अथ मण्डपमवेशपूर्वकदिग्रक्षणम्
॥ अथ मण्डपमवेशपूर्वकदिग्रक्षणम् ॥
आचार्यादीनां मधुपर्कार्चनानन्तरं सपत्नीको यजमानः आचार्यब्रह्म ऋत्विक् समन्वितः शुक्लमाल्याम्बरधरः पूजाद्युपयुक्त संभारान्सम्भृत्य गन्धाक्षत पुष्पमालादिभिः सौभाग्य द्रव्यादिभिश्चार्चित जलपूरित कलशं पत्नीहस्तयोः ग्राहयित्वा मङ्गलवाद्यघोषेण “भद्रंकर्णेभिरिति०” वेदमन्त्रघोषेण च समन्वितो मण्डपं प्रदक्षिणीकृत्य मण्डपस्य पश्चिमद्वारं समागत्य जानुभ्यां धरणीं गत्वा भूमि ध्यात्वाऽऽवाह्य प्रणमेत्॥ ततोऽर्घ्यं प्रदाय तां संपूज्य कूर्मानन्तं च संपूज्य ततः स्वाङ्गं सङ्कोचयन्दक्षिणपादपुरःसरं मण्डपान्तः प्रविशेत्॥
ततस्तं जलपूरितं मङ्गलकलशं मण्डपस्येशान्यां दिशि आग्नेय्यां वा स्थापयित्वा स्वयं सपत्नीकोऽग्न्यायतनात्पश्चिमत उपविश्य॥ आचमनं प्राणायामञ्च विधाय हस्ते जलं गृहीत्वा संकल्पं कुर्यात् यथा।
प्रारब्धस्य सग्रहमख “अमुक” कर्मणोऽङ्गतया दिग्रक्षणं पञ्चगव्यकरणं भूमिपूजनञ्च करिष्ये।
तत्रादौ पश्चोपचारैः षोडशोपचारैर्वा गणेशपूजनं करिष्ये॥
इति सङ्कल्पं विधाय यथाशक्ति गणेशपूजां कृत्वा हस्ते गौरसर्षपान् गृहीत्वा भूतोत्सादनं कुर्यात्। तद्यथा। वामहस्ते गौरसर्षपानादाय स्वदक्षिणहस्तेनाच्छाद्य मन्त्रान्पठेत्।
ॐ कृ॒णु॒ष्ष्व पाजः॒ प्प्रसि॑तिॖन्न पृ॒त्थ्वीँॺ्ॺाॖहि राजेॖवाम॑वाॖ२ँ॥ऽइभे॑न।
तृ॒ष्ष्वीमनु॒ प्प्रसि॑तिन्द्रूणाॖनोस्त्ता॑सिॖ व्विद्ध्य॑ रॖक्क्षसॖस्त्तपि॑ष्ट्ठैः॥ (यजु० १३।९)
तव॑ ब्भ्रॖमास॑ऽआशु॒या प॑तॖन्त्यनु॑स्पृश धृषॖता शोशु॑चानः।
तपू॑ᳬ॑ ष्यग्ग्ने जु॒ह्वाॗ पतॖङ्गानस॑न्दितोॖ व्विसृ॑जॖ व्विष्ष्व॑गु॒ल्क्काः॥ (यजु० १३।१०)
प्रतिॖ स्प्पशोॖ व्विसृ॑जॖ तूर्ण्णि॑तमोॖ भवा॑ पाॖयुर्व्विॖशोऽ ॶस्याऽअद॑ब्ब्धः।
ॺो नो॑ दू॒रेऽॶघश॑ᳯसोॖ ॺोऽअन्त्यग्नेॖ मा कि॑ष्ट्टे॒ व्व्यथिॖराद॑धर्षीत्॥ (यजु० १३।११)
उद॑ग्ग्ने तिष्ट्ठॖ प्प्रत्त्यात॑नुष्ष्वॖ न्न्याॗमि॑त्र्त्रा२ँ॥ऽओषतात्तिग्ग्महेते।
ॺो नोॖऽअरा॑तिᳯ समिधान चॖक्क्रे नीॖचा तन्ध॑क्क्ष्यतॖसन्न शुष्क्क॑म्॥ (यजु० १३।१२)
ऊॖर्द्ध्वो भ॑वॖ प्प्रति॑विॖद्ध्याद्ध्यॖस्म्मदाॖ विष्ष्कृ॑णुष्ष्वॖ दैव्व्या॑न्न्यग्ग्ने।
अव॑ स्त्थिॖरा त॑नुहि ॺातु॒जूना॑ञ्जाॖ मिमजा॑मिॖम्प्रमृ॑णीहिॖ शत्र्त्रू॑न्॥
ॶग्ग्नेष्ट्टॖवाॖ तेज॑सा सादयामि॥ (यजु० १३।१३)
अपसर्पन्तु ते भूता ये भूता भूमिसंस्थिताः॥
ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया॥१॥
अपक्रामन्तु भूतानि पिशाचाः सर्वतो दिशम्॥
सर्वेषामविरोधेन शान्तिकर्म समारभेत्॥२॥
यदत्र संस्थितं भूतं स्थानमाश्रित्य सर्वतः॥
स्थानं त्यक्त्वा तु तत्सर्वं यत्रस्थं तत्र गच्छतु॥३॥
भूतप्रेतपिशाचाद्या अपक्रामन्तु राक्षसाः॥
स्थानादस्माहूजन्त्वन्यत्स्वाकरोमि भुवन्त्विमाम्॥४॥
भूतानि राक्षसा वापि येऽत्र तिष्ठन्ति केचन॥
ते सर्वेऽप्यपगच्छन्तु शान्तिकर्म समारभेत्॥५॥
इति ईशानादिसर्वदिक्षु सर्षपान्विकिरेत्। ततः पञ्चगव्यं कुर्यात्॥
॥ इति मण्डपप्रवेशपूर्वकदिग्रक्षणप्रयोगः ॥
॥ श्रीरस्तु ॥
༺❀༻
श्री हरि हरात्मक देवें सदा, मुद मंगलमय हर्ष।
सुखी रहे परिवार संग, अपना भारतवर्ष॥
༺༻❀༺༻
┉ संकलनकर्ता ┉
श्रद्धेय पंडित विश्वनाथ द्विवेदी
‘सनातनी ज्योतिर्विद’
संस्थापक, अध्यक्ष एवं प्रबंध निदेशक
(‘हरि हर हरात्मक’ ज्योतिष)
संपर्क सूत्र – 07089434899
༺༻❀꧁○꧂❀༺༻