॖन्न्य मॖस्म्माद्दवैश्श्वा नॖरात्त्पु॑रऽ एॖतार॑मॖग्ग्नेः।
एमे॑न मवृधन्नॖमृताॖऽ अम॑र्त्त्यँव्वैश्श्वानॖर ङ्क्षैत्र॑जित्त्याय देॖवाः॥ (यजु० ३३।६०)
(ॐ भूर्भुवः स्वः बटुकाय नमः बटुकम् आवाह्यामि स्थापयामि। भो बटुक इहागच्छ इह तिष्ठ ॥८॥)
विमुक्तम्
ॐ मु॒ञ्चन्तु॑ मा शपॖत्थ्याॗदथो॑ व्वरुॖण्ण्या॒दु॒त।
अथो॑ ॺॖमस्यॖ पड्वी॑शाॖत्त्सर्व्व॑स्म्माद्देव किल्ब्बिॖषात्॥ (यजु० १२।९०)
(ॐ भूर्भुवः स्वः विमुक्ताय नमः विमुक्तम् आवाह्यामि स्थापयामि। भो विमुक्त इहागच्छ इह तिष्ठ॥९॥)
लिप्तकायम्
ॐ कु॒र्व्वन्नेॖवेह कर्म्मा॑णि जिजीविॖषेच्छॖतᳯ समाः॑।
एॖवन्त्वयिॖ नान्न्यथेॖतो॒स्त्तिॖ न कर्म्म॑ लिप्प्यतेॖ नरे॑॥ (यजु० ४०।२)
(ॐ भूर्भुवः स्वः लिप्तकायाय नमः लिप्तकायम् आवाह्यामि स्थापयामि। भो लिप्तकाय इहागच्छ इह तिष्ठ॥१०॥)
लीलाकम्
ॐ अर्म्मे॑ब्भ्यो हस्त्तिॖपञ्जॖवाया॑श्श्वपम्पुष्ट्टयै॑ गोपाॖलँव्वीॖर्ॺ्ॺा॒या विपाॖलन्तेज॑से जपाॖलमिरा॑यैकीॖनाश॑ङ्कीॖलाला॑य सुराकाॖरम्भॖद्राय॑ गृहॖपᳬ॑ श्रेय॑से वित्तॖधमाद्ध्य॑क्क्ष्या यानुक्क्षॖत्तार॑म्॥ (यजु० ३०।११)
(ॐ भूर्भुवः स्वः लीलाकाय नमः लीलाकम् आवाह्यामि स्थापयामि। भो लीलाक इहागच्छ इह तिष्ठ॥११॥)
एकदंष्ट्रम्
ॐ सु॒पॖर्ण्णव्व॑स्ते मृ॒गोऽअ॑स्याॖ दन्तोॖ गोभिॖः सन्न॑द्धा पततिॖ प्प्र॑सूता।
ॺत्राॖ नरॖः सञ्चॖ व्वि चॖ द्रव॑न्तिॖ तत्राॖस्म्मब्भ्यॖमिष॑वॖः शर्म्म॑ ॺᳯसन्॥ (यजु० २९।४८)
(ॐ भूर्भुवः स्वः एकदंष्ट्राय नमः एकदंष्ट्रम् आवाह्यामि स्थापयामि। भो एकदंष्ट्र इहागच्छ इह तिष्ठ॥१२॥)
दक्षिणदिक्चतुरस्रे षड्दले पद्मे ईशानतः प्रदक्षिणक्रमेण षट्क्षेत्रपाल देवतास्थापनम्
ऐरावतम्
ॐ प्रॖजाप॑तये च व्वाॖयवे॑ च गोमृ॒गो व्वरु॑णायारॖण्ण्यो मेॖषो ॺॖमायॖ कृष्ण्णो॑ मनुष्ष्यराॖजाय॑ मॖर्क्कटः॑ शार्द्दू॒लाय॑ रोॖहिदृ॑षॖभाय॑ गवॖयी क्क्षि॑प्प्रश्श्येॖनायॖ व्वर्त्तिकाॖ नील॑ङ्गोॖ क्क्रिमिः॑ समु॒द्राय॑ शिशु॒मारो॑ हिॖपव॑ते हॖस्ती॥ (यजु० २४।३०)
(ॐ भर्भुवः स्वः ऐरावताय नमः ऐरावतम् आवाह्यामि स्थापयामि। भो ऐरावत इहागच्छ इह तिष्ठ॥१३॥)
ओषधिघ्नम्
ॐ ओष॑धयॖः सम॑वदन्तॖ सोमे॑न सह राज्ज्ञा॑।
ॺस्म्मै॑ कृ॒णोति॑ ब्ब्राह्मॖणस्त्तᳯ रा॑जन्न्पारयामसि॥ (यजु० १२।९६)
(ॐ भूर्भुवः स्वः ओषधिघ्नाय नमः ओषधिघ्नम् आवाह्यामि स्थापयामि। भो ओषधिघ्न इहागच्छ इह तिष्ठ॥१४॥)
बन्धनम्
ॐ त्र्य॑म्बकँॺ्ॺजामहे सुगॖन्धिम्पु॑ष्ट्टि॒वर्द्ध॑नम्।
उॖर्व्वाॖरुॖकमि॑वॖ बन्ध॑नान्न्मृ॒त्त्योर्म्मु॑क्क्षीयॖ मामृता॑त्॥ (यजु० ३।६०)
(ॐ भूर्भुवः स्वः बन्धनाय नमः बन्धनम् आवाह्यामि स्थापयामि। भो बन्धन इहागच्छ इह तिष्ठ॥१५॥)
दिव्यकम्
ॐ देव॑ सवितुॖः प्प्रसु॑व ॺॖज्ज्ञम्प्रसु॑व ॺॖज्ज्ञप॑तिॖम्भगा॑य।
दिॖव्व्यो ग॑न्धॖर्व्वः के॑तॖपूः केत॑न्नः पुनातु व्वाॖचस्प्पतिॖर्व्वाच॑न्नः स्वदतु॥ (यजु० ११।७)
(ॐ भूर्भुवः स्वः दिव्यकाय नमः दिव्यकम् आवाह्यामि स्थापयामि। भो दिव्यक इहागच्छ इह तिष्ठ॥१६॥)
कम्बलम्
ॐ सीसे॑नॖ तन्त्रॖम्मन॑सा मनीॖषिण॑ऽ ऊर्ण्णासू॒त्र्त्रेण॑ कॖवयो॑ व्वयन्ति।
ॶश्श्विना॑ ॺॖज्ज्ञᳯ स॑विॖता सर॑स्वॖतीन्द्र॑स्य रूॖपँव्वरु॑णो भिषॖज्ज्यन्॥ (यजु० १९।८०)
(ॐ भूर्भुवः स्वः कम्बलाय नमः कम्बलम् आवाह्यामि स्थापयामि। भो कम्बल इहागच्छ इह तिष्ठ॥१७॥)
भीषणम्
ॐ आॖशुः शिशा॑नो व्वृषॖभो न भीॖमो घ॑नाघॖनः क्क्षोभ॑णश्च्चर्षणीॖनाम्।
सॖङ्क्रन्द॑नोनिमिॖषऽए॑कवीॖरः शॖतᳯ सेना॑ऽअजयत्त्साॖकमिन्द्रः॑॥ (यजु० १७।३३)
(ॐ भूर्भुवः स्वः भीषणाय नमः भीषणम् आवाह्यामि स्थापयामि। भो भीषण इहागच्छ इह तिष्ठ॥१८॥)
नैर्ऋत्यदिक्चतुरस्त्रे षड्दले पद्मे ईशानतः प्रदक्षिणक्रमेण षट्क्षेत्रपाल देवतास्थापनम्
गवयम्
ॐ इॖमᳯ सा॑हॖस्त्रᳯ शॖतधा॑रॖमुत्त्सँ॑व्व्यॖच्च्यमा॑नᳯ सरिॖरस्यॖ मद्ध्ये॑।
घृ॒तन्दुहा॑नाॖमदि॑तिॖञ्जनाॖयाग्ग्नेॖ मा हि॑ᳯसीः परॖमे व्व्यो॑मन्।
गॖवॖयमा॑रॖण्ण्यमनु॑ ते दिशामिॖ तेन॑ चिन्न्वाॖनस्त्तॖन्न्वोॗ निषी॑द।
गॖवॖयन्तेॖ शुगृ॑च्छतु॒ ॺन्द्विॖष्म्मस्त्तन्तेॖ शुगृ॑च्छतु॥ (यजु० १३।४९)
(ॐ भूर्भुवः स्वः गवयाय नमः गवयम् आवाह्यामि स्थापयामि। भो गवय इहागच्छ इइ तिष्ठ॥१९॥)
घण्टम्
ॐ कु॒म्भो व्व॑निॖष्टुर्ज्ज॑निॖता शची॑भिॖर्ॺ्ॺस्म्मिॖन्नग्ग्रेॖ ॺोन्न्याॖङ्गर्ब्भो॑ऽॶन्तः।
प्लाॖशिर्व्व्य॑क्तः शॖतधा॑रॖऽउत्त्सो॑ दु॒हे न कु॒म्भी स्वॖधाम्पिॖतृब्भ्यः॑॥ (यजु० १९।८७)
(ॐ भूर्भुवः स्वः घण्टाय नमः घण्टम् आवाह्यामि स्थापयामि। भो घण्ट इहागच्छ इह तिष्ठ॥२०॥)
व्यालम्
ॐ आक्क्र॑न्दयॖ बलॖमोजो॑ नॖऽआधाॖ निष्ट्ट॑निहि दुरिॖता बाध॑मानः।
अप॑प्प्रोथ दुन्दुभे दु॒च्छुना॑ऽइॖतऽइन्द्र॑स्य मु॒ष्ट्टिर॑सि व्वीॖडय॑स्व॥ (यजु० २९।५६)
(ॐ भूर्भुवः स्वः व्यालाय नमः व्यालम् आवाह्यामि स्थापयामि। भो व्याल इहागच्छ इह तिष्ठ॥२१॥)
अणुम्
ॐ इन्द्राया॑हि चित्रभानो सु॒ताऽइॖमे त्त्वाॖयवः॑।
अण्ण्वी॑भिॖस्त्तना॑ पू॒तासः॑॥ (यजु० २०।८७)
(भूर्भुवः स्वः अणवे नमः अणुम् आवाह्यामि स्थापयामि। भो अणो इहागच्छ इह तिष्ठ॥२२॥)
चन्द्रवारुणम्
ॐ चॖन्द्रममा॑ऽ ॶप्प्स्वॗन्तरा सु॑पॖर्ण्णो धा॑वते दिॖवि।
रॖयिम्पिॖशङ्ग॑म्बहु॒लम्पु॑रुॖस्पृहॖᳯ॒ हरि॑रेतिॖ कनि॑क्क्रदत्॥ (यजु० ३३।९०)
(ॐ भूर्भुवः स्वः चन्द्रवारुणाय नमः चन्द्रवारुणम् आवाह्यामि स्थापयामि। भो चन्द्रवारुण इहागच्छ इह तिष्ठ॥२३॥)
पटाटोपम्
ॐ स्वाङ्कृ॑तोसिॖ व्विश्श्वे॑ब्भ्यऽइन्द्रिॖयेब्भ्यो॑ दिॖव्व्येब्भ्यॖः पार्त्थि॑वेब्भ्योॖ मन॑स्त्त्वाष्टु॒ स्वाहा॑ त्त्वा सुभवॖ सूर्ॺ्ॺाय देॖवेब्भ्य॑स्त्त्वा मरीचिॖपेब्भ्योॖ देवा॑ᳬ॑शोॖ ॺस्म्मैॖ त्त्वेडेॖ तत्त्सॖत्त्यमु॑परिॖप्प्रुता॑ भॖङ्गेन॑ हॖतोॗसौ फट्ट॒प्राॖणाय॑ त्त्वा व्व्याॖनाय॑ त्त्वा॥ (यजु० ७।३)
(ॐ भूर्भुवः स्वः पटाटोपाय नमः पटाटोपम् आवाह्यामि स्थापयामि। भो पटाटोप इहागच्छ इह तिष्ठ॥२४॥)
पश्चिमदिक्चतुरस्रे षड्दले पद्मे ईशानतः प्रदक्षिणक्रमेण षट्क्षेत्रपाल देवतास्थापनम्
जटालम्
ॐ उॖग्ग्रँल्लोहि॑तेन मिॖत्र्त्रᳯ सौव्र्व॑त्त्येन रुॖद्रन्दौर्व्व्र॑त्त्येॖनेन्द्र॑म्प्रक्क्रीॖडेन॑ मॖरुतोॖ बले॑न साॖद्ध्यान्न्प्रॖमुदा॑।
भॖवस्यॖ कण्ठ्य॑ᳯ रुॖद्रस्या॑न्तः पाॖर्श्र्श्र्व्यम्म॑हादेॖवस्यॖ ॺकृ॑च्छॖर्व्वस्य॑ व्वनिॖष्ठुः प॑शु॒पतेः॑ पुरीॖतत्॥ (यजु० ३९।९)
(ॐ भूर्भुवः स्वः जटालाय नमः जटालम् आवाह्यामि स्थापयामि। भो जटाल इहागच्छ इह तिष्ठ॥२५॥)
क्रतुम्
ॐ पॖवित्र्त्रे॑ण पुनीहि मा शुक्क्रेण॑ देवॖ दीद्य॑त्।
अग्ग्नेॖ क्क्रत्त्वाॖ क्क्रतू॒१ँ॥रनु॑ (यजु० १९।४०)
(ॐ भूर्भुवः स्वः क्रतवे नमः क्रतुम् आवाह्यामि स्थापयामि। भो क्रतो इहागच्छ इह तिष्ठ॥२६॥)
घण्टेश्वरम्
ॐ आजि॑ग्घ्र कॖलश॑म्मॖह्या त्त्वा॑ व्विशॖन्त्विन्द॑वः।
पुन॑रूॖर्ज्जा निव॑र्त्तस्वॖ सा नः॑ सॖहस्र॑न्धुक्क्ष्वोॖरुधा॑राॖ पय॑स्वतीॖ पुनॖर्म्मावि॑शताद्रॖयिः॥ (यजु० ८।४२)
(ॐ भूर्भुवः स्वः घण्टेश्वराय नमः घण्टेश्वरम् आवाह्यामि स्थापयामि। भो घण्टेश्वर इहागच्छ इह तिष्ठ॥२७॥)
विटङ्कम्
ॐ व्वायो॑ शु॒क्क्रोऽअ॑यामि तेॖ मद्ध्वोॖऽअग्ग्रॖन्दिवि॑ष्ट्टिषु।
आया॑हिॖ सोम॑पीतये स्प्पाॖर्हो दे॑व निॖयुत्त्व॑ता॥ (यजु० २७।३०)
(ॐ भूर्भुवः स्वः विटङ्काय नमः विटङ्कम् आवाह्यामि स्थापयामि। भो विटङ्कः इहागच्छ इह तिष्ठ॥२८॥)
मणिमानम्
ॐ दैव्व्याॖ होता॑रा भिॖषजेन्द्रे॑ण सॖयुजा॑ ॺु॒जा।
जग॑तीॖ च्छन्द॑ऽइन्द्रिॖयम॑नॖड्डवान्न्गौर्व्वयो॑। दधुः॥ (यजु० २१।१८)
(ॐ भूर्भुवः स्वः मणिमानाय नमः मणिमानम् आवाह्यामि स्थापयामि। भो मणिमान इहागच्छ इह तिष्ठ॥२९॥)
गणबन्धुम्
ॐ त्रीणि॑ तऽआहुर्द्दिॖवि बन्ध॑नानिॖ त्र्त्रीण्ण्यॖप्प्सु त्र्त्रीण्ण्यॖन्तः स॑मु॒द्रे।
उॖतेव॑ मेॖ व्वरु॑णश्च्छन्त्स्यन्यर्व्वॖन्न्यत्रा॑ तऽआॖहुः प॑रॖमञ्जॖनित्र्त्र॑म्॥ (यजु० २९।१५)
(ॐ भूर्भुवः स्वः गणबन्धवे नमः गणबन्धुम् आवाह्यामि स्थापयामि। भो गणवन्धो इहागच्छ इह तिष्ठ॥३०॥)
वायव्यदिक्चतुरस्त्रे षड्दले पद्मे ईशानतः प्रदक्षिणक्रमेण षट्क्षेत्रपाल देवतास्थापनम्
डामरम्
ॐ प्रॖतिॖश्र्श्रुत्त्का॑याऽ अर्त्तॖनङ्घोषा॑य भॖषमन्ता॑य बहुवाॖदिन॑मनॖन्तायॖ मूकॖᳯ॒ शब्दा॑याडम्बराघातम्मह॑से व्वीणावाॖदङ्क्रोशा॑य तूणवॖद्ध्यम॑वरस्प्पॖराय॑ शङ्बॖद्धभँव्वना॑य व्वनॖपमॖन्न्यतो॑रण्ण्याय दावॖपम्॥ (यजु० ३०।१९)
(ॐ भूर्भुवः स्वः डामराय नमः डामरम् आवाह्यामि स्थापयामि। भो डामर इहागच्छ इह तिष्ठ॥३१॥)
ढुण्ढिकर्णम्
ॐ शु॒द्धवा॑लः सॖर्व्वशु॑द्धवालो मणिॖवालॖस्त्तऽ आ॑श्श्विॖनाः श्येतः॑ श्येताॖक्क्षोॖरुॖणस्त्ते रुॖद्राय॑ पशु॒पत॑ये कॖर्ण्णा ॺाॖमाऽअ॑वलिॖप्प्ता रौॖद्रा नभो॑रूपाः पार्ज्जॖन्न्याः॥ (यजु० २४।३)
(ॐ भूर्भुवः स्वः ढुण्ढिकर्णाय नमः ढुण्ढिकर्णम् आवाह्यामि स्थापयामि। भो ढुण्डिकर्ण इहागच्छ इह तिष्ठ॥३२॥)
स्थविरम्
ॐ बॖलॖविॖज्ज्ञाॖय स्त्थवि॑रॖः प्प्रवी॑रॖः सह॑स्वान्न्वाॖजी सह॑मानऽउॖग्ग्रः।
ॶभिवी॑रोऽ ॶभिस॑त्त्वा सहोॖजा जैत्र्त्र॑मिन्द्रॖ रथॖमाति॑ष्ट्ठ गोॖवित्॥ (यजु० १७।३७)
(ॐ भूर्भुवः स्वः स्थविराय नमः स्थविरम् आवाह्यामि स्थापयामि। भो स्थविर इहागच्छ इह तिष्ठ॥३३॥)
दन्तुरम्
ॐ सु॒पॖर्ण्णव्व॑स्त्ते मृ॒गोऽअ॑स्याॖ दन्तोॖ गोभिॖः सन्न॑द्धा पततिॖ प्प्रसू॑ता।
ॺत्राॖ नरॖः सञ्चॖ व्वि चॖ द्रव॑न्तिॖ तत्राॖस्म्मब्भ्यॖमिष॑वॖः शर्म्म॑ ॺᳯसन्॥ (यजु० २९।४८)
(ॐ भूर्भुवः स्वः दन्तुराय नमः दन्तुरम् आवाह्यामि स्थापयामि। भो दन्तुर इहागच्छ इह तिष्ठ॥३४॥)
धनदम्
ॐ अग्ग्नेॖऽ अच्छा॑ व्वदेॖह नॖः प्प्रति॑ नः सु॒मना॑ भव।
प्र नो॑ ॺच्छ सहस्रजिॖत्त्वᳯ हि ध॑नॖदाऽअसिॖ स्वाहा ॑॥ (यजु० ९।२८)
(ॐ भूर्भुवः स्वः धनदाय नमः धनदम् आवाह्यामि स्थापयामि। भो धनद इहागच्छ इह तिष्ठ॥३५॥)
नागकर्णम्
ॐ भॖद्रङ्कर्ण्णै॑॑भिः शृणुयामदेवा भॖद्द्रम्प॑श्श्येमाॖक्क्षभि॑र्ॺ्ॺजत्र्त्राः।
स्थिॖरैरङ्गै॑स्तुष्टु॒वाᳬ॑ स॑स्त्तॖनूभिॖर्व्व्यॖशेमहि देॖवहि॑तॖँ ॺ्ॺदायुः॑॥ (यजु० २५।२१)
(ॐ भूर्भुवः स्वः नागकर्णाय नमः नागकर्णम् आवाह्यामि स्थापयामि। भो नागकर्ण इहागच्छ इह तिष्ठ॥३६॥)
उत्तरदिक्चतुरस्त्रे सप्तदले पद्ये ईशानतः प्रदक्षिणक्रमेण सप्तक्षेत्रपाल देवतास्थापनम्
महाबलम्
ॐ बाॖहू मेॖ बल॑मिन्द्रिॖयᳯ हस्त्तौ॑ मेॖ कर्म्म॑ व्वीॖर्ॺ्ॺॖम्।
आॖत्त्क्मा क्क्षॖत्रमुरोॖ मम॑॥ (यजु० २०।७)
(ॐ भूर्भुवः स्वः महाबलाय नमः महाबलम् आवाह्यामि स्थापयामि। भो महाबल इहागच्छ इइ तिष्ठ॥३७॥)
फेत्कारम्
ॐ ॶपाम्फेने॑नॖ नमु॑चेॖः शिर॑ऽइॖन्द्रोद॑वर्त्तयः।
व्विश्श्वाॖ ॺदज॑यॖ स्पृधः॑॥ (यजु० १९।७१)
(ॐ भूर्भुवः स्वः फेत्काराय नमः फेत्कारम् आवाह्यामि स्थापयामि। भो फेत्कार इहागच्छ इह तिष्ठ॥३८॥)
चीकरम्
ॐ इॖदᳯ हॖविः प्प्रॖजन॑नम्मे ऽअस्तु॒ दश॑वीरॖ ᳯ॒ सर्व्व॑गणᳬ स्वॖस्त्तये॑।
आ॒त्क्मॖसनि॑ प्प्रजाॖसनि॑ पशु॒सनि॑ लोकॖसन्न्य॑भयॖसनि॑।
अ॒ग्ग्निः प्प्रॖजाम्ब॑हु॒लाम्मे॑ करोॖत्त्वन्नॖम्पयोॖ रेतो॑ऽअ॒स्म्मासु॑ धत्त॥ (यजु० १९।४८)
(ॐभूर्भुवः स्वः चीकराय नमः चीकरम् आवाह्यामि स्थापयामि। भो चीकर इहागच्छ इह तिष्ठ॥३९॥)
सिंहम्
ॐ ॺा व्व्याॖग्घ्रँ व्विषू॑चिकोॖभौ व्वृक॑ञ्चॖ रक्क्ष॑ति।
श्येॖनम्प॑तॖत्रिण॑ᳯ सिॖᳯ॒हᳯ सेमम्पाॖत्त्वᳯह॑सः॥ (यजु० १९।१०)
(ॐ भूर्भुवः स्वः सिंहाय नमः सिंहम् आवाह्यामि स्थापयामि। भो सिंह इहागच्छ इह तिष्ठ॥४०॥)
मृगम्
ॐ मृ॒गो न भीॖमः कु॑चॖरो गि॑रिॖष्ट्ठाः प॑राॖवतॖऽआज॑गन्थाॖ पर॑स्याः।
सृ॒कᳯ सॖᳯ॒शाय॑ पॖविमि॑न्द्र तिॖग्ग्मँव्वि शत्र्त्रू॑न्ताढिॖ व्वि मृधो॑ नुदस्व॥ (यजु० १८।७१)
(ॐ भूर्भुवः स्वः मृगाय नमः मृगम् आवाह्यामि स्थापयामि। भो मृग इहागच्छ इह तिष्ठ॥४१॥)
यक्षम्
ॐ देॖवॖहूर्ॺ्ॺॖज्ज्ञऽआ च॑ व्वक्क्षत्त्सुम्म्नॖहूर्ॺ्ॺॖज्ज्ञऽआ च व्वक्क्षत्।
ॺक्क्ष॑दॖग्ग्निर्द्देॖवो देॖवा२ँ॥ऽआ च व्वक्क्षत्॥ (यजु० १७।६२)
(ॐ भूर्भुवः स्वः यक्षाय नमः यक्षम् आवाह्यामि स्थापयामि। भो यक्ष इहागच्छ इह तिष्ठ॥४२॥)
मेघवाहनम्
ॐ जीॖमूत॑स्येव भवतिॖ प्प्रती॑कॖँॺ्ॺद्वॖर्म्मी ॺाति॑ सॖमदा॑मु॒पस्त्थे॑।
अना॑विद्धया तॖन्न्वाॖ जयॖ त्त्वᳯ स त्त्वाॖ व्वर्म्म॑णो महिॖमा पि॑पर्त्तु॥ (यजु० २९।३८)
(ॐ भूर्भुवः स्वः मेघवाहनाय नमः मेघवाहनम् आवाह्यामि स्थापयामि। भो मेघवाहन इहागच्छ इह तिष्ठ॥४३॥)
ईशानादिक्चतुरस्त्रे सप्तदलपद्मे ईशानतः प्रदक्षिणक्रमेण सप्तक्षेत्रपाल देवतास्थापनम्
तीक्ष्णोष्ठम्
ॐ तीॖव्व्रान्न्घोषा॑न्न्कृण्ण्वतेॖ व्वृष॑पाणॖयोश्श्वाॖ रथे॑भिः सॖह व्वाॖजय॑न्तः।
ॶवॖक्क्राम॑न्तॖः प्प्रप॑दैरॖ मित्र्त्रा॑न्न्क्षिॖणन्तिॖ शत्र्त्रू॒१ँ॥रन॑पव्व्ययन्तः॥ (यजु० २९।४४)
(ॐ भूर्भुवः स्वः तीक्ष्णोष्ठाय नमः तीक्ष्णोष्ठम् आवाह्यामि स्थापयामि। भो तीक्ष्णोष्ठ इहागच्छ इह तिष्ठ॥४४॥)
अनलम्
ॐ व्वाॖयुष्ट्वा॑ पचॖतैर॑वॖत्त्वसि॑त ग्ग्रीवॖश्च्छागै॑र्न्न्यॖग्ग्रो ध॑श्च्चमॖसैः श॑ल्म्मॖलिर्व्वृद्ध्या॑।
एॖष स्य राॖत्थ्यो व्वृषा॑ पॖड्डभिश्च्चॖतुर्ब्भिॖरे द॑गन्न्ब्रॖह्मा कृ॑ष्ण्णश्च्च नोवतु॒ नमोॖग्ग्नये॑॥ (यजु० २३।१३)
(ॐ भूर्भुवः स्वः अनलाय नमः अनलम् आवाह्यामि स्थापयामि। भो अनल इहागच्छ इह तिष्ठ॥४५॥)
शुक्लतुण्डम्
ॐ अदि॑त्त्यास्त्त्वा पृ॒ष्ट्ठे सा॑दयाम्म्यॖन्तरि॑क्क्षस्य धॖर्त्र्त्रीँव्विॖष्ट्टम्भ॑नीन्दिॖशा मधि॑पत्क्नीॖम्भुव॑नानाम्।
ऊॖर्म्मिर्द्रॖप्प्सोऽॶपाम॑सि व्विॖश्श्वक॑र्म्मा त॒ऽऋषि॑रॖश्श्विना॑द्धवॖर्ॺ्ॺू सा॑दयतामिॖह त्त्वा॑॥ (यजु० १४।५)
(ॐ भूर्भुवः स्वः शुक्लतुण्डाय नमः शुक्लतुण्डम् आवाह्यामि स्थापयामि। भो शुक्लतुण्ड इहागच्छ इह तिष्ठ॥४६॥)
सुधालापम्
ॐ द्यौस्त्ते॑ पृथिॖव्व्यॗन्तरि॑क्क्षँ व्वाॖयुश्च्छिॖद्रम्पृ॑णातु ते।
सूर्ॺ्ॺ॑स्त्तेॖ नक्क्ष॑त्रैः सॖह लोॖकङ्कृ॑णोतु साधु॒या॥ (यजु० २३।४३)
(ॐ भूर्भुवः स्वः सुधालापाय नमः सुधालापम् आवाह्यामि स्थापयामि। भो सुधालाप इहागच्छ इह तिष्ठ॥४७॥)
बर्बरकम्
ॐ सम्बॖर्हिर॑ङ्क्ताᳬ॑ हॖविषा॑ घृ॒तेनॖ समा॑दिॖत्त्यैर्व्वसु॑भिॖः सम्मॖरुद्भिः॑।
समिन्द्रो॑ व्विॖश्श्वदे॑वेभिरङ्क्तान्दिॖव्व्यन्नभो॑ गच्छेतु॒ ॺत्त्स्वाहा॑॥ (यजु० २।२२)
(ॐ भूर्भुवः स्वः बर्बरकाय नमः बर्बरकम् आवाह्यामि स्थापयामि। भो बर्बरक इहागच्छ इह तिष्ठ॥४८॥)
पवनम्
ॐ पव॑मानॖः सोऽॶद्य नः॑ पॖवित्र्त्रे॑णॖ व्विच॑र्षणिः।
ॺः पोताॖ स पु॑नातु मा॥ (यजु० १९।४२)
(ॐ भूर्भुवः स्वः पवनाय नमः पवनम् आवाह्यामि स्थापयामि। भो पवन इहागच्छ इह तिष्ठ॥४९॥)
पावनम्
ॐ ॶब्भ्यॖर्षत सुष्ट्टूॖतिङ्गव्व्य॑माॖजिमॖस्म्मासु॑ भॖद्रा द्रवि॑णानि धत्त।
इमँॺ्ॺॖज्ज्ञन्न॑यत देॖवता॑ नो घृ॒तस्यॖ धाराॖ मधु॑मत्त्पवन्ते॥ (यजु० १७।९८)
(ॐ भूर्भुवः स्वः पावनाय नमः पावनम् आवाह्यामि स्थापयामि। भो पावन इहागच्छ इह तिष्ठ॥५०॥)
अथ् पूजन प्रकरणम्
ततः प्रतिष्ठापनम्
ॐ मनो॑ जू॒तिर्ज्जु॑षताॖमाज्ज्य॑स्यॖ बृहॖस्प्पति॑र्ॺ्ॺज्ज्ञमिॖमन्त॑नोॖत्त्वरि॑ष्ट्टँ ॺ्ॺॖज्ज्ञᳯ समिॖमन्द॑धातु॒।
व्विश्श्वे॑ देॖवास॑ऽइॖह मा॑दयन्ताॖमो॑३ म्प्रति॑ष्ट्ठ॥ (यजु० २।१३)
ॐ अस्यै प्राणाः प्रतिष्ठन्तु अस्यै प्राणाः क्षरन्तु च।
अस्यै देवत्वमर्चायै मामहेति च कश्चन॥
(ॐ भूर्भुवः स्वः क्षेत्रपालसहिताः अजरादिक्षेत्रपालदेवाः सुप्रतिष्ठिता वरदा भवत॥ पुनर्हस्तेऽक्षतानादाय आसनम्)
आसनम्
ॐ वर्ष्मोऽस्मि समानानामुद्यतामिव सूर्ॺः।
इमन्तमभितिष्ठामि ॺो मा कश्चाभिदासति॥
ॐ पुरु॑षऽ एॖवेद ᳯ सर्व्वँ॒ॺ्ॺद्भू॒तँॺ्ॺच्च॑ भाॖव्व्यॖम्।
उॖतामृ॑तॖत्त्वस्येशा॑नोॖ ॺदन्ने॑नातिॖरोह॑ति॥ (यजु० ३१।२)
ॐ विचित्ररत्न खचितं दिव्यास्तरणसंयुतम्।
स्वर्णसिंहासनं चारु गृह्णीष्व सुरपूजित॥
(ॐ भूर्भुवः स्वः क्षेत्रपालसहितेभ्यः अजरादि क्षेत्रपालदेवेभ्यो नमः आसनार्थे अक्षतान् समर्पयामि॥)
पाद्यम्
ॐ एॖतावा॑नस्य महिॖमातोॖ ज्ज्यायाँ॑श्च्वॖ पूरु॑षः।
पादो॑ऽस्यॖ व्विश्श्वा॑ भू॒तानि॑ त्र्त्रिॖपाद॑स्याॖमृत॑न्दिॖवि॥ (यजु० ३१।३)
ॐ उष्णोदकं निर्मलं च सर्वसौगन्ध्यसंयुतम्।
पादप्रक्षालनार्थाय पाद्यं ते प्रतिगृह्यताम॥
(ॐ भूर्भुवः स्वः क्षेत्रपालसहितेभ्यः अजरादि क्षेत्रपालदेवेभ्यो नमः पादयोः पाद्यं समर्पयामि॥)
अर्ध्यम्
एकस्मिन्नर्घपात्रे गन्धाक्षतपुष्पसहितं जलं गृहीत्वा तत्र पूगीफलं हिरण्यञ्च प्रक्षिप्य हस्ते गृहीत्वा
ॐ धाम॑न्तेॖ व्विश्श्वॖम्भुव॑नॖमधि॑ श्श्रिॖतमॖन्तः स॑मु॒द्द्रे हृॖद्यॗन्तरायु॑षि।
ॶपामनी॑के समिॖथे ॺऽआभृ॑तॖस्त्तम॑श्श्यामॖ मधु॑मन्तन्तऽऊॖर्म्मिम्॥ (यजु० १७।९९)
ॐ त्र्त्रिॖपादू॒र्ध्वऽउदैॖत्त्पूरु॑षॖः पादो॑ऽस्येॖहाभ॑वॖत्त्पुनः॑।
ततॊॖ व्विष्ष्वॖङ्ङ्व्यॖक्क्रामत्त्सा शनानशॖनेऽॶभि॥ (यजु० ३१।४)
ॐ रौम्यपात्रे स्थिते तोयं गन्धपुष्पफलान्वितम्।
सहिरण्यं ददाम्यर्घ्यै गृहाण परमेश्वरः॥
(ॐ भूर्भुवः स्वः क्षेत्रपालसहितेभ्यः अजरादि क्षेत्रपालदेवेभ्यो नमः हस्तयोरर्घ्य समर्पयामि॥)
आचमनीयम्
ॐ इॖमम्मे॑ व्वरुण श्र्श्रु॒धी हव॑मॖद्द्या च॑ मृडय।
त्वाम॑वॖस्युराच॑के॥ (यजु० २१।१)
ॐ ततॊ॑ व्विॖराड॑जायत व्विॖराजोॖऽअधिॖ पूरु॑षः।
स जाॖतोऽअत्त्य॑रिच्च्यत पॖश्च्चाद्भूमिॖमथो॑ पु॒रः॥ (यजु० ३१।५)
ॐ सर्वतीर्थसमायुक्तं सुगन्धि निर्मलं जलं।
आचम्यार्थ मया दत्तं गृहाण परमेश्वर॥
(ॐ भूर्भुवः स्वः क्षेत्रपालसहितेभ्यः अजरादि क्षेत्रपालदेवेभ्यो नमः आचमनीयं समर्पयामि॥)
स्नानम्
ॐ तस्म्मा॑द्यॖज्ज्ञात्त्स॑र्व्वॖहुतॖः सम्भृ॑तम्पृषदाॖज्ज्यम्।
पॖशूँस्ताँश्च॑क्क्रे व्वायॖव्व्याॖनारॖण्ण्या ग्ग्राॖम्म्याश्च्च ॺॆ॥ (यजु० ३१।६)
ॐ गङ्गे च यमुने चैव गोदावरि सरस्वती।
नर्मदे सिन्धुकावेरी स्नानार्थं प्रतिगृह्यताम्॥
(ॐ भूर्भुवः स्वः क्षेत्रपालसहितेभ्यः अजरादि क्षेत्रपालदेवेभ्यो नमः स्नानं समर्पयामि॥)
पञ्चामृत-स्नानम्
ॐ पञ्च॑ नॖद्यॖः सर॑स्वतीॖमपि॑यन्तिॖ सस्त्रो॑तसः॑।
सर॑स्वतीॖ तु प॑ञ्चॖधा सो देॖशेऽभ॑वत्त्सॖरित्॥ (यजु० ३४।११)
ॐ पञ्चामृतं मयाऽऽनीतं पयो दधि घृतं मधु।
शर्करा च समायुक्तं स्नानार्थं प्रतिगृह्यताम॥
(ॐ भूर्भुवः स्वः क्षेत्रपालसहितेभ्यः अजरादि क्षेत्रपालदेवेभ्यो नमः पञ्चामृतस्नानं समर्पयामि॥)
शुद्धोदकस्नानम्
ॐ शु॒द्धवा॑लः सॖर्व्वशु॑द्धवालो मणिॖवालॖस्तऽआ॑श्श्विॖनाः श्येतः॑ श्येताॖक्क्षोॖरुॖणस्ते रुॖद्राय॑ पशु॒पत॑ये कॖर्ण्णा ॺाॖमाऽअ॑वलिॖप्पता रौॖद्रा नभो॑रूपाः पार्ज्जॖन्न्याः॥ (यजु० २४।३)
ॐ स्नानार्थं तव देवेश पवित्रं तोयमुत्तम्।
तीर्थेभ्यश्च समानीतं गृहाण परमेश्वरः॥
(ॐ भूर्भुवः स्वः क्षेत्रपालसहितेभ्यः अजरादि क्षेत्रपालदेवेभ्यो नमः शुद्धोदकस्नानम् समर्पयामि॥)
वस्त्रम्
ॐ सुजा॑तोॖ ज्ज्योति॑षा सॖह शर्म्मॖ व्वरू॑थॖमा स॑दॖत्त्स्वः॒।
व्वासो॑ऽ अग्ग्ने व्विॖश्श्वरूपॖ ᳯ॒ सँव्व्य॑यस्व व्विभावसो॥ (यजु० ११।४०)
ॐ सर्वभूषाधिके सौम्ये लोक लज्जानिवारिणे।
मयोप पादिते तुभ्यं वाससी प्रतिगृह्यताम॥
(ॐ भूर्भुवः स्वः क्षेत्रपालसहितेभ्यः अजरादि क्षेत्रपालदेवेभ्यो नमः बस्त्रोपवस्त्रे समर्पयामि। वस्त्रोपवस्त्रान्ते आचमनीयं समर्पयामि॥)
उपवस्त्रम्
ॐ युवा सुवासाः परिवीत आगात् स उ श्रेयान् भवति जायमानः।
तं धीरासः कवय उन्नयन्ति स्वाध्यो३ मनसा देवयन्तः॥ (ऋग्० ३।८।४)
ॐ शीतवातोष्णसंत्राणं लज्जाया रक्षणं परम्।
देहालङ्करणं वस्त्रमतः शान्तिं प्रयच्छ मे॥
(ॐ भूर्भुवः स्वः क्षेत्रपालसहितेभ्यः अजरादि क्षेत्रपालदेवेभ्यो नमः उपवस्त्रं समर्पयामि। उपवस्त्रान्ते आचमनीयं समर्पयामि॥)
यज्ञोपवीतम् (उपवीतम्)
ॺॖज्ज्ञो देॖवानाॖम्प्रत्त्ये॑ति सु॒म्म्नमादि॑त्त्यासोॖ भव॑ता मृडॖयन्तः॑।
आ वोॖर्व्वाची॑ सुमॖतिर्व्व॑वृत्त्यादॖᳯ॒होश्र्श्र्विॖद्या व्व॑रिवोॖवित्तॖरास॑दादिॖत्त्येब्भ्य॑स्त्त्वा॥ (यजु० ८।४)
ॐ ब्रह्म॑ जज्ज्ञाॖनम्प्र॑थॖमम्पु॒रस्त्ताॖद्वि सी॑मॖतः सु॒रुचो॑ व्वेॖनऽआ॑वः।
स बु॒द्ध्न्याॖऽउपॖमाऽअ॑स्य व्विॖष्ट्ठाः सॖतश्चॖ ॺोनिॖमस॑तश्चॖ व्विवः॑॥ (यजु० १३।३)
ॐ यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात्।
आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः॥
(ॐ भूर्भुवः स्वः क्षेत्रपालसहितेभ्यः अजरादि क्षेत्रपालदेवेभ्यो नमः यज्ञोपवीतं समर्पयामि॥ यज्ञोपवीतान्ते आचमनीयं समर्पयामि॥)
गन्धम्
ॐ त्वाङ्ग॑न्धॖर्व्वाऽ अ॑खनँ॒स्त्वामिन्द्रॖस्त्त्वाम्बृहॖस्प्पतिः॑।
त्वामो॑षधेॖ सोमोॖ राजा॑ व्विॖद्वान्न्यक्ष्मा॑दमुच्च्यत॥ (यजु० १२।९८)
ॐ गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीं।
ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम्॥
ॐ श्रीखण्डं चन्दनं दिव्यं गंधाढ्यं सुमनोहरम्।
विलेपनं सुरश्रेष्ठ गृहाण परमेश्वरः॥
(ॐ भूर्भुवः स्वः क्षेत्रपालसहितेभ्यः अजरादि क्षेत्रपालदेवेभ्यो नमः गन्धं समर्पयामि॥)
अक्षतान्
ॐ अक्क्षॖन्नमी॑मदन्तॖ ह्यव॑ प्प्रिॖयाऽअ॑धूषत।
अस्तो॑षतॖ स्वभा॑नवोॖ व्विप्प्राॖ नवि॑ष्ट्ठया मॖती ॺोजाॖ न्न्विॖन्द्र तेॖ हरी॑॥ (यजु० ३।५१)
ॐ अक्षताश्च सुरश्रेष्ठ कुङ्कुमाक्ताः सुशोभिताः।
मया निवेदिता भक्त्या गृहाण परमेश्वर॥
(ॐ भूर्भुवः स्वः क्षेत्रपालसहितेभ्यः अजरादि क्षेत्रपालदेवेभ्यो नमः अक्षतान्समर्पयामि॥)
पुष्पाणि
ॐ ओष॑धीः॒ प्प्रति॑मोदद्ध्वॖम्पुष्प्प॑वतीः प्प्रॖसूव॑रीः।
अश्श्वा॑ऽइव सॖज्जित्त्व॑रीर्व्वीॖरुधः॑ पारयिॖष्ण्ण्वः॒॥ (यजु० १२।७७)
ॐ माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो।
मयाहृतानि (मयाऽऽनीतानि) पुष्पाणि पूजार्थं प्रतिगृह्यताम्॥
(ॐ भूर्भुवः स्वः क्षेत्रपालसहितेभ्यः अजरादि क्षेत्रपालदेवेभ्यो नमः ऋतुकालोद्भवांनि यथालभोपपन्नानि पुष्पाणि समर्पयामि॥)
पुष्पमालाम्
द्याम्मा ले॑खीरॖन्तरि॑क्क्षम्मा हि॑ᳯसीः पृथिॖव्व्या सम्भ॑व।
अ॒यᳯ हि त्त्वाॖ स्वधि॑तिॖस्तेति॑जानः प्प्रणिॖनाय॑ महॖते सौभ॑गाय।
अतॖस्त्त्वन्दॆ॑व व्वनस्प्पते शॖतव॑ल्शोॖ व्विरो॑ह सॖहस्र॑वल्शा व्वि वॖयᳯ रुहेम॥ (यजु० ५।४३)
(ॐ भूर्भुवः स्वः क्षेत्रपालसहितेभ्यः अजरादि क्षेत्रपालदेवेभ्यो नमः पुष्पमालां समर्पयामि॥)
दूर्वाङ्कुराः
ॐ काण्डा॑त्त्काण्डात्त्प्रॖरोह॑न्तीॖ परु॑षः परुषॖस्प्परि॑।
एॖवा नो॑ दूर्व्वेॖ प्प्रत॑नु सॖहस्त्रे॑ण शॖतेन॑ च॥ (यजु० १३।२०)
(ॐ भूर्भुवः स्वः क्षेत्रपालसहितेभ्यः अजरादि क्षेत्रपालदेवेभ्यो नमः दूर्वाङ्कुरः समर्पयामि॥)
सौभाग्यद्रव्याणि
ॐ अहि॑रिव भोॖगैः पर्ॺ्ॺे॑ति बाॖहुञ्ज्याया॑ हेॖतिम्प॑रिॖबाध॑मानः।
हॖस्तॖग्घ्नो व्विश्श्ववा॑ व्वॖयुना॑नि व्विॖद्वान्न्पुमाॖन्न्पुमा॑ᳬ सॖम्परि॑पातु व्विॖश्वतः॑॥ (यजु० २९।५१)
ॐ अबीरं च गुलालञ्च चोवा चन्दनमेव च।
अबीरेणार्चितो देव ! अतः शान्ति प्रयच्छ मे॥
(ॐ भूर्भुवः स्वः क्षेत्रपालसहितेभ्यः अजरादि क्षेत्रपालदेवेभ्यो नमः सौभाग्यपरिमलद्रव्याणि समर्पयामि॥)
सुगन्धिद्रव्यम्
ॐ त्र्य॑म्बकँॺ्ॺजामहे सुगॖन्धिम्पु॑ष्ट्टिॖवर्द्ध॑नम्।
उॖर्व्वाॖरुॖकमि॑वॖ बन्ध॑नान्न्मृ॒त्त्योर्म्मु॑क्क्षीयॖ मामृता॑त्॥ (यजु० ३।६०)
ॐ चम्पकाशोकवकुल्मालतीमोगरादिभिः।
वासितं स्निग्धाहेतु तैलं चारु प्रतिगृह्यताम्॥
(ॐ भूर्भुवः स्वः क्षेत्रपालसहितेभ्यः अजरादि क्षेत्रपालदेवेभ्यो नमः सुगन्धिद्रव्यम् समर्पयामि॥)
धूपम्
ॐ धूर॑सिॖ धूर्व्वॖ धूर्व्व॑न्तॖन्धूर्व्वॖ तँॺ्ॺोॖऽस्म्मामान्धूर्व्व॑तिॖ तन्धू॑र्व्वॖ ॺँव्वॖयन्धूर्व्वा॑मः।
देॖवाना॑मसिॖ व्वह्नि॑तमॖᳯ॒ सस्न्नि॑तमम् पप्प्रि॑तमॖञ्जुष्ट्ट॑तमन् देवॖहूत॑मम्॥ (यजु० १।८)
ॐ अश्श्व॑स्य त्त्वाॖ व्वृष्णः॑ शॖक्क्ना धू॑पयामि देवॖयज॑ने पृथिॖव्व्याः। मॖखाय॑ त्त्वा मॖखस्य॑ त्त्वा शीॖर्ष्ण्णे॥ (यजु० ३७।९)
ॐ वनस्पतिरसोद्भूतो गन्धाढ्यो गन्ध उत्तमः।
आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम्॥
(ॐ भूर्भुवः स्वः क्षेत्रपालसहितेभ्यः अजरादि क्षेत्रपालदेवेभ्यो नमः धूपमाघ्रापयामि॥)
दीपम्
ॐ अ॒ग्ग्निर्ज्ज्योतिॖर्ज्ज्योति॑रॖग्ग्निः स्वाहाॖ सूर्ॺ्ॺोॖ ज्ज्योतिॖर्ज्ज्योतिः॒ सूर्ॺ्ॺः॒ स्वाहा॑।
अ॒ग्ग्निर्व्वर्च्चोॖ ज्ज्योतिॖर्व्वर्च्चः॒ स्वाहाॖ सूर्ॺ्ॺो व्वर्च्चोॖ ज्ज्योतिॖर्व्वर्च्चः॒ स्वाहा॑। ज्योतिः॒ सूर्ॺ्ॺः॒ सूर्ॺ्ॺो ज्योतिः॒ स्वाहा॑॥ (यजु० ३।९)
ॐ अ॒ग्ग्निर्ज्ज्योति॑षाॖ ज्ज्योति॑ष्म्मान्न्नु॒क्क्मो व्वर्च्च॑साॖ व्वर्च्च॑स्वान्।
सॖहॖस्त्रॖदाऽअ॑सि सॖहस्त्रा॑य त्त्वा॥ (यजु० १३।४०)
ॐ चॖन्द्रमाॖमन॑सोजाॖतश्श्चक्षोॖः सूर्ॺ्ॺो॑ऽअजायत।
श्रोत्रा॑द्वायुश्श्च॑प्राॖणश्श्चॖमुखा॑दॖग्निर॑जायत॥ (यजु० ३१।१२)
(ॐ भूर्भुवः स्वः क्षेत्रपालसहितेभ्यः अजरादि क्षेत्रपालदेवेभ्यो नमः दीपं दर्शयामि ‘ॐ हृषीकेशाय नमः’ ‘ॐ गोविन्दाय नमः’ इति मन्त्रेण हस्तौप्रक्षाल्य)
नैवेद्यम्
ॐ अन्न॑पॖतेन्न॑स्य नो देह्ॺनमीॖवस्य॑ शु॒ष्म्मिणः॑।
प्रप्प्र॑ दाॖतार॑न्तारिषॖऽ ऊर्ज्ज॑न्नो धेहि द्विॖपदेॖ चतु॑ष्पदे॥ (यजु० ११।८३)
ॐ नाब्भ्या॑ऽआसीदॖन्तरि॑क्क्षᳯ शीॖर्ष्ष्णो द्यौः सम॑वर्त्तत।
पॖद्भयाम्भूमिॖर्द्दिशः॒ श्रोत्र्त्राॖत्तथा॑ लोॖका२ँ॥ऽअ॑कल्प्पयन्॥ (यजु० ३१।१३)
ॐ शर्कराखण्डखाद्यानि दधिक्षीरघृतानि च।
आहारं भक्ष्यभोज्यंञ्च नैवेद्यं प्रतिगृह्यताम्॥
(ॐ भूर्भुवः स्त्रः क्षेत्रपालसहितेभ्यः अजरादि क्षेत्रपालदेवेभ्यो नमः नैवेद्यं समर्पयामि॥)
नैवेद्यं जलेन संमोक्ष्य धेन्वाऽमृतीकृत्य वामहस्तं पद्माकारं कृत्वा दक्षहस्तेन ग्रासमुद्राः प्रदर्शयेत्।
ॐ प्राणाय स्वाहा। ॐ अपानाय स्वाहा। ॐ व्यानाय स्वाहा। ॐ उदानाय स्वाहा। ॐ समानाय स्वाहा॥
नैवेद्यमध्ये पानीयं समर्पयामि॥ उत्तरापोशनं समर्पयामि॥ हस्तप्रक्षालनं समर्पयामि॥ मुखप्रक्षालनं समर्पयामि॥
करोद्वर्तनम्
ॐ ॶᳯ॒शुना॑ तेऽॶᳯ॒शुः पृ॑च्च्यताॖम्परु॑षाॖः परुः॑।
गॖन्न्धस्तेॖ सोम॑मवतु॒ मदा॑यॖ रसोॖऽअच्च्यु॑तः॥ (यजु० २०।२७)
ॐ सिॖञ्चतिॖ परि॑षिञ्चॖन्त्युत्त्सि॑ञ्चन्ति पुनन्ति॑ च।
सुरा॑यै बॖब्भ्व्रै मदे॑ किॖन्त्वो व्व॑दति किॖन्त्वः॥ (यजु० २०।२८)
ॐ चन्दनं मलयोद्भुतं कस्तूर्यादिसमन्वितम्।
करोद्वर्तनकं देवी गृहाण परमेश्वरः॥
(ॐ भूर्भुवः स्वः क्षेत्रपालसहितेभ्यः अजरादि क्षेत्रपालदेवेभ्यो नमः करोद्वर्तनार्थे चन्दनम् मर्पयामि॥)
ऋतुफलानि-अखण्ड ऋतुफलम्
ॐ ॺाः फॖलिनीॖर्ॺ्ॺाऽ अ॑फॖलाऽ अ॑पु॒ष्प्पा ॺाश्च॑ पु॒ष्प्पिणीः॑।
बृहॖस्प्पति॑प्प्रसूताॖस्ता नो॑ मुञ्चॖन्त्वᳯ ह॑सः॥ (यजु० १२।८९)
ॐ इदं फलं मया देवी स्थापितं पुरतस्तव।
तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि॥
(ॐ भूर्भुवः स्वः क्षेत्रपालसहितेभ्यः अजरादि क्षेत्रपालदेवेभ्यो नमः ऋतुफलानि अखण्ड ऋतुफलानि समर्पयामि। श्रीफलान्ते आचमनीयं जलं समर्पयामि॥)
ताम्बूलम्
उॖत स्म्मा॑स्यॖ द्रव॑तस्त्तुरण्ण्यॖतः पॖर्ण्णन्न वेरनु॑वाति प्प्रगॖर्द्धिनः॑।
श्येॖनस्ये॑वॖ द्ध्रज॑तोऽअङ्कॖसम्परि॑ दधिॖक्क्राव्ण्णः॑ सॖहोर्ज्जा तरि॑त्र्त्रतः॒ स्वाहा॑॥ (यजु० ९।१५)
ॐ ॺत्त्पुरु॑षेण हॖविषा॑ देॖवा ॺॖज्ज्ञमत॑न्न्वत।
व्वॖसॖन्तो॒ऽस्यासीॖदाज्ज्य॑ङ्ग्रीॖष्म्म ऽइॖद्ध्मः शॖरद्धॖविः॥ (यजु० ३१।१४)
ॐ पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम्।
एलादिचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम्॥
(ॐ भूर्भुवः स्वः क्षेत्रपालसहितेभ्यः अजरादि क्षेत्रपालदेवेभ्यो नमः ताम्बूलं समर्पयामि॥)
दक्षिणाम्
ॐ हिॖरॖण्ण्यॖगॖर्ब्भः सम॑वर्त्तॖताग्ग्ग्रे॑ भू॒तस्य॑ जाॖतः पतिॖरेक॑ऽआसीत्।
स दा॑धार पृथिॖवीन्द्या मु॒ते माङ्कस्म्मै॑ देॖवाय॑ हॖविषा॑ व्विधेम॥ (यजु० १३।४)
ॐ ॺद्दॖत्तँ ॺ्ॺत्त्प॑राॖदानँ॒ ॺ्ॺत्त्पू॒र्त्तँ ॺ्ॺाश्चॖ दक्क्षि॑णाः।
तदॖग्न्निर्व्वै॑श्श्वकर्म्मॖणः स्व॑र्द्देॖवेषु॑ नो दधत्॥ (यजु० १८।६४)
ॐ हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः।
अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे॥
(ॐ भूर्भुवः स्वः क्षेत्रपालसहितेभ्यः अजरादि क्षेत्रपालदेवेभ्यो नमः कृतायाः पूजायाः सा दुगुण्यार्थे द्रव्यदक्षिणां समर्पयामि॥)
नीराजनम् (कर्पूरारार्तिक्यम्)
एकस्मिन्पात्रे कर्पूरं प्रज्वाल्य गन्धाक्षतपुष्पैः संपूज्य आरार्तिक्यं कुर्यात
ॐ इॖदᳯ हॖविः प्प्रॖजन॑नम्मे ऽअस्तु॒ दश॑वीरॖ ᳯ॒ सर्व्व॑गणᳬ स्वॖस्त्तये॑।
आ॒त्क्मॖसनि॑ प्प्रजाॖसनि॑ पशु॒सनि॑ लोकॖसन्न्य॑भयॖसनि॑।
अ॒ग्ग्निः प्प्रॖजाम्ब॑हु॒लाम्मे॑ करोॖत्त्वन्नॖम्पयोॖ रेतो॑ऽअ॒स्म्मासु॑ धत्त॥ (यजु० १९।४८)
ॐ ॺे दे॑वासो दिॖव्व्येका॑दशॖ स्त्थ पृ॑थिॖव्व्यामद्ध्येका॑दशॖ स्त्थ।
अ॒प्प्सु॒क्क्षितो॑ महिॖनैका॑दशॖ स्त्थ ते दे॑वासो ॺॖज्ज्ञमिॖमञ्जु॑षद्ध्वम्॥ (यजु० ७।१९)
ॐ आ रा॑त्र्त्रिॖ पार्त्थि॑वॖ ᳯ॒ रजः॑ पिॖतुर॑प्प्रायिॖ धाम॑भिः।
दिॖवः सदा॑ᳬसि बृहॖती व्विति॑ष्ठसॖऽआ त्त्वेॖषँव्व॑र्त्त॑तेॖ तमः॑॥ (यजु० ३४।३२)
ॐ ॶग्ग्निर्द्देॖवताॖ व्वातो॑ देॖवताॖ सूर्ॺ्ॺो॑ देॖवता॑ चॖन्द्रमा॑ देॖवताॖ व्वस॑वो देॖवता॑ रुॖद्द्रा देॖवता॑ऽऽदिॖत्त्या देॖवता॑ मॖरुतो॑ देॖवताॖ विश्श्वे॑देॖवा देॖवताॖ बृहॖस्प्पति॑र्द्देॖवतेन्द्रो॑ देॖवताॖ व्वरु॑णो देॖवता॑॥ (यजु० १४।२०)
ॐ कदलीगर्भसम्भूतं कर्पूरं तु प्रदीपितम्।
आरार्तिकमहं कुर्वे पश्य मे वरदो भव॥
(ॐ भूर्भुवः स्वः क्षेत्रपालसहितेभ्यः अजरादि क्षेत्रपालदेवेभ्यो नमः आरार्तिक्यं समर्पयामि। जलेन प्रदक्षिणां समर्पयामि। पुष्पैर्देववन्दनम्। हस्तेनात्मवन्दनं कृत्वा हस्तं प्रक्षाल्य)
मन्त्रपुष्पाञ्जलिम्
ॐ ॺॖज्ज्ञेन॑ ॺॖज्ज्ञम॑यजन्त देॖवास्त्तानिॖ धर्म्मा॑॑णि प्प्रथॖमान्न्या॑सन्।
ते हॖ नाक॑म्महिॖमानः॑ सचन्तॖ ॺत्र्त्रॖ पूर्व्वे॑ साॖद्ध्याः सन्ति॑ देॖवाः॥ (यजु० ३१।१६)
ॐ सम॑क्ख्ये देॖव्व्या धिॖया सन्दक्क्षि॑णयोॖरुच॑क्क्षसा।
मा मॖऽआयुः॒ प्प्रमो॑षीॖर्म्मो॑ऽॶहन्तव॑ व्वीॖरँव्वि॑देयॖ तव॑ देवि सॖन्दृशि॑॥ (यजु० ४।२३)
ॐ नानासुगन्धिपुष्पाणि यथाकालोद्भवानि च।
पुष्पाञ्जलिर्मया दत्तो गृहाण परमेश्वर॥
(ॐ भूर्भुवः स्वः क्षेत्रपालसहितेभ्यः अजरादि क्षेत्रपालदेवेभ्यो नमः मन्त्रपुष्पाञ्जलिं समर्पयामि॥)
प्रदक्षिणाम्
ॐ ॺे तीॖर्त्थानि॑ प्प्रॖचर॑न्ति सृ॒काह॑स्ता निषॖङ्गिणैः॑।
तेषा॑ᳬ सहस्त्रयोजॖनेवॖ धन्न्वा॑नि तन्न्मसि॥ (यजु० १६।६१)
ॐ सॖप्प्तास्या॑सन्न्यरिॖधयॖस्त्र्त्रिॖः सॖप्प्त सॖमिध॑÷ कृ॒ताः।
देॖवा ॺद्यॖज्ज्ञन्त॑न्न्वाॖनाऽअब॑द्धॖन्न्पुरु॑षम्पॖशुम्॥ (यजु० ३१।१५)
ॐ यानि कानि च पापानि ज्ञाताऽज्ञात कृतानि च।
शतानि सर्वाणि नश्यन्तु प्रदक्षिणां पदे पदे॥
ॐ पदे पदे या परिपूज्यकेभ्यः,
सद्योऽश्वमेधादिफलं ददाति।
तां सर्व पापक्षय हेतुभूतां
प्रदक्षिणां ते परितः करोमि॥
(ॐ भूर्भुवः स्वः क्षेत्रपालसहितेभ्यः अजरादि क्षेत्रपालदेवेभ्यो नमः प्रदक्षिणां समर्पयामि॥)
विशेषार्घ्यम्
सजलं गन्धाक्षतपुष्पैः सहितं सनारिकेलम् अर्घ्य पात्रं धृत्वा विशेषार्घं दद्यात् / जलगन्धाऽक्षत फलपुष्पदूर्वादक्षिणाः ताम्रपात्रे प्रक्षिप्य अवनिकृतजानुमण्डलं कृत्वा अर्घ्यपात्रमञ्जलिनां गृहीत्वा श्लोकान् पठेत्।
इदं फलं मया देव स्थापितं पुरतस्तत्र।
तेन मे सुफलावाप्तिर्भवेज्जन्मनि जन्मनि॥
रूपं देहि जयं देहि भाग्यं भगवन् देहि मे।
पुत्रान्देहि धनं देहि सर्वान्कामाँश्च देहि मे॥
(ॐ भूर्भुवः स्वः क्षेत्रपालसहितेभ्यः अजरादि क्षेत्रपालदेवेभ्यो नमः विशेषार्घं समर्पयामि॥)
ततः प्रार्थयेत्
भीषणास्यं त्रिनयनमर्द्धचन्द्रं विभूषितम्।
स्फटिकाभं कंकणादि भूषाशत समायुतम्॥
अष्ट वर्षं वयस्कं च कुन्तलोल्लसितं भजे।
धारयन्तं दण्ड शूले भैरव्यादिसमायुतम्॥
ॐ भैरवो भूत नाथश्च, भूतात्मा भूत भावन।
क्षेत्रज्ञः क्षेत्रपालश्च, क्षेत्रदः क्षत्रियो विराट्॥
श्मशान-वासी मासांशी, खर्पराशी स्मारन्त कृत।
रक्तपः पानपः सिद्धः, सिद्धिदः सिद्धि-सेवितः॥
कंकाल-काल शमनः, कला काष्ठा तनुः कविः।
त्रिनेत्रो बहु नेत्रश्च, तथा पिंगल लोचनः॥
शूल पाणि खड्गपाणिः, कंकालीधूम्र लोचनः।
अभीरू भैरवी नाथो, भूतपो योगिनी पतिः॥
प्यदङ्गत्वेन भो देवाः पूजिता विधिमार्गतः।
कुर्वन्तु कार्यमखिलं निर्विघ्नेन ऋतूद्भवम्॥
हस्ते जलं गृहीत्वा – अनेन यथाशक्ति ध्यान आवाहनादि षोडशोपचारैः अन्योपचारैश्च कृतेन पूजनेन ॐ भूर्भुवः स्वः क्षेत्रपालसहिता अजरादि क्षेत्रपालदेवाः प्रीयन्तां न मम॥
॥ इति क्षेत्रपालदेवतापूजनप्रयोगः समाप्तः ॥
॥ श्रीरस्तु ॥
༺❀༻
श्री हरि हरात्मक देवें सदा, मुद मंगलमय हर्ष।
सुखी रहे परिवार संग, अपना भारतवर्ष॥
༺༻❀༺༻
┉ संकलनकर्ता ┉
श्रद्धेय पंडित विश्वनाथ द्विवेदी
‘सनातनी ज्योतिर्विद’
संस्थापक, अध्यक्ष एवं प्रबंध निदेशक
(‘हरि हर हरात्मक’ ज्योतिष)
संपर्क सूत्र – 07089434899
༺༻❀꧁○꧂❀༺༻